॥ श्रीगुरुगीता ॥

॥ अथ श्रीगुरुगीता ॥ ऋषय ऊचुः । गुह्याद्गुह्यतरा विद्या गुरुगीता विशेषतः । ब्रूहि नः सूत कृपया शृणुमस्त्वत्प्रसादतः ॥ १॥ सूत उवाच । गिरीन्द्रशिखरे रम्ये नानारत्नोपशोभिते । नानावृक्षलताकीर्णे नानापक्षिरवैर्युते ॥ २॥ सर्वर्तुकुसुमामोदमोदिते सुमनोहरे । शैत्यसौगन्ध्यमान्द्याढ्यमरुद्भिरुपवीजिते ॥ ३॥ अप्सरोगणसङ्गीतकलध्वनिनिनादिते । स्थिरच्छायाद्रुमच्छायाच्छादिते स्निग्धमञ्जुले ॥ ४॥ मत्तकोकिलसन्दोहसङ्घुष्टविपिनान्तरे । सर्वदा स्वगणैः सार्द्धमृतुराजनिपेविते ॥ ५॥ सिद्धचारणगन्धर्वगाणपत्यगणैर्वृते । तत्र मौनधरं देवं चराचरजगद्गुरुम् ॥ ६॥ सदाशिवं सदानन्दं करुणामृतसागरम् । कर्पूरकुन्दधवलं शुद्धतत्त्वमयं विभुम् ॥ ७॥ दिगम्बरं दीननाथं योगीन्द्रं योगिवल्लभम् । गङ्गाशीकरसंसिक्तजटामण्डलमण्डितम् ॥ ८॥ विभूतिभूषितं शान्तं व्यालमालं कपालिनम् । अन्धकारिं त्रिलोकेशं त्रिशूलवरधारकम् ॥ ९॥ आशुतोषं ज्ञानमयं कैवल्यफलदायकम् । निर्विकल्पं निरातङ्कं निर्विशेषं निरञ्जनम् ॥ १०॥ सर्वेषां हितकर्तारं देवदेवं निरामयम् । कैलासशिखरासीनं पञ्चवक्त्रं सुभूषितम् ॥ ११॥ सर्वात्मनाविष्टचित्तं गिरिजामुखपङ्कजे । प्रणम्य परया भक्त्या कृताञ्जलिपुटा सती ॥ १२॥ प्रसन्नवदनं वीक्ष्य लोकानां हितकाम्यया । विनयाऽवनता देवी पार्वती शिवमब्रवीत् ॥ १३॥ श्रीमहादेव्युवाच । नमस्ते देवदेवेश सदाशिव जगद्गुरो । प्राणेश्वर महादेव गुरुगीतां वद प्रभो ॥ १४॥ केन मार्गेण भोः स्वामिन् देही ब्रह्ममयो भवेत् । त्वं कृपां कुरु मे देव नमामि चरणं तव ॥ १५॥ श्री महादेव उवाच । गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ १६॥ गुकारः प्रथमो वर्णो मायादिगुणभासकः । रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविमोचकः ॥ १७॥ गकारः सिद्धिदः प्रोक्तो रेफः पापस्य दाहकः । उकारः शम्भुरित्युक्तस्त्रितयाऽऽत्मा गुरुः स्मृतः ॥ १८॥ श्रीमहादेव्युवाच । मायामोहितजीवानां जन्ममृत्युजरादितः । रक्षायै कः प्रभवति स्वामिन् संसारसागरे ॥ १९॥ त्वत्तो नाऽन्यो दयासिन्धो कश्चिच्छक्नोति वै प्रभो । दातुं प्रतिवचश्चाऽस्य लोकशोकविमोचनम् ॥ २०॥ त्रितापतप्तजीवानां कल्याणार्थं मया प्रभो । विहितः सादरं प्रश्न उत्तरेणाऽनुगृह्यताम् ॥ २१॥ श्रीमहादेव उवाच । संसाराऽपारपाथोधेः पारं गन्तुं महेश्वरि । श्रीगुरोश्चरणाऽम्भोजनौकेवैकाऽवलम्बनम् ॥ २२॥ सद्गुरो रूपमादाय जगत्यामहमेव हि । उद्धराम्यखिलाञ्जीवान्मृत्युसंसारसागरात् ॥ २३॥ यो गुरुः स शिवः साक्षाद्यः शिवः स गुरुर्मतः । गुरौ मयि न भेदोऽस्ति भेदस्तत्र निरर्थकः ॥ २४॥ गुरुर्ज्ञानप्रदो नित्यं परमाऽऽनन्दसागरे । उन्मज्जयति जीवान्स ताॅंस्तथैव निमज्जयन् ॥ २५॥ गुरुस्त्रितापतप्तानां जीवानां रक्षिता क्षितौ । सच्चिदानन्दरूपं हि गुरुर्ब्रह्म न संशयः ॥ २६॥ यादृगस्तीह सम्बन्धो ब्रह्माण्डस्येश्वरेण वै । तथा क्रियाऽऽख्ययोगस्य सम्बन्धो गुरुणा सह ॥ २७॥ दीक्षाविधावीश्वरो वै कारणस्थलमुच्यते । गुरुः कार्यस्थलञ्चाऽतो गुरुर्ब्रह्म प्रगीयते ॥ २८॥ गुरौ मानुपबुद्धिं तु मन्त्रे चाऽक्षरभावनाम् । प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत् ॥ २९॥ जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः । गुरुर्विशेषतः पूज्यो धर्माऽधर्मप्रदर्शकः ॥ ३०॥ गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ३१॥ श्रीमहादेव्युवाच । जगन्मङ्गलकृन्नाथ विशेषेणोपदिश्यताम् । लक्षणं सद्गुरोर्येन सम्यग्ज्ञातं भवेद्ध्रुवम् ॥ ३२॥ आचार्यगुरुभेदोऽपि येन स्याद्विदितो मम । श्रेष्ठत्वं वा तयोः केन लक्षणेनाऽनुमीयते ॥ ३३॥ श्रीमहादेव उवाच । सर्वशास्त्रपरो दक्षः सर्वशात्रार्थवित्सदा । सुवचाः सुन्दरः स्वङ्गः कुलीनः शुभदर्शनः ॥ ३४॥ जितेन्द्रियः सत्यवादी ब्राह्मणः शान्तमानसः । मातृपितृहिते युक्तः सर्वकर्मपरायणः ॥ ३५॥ आश्रमी देशवासी च गुरुरेवं विधीयते । आचार्यगुरुशब्दौ द्वौ क्वचित्पर्यायवाचकौ ॥ ३६॥ एवमर्थगतो भेदो भवत्यपि तयोः क्वचित् । उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ ३७॥ यः साधनप्रकर्षार्थं दीक्षयेत्स गुरुः स्मृतः । औपपत्तिकमंशन्तु धर्मशास्त्रस्य पण्डितः ॥ ३८॥ व्याचष्टे धर्ममिच्छूनां स आचार्यः प्रकीर्तितः । सर्वदर्शी तु यः साधुर्मुमुक्षूणां हिताय वै ॥ ३९॥ व्याख्याय धर्मशास्त्राणां क्रियासिद्धिप्रबोधकम् । उअपासनाविधेः सम्यगीश्वरस्य परात्मनः ॥ ४०॥ भेदान्प्रशास्ति धर्मज्ञः स गुरुः समुदाहृतः । सप्तानां ज्ञानभूमीनां शास्त्रोक्तानां विशेषतः ॥ ४१॥ प्रभेदान् यो विजानाति निगमस्याऽऽगमस्य च् अ । ज्ञानस्य चाऽधिकाराॅंस्त्रीन्भवतात्पर्यलक्ष्यतः ॥ ४२॥ तन्त्रेषु च पुराणेषु भाषायास्त्रिविधां सृतिम् । सम्यग्भेदैर्विजानाति भाषातत्त्वविशारदः ॥ ४३॥ निपुणो लोकशिक्षायां श्रेष्ठाऽऽचार्यः स उच्यते । पञ्चतत्त्वविभेदज्ञः पञ्चभेदां विशेषतः ॥ ४४॥ सगुणोपासनां यस्तु सम्यग्जानाति कोविदः । चातुर्विध्येन विततां ब्रह्मणः समुपासनाम् ॥ ४५॥ गम्भीरार्थां विजानीते बुधो निर्मलमानसः । सर्वकार्येषु निपुणो जीवन्मुक्तस्त्रितापहृत् ॥ ४६॥ करोति जीवकल्याणं गुरुः श्रेष्ठः स कथ्यते ॥ ४७॥ श्रीमहादेव्युवाच । सच्छिष्यलक्षणं नाथ उक्षूणां त्रितापहृत् । गुरुभक्तस्य शिष्यस्य कर्तव्यञ्चाऽपि मे वद ॥ ४८॥ मुमुक्षुभिश्च शिष्यैः कैः शुभाऽऽचारैरवाप्यते । आत्मज्ञानं दयासिन्धो कृपया ब्रूहि तानपि ॥ ४९॥ येन ज्ञानेन लब्धेन शुभाऽऽचारान्वितैर्द्रुतम् । मुच्यते बन्धनान्नाथ शिष्यैः सद्गुरुसेवकैः ॥ ५०॥ श्रीमहादेव उवाच । शिष्यः कुलीनः शुद्धाऽऽत्मा पुरुषार्थपरायणः । अधीतवेदः कुशलो दूरमुक्तमनोभवः ॥ ५१॥ हितैषी प्राणिनां नित्यमास्तिकस्त्यक्तवञ्चनः । स्वधर्मनिरतो भक्त्या पितृमातृहिते स्थितः ॥ ५२॥ गुरुशुश्रूषणरतो वाङ्मनःकायकर्मभिः । शिष्यस्तु स गुणैर्युक्तो गुरुभक्तिरतः सदा ॥ ५३॥ धर्मकामादिसंयुक्तो गुरुमन्त्रपरायणः । सत्यबुद्धिर्गुरोमन्त्रे देवपूजनतत्परः ॥ ५४॥ गुरूपदिष्टमार्गे च सत्यबुद्धिरुदारधीः । अलुब्धः स्थिरगात्रश्च आज्ञाकारी जितेन्द्रियः ॥ ५५॥ एवंविधो भवेच्छिष्य इतरो दुःखकृद्गुरोः । शरीरमर्थं प्राणाॅंश्च गुरुभ्यो यः समर्पयन् ॥ ५६॥ गुरुभिः शिष्यते योगं स शिष्य इति कथ्यते । दीर्घदण्डवदानम्य सुमना गुरुसन्निधौ ॥ ५७॥ आत्मदाराऽऽदिकं सर्वं गुरवे च निवेदयेत् । आसनं शयनं वस्त्रं वाहनं भूषणाऽऽदिकम् ॥ ५८॥ साधकेन प्रदातव्यं गुरोः सन्तोषकारणात् । गुरुपादोदकं पेयं गुरोरुच्छिष्टभोजनम् ॥ ५९॥ गुरुमूर्तेः सदा ध्यानं गुरुस्तोत्रं सदा जपेत् । ऊर्ध्वं तिष्ठेद्गुरोरग्रे लब्धाऽनुज्ञो वसेत् पृथक् ॥ ६०॥ निवीतवासा विनयी प्रह्वस्तिष्ठेद्गुरौ परम् । गुरौ तिष्ठति तिष्ठेच्चोपविष्टेऽनुज्ञया वसेत् ॥ ६१॥ सेवताऽङ्घ्री शयानस्य गच्छन्तञ्चाऽप्यनुव्रजेत् । शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ॥ ६२॥ नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् । नित्यमुद्रितपाणिः स्यात् साध्वाचारः सुसंयतः ॥ ६३॥ आस्यतामिति चोक्तः सन्नासीताऽभिमुखं गुरोः । हीनान्नवस्त्रवेशः स्यात् सर्वदा गुरुसन्निधौ ॥ ६४॥ उत्तिष्ठेत् प्रथमं चाऽस्य चरमं चैव संविशेत् । दुष्कृतं न गुरोर्ब्रूयात् क्रुद्धं चैनं प्रसादयेत् ॥ ६५॥ परिवादं न श्रुणुयादन्येषामपि कुर्वताम् । नीचं शय्यासनं चाऽस्य सर्वदा गुरुसन्निधौ ॥ ६६॥ गुरोस्तु चक्षुर्विषये न यथेष्टाऽऽसनो भवेत् । चापल्यं प्रमदागाथामहङ्कारं च वर्जयेत् ॥ ६७॥ नाऽपृष्टो वचनं किंचिद्ब्रूयान्नाऽपि निषेधयेत् । गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् ॥ ६८॥ गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् । गुरुरूपे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ॥ ६९॥ जात्याश्रमयशोविद्यावित्तगर्वं परित्यजन् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ ७०॥ गुरुवक्त्रे स्थिता विद्या गुरुभक्त्याऽनुलभ्यते । तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ ७१॥ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न च वाऽस्याऽनुकुर्वीत गतिभाषितचेष्टितम् ॥ ७२॥ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ७३॥ परीवादात् खरो भवेत् श्वा वै भवति निन्दकः । परिभोक्ता भवेत्कृमिः कीटो भवति मत्सरी ॥ ७४॥ गुरोः शय्याऽसनं यानं पादुकोपानौत्पीठकम् । स्नानोदकं तथा छायां कदापि न विलङ्घयेत् ॥ ७५॥ गुरोरग्रे पृथक् पूजामौद्धत्यं च विवर्जयेत् । दीक्षां व्याख्यां प्रभुत्वं च गुरोरग्रे परित्यजेत् ॥ ७६॥ ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् । न कुर्याद्गुरुणा सार्द्धे शिष्यो भृत्वा कदाचन ॥ ७८॥ न प्रेरयेद्गुरुं तातं शिष्यः पुत्रश्च कर्मसु । गुरवे देवि पित्रे च नित्यं सर्वस्वमर्पयेत् ॥ ७९॥ स च शिष्यः स च ज्ञानी य आज्ञां पालयेद्गुरोः । न क्षेमं तस्य मूढस्य यो गुरोरवचस्करः ॥ ८०॥ गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः । अहिताऽऽचरणाद्देवि विष्ठायां जायते कृमिः ॥ ८१॥ यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ ८२॥ आसमाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ ८३॥ श्रीमहादेव्युवाच । हे विश्वात्मन् महायोगिन् दीनबन्धो जगद्गुरो । त्रितापाद्रक्षितुं जीवान्नेतुं मुक्तेः पदं तथा ॥ ८४॥ योगमार्गप्रचारोऽत्र गुरुभिर्यः प्रकाशितः । तल्लक्षणानि भेदाॅंश्च कृपया वद मे प्रभो ॥ ८५॥ श्रीमहादेव उवाच । मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा । योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः ॥ ८६॥ नामरूपात्मिका सृष्टिर्यस्मात्तदवलम्बनात् । बन्धनान्मुच्यमानोऽयं मुक्तिमाप्नोति साधकः ॥ ८७॥ तामेव भूमिमालम्ब्य स्खलनं यत्र जायते । उत्तिष्ठति जनस्सर्वोऽध्यक्षेणैतत्समीक्ष्यते ॥ ८८॥ नामरूपात्मकैर्भावैर्बध्यन्ते निखिला जनाः । अविद्याकलिताश्चैव तादृक्प्रकृतिवैभवात् ॥ ८९॥ आत्मनस्सूक्ष्मप्रकृतिं प्रवृत्तिञ्चाऽनुसृत्य वै । नामरूपात्मनोश्शब्दभावयोरवलम्बनात् ॥ ९०॥ यो योगः साध्यते सोऽयं मन्त्रयोगः प्रकीर्तितः । प्राणाऽपाननादबिन्दुजीवात्मपरमात्मनाम् ॥ ९१॥ मेलनाद्घटते यस्मात्तस्माद्वै घट उच्यते । आमकुम्भमिवाऽम्भस्थं जीर्यमाणं सदा घटम् ॥ ९२॥ योगानलेन सन्दह्य घटशुद्धिं समाचरेत् । घटयोगसमायोगाद्धठयोगः प्रकीर्तितः ॥ ९३॥ मन्त्राद्धठेन सम्पाद्यो योगोऽयमिति वा प्रिये । हठयोग इति प्रोक्तो हठाज्जीवशुभप्रदः ॥ ९४॥ हठयोगेन प्रथमं जीर्यमाणामिमां तनुम् । द्रढ्यन्सूक्ष्मदेहं वै कुर्याद्योगयुजं पुनः ॥ ९५॥ स्थूलः सूक्ष्मस्य देहो वै परिणामान्तरं यतः । कादिवर्णान्समभ्यस्य शास्त्रज्ञानं यथाक्रमम् ॥ ९६॥ यथोपलभ्यते तद्वत्स्थूलदेहस्य साधनैः । योगेन मनसो योगो हठयोगः प्रकीर्तितः ॥ ९७॥ ब्रह्माण्डपिण्डे सदृशे ब्रह्मप्रकृतिसम्भवात् । समष्टिव्यष्टिसम्बन्धादेकसम्बन्धगुम्फिते ॥ ९८॥ ऋषिदेवाश्च पितरो नित्यं प्रकृतिपूरुषौ । तिष्ठन्ति पिण्डे ब्रह्माण्डे ग्रहनक्षत्रराशयः ॥ ९९॥ पिण्डज्ञानेन ब्रह्माण्डज्ञानं भवति निश्चितम् । गुरूपदेशतः पिण्डज्ञानमाप्त्वा यथायथम् ॥ १००॥ ततो निपुणया युक्त्या पुरुषे प्रकृतेर्लयः । लययोगाऽभिधेयः स्यात् कृतः शुद्धैर्महर्षिभिः ॥ १०१॥ भवन्ति मन्त्रयोगस्य षोडशाङ्गानि निश्चितम् । यथा सुधांशोर्जायन्ते कलाः षोडश शोभनाः ॥ १०२॥ भक्तिः शुद्धिश्चाऽऽसनञ्च पञ्चाङ्गस्याऽपि सेवनम् । आचारधारणे दिव्यदेशसेवनमित्यपि ॥ १०३॥ प्राणक्रिया तथा मुद्रा तर्पणं हवनं बलिः । यागो जपस्तथा ध्यानं समाधिश्चेति षोडश ॥ १०४॥ षट्कर्माऽऽसनमुद्राः प्रत्याहारः प्राणसंयमश्चैव । ध्यानसमाधी सप्तैवाङ्गानि स्युर्हठस्य योगस्य ॥ १०५॥ अङ्गानि लययोगस्य नवैवेति बुधा विदुः । यमश्च नियमश्चैव स्थूलसूक्ष्मक्रिये तथा ॥ १०६॥ प्रत्याहारो धारणा च ध्यानञ्चापि लयक्रिया । समाधिश्च नवाङ्गानि लययोगस्य निश्चितम् ॥ १०७॥ ध्यानं वै मन्त्रयोगस्याऽध्यात्मभावाद्विनिर्गतम् । परानन्दमये भावेऽतीन्द्रिये च विलक्षणे ॥ १०८॥ भ्रमद्भिः साधकश्रेयोवाञ्छद्भिर्योगवित्तमैः । उपासनां पञ्चविधां ज्ञात्वा साधकयोग्यताम् ॥ १०९॥ मन्त्रध्यानं हि कथितमध्यात्मस्याऽनुसारतः । वेदतन्त्रपुराणेषु मन्त्रशास्त्रप्रवर्तकैः ॥ ११०॥ वर्णितं श्रेयैच्छद्भिर्मन्त्रयोगपरस्य वै । ध्यानानां वै बहुत्वेऽपि तत्प्रोक्तं पञ्चधैव हि ॥ १११॥ तेषां भावमयत्वेन समाधिरधिगम्यते । मन्त्रयोगो हठश्चैव लययोगः पृथक् पृथक् ॥ ११२॥ स्थूलं ज्योतिस्तथा बिन्दु ध्यानं तु त्रिविधं विदुः । स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं भवेत् ॥ ११३॥ बिन्दुं बिन्दुमयं ब्रह्म कुण्डली परदेवता । सृष्टिस्थितिविनाशानां हेतुता मनसि स्थिता ॥ ११४॥ तत्साहाय्यात्साध्यते यो राजयोग इति स्मृतः । मन्त्रे हठे लये चैव सिद्धिमासाद्य यत्नतः ॥ ११५॥ पूर्णाऽधिकारमाप्नोति राजयोगपरो नरः । समाधिर्मन्त्रयोगस्य महाभाव इतीरितः ॥ ११६॥ हठस्य च महाबोधः समाधिस्तेन सिध्यति । प्रशस्तो लययोगस्य समाधिर्हि महालयः ॥ ११७॥ विचारबुद्धेः प्राधान्यं राजयोगस्य साधने । ब्रह्मध्यानं हि तद्ध्यानं समाधिर्निर्विकल्पकः ॥ ११८॥ तेनोपलब्धसिद्धिर्हि जीवन्मुक्तः प्रकथ्यते । उपलब्ध महाभावा महाबोधाऽन्विताश्च वा ॥ ११९॥ महालयं प्रपन्नाश्च तत्त्वज्ञानाऽवलम्बतः । योगिनो राजयोगस्य भूमिमासादयन्ति ते ॥ १२०॥ योगसाधनमूर्द्धर्न्यो राजयोगोऽभिधीयते ॥ १२१॥ श्रीमहादेव्युवाच । योगेश जगदाधार कतिधोपासना च के । तद्विधेर्भगवन् भेदा मुक्तिमार्गप्रदर्शिनः ॥ १२२॥ तस्या के दिव्यदेशाश्च दिव्यभावेन भास्वराः । तत्सर्वं कृपया नाथ वदस्व वदतां वर ॥ १२३॥ श्रीमहादेव उवाच । सगुणो निर्गुणश्चाऽपि द्विविधो भेद ईर्यते । उपासनाविधेर्देवि सगुणोऽपि द्विधा मतः ॥ १२४॥ सकामोपासनायाश्च भेदा यद्यपि नैकशः । परन्त्वनन्यभक्तानां जनानां मुक्तिमिच्छताम् ॥ १२५॥ भेदत्रितयमेवैतद्रहस्यं देवि गोपितम् । वक्ष्ये गुप्तरहस्यं तद्भवतीं भाग्यशालिनीम् ॥ १२६॥ समाहितेन शान्तेन स्वान्तेनैवाऽवधार्यताम् । पञ्चानामपि देवानां ब्रह्मणो निर्गुणस्य च ॥ १२७॥ लीलाविग्रहरूपाणाञ्चेत्युपास्तिस्त्रिधा मता । विष्णुः सूर्यश्च शक्तिश्च गणाधीशश्च शङ्करः ॥ १२८॥ पञ्चोपास्याः सदा देवि सगुणोपासनाविधौ । एते पञ्च महेशानि सगुणो भेद ईरितः ॥ १२९॥ सच्चिदानन्दरूपस्य ब्रह्मणो नाऽत्र संशयः । निर्गुणोऽपि निराकारो व्यापकः स परात्परः ॥ १३०॥ साधकानां हि कल्याणं विधातुं वसुधातले । बिभर्ति सगुणं रूपं त्वत्साहाय्यात्पतिव्रते ॥ १३१॥ यथा गवां शरीरेषु व्याप्तं दुग्धं रसात्मकम् । परं पयोधरादेव केवलं क्षरते ध्रुवम् ॥ १३२॥ तथैव सर्वव्याप्तोऽपि देवो व्यापकभावतः । दिव्यषोडशदेशेषु पूज्यते परमेश्वरः ॥ १३३॥ वह्न्यम्बुलिङ्गकुड्यानि स्थण्डिलं पटमण्डले । विशिखं नित्ययन्त्रञ्च भावयन्त्रञ्च विग्रहः ॥ १३४॥ पीठश्चापि विभूतिश्च हृन्मूर्द्धापि महेश्वरि । एते षोडश दिव्याश्च देशाः प्रोक्ता मयाऽनघे ॥ १३५॥ यद्यच्छरीरमाश्रित्य भगवान्सर्वशक्तिमान् । वतीर्णो विविधा लीला विधाय वसुधातले ॥ १३६॥ जगत्पालयते देवि लीलाविग्रह एव सः । उपासनाऽनुसारेण वेदशास्त्रेषु भूरिशः ॥ १३७॥ लीलाविग्रहरूपाणामितिहासोऽपि लभ्यते । तदुपासनकञ्चाऽपि सगुणं परिकीर्तितम् ॥ १३८॥ विष्णोः सूर्यश्च शक्तेश्च गणेशस्य शिवस्य च । गीतासु गीता ये शब्दा विष्णुसूर्यादयः प्रिये ॥ १३९॥ ब्रह्मणश्चाद्वितीयस्य साक्षात्ते चापि वाचकः । भक्तिस्तु त्रिविधा ज्ञेया वैधी रागात्मिका परा ॥ १४०॥ देवे परोऽनुरागस्तु भक्तिः सम्प्रोच्यते बुधैः । विधिना या विनिर्णीता निषेधेन तथा पुनः ॥ १४१॥ साध्यमाना च या धीरैः सा वैधी भक्तिरुच्यते । ययाऽऽस्वाद्य रसान्भक्तेर्भावे मज्जति साधकः ॥ १४२॥ रागात्मिका सा कथिता भक्तियोगविशारदैः । पराऽऽनन्दप्रदा भक्तिः पराभक्तिर्मता बुधैः ॥ १४३॥ या प्राप्यते समाधिस्थैर्योगिभिर्योगपारगैः । त्रैगुण्यभेदास्त्रिविधा भक्ता वै परिकीर्तिताः ॥ १४४॥ आर्तो जिज्ञासुरर्थार्थी तथा त्रिगुणतः परः । पराभक्त्यधिकारी यो ज्ञानिभक्तः स तुर्यकः ॥ १४५॥ उपासकाः स्युस्त्रिविधास्त्रिगुणस्याऽनुसारतः । ब्रह्मोपासक एवाऽत्र श्रेष्ठः प्रोक्तो मनीषिभिः ॥ १४६॥ प्रथमा सगुणोपास्तिरवताराऽर्चनाश्च याः । विहिता ब्रह्मबुद्ध्या चेदत्रैवाऽन्तर्भवन्ति ताः ॥ १४७॥ सकामबुद्ध्या विहितं देवर्षिपितृपूजनम् । मध्यमं मध्यमा ज्ञेयास्तत्कर्तारस्तथा पुनः ॥ १४८॥ अधमा वै समाख्याताः क्षुद्रशक्तिसमर्चकाः । प्रेत्याद्युपासङ्काश्चैव विज्ञेया ह्यधमाऽधमाः ॥ १४९॥ सर्वोपासनहीनास्तु पशवः परिकीर्तिताः । ब्रह्मोपासनमेवाऽत्र मुख्यं परममङ्गलम् ॥ १५०॥ निःश्रेयसकरं ज्ञेयं सर्वश्रेष्ठं शुभावहम् ॥ १५१॥ श्रीमहादेव्युवाच । यथा मे गुरुमाहात्म्यं सम्यग्ज्ञातं भवेत्प्रभो । तथा विस्तरतो नाथ तन्माहात्म्यमुदाहर ॥ १५२॥ सद्गुरोमहिमा देव सम्यग्ज्ञातः श्रुतो भुवि । अज्ञानतमसाऽऽच्छन्नं मनोमलमपोहति ॥ १५३॥ श्रीमहादेव उवाच । गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १५४॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५५॥ अज्ञानतिमिराऽन्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ १५६॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराऽचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५७॥ चिन्मयं व्याप्नुवन्सर्वं त्रैलोक्यं सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १५८॥ सर्वश्रुतिशिरोरत्नविराजितपदाऽम्बुजः । वेदान्ताऽम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ १५९॥ चेतनः शाश्वतः शान्तो व्योमाऽतीतो निरञ्जनः । बिन्दुनादकलातीतस्तस्मै श्रीगुरवे नमः ॥ १६०॥ ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ १६१॥ अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने । आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ १६२॥ शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः । गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ १६३॥ न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वज्ञानात्परं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६४॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १६५॥ गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नाऽस्ति तस्मै श्रीगुरवे नमः ॥ १६६॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १६७॥ सप्तसागरपर्यन्ततीर्थस्नानादिकैः फलम् । गुरोरङ्घ्रिपयोबिन्दुसहस्रांशेन दुर्लभम् ॥ १६८॥ गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नाऽस्ति तस्मात् सम्पूजयेद्गुरुम् ॥ १६९॥ ज्ञानं विना मुक्तिपदं लभते गुरुभक्तितः । गुरोः परतरं नाऽस्ति ध्येयोऽसौ गुरुमार्गिणा ॥ १७०॥ गुरोः कृपाप्रसादेन ब्रह्मविष्णुसदाशिवाः । सृष्ट्यादिकसमर्थास्ते केवलं गुरुसेवया ॥ १७१॥ देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः । मुनयोऽपि न जानन्ति गुरुशुश्रूषणाविधिम् ॥ १७२॥ न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः । ऋषयः सर्वसिद्धाश्च गुरुसेवापराङ्मुखाः ॥ १७३॥ श्रुतिस्मृतिमविज्ञाय केवलं गुरुसेवया । ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ १७४॥ गुरोः कृपाप्रसादेन आत्मारामो हि लभ्यते । अनेन गुरुमार्गेण आत्मज्ञानं प्रवर्तते ॥ १७५॥ सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् । सर्वतीर्थावगाहस्य फलं प्राप्नोति निश्चितम् ॥ १७६॥ यज्ञव्रततपोदानजपतीर्थाऽनुसेवनम् । गुरुतत्त्वमविज्ञाय निष्फलं नाऽत्र संशयः ॥ १७७॥ मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । श्रुतिवेदान्तवाक्येन गुरुः साक्षात्परं पदम् ॥ १७८॥ गुरुर्देवो गुरुर्धर्मो गुरुनिष्ठा परं तपः । गुरोः परतरं नास्ति नास्ति तत्त्वं गुरोः परम् ॥ १७९॥ धन्या माता पिता धन्यो धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ १८०॥ शरीरमिन्द्रियप्राणा अर्थस्वजनबान्धवाः । माता पिता कुलं देवि गुरुरेव न संशयः ॥ १८१॥ आजन्मकोट्यां देवेशि जपव्रततपःक्रियाः । एतत्सर्वं समं देवि गुरुसन्तोषमात्रतः ॥ १८२॥ विद्याधनमदेनैव मन्दभाग्याश्च ये नराः । गुरोः सेवां न कुर्वन्ति सत्यं सत्यं वदाम्यहम् ॥ १८३॥ गुरुसेवापरं तीर्थमन्यत्तीर्थमनर्थकम् । सर्वतीर्थाश्रयं देवि सद्गुरोश्चरणाम्बुजम् ॥ १८४॥ गुरुध्यानं महापुण्यं भुक्तिमुक्तिप्रदायकम् । वक्ष्यामि तव देवेशि शृणुष्व कमलानने ॥ १८५॥ प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । वराऽभयकरं शान्तं स्मरेत्तन्नामपूर्वकम् ॥ १८६॥ वामोरुशक्तिसहितं कारुण्येनाऽवलोकितम् । प्रियया सव्यहस्तेन धृतचारुकलेवरम् ॥ १८७॥ वामेनोत्पलधारिण्या रक्ताऽऽभरणभूषया । ज्ञानाऽऽनन्दसमायुक्तं स्मरेत्तन्नामपूर्वकम् ॥ १८८॥ अखण्डमण्डलाऽऽकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ १८९॥ नमोऽस्तु गुरवे तस्मै इष्टदेवस्वरूपिणे । यस्य वाक्याऽमृतं हन्ति विषं संसारसंज्ञितम् ॥ १९०॥ श्रीमहादेव्युवाच । मदेकहृदयाऽऽनन्द जगदात्मन् महेश्वर । उपास्यस्य रहस्यं मे माहात्म्यञ्चापि सद्गुरोः ॥ १९१॥ वर्णितं यत्त्वया नाथ कृतकृत्याऽस्मि साम्प्रतम् । भूयोऽपि श्रोतुमिच्छामि त्वन्मुखाज्जगदीश्वर ॥ १९२॥ परतत्त्वैकरूपस्य तत्त्वाऽतीतपराऽऽत्मनः । समासेन स्वरूपं मे वर्णयित्वा कृपां कुरु ॥ १९३॥ श्रीमहदेव उवाच । स एक एव सद्रूपः सत्योऽद्वैतः परात्परः । स्वप्रकाशः सदा पूर्णः सच्चिदानन्दलक्षणः ॥ १९४॥ निर्विकारो निराधारो निर्विशेषो निराकुलः । गुणातीतः सर्वसाक्षी सर्वात्मा सर्वदृग्विभुः ॥ १९५॥ गूढः सर्वेषु भूतेषु सर्वव्यापी सनातनः । सर्वेन्द्रिय गुणाभासः सर्वेन्द्रियविवर्जितः ॥ १९६॥ लोकाऽतीतो लोकहेतुरवाङ्मनसगोचरः । स वेत्ति विश्वं सर्वज्ञस्तं न जानाति कश्चन ॥ १९७॥ तदधीनं जगत्सर्वं त्रैलोक्यं सचराऽचरम् । तदालम्बनतस्तिष्ठेदवितर्क्यमिदं जगत् ॥ १९८॥ तत्सत्यतामुपाऽऽश्रित्य सद्वद्भाति पृथक् पृथक् । तेनैव हेतुभूतेन वयं जाता महेश्वरि ॥ १९९॥ कारणं सर्वभूतानां स एकः परमेश्वरः । लोकेषु सृष्टिकरणात्स्रष्टा ब्रह्मेति गीयते ॥ २००॥ विष्णुः पालयिता देवि संहर्ताऽहं तदिच्छया । इन्द्राऽऽदयो लोकपालाः सर्वे तद्वशवर्तिनः ॥ २०१॥ स्वे स्वेऽधिकारे निरतास्ते शासति तदाज्ञया । त्वं पुरा प्रकृतिस्तस्य पूज्याऽसि भुवनत्रये ॥ २०२॥ तेनाऽन्तर्यामिरूपेण तत्तद्विपययोजिताः । स्वस्वकर्म प्रकुर्वन्ति न स्वतन्त्राः कदाचन ॥ २०३॥ यद्भयाद्वाति वातोऽपि सूर्यस्तपति यद्भयात् । वर्षन्ति तोयदाः काले पुष्ष्यन्ति तरवो वने ॥ २०४॥ कालं कलयते काले मृत्योर्मृत्युर्भियो भयम् । वेदान्तवेद्यो भगवान्यत्तच्छब्दोपलक्षितः ॥ २०५॥ सर्वे देवाश्च देव्यश्च तन्मयाः सुरवन्दिते । आब्रह्मस्तम्बपर्यन्तं तन्मयं सकलं जगत् ॥ २०६॥ तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् । तदाराधनतो देवि सर्वेषां प्रीणनं भवेत् ॥ २०७॥ तरोर्मूलाऽभिषीकेण यथा तद्भुजपल्लवाः । तृप्यन्ति तदनुष्ठानात्तथा सर्वेऽमरादयः ॥ २०८॥ श्रीमहादेव्युवाच । संसाररोगहृन्नाथ करुणावरुणाऽऽलय । गुरोत्माहात्म्यपूर्णा या गुरोर्गीता सुवर्णिता ॥ २०९॥ तत्स्वाध्यायस्य माहात्म्यं फलञ्चाऽपि विनिर्दिश । जीवमङ्गलमेतेन कृपातोऽतः कृपाऽर्णव ॥ २१०॥ सम्यग्विविच्य संवर्ण्य विनोदय दयार्णव । त्वदृते को हि देवेश शिक्षां मेऽन्यो विधास्यति ॥ २११॥ श्रीमहादेव उवाच । इदं तु भक्तिभावेन पठ्यते श्रूयतेऽथवा । लिखित्वा वा प्रदीयेत सर्वकामफलप्रदम् ॥ २१२॥ गुरुगीताऽभिधं देवि शुद्धं तत्त्वं मयोदितम् । भवव्याधिविनाशार्थं स्वयमेव सदा जपेत् ॥ २१३॥ गुरुगीताऽक्षरैकैकं मन्त्रराजमिदं प्रिये । अनेन विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ २१४॥ सर्वपापहरं स्तोत्रं सर्वदारिद्र्यनाशनम् । अकालमृत्युहरणं सर्वसङ्कटनाशनम् ॥ २१५॥ यक्षराक्षसभूतानां चौरव्याघ्रभयाऽपहम् । महाव्याधि हरञ्चैव विभूतिसिद्धिदं ध्रुवम् ॥ २१६॥ मोहनं सर्वभूतानां परं बन्धनमोचनम् । देवभूतप्रियकरं लोकान्स्ववशमानयेत् ॥ २१७॥ मुखस्तम्भकरं नॄणां सद्गुणानां विवर्धनम् । दुष्कर्मनाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१८॥ भक्तिदं सिद्धयेत् कार्यं नवग्रहभयाऽपहम् । दुःस्वप्ननाशनञ्चैव सत्कर्मसिद्धिदं भवेत् ॥ २१९॥ सर्वशान्तिकरं नित्यं वन्ध्यापुत्रफलप्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यदायकं परम् ॥ २२०॥ आयुरारोग्यमैश्वर्यपुत्रपौत्रादिवर्धकम् । निष्कामतस्त्रिवारं वा जपन्मोक्षमवाप्नुयात् ॥ २२१॥ सर्वदुःखभयं विघ्नं नाशयेत्तापहारकम् । सर्वबाधाप्रशमनं धर्माऽर्थकाममोक्षदम् ॥ २२२॥ यो यं चिन्तयते कामं स तमाप्नोति निश्चितम् । कामिनां कामधेनुश्च कल्पितं च सुरद्रुमः ॥ २२३॥ चिन्तामणिं चिन्तितस्य सर्वमङ्गलकारकम् । जपेच्छाक्तस्य शैवश्च गाणपत्यश्च वैष्णवः ॥ २२४॥ सौरश्च सिद्धिदं देवि धर्मार्थकाममोक्षदम् । संसारमलनाशाऽर्थं भवतापनिवृत्तये ॥ २२५॥ गुरुगीताऽम्भसि स्नानं तत्त्वज्ञः कुरुते सदा । योगयुञ्जानचित्तानां गीतेयं ज्ञानवर्धिका ॥ २२६॥ त्रितापतापितानाञ्च जीवानां परमौषधम् । संसाराऽपारपाथोधौ मज्जतां तरणिः शुभा ॥ २२७॥ देशः शुद्धः स यत्राऽसौ गीता तिष्ठति दुर्लभा । तत्र देवगणाः सर्वे क्षेत्रपीठे वसन्ति हि ॥ २२८॥ शुचिरेव सदा ज्ञानी गुरुगीताजपेन तु । तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ २२९॥ सत्यं सत्यं पुनः सत्यं निजधर्मो मयोदितः । गुरुगीतासमो नाऽस्ति सत्यं सत्यं वरानने ॥ २३०॥ इति श्रीगुरुगीता समाप्ता । Dharmamandala print version Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Shri Guru Gita
% File name             : shriigurugiitaadharmamandala.itx
% itxtitle              : gurugItA (dharmamaNDala)
% engtitle              : gurugItA (dharmamaNDala)
% Category              : gItA, giitaa, gurudev
% Location              : doc_giitaa
% Sublocation           : giitaa
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sunder hattangadi
% Proofread by          : sunder hattangadi
% Description-comments  : Dharmamandala print version
% Indexextra            : Dharma Mandala DLI version (scanned)
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP