श्रीमदाञ्जनेयभुजङ्गप्रयातस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ आञ्जनेयाय विद्महे । रामदूताय धीमहि ।
तन्नो यजः प्रचोदयात् ॥
सदारामभक्तिप्रसारप्रडीनं सदातारकानन्दनामोपगङ्गम् ।
सदाध्यानलीनं सदानामगानं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १॥
सदारामनामप्लवाह्लादरूपं सदारामनामाधरस्मेरवक्त्रम् ।
सदारामगानातिमाधुर्यकण्ठं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ २॥
सदानामयोगं सदारामरागं सदाचित्तसम्पूर्णनामप्रभावम् ।
सदाब्रह्मनिष्ठं वरज्ञानपूर्णं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ३॥
सदारामदासं महावीरवर्यं सदानामपेयूषपानप्रमत्तम् ।
सुनामप्रहृष्टं सभक्ताग्रगण्यं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ४॥
सुनामस्वरालापबाष्पाकुलाक्षं सुसङ्गीतनामप्रभावस्वभावम् ।
स्वरस्वादुनामोपभोग्यं सुभाग्यं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ५॥
ससूर्यप्रकाशं ससत्त्वप्रवाचं असाध्यप्रभावं सुसाध्यप्रमाणम् ।
सदाध्यातरामस्वरूपप्रकाशं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ६॥
ससत्त्वं फलाशं सुमेधाविलासं सुसीतामनश्शोकनाशं प्रशान्तम् ।
सुवेगं यजं तं भजे रामदूतं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ७॥
महद्ब्रह्मचर्यं मनोवाक्स्थरामं मनस्कायसञ्जीवनौषध्यधेयम् ।
महीधारकन्धारधारप्रतापं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ८॥
ससीतस्वरारामनामप्रगेयं ससङ्गीतसाहित्यविद्याप्रवीणम् ।
सुसप्तस्वरानन्दनृत्याभिलास्यं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ९॥
हरिश्रेष्ठरत्नं हरिप्रेष्ठभक्तं हरिस्मेरहृत्पद्मवासानुरागम् ।
हरप्रीतनामप्रियं भक्तवर्यं हरांशं हनूमन्तशूरं नमामि ॥ १०॥
हिमागप्रशान्तिस्वमाधुर्यगायं हिमानन्दगङ्गाप्लवाह्लादगेयम् ।
हिमापूतरम्याष्ट्रध्यानस्थदेवं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ ११॥
मनोगालनागीतरामाभिरामं सुरागानुरागं सुनामाभिजप्यम् ।
मनोजस्वरागीतसीतावराप्तं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १२॥
वरानन्दरामस्ववाचाभिनन्दं सरागप्रभाषं स्वरारामरामम् ।
कुरोगप्रणाशं वरारोग्यदायं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १३॥
सुसत्कार्यसिद्धिं सुसद्भक्तिबुद्धिं विरागत्ववृद्धिं सुरागप्रवृद्धिम् ।
सुनादप्रवृत्तिं सुबोधं सुशक्तिं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १४॥
सुसङ्गीतवाणिं सुसत्पुष्पपाणिं कविस्फूर्तिरक्तिं कपिं रागहृष्टिम् ।
सदासत्त्वदृष्टिं सदासक्तिपुष्टिं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १५॥
गुरुत्यागराजेन्द्रसद्गानलोलं तदाह्लादसन्नामगानप्रसन्नम् ।
कृताञ्जल्यतिप्रेष्ठनामप्रलीनं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १६॥
गुरुत्यागराजेन्द्रशिष्योपगीतं सुपुष्पोपहारं सुभक्तिप्रणीतम् ।
मनोजस्तुतिस्फूर्तिपुष्पार्चितं तं सदात्राणभक्तं नमाम्याञ्जनेयम् ॥ १७॥
भुजङ्गप्रयातस्फुरद्भक्तिगीतं भुजङ्गप्रयातप्रगीतिप्रमोदम् ।
भुजङ्गावतारानुजप्रेष्ठभक्तं भजे मारुतिं तं सभक्तं सुभद्रम् ॥ १८॥
सुभद्रं वरानन्दरामानुरागं सुभद्रं स्वरानन्दनामाभिगेयम् ।
सुभद्रं वरारामरामोपसेवं सुभद्रं हनूमन्तधीरं भजेहम् ॥ १९॥
श्रीसीतारामभक्ताय रामनामरताय च ।
नामगानाभिलोलाय आञ्जनेयाय मङ्गलम् ॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
आञ्जनेयभुजङ्गप्रयातस्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan