० श्रीमद्देवीभागवतमाहात्म्यम्

० श्रीमद्देवीभागवतमाहात्म्यम्

०.१ देवीभागवतमाहात्म्यम् । प्रथमोऽध्यायः । देवीभागवतश्रवणमाहाम्यवर्णनम् ।

सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रीडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवती वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशा- राधितालङ्करोतु ॥ १॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ २॥ ऋषय ऊचुः । सूत जीव समा बह्वीर्यस्त्वं श्रावयसीह नः । कथा मनोहराः पुण्या व्यासशिष्य महामते ॥ ३॥ सर्वपापहरं पुण्यं विष्णोश्चरितमद्भुतम् । अवतारकथोपेतमस्माभिर्भक्तितः श्रुतम् ॥ ४॥ शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्च माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥ ५॥ अधुना श्रोतुमिच्छामः पावनात् पावनं परम् । भुक्तिमुक्तिप्रदं नॄणामनायासेन सर्वशः ॥ ६॥ तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवाः । कलावपि परं त्वत्तो न विद्मः संशयच्छिदम् ॥ ७॥ सूत उवाच । साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषतः ॥ ८॥ तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रूयते सम्यग देवीभागवतं नरैः ॥ ९॥ तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशुः प्राप्तो देवीभागवताभिधः ॥ १०॥ तावत् क्लेशावहं नॄणामुपसर्गमहातमः । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगुः ॥ ११॥ ऋषय ऊचुः । सूत सूत महाभाग वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च कः ॥ १२॥ कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवैः श्रुतं पूर्वं कान्कान्कामानवाप्नुयुः ॥ १३॥ सूत उवाच । विष्णोरंशो मुनिर्जातः सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुरः शिष्यानध्यापयत्पुरा ॥ १४॥ व्रात्यानां द्विजबन्धूनां वेदेष्वनधिकारिणाम् । स्त्रीणां दुर्मेधसां नृणां धर्मज्ञानं कथं भवेत् ॥ १५॥ विचार्यैतत् तु मनसा भगवान् बादरायणः । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥ १६॥ अष्टादश पुराणानि स कृत्वा भगवान् मुनिः । मामेवाध्यापयामास भारताख्यानमेव च ॥ १७॥ देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥ १८॥ पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्य संशुध्यै राज्ञा भागवतं श्रुतम् ॥ १९॥ नवभिर्दिवसैः श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानतः ॥ २०॥ नवाहयज्ञे सश‍ृर्णे परीक्षिदपि भूपतिः । दिव्यरूपधरो देव्याः सालोक्यं तत्क्षणादगात् ॥ २१॥ पितुर्दिव्यां गतिं राजा विलोक्य जनमेजयः । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥ २२॥ अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥ २३॥ ये श‍ृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभिः ॥ २४॥ दिनमर्धं तदर्धं वा मुहूर्तं क्षणमेव वा । ये श‍ृण्वन्ति नरा भक्त्या न तेषां दुर्गतिः क्वचित् ॥ २५॥ सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नरः ॥ २६॥ कृतादौ बहवो धर्माः कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥ २७॥ धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥ २८॥ सुधां पिबन्नेक एव नरः स्यादजरामरः । देव्याः कथामृतं कुर्यात् कुलमेवाजरामरम् ॥ २९॥ मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरैः ॥ ३०॥ आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥ ३१॥ अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मणः । फलाधिकप्रदानेन प्रोक्तः पुण्यप्रदो नृणाम् ॥ ३२॥ ये दुर्हृदः पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता नास्तिकमार्गसक्ता नवाहयज्ञेन पुनन्ति ते कलौ ॥ ३३॥ परस्वदाराहरणेऽतिलुब्धा ये वै नराः कल्मषभारभाजः । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धाः ॥ ३४॥ तपोभिरुग्रैर्व्रततीर्थसेवनै- र्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥ ३५॥ तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख एष विप्राः ॥ ३६॥ अतो भागवतं देव्याः पुराणं परतः परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥ ३७॥ आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥ ३८॥ देवीप्रीतिप्रदं भक्त्या श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्याय स देव्याः पदवीं लभेत् ॥ ३९॥ देवीभागवतस्यापि श्लोकं श्लोकार्धमेव वा । भक्त्या यश्च पठेन्नित्यं स देव्याः प्रीतिभाग्भवेत् ॥ ४०॥ उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रवणमात्रतः ॥ ४१॥ बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरतः ॥ ४२ यस्तु भागवतं देव्याः पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नरः ॥ ४३॥ श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह ॥ ४४॥ य एतां श‍ृणुयाद् भक्त्या श्रीमद्भागवतीं कथाम् । भुक्तिं भुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥ ४५॥ अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥ ४६॥ वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥ ४७॥ पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥ ४८॥ अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुतः । यः पठेच्छणुयाद् वापि स सिद्धिं लभते पराम् ॥ ४९॥ पठन् द्विजो वेदविदग्रणीर्भवेद् बाहुप्रजातो धरणीपतिः स्यात् । वैश्यः पठन् वित्तसमृद्धिमेति शूद्रोऽपि श‍ृण्वन्स्वकुलोत्तमः स्यात् ॥ ५०॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवतश्रवणमाहाम्यवर्णनं नाम प्रथमोऽध्यायः ॥ ०.१॥

०.२ देवीभागवतमाहात्म्यम् । द्वितीयोऽध्यायः । वसुदेवस्य देवीभागवतनवाह-श्रवणात्पुत्रप्राप्तिवर्णनम् ।

ऋषय ऊचुः । वसुदेवो महाभागः कथं पुत्रमवाप्तवान् । प्रसेनः कुत्र कृष्णेन भ्रमतान्वेषितः कथम् ॥ १॥ विधिना केन कस्माच्च देवीभागवतं श्रुतम् । वसुदेवेन सुमते वद सूत कथामिमाम् ॥ २॥ सूत उवाच । सत्राजिद् भोजवंशीयो द्वारवत्यां सुखं वसन् । सूर्यस्याराधने युक्तो भक्तश्च परमः सखा ॥ ३॥ अथ कालेन कियता प्रसन्नः सविताभवत् । स्वलोकं दर्शयामास तद्भक्त्या प्रणयेन च ॥ ४॥ तस्मै प्रीतश्च भगवान् स्यमन्तकमणिं ददौ । स तं बिभ्रन्मणि कण्ठे द्वारकामाजगाम ह ॥ ५॥ दृष्ट्वा तं तेजसा भ्रान्ता मत्वादित्यं पुरौकसः । कृष्णमूचुः समभ्येत्य सुधर्मायामवस्थितम् ॥ ६॥ एष आयाति सविता दिदृक्षुस्त्वां जगत्पते । श्रुत्वा कृष्णस्तु तद्वाचं प्रहस्योवाच संसदि ॥ ७॥ सविता नैष भो बालाः सत्राजिन्मणिना ज्वलन् । स्यमन्तकेन चायाति भास्वद्दत्तेन भास्वता ॥ ८॥ अथ विप्रान् समाहूय स्वस्तिवाचनपूर्वकम् । प्रावेशयत्समभ्यर्च्य सत्राजित्स्वगृहे मणिम् ॥ ९॥ न तत्र मारी दुर्भिक्षं नोपसर्गभयं क्वचित् । यत्रास्ते स मणिर्नित्यमष्टभारसुवर्णदः ॥ १०॥ अथ सत्राजितो भ्राता प्रसेनो नाम कर्हिचित् । कण्ठे बद्ध्वा मणिं सद्यो हयमारुह्य सैन्धवम् ॥ ११॥ मृगयार्थं वनं यातस्तमद्राक्षीत्रगाधिपः । प्रसेनं सहयं हत्वा सिंहो जग्राह तं मणिम् ॥ १२॥ जाम्बवानृक्षराजोऽथ दृष्ट्वा मणिधरं हरिम् । हत्वा च तं बिलद्वारि मणिं जग्राह वीर्यवान् ॥ १३॥ स तं मणिं स्वपुत्राय क्रीडनार्थमदात् प्रभुः । अथ चिक्रीडबालोऽपि मणिसम्माप्य भास्वरम् ॥ १४॥ प्रसेनेऽनागते चाथ सत्राजित् पर्यतप्यत । न जाने केन निहतः प्रसेनो मणिमिच्छता ॥ १५॥ अथ लोकमुखोद्गीर्णा किंवदन्ती पुरेऽभवत् । कृष्णेन निहतो नूनं प्रसेनो मणिलिप्सुना ॥ १६॥ स तं शुश्राव कृष्णोऽपि दुर्यशो लिप्तमात्मनि । मास्तु तत्तस्य पदवीं पुरौकोभिस्सहागमत् ॥ १७॥ गत्वा स विपिनेऽपश्यत् प्रसेनं हरिणा हतम् । ययौ मृगेन्द्रमन्विष्यन्नसृग्बिन्द्वङ्किताध्वना ॥ १८॥ अथ कृष्णो हतं सिंहं बिलद्वारि विलोक्य च । उवाच भगवान् वाचं कृपया पुरवासिनः ॥ १९॥ तिष्ठध्वं यूयमत्रैव यावदागमनं मम । प्रविशामि बिलं त्वेतन्मणिहारकलब्धये ॥ २०॥ तथेत्युक्त्वा तु ते तस्तुस्तत्रैव द्वारकौकसः । जगामान्तर्बिलं कृष्णो यत्र जाम्बवतो गृहम् ॥ २१॥ ऋक्षराजसुतं दृष्ट्वा कृष्णो मणिधरं तदा । हर्तुमैच्छन्मणिं तावद् धात्री चुक्रोश भीतवत् ॥ २२॥ श्रुत्वा धात्रीरवं सद्यः समागत्यर्क्षराट् तदा । युयुधे स्वामिना साकमविश्रममहर्निशम् ॥ २३॥ एवं त्रिनवरात्रं तु महद्युद्धमभूत्तयोः । कृष्णागमं प्रतीक्षन्तस्तस्मृर्द्वारि पुरौकसः ॥ २४॥ द्वादशाहं ततो भीत्या प्रतिजग्मुर्निजालयम् । तत्र ते कथयामासुर्वृत्तान्तं सर्वमादितः ॥ २५॥ सत्राजितं शपन्तस्ते सर्वे शोकाकुला भृशम् । वसुदेवो महाभागः श्रुत्वा पुत्रस्य तां कथाम् ॥ २६॥ मुमोह सपरीवारस्तदा परमया शुचा । चिन्तयामास बहुधा कथं श्रेयो भवेन्मम ॥ २७॥ अथाजगाम भगवान् देवर्षिर्ब्रह्मलोकतः । उत्थाय तं प्रणम्यासौ वसुदेवोऽभ्यपूजयत् ॥ २८॥ नारदोऽनामयं पृष्ट्वा वसुदेवं महामतिम् । पप्रच्छ च यदुश्रेष्ठं किं चिन्तयसि तद् वद ॥ २९॥ वसुदेव उवाच । पुत्रो मेऽतिप्रियः कृष्णः प्रसेनान्वेषणाय तु । पौरैः साकं वनं गत्वा निहतं तं तदैक्षत ॥ ३०॥ प्रसेनघातकं दृष्ट्वा बिलद्वारे मृतं हरिम् । द्वारि पौरानधिष्ठाप्य बिलान्तर्गतवान् स्वयम् ॥ ३१॥ बहवो दिवसा याता नायात्यद्यापि मे सुतः । अतः शोचामि तद् ब्रूहि येन लप्स्ये सुतं मुने ॥ ३२॥ नारद उवाच । पुत्रप्राप्त्यै यदुश्रेष्ठ देवीमाराधयाम्बिकाम् । तस्या आराधनेनैव सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३३॥ वसुदेव उवाच । भगवन् का हि सा देवी किम्प्रभावा महेश्वरी । कथमाराधनं तस्या देवर्षे कृपया वद ॥ ३४॥ नारद उवाच । वसुदेव महाभाग श‍ृणु सङ्क्षेपतो मम । देव्या माहात्म्यमतुलं को वक्तुं विस्तरात् क्षमः ॥ ३५॥ या सा भगवती नित्या सज्जिदानन्दरूपिणी । परात्परतरा देवी यया व्याप्समिदं जगत् ॥ ३६॥ यदाराधनतो ब्रह्मा सृजतीदं चराचरम् । यां च स्तुत्वा विनिर्मुक्तो मधुकैटभजाद् भयात् ॥ ३७॥ विष्णुर्यत्कृपया विश्वं बिभर्ति भगवानिदम् । रुद्रः संहरते यस्याः कृपापाङ्गनिरीक्षणात् ॥ ३८॥ संसारबन्धहेतुर्या सैव मुक्तिप्रदायिनी । सा विद्या परमा देवी सैव सर्वेश्वरेश्वरी ॥ ३९॥ नवरात्रविधानेन सम्पूज्य जगदम्बिकाम् । नवाहोभिः पुराणं च देव्या भागवतं श‍ृणु ॥ ४०॥ यस्य श्रवणमात्रेण सद्यः पुत्रमवाप्स्यसि । भुक्तिर्मुक्तिर्न दूरस्था पततां श‍ृण्वतां नृणाम् ॥ ४१॥ इत्युक्तो नारदेनासौ वसुदेवः प्रणम्य तम् । उवाच परया प्रीत्या नारदं मुनिसत्तमम् ॥ ४२॥ वसुदेव उवाच । भगवंस्तव वाक्येन संस्मृतं वृत्तमात्मनः । श्रूयतां तच्च वक्ष्यामि देवीमाहाक्त्यसम्भवम् ॥ ४३॥ पुरा नभोगिरा कंसो देवक्यष्टमगर्भतः । ज्ञात्वात्ममृत्युं पापो मां सभार्यं न्यरुणद्भिया ॥ ४४॥ कारागारेऽहमवसं देवक्या सह भार्यया । जातं जातं समवधीत्पुत्रं कंसोऽपि पापकृत् ॥ ४५॥ षट् पुत्रा निहतास्तेन तदा शोकाकुला भृशम् । अतप्यद् देवकी देवी नक्तन्दिवमनिन्दिता ॥ ४६॥ तदाहं गर्गमाहूय मुनिं नत्वाभिपूज्य च । निवेद्य देवकीदुःखमवोचं पुत्रकाम्यया ॥ ४७॥ भगवन् करुणासिन्धो यादवानां गुरुर्भवान् । आयुष्मत्पुत्रसम्प्राप्तिसाधनं वद मे मुने ॥ ४८॥ ततो गर्गः प्रसन्नात्मा मामुवाच दयानिधिः । गर्ग उवाच । वसुदेव महाभाग श‍ृणु तत् साधनं परम् ॥ ४९॥ या सा भगवती दुर्गा भक्तदुर्गतिहारिणी । तामाराधय कल्याणीं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ५०॥ यदाराधनतः सर्वे सर्वान् कामानवाप्नुयुः । न किञ्चिद्दुर्लभं लोके दुर्गार्चनवतां नृणाम् ॥ ५१॥ इत्युक्तोऽहं मुदा युक्तः सभार्यो मुनिपुङ्गवम् । प्रणम्य परया भक्त्या प्रावोचं विहिताञ्जलिः ॥ ५२॥ वसुदेव उवाच । यद्यस्ति भगवन् प्रीतिर्मयि ते करुणानिधे । तदा गुरो मदर्थे त्वं समाराधय चण्डिकाम् ॥ ५३॥ निरुद्धः कंसगेहेऽहं न किञ्चित् कर्तुमुत्सहे । अतस्त्वमेव दुःखाब्धेर्मामुद्धर महामते ॥ ५४॥ इत्युक्तस्तु मया प्रीतः प्रोवाच मुनिपुङ्गवः । वसुदेव तव प्रीत्या करिष्यामि हितं तव ॥ ५५॥ अथ गर्गमुनिः प्रीत्या मया सम्प्रार्थितोऽगमत् । आरिराधयिषुर्दुर्गा विन्ध्याद्रिं ब्राह्मणैः सह ॥ ५६॥ तत्र गत्वा जगद्धात्रीं भक्ताभीष्टप्रदायिनीम् । आराधयामास मुनिर्जपपाठपरायणः ॥ ५७॥ ततः समाप्ते नियमे वागुवाचाशरीरिणी । प्रसन्ताहं मुने कार्यसिद्धिस्तव भविष्यति ॥ ५८॥ भूभारहरणार्थाय मया सम्मेरितो हरिः । वसुदेवस्य देवक्यां स्वांशेनावतरिष्यति ॥ ५९॥ कंसभीत्या तमादाय बालमानकदुन्दुभिः । प्रापयिष्यति सद्यस्तु गोकुले नन्दवेश्मनि ॥ ६०॥ यशोदातनयां नीत्वा स्वगृहे कंसभूभुजे । दास्यत्यथ च तां हन्तुं कंस आक्षेक्यति क्षितौ ॥ ६१॥ सा तद्धस्ताद् विनिर्गत्य सद्यो दिव्यवपुर्धरा । मदंशभूता विन्ध्याद्रौ करिष्यति जगद्धितम् ॥ ६२॥ इति तद्वचनं श्रुत्वा प्रणम्य जगदम्बिकाम् । गर्गो मुनिः प्रसन्नात्मा मथुरामागमत् पुरीम् ॥ ६३॥ वरदानं महादेव्या गर्गाचार्यमुखादहम् । श्रुत्वा सभार्यः सम्प्रीतः परां मुदमथागमम् ॥ ६४॥ तदारभ्य परं जाने देवीमाहात्म्यमुत्तमम् । अधुनापि हि देवर्षे श्रुतं तव मुखाम्बुजात् ॥ ६५॥ अतो भागवतं देव्यास्त्वमेव श्रावय प्रभो । मद्भाग्यादेव देवर्षे सश्रान्तोऽसि दयानिधे ॥ ६६॥ वसुदेववचः श्रुत्वा नारदः प्रीतमानसः । सुदिने शुभनक्षत्रे कथारम्भमथाकरोत् ॥ ६७॥ कथाविघ्नविघातार्थं द्विजा जेपुर्नवाक्षरम् । मार्कण्डेयपुराणोक्तं पेठुर्देव्याः स्तवं तथा ॥ ६८॥ प्रथमस्कन्धमारभ्य श्रीनारदमुखोद्गतम् । शुश्राव वसुदेवश्च भक्त्या भागवतामृतम् ॥ ६९॥ नवमेऽह्नि कथापूर्तौ पुस्तकं वाचकं तथा । प्रसन्नः पूजयामास वसुदेवो महामनाः ॥ ७०॥ अथ तत्र बिलस्यान्तः कृष्णजाम्बवतोर्मृधे । कृष्णमुष्टिविनिष्पातश्लथाङ्गो जाम्बवानभूत् ॥ ७१॥ अथागतस्मृतिः सोऽपि भगवन्तं प्रणम्य च । उवाच परया भक्त्या स्वापराधं क्षमापयन् ॥ ७२॥ ज्ञातोऽसि रधुवर्यस्त्वं यद्रोषात् सरिताम्पतिः । क्षोभं जगाम लङ्का च रावणः सानुगो हतः ॥ ७३॥ स एवासि भवान्कृष्ण मद्दौराम्यं क्षमस्व भोः । ब्रूहि यत् करणीयं मे भृत्योऽहं तव सर्वथा ॥ ७४॥ श्रुत्वा जाम्बवतो वाचमब्रवीज्जगदीश्वरः । मणिहेतोरिह प्राप्ता वयमृक्षपते बिलम् ॥ ७५॥ ऋक्षराजस्ततः प्रीत्या कन्यां जाम्बवतीं निजाम् । ददौ कृष्णाय सम्पूज्य स्यमन्तकमणिं तथा ॥ ७६॥ स तां पत्नीं समादाय मणिं कण्ठे तथादधत् । अभिमन्त्र्यर्क्षराजञ्च प्रतस्थे द्वारकां प्रति ॥ ७७॥ कथासमाप्तिदिवसे वसुदेव उदारधीः । ब्राह्मणान् भोजयामास दक्षिणाभिरतोषयत् ॥ ७८॥ आशीर्वाचं प्रयुञ्जाना द्विजा यत्समये हरिः । आजगाम क्षणे तस्मिन् पत्न्या सह मणिं दधत् ॥ ७९॥ भार्यया सहितं कृष्णं वसुदेवपुरोगमाः । दृष्ट्वा हर्षाश्रुपूर्णाक्षाः समवापुः परां मुदम् ॥ ८०॥ देवर्षिर्नारदश्चाथ कृष्णागमनहर्षितः । आमन्त्र्य वसुदेवं च कृष्णं ब्रह्मसभां ययौ ॥ ८१॥ हरिचरितमिदं यत्कीर्तितं दुर्यशोघ्नं पतति विमलभक्त्या शुद्धचित्तः श‍ृणोति । स भवति सुखपूर्णः सर्वदा सिद्धकामो जगति च वपुषोऽन्ते मुक्तिमार्गं लभेच्च ॥ ८२॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये वसुदेवस्य देवीभागवतनवाह-श्रवणात्पुत्रप्राप्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ०.२॥

०.३ देवीभागवतमाहात्म्यम् । तृतीयोऽध्यायः । देवीभागवत-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनम् ।

सूत उवाच । अथेतिहासमन्यच्च श‍ृणुध्वं मुनिसत्तमाः । देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥ १॥ एकदा कुम्भयोनिस्तु लोपामुद्रापतिर्मुनिः । गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः ॥ २॥ स तस्मै भगवान् स्कन्दः कथयामास भूरिशः । दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः ॥ ३॥ वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा । गङ्गायाश्चापि तीर्थानां वर्णितं बहुविस्तरम् ॥ ४॥ श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् । पुनः पप्रच्छ लोकानां हितार्थं कुम्भसम्भवः ॥ ५॥ अगस्त्य उवाच । भगवंस्तारकाराते देवीभागवतस्य तु । माहात्म्यं श्रवणे तस्य विधिं चापि वद प्रभो ॥ ६॥ देवीभागवतं नाम पुराणं परमोत्तमम् । त्रैलोक्यजननी साक्षाद् गीयते यत्र शाश्वती ॥ ७॥ स्कन्द उवाच । श्रीभागवतमाहाम्य को वक्तुं विस्तरात् क्षमः । श‍ृणु सङ्क्षेपतो ब्रह्मन् कथयिष्यामि साम्प्रतम् ॥ ८॥ या नित्या सच्चिदानन्दरूपिणी जगदम्बिका । साक्षात् समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी ॥ ९॥ अतस्तद्वाङ्गमयी मूर्तिर्देवीभागवते मुने । पठनाच्छ्रवणाद्यस्य न किञ्चिदिह दुर्लभम् ॥ १०॥ आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः ॥ ११॥ होतारं प्रार्थयामास श्रद्धाथ दयिता मनोः । कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम् ॥ १२॥ मनसा चिन्तयन् होता कन्यामेवाजुहोद्धविः । ततस्तद्व्यभिचारेण कन्येला नाम चाभवत् ॥ १३॥ अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् । कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव ॥ १४॥ तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् । ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया ॥ १५॥ मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा । पश्यतां सर्वलोकानामिला पुरुषतामगात् ॥ १६॥ गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः । निधिर्बभूव विद्यानां सरितामिव सागरः ॥ १७॥ अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च । मृगयार्थं वनं यातो हयमारुह्य सैन्धवम् ॥ १८॥ वनाद् वनान्तरं गच्छन् बहु बभ्राम सानुगः । दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ ॥ १९॥ कस्मिंश्चित् समये यत्र भार्ययापर्णया सह । अरमद्देवदेवस्तु शङ्करो भगवान् मुदा ॥ २०॥ तदा तु मुनयस्तत्र शिवदर्शनलालसाः । आजग्मुरथ तान् दृष्ट्वा गिरिजा व्रीडिताभवत् ॥ २१॥ रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः । निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा ॥ २२॥ प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह । अद्यारभ्य विशेद्योऽत्र पुमान् योषिद् भवेदिति ॥ २३॥ तत आरभ्य तं देशं पुरुषा वर्जयन्ति हि । तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा ॥ २४॥ स्त्रीभूताननुगानश्वं वडवां वीक्ष्य विस्मितः । अथ सा सुन्दरी योषा विचचार वने वने ॥ २५॥ एकदा सा जगामाथ बुधस्याश्रमसन्निधौ । दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम् ॥ २६॥ बिम्बोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् । अनङ्गशरविद्धाङ्गश्चकमे भगवान् बुधः ॥ २७॥ सापि तं चकमे सुभ्रूः कुमारं सोमनन्दनम् । ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा ॥ २८॥ अथ कालेन कियता पुरूरवसमात्मजम् । स तस्यां जनयामास मित्रावरुणसम्भव ॥ २९॥ अथ वर्षेषु यातेषु कदाचित् सा बुधाश्रमे । स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह ॥ ३०॥ गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् । निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती ॥ ३१॥ वसिष्ठो ज्ञातवृत्तान्तो गत्वा कैलासपर्वतम् । सम्पूज्य शम्भुं तुष्टाव भक्त्या परमया युतः ॥ ३२॥ वसिष्ठ उवाच । नमो नमः शिवायास्तु शङ्कराय कपर्दिने । गिरिजार्धाङ्गदेहाय नमस्ते चन्द्रमौलये ॥ ३३॥ मृडाय सुखदात्रे ते नमः कैलासवासिने । नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने ॥ ३४॥ शिवाय शिवरूपाय प्रपन्नभयहारिणे । नमो वृषभवाहाय शरण्याय परात्मने ॥ ३५॥ ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च । नमो देवाधिदेवाय वरदाय पुरारये ॥ ३६॥ यज्ञरूपाय यजतां फलदात्रे नमो नमः । गङ्गाधराय सूर्येन्दुशिखिनेत्राय ते नमः ॥ ३७॥ एवं स्तुतः स भगवान् प्रादुरासीज्जगत्पतिः । वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः ॥ ३८ रजताचलसङ्काशस्त्रिनेत्रश्चन्द्रशेखरः । प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम् ॥ ३९॥ श्रीभगवानुवाच । वरं वरय विप्रर्षे यत्ते मनसि वर्तते । इत्युक्तस्तं प्रणम्येलापुंस्त्वमभ्यर्थयन्मुनिः ॥ ४०॥ अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् । मासं पुमान् स भविता मासं नारी भविष्यति ॥ ४१॥ इति प्राप्य वरं शम्भोर्महर्षिर्जगदम्बिकाम् । वरदानोन्मुखी देवीं प्रणनाम महेश्वरीम् ॥ ४२॥ कोटिचन्द्रकलाकान्तिं सुस्मितां परिपूज्य च । तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ॥ ४३॥ जय देवि महादेवि भक्तानुग्रहकारिणि । जय सर्वसुराराध्ये जयानन्तगुणालये ॥ ४४॥ नमो नमस्ते देवेशि शरणागतवत्सले । जय दुर्गे दुःखहन्त्रि दुष्टदैत्यनिषूदिनि ॥ ४५॥ भक्तिगम्ये महामाये नमस्ते जगदम्बिके । संसारसागरोत्तारपोतीभूतपदाम्बुजे ॥ ४६॥ ब्रह्मादयोऽपि विबुधास्त्वत्पादाम्बुजसेवया । विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः ॥ ४७॥ प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि । कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्थहम् ॥ ४८॥ एवं स्तुता भगवती दुर्गा नारायणी परा । भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत् ॥ ४९॥ तदोवाच महादेवी प्रणतार्तिहरी मुनिम् । सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम् ॥ ५०॥ सुद्युनं श्रावय प्रीत्या पुराण मत्प्रियङ्करम् । देवीभागवतं नाम नवाहोभिर्द्विजोत्तम ॥ ५१॥ श्रवणादेव सततं पुंस्त्वमस्य भविष्यति । इत्युक्त्या च तिरोधानं गच्छतः स्म शिवेश्वरौ ॥ ५२॥ वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् । समाहूय च सुद्युम्नं देव्याराधनमादिशत् ॥ ५३॥ आश्विनस्य सिते पक्षे सम्पूज्य जगदम्बिकाम् । नवरात्रविधानेन श्रावयामास भूपतिम् ॥ ५४॥ श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् । प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरन्तरम् ॥ ५५॥ राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा । भुवं शशास धर्मेण प्रजाश्चैवानुरञ्जयन् ॥ ५६॥ ईजे च विविधैर्यज्ञैः सम्पूर्णवरदक्षिणैः । पुत्रेषु राज्यं सन्दिश्य प्राप देव्याः सलोकताम् ॥ ५७॥ इति कथितमशेषं सेतिहासं च विप्रा यदि पठति सुभक्त्या मानवो वा श‍ृणोति । स इह सकलकामान् प्राप्य देव्याः प्रसादात् परममृतमथान्ते याति देव्याः सलोकम् ॥ ५८॥ इति श्रीस्कन्दयुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवत-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ०.३॥

०.४ देवीभागवतमाहात्म्यम् । चतुर्थोऽध्यायः । रैवतनामकमनुपुत्रोत्पत्तिवर्णनम् ।

सूत उवाच । इति श्रुत्वा कथां दिव्यां विचित्रां कुम्भसम्भवः । शुश्रूषुः पुनराहेदं विशाखं विनयान्वितः ॥ १॥ अगस्त्य उवाच । देवसेनापते देव विचित्रेयं श्रुता कथा । पुनरन्यज्ज माहात्म्यं वद भागवतस्य मे ॥ २॥ स्कन्द उवाच । मित्रावरुणसम्भूत मुने श‍ृणु कथामिमाम् । यत्रैकदेशमहिमा प्रोक्तो भागवतस्य तु ॥ ३॥ वर्ण्यते धर्मविस्तारो गायत्रीमधिकृत्य च । गायत्र्या महिमा यत्र तद् भागवतमिष्यते ॥ ४॥ भगवत्या इदं यस्मात्तस्मात् भागवतं विदुः । ब्रह्मविष्णुशिवाराध्या परा भगवती हि सा ॥ ५॥ ऋतवागिति विख्यातो मुनिरासीन्महामतिः । तस्यपुत्रोऽभवत्काले गण्डान्ते पौष्णभान्तिमे ॥ ६॥ स तस्य जातकर्मादिक्रियाश्चक्रे यथाविधि । चूडोपनयनादींश्च संस्कारानपि सोऽकरोत् ॥ ७॥ यत आरभ्य जातोऽसौ पुत्रस्तस्य महात्मनः । तत एवाथ स मुनिः शोकरोगाकुलोऽभवत् ॥ ८॥ रोषलोभपरीतात्मा तथा मातापि तस्य च । बहुरोगार्दिता नित्यं शुचा दुःखीकृता भृशम् ॥ ९॥ ऋतवाक् स मुनिश्चिन्तामवाप भृशदुःखितः । किमेतत् कारणं जातं पुत्रो मेऽत्यन्तदुर्मतिः ॥ १०॥ कस्यचिन्मुनिपुत्रस्य बलात् पत्नीं जहार च । मेने शिक्षां पितुर्नासौ न च मातुर्विमूढधीः ॥ ११॥ ततो विषण्णचित्तस्तु ऋतवागब्रवीदिदम् । अपुत्रता वरं नृणां न कदाचित् कुपुत्रता ॥ १२॥ पितॄन् कुपुत्रः स्वर्यातान्निरये पातयत्यपि । यावज्जीवेत् सदा पित्रोः केवलं दुःखदायकः ॥ १३॥ पित्रोर्दुःखाय धिग्जन्म कुपुत्रस्य च पापिनः । सुहृदां नोपकाराय नापकाराय वैरिणाम् ॥ १४॥ धन्यास्ते मानवा लोके सुपुत्रो यद्गृहे स्थितः । परोपकारशीलश्च पितुर्मातुः सुखावहः ॥ १५॥ कुपुत्रेण कुलं नष्टं कुपुत्रेण हतं यशः । कुपुत्रेणेह चामुत्र दुःखं निरययातनाः ॥ १६॥ कुपुत्रेणान्वयो नष्टो जन्म नष्टं कुभार्यया । कुभोजनेन दिवसः कुमित्रेण सुखं कुतः ॥ १७॥ स्कन्द उवाच । एवं दुष्टस्य पुत्रस्य दुष्टैराचरणैर्मुनि । तप्यमानोऽनिशं काले गत्वा गर्गमपृच्छत ॥ १८॥ ऋतवागुवाच । भगवंस्त्वामहं प्रष्टुमिच्छामि वद तत् प्रभो । ज्योतिश्शास्वस्य चाचार्य पुत्रदौःशील्यकारणम् ॥ १९॥ गुरुशुश्रूषया वेदा अधीता विधिवन्मया । ब्रह्मचारिव्रतं तीर्त्वा विवाहो विधिवत् कृतः ॥ २०॥ भार्यया सह गार्हस्थ्यधर्मश्चानुष्ठितोऽनिशम् । पञ्चयज्ञविधानं च मयाकारि यथाविधि ॥ २१॥ नरकाद् बिभ्यता विप्र न तु कामसुखेच्छया । गर्भाधानं च विधिवत् पुत्रप्राप्त्यै मया कृतम् ॥ २२॥ पुत्रोऽयं मम दोषेण मातुर्दोषेण वा मुने । जातो दुःखावहः पित्रोर्दुःशीलो बन्धुशोकदः ॥ २३॥ एतन्निशम्य वचनं गर्गाचार्यो मुनेस्तदा । विचार्य सर्वं तद्धेतुं ज्योतिर्विद्वाचमब्रवीत् ॥ २४॥ गर्ग उवाच । मुने नैवापराधस्ते न मातुर्न कुलस्य च । रेवत्यन्तं तु गण्डान्तं पुत्रदौःशील्यकारणम् ॥ २५॥ दुष्टे काले यतो जन्म पुत्रस्य तव भो मुने । तेनैव तव दुःखाय नान्यो हेतुर्मनागपि ॥ २६॥ तद्दुःखशान्तये ब्रह्मञ्जगतां मातरं शिवाम् । समाराधय यत्नेन दुर्गां दुर्गतिनाशिनीम् ॥ २७॥ गर्गस्य वचनं श्रुत्वा ऋतवाक् क्रोधमूर्च्छितः । रेवतीं तु शशापासौ व्योम्नः पततु रेवती ॥ २८॥ दत्ते शापे तु तेनाथ पूष्णो भञ्ज पपात खात् । कुमुदाद्रौ भासमानं सर्वलोकस्य पश्यतः ॥ २९॥ ख्यातो रैवतकश्चाभूत्तत्पातात् कुमुदाचलः । अतीव रमणीयश्च ततः प्रभृति सोऽप्यभूत् ॥ ३०॥ दत्त्वा शापं च रेवत्यै गर्गोक्तविधिना मुनिः । समाराध्याम्बिकां देवीं सुखसौभाग्यभागभूत् ॥ ३१॥ स्कन्द उवाच । रेवत्यृक्षस्य यत् तेजस्तस्माज्जाता तु कन्यका । रूपेणाप्रतिमा लोके द्वितीया श्रीरिवाभवत् ॥ ३२॥ अथ तां प्रमुचः कन्यां रेवतीकान्तिसम्भवाम् । दृष्ट्वा नाम चकारास्या रेवतीति मुदा मुनिः ॥ ३३॥ निन्येऽथ स्वाश्रमे चैनां पोषयामास धर्मतः । ब्रह्मर्षिः प्रमुचो नाम कुमुदाद्रौ सुतामिव ॥ ३४॥ अथ कालेन च प्रौढां दृष्ट्वा तां रूपशालिनीम् । स मुनिश्चिन्तयामास कोऽस्या योग्यो वरो भवेत् ॥ ३५॥ बहुधान्वेषयस्तस्या नाससादोचितं पतिम् । ततोऽग्निशालां संविश्य मुनिस्तुष्टाव पावकम् ॥ ३६॥ कन्यावरं तदाशंसत्प्रीतस्तमपि हव्यवाट् । धर्मिष्ठो बलवान् वीरः प्रियवागपराजितः ॥ ३७॥ दुर्दमो भविता भर्ता मुनेऽस्याः पृथिवीपतिः । इति श्रुत्वा वचो वह्नेः प्रसन्नोऽभून्मुनिस्तदा ॥ ३८॥ दैवादाखेटकव्याजात् तत्क्षणादागतो नृपः । दुर्दमो नाम मेधावी तस्याश्रमपदं मुनेः ॥ ३९॥ पुत्रो विक्रमशीलस्य बलवान् वीर्यवत्तरः । कालिन्दीजठरे जातः प्रियव्रतकुलोद्भवः ॥ ४०॥ मुनेराश्रममाविश्य तमदृष्ट्वा महामुनिम् । आमन्त्र्य तां प्रिये चेति रेवतीं पृष्टवान् नृपः ॥ ४१॥ राजोवाच । महर्षिर्भगवानस्मादाश्रमात् क्व गतः प्रिये । तत्पादौ द्रष्टुमिच्छामि वद कल्याणि तत्त्वतः ॥ ४२॥ कन्योवाच । अग्निशालामुपगतो महाराज महामुनिः । निश्चक्रामाश्रमात् तूर्णं राजाप्याकर्ण्य तद्वचः ॥ ४३॥ अथाग्निशालाद्वारस्थं राजानं दुर्दमं मुनिः । राजलक्षणसंयुक्तमपश्यत् प्रश्रयानतम् ॥ ४४॥ प्रणनाम च तं राजा मुनिः शिष्यमुवाच ह । गौतमानीयतामर्घ्यमर्घ्ययोग्योऽस्ति भूपतिः ॥ ४५॥ आगतश्चिरकालेन जामातेति विशेषतः । इत्युक्त्यार्घ्यं ददौ तस्मै सोऽपि जग्राह चिन्तयन् ॥ ४६॥ मुनिरासनमासीनं गृहीतार्घ्यं च भूपतिम् । आशीर्भिरभिनन्द्याथ कुशलं चाप्यपृच्छत ॥ ४७॥ अपि ऽनामयं राजन् बले कोशे सुहृत्सु च । भृत्येऽमात्ये पुरे देशे तथात्मनि जनाधिप ॥ ४८॥ भार्यास्ति ते कुशलिनी यतः सात्रैव तिष्ठति । अतो न पृच्छाम्यस्यास्ते चान्यासां कुशलं वद ॥ ४९॥ राजोवाच । भगवंस्त्वत्प्रसादेन सर्वत्रानामयं मम । एतत् कुतूहलं ब्रह्मन् मद्भार्या कात्र विद्यते ॥ ५०॥ ऋषिरुवाच । रेवती नाम ते भार्या रूपेणाप्रतिमा भुवि । विद्यतेऽत्र कथं पत्नीं तां न वेत्सि महीपते ॥ ५१॥ राजोवाच । सुभद्राद्यास्तु या भार्या मम सन्ति गृहे विभो । जानामि तास्तु भगवन् नैव जानामि रेवतीम् ॥ ५२॥ ऋषिरुवाच । प्रियेति साम्प्रतं राजंस्त्वयोक्ता या महामते । सा विस्मृता क्षणादेव या ते श्लाध्यतमा प्रिया ॥ ५३॥ राजोवाच । त्वयोक्तं यन्मृषा तनो तथैवामन्त्रिता मया । मुने दुष्टो न मे भावः कोपं मा कर्तुमर्हसि ॥ ५४॥ ऋषिरुवाच । राजन्नुक्तं त्वया सत्यं न भावो दूषितस्तव । वह्निना प्रेरितेनेत्थं भवता व्याहृतं वचः ॥ ५५॥ अद्य पृष्टो मया वह्निः कोऽस्या भर्ता भविष्यति । तेनोक्तं दुर्दमो राजा भवितास्याः पतिर्धुवम् ॥ ५६॥ तदादत्स्व मया दत्तामिमां कन्यां महीपते । प्रियेत्यामन्त्रिता पूर्वं मा विचारं कुरुष्व भोः ॥ ५७॥ श्रुत्वैतत्सोऽभवत्तूष्णीं चिन्तयन् मुनिभाषितम् । वैवाहिकं विधिं तस्य मुनिः कर्तुं समुद्यतः ॥ ५८॥ अथोद्यतं विवाहाय दृष्ट्वा कन्याब्रवीन्मुनिम् । रेवत्यृक्षे विवाहो मे तात कर्तुं त्वमर्हसि ॥ ५९॥ ऋषिरुवाच । वत्से विवाहयोग्यानि सन्त्यन्यर्क्षाणि भूरिशः । रेवत्यां कथमुद्वाहः पौष्णभं न दिवि स्थितम् ॥ ६०॥ कन्योवाच । रेवत्यृक्षं विना कालो ममोद्वाहोचितो न हि । अतः सम्प्रार्थयाम्येतद्विवाहं पौष्णभे कुरु ॥ ६१॥ ऋषिरुवाच । ऋतवाङ्मुनिना पूर्वं रेवतीभं निपातितम् । भान्तरे चेन्न ते प्रीतिर्विवाहः स्यात् कथं तव ॥ ६२॥ कन्योवाच । तपः किं तप्तवानेक ऋतवागेव केवलम् । भवता किं तपो नेदृक् तप्तं वाल्कायमानसैः ॥ ६३॥ जगत्स्रष्टुं समर्थस्त्वं वेद्म्यहं ते तपोबलम् । रेवत्यृक्षं दिवि स्थाप्य ममोद्वाहं पितः कुरु ॥ ६४॥ ऋषिरुवाच । एवं भवतु भद्रं ते यथैव त्वं ब्रवीषि माम् । त्वत्कृते सोममार्गेऽहं स्थापयाम्यद्य पौष्णभम् ॥ ६५॥ स्कन्द उवाच । एवमुक्त्वा मुनिस्तूर्णं पौष्णभं स्वतपोबलात् । यथापूर्वं तथा चक्रे सोममार्गे घटोद्भव ॥ ६६॥ रेवतीनाम्नि नक्षत्रे विवाहविधिना मुनिः । रेवतीं प्रददौ राज्ञे दुर्दमाय महात्मने ॥ ६७॥ कृत्वा विवाहं कन्याया मुनी राजानमब्रवीत् । किं ऽभिलषितं वीर वद तत्पूरयाम्यहम् ॥ ६८॥ राजोवाच । मनोः स्वायम्भुवस्याहं वंशे जातोऽस्मि हे मुने । मन्वन्तराधिपं पुत्रं त्वत्प्रसादाच्च कामये ॥ ६९॥ मुनिरुवाच । यद्येषा कामना तेऽस्ति देव्या आराधनं कुरु । भविष्यत्येव ते पुत्रो मनुर्मन्वन्तराधिपः ॥ ७०॥ देवीभागवतं नाम पुराणं यत्तु पञ्चमम् । पञ्चकृत्वस्तु तच्छ्रुत्वा लप्स्यसेऽभिमतं सुतम् ॥ ७१॥ रेवत्यां रैवतो नाम पञ्चमो भविता मनुः । वेदविच्छास्त्रतत्त्वज्ञो धर्मवानपराजितः ॥ ७२॥ इत्युक्तो मुनिना राजा प्रणम्य मुदितो मुनिम् । भार्यया सह मेधावी जगाम नगरं निजम् ॥ ७३॥ पितृपैतामहं राज्यं चकार स महामतिः । पालयामास धर्मात्मा प्रजाः पुत्रानिवौरसान् ॥ ७४॥ एकदा लोमशो नाम महात्मा मुनिरागतः । प्रणिपत्य तमभ्यर्च्य प्राञ्जलिश्चाब्रवीन्नृपः ॥ ७५॥ राजोवाच । भगवंस्त्वत्प्रसादेन श्रोतुमिच्छामि भो मुने । देवीभागवतं नाम पुराणं पुत्रलिप्सया ॥ ७६॥ श्रुत्वा वाचं प्रजाभर्तुः प्रीतः प्रोवाच लोमशः । धन्योऽसि राजंस्ते भक्तिर्जाता त्रैलोक्यमातरि ॥ ७७॥ सुरासुरनराराध्या या परा जगदम्बिका । तस्यां चेद्भक्तिरुत्पन्ना कार्यसिद्धिर्भविष्यति ॥ ७८॥ अतस्त्वां श्रावयिष्यामि श्रीमद्भागवतं नृप । यस्य श्रवणमात्रेण न किञ्चिदपि दुर्लभम् ॥ ७९॥ इत्युक्त्या सुदिने ब्रह्मन् कथारम्भमथाकरोत् । पञ्चकृत्वः स शुश्राव विधिवद्भार्यया सह ॥ ८०॥ समाप्तिदिवसे राजा पुराणञ्च मुनिं तथा । पूजयामास धर्मात्मा मुदा परमया युतः ॥ ८१॥ हुत्वा नवार्णमन्त्रेण भोजयित्वा कुमारिकाः । वाडवांश्च सपत्नीकान्दक्षिणाभिरतोषयत् ॥ ८२॥ अथ कालेन कियता भगवत्याः प्रसादतः । गर्भं दधार सा राज्ञी लोककल्याणकारकम् ॥ ८३ पुण्येऽथ समये प्राप्ते ग्रहैः सुस्थानसङ्गतैः । सर्वमङ्गलसम्पन्ने रेवती सुषुवे सुतम् ॥ ८४ श्रुत्वा पुत्रस्य जननं स्नात्वा राजा मुदान्वितः । स सुवर्णाम्भसा चक्रे जातकर्मादिकाः क्रियाः ॥ ८५ यथाविधि च दानानि दत्त्वा विप्रानतोषयत् । कृतोपनयनं राजा साङ्गान्वेदानपाठयत् ॥ ८६॥ सर्वविद्यानिधिर्जातो धर्मिष्ठोऽस्त्रविदां वरः । धर्मस्य वक्ता कर्ता च रैवतो नाम वीर्यवान् ॥ ८७॥ नियुक्तवानथ ब्रह्मा रैवतं मानवे पदे । मन्वन्तराधिपः श्रीमान् गां शशास स धर्मतः ॥ ८८॥ इत्थं देव्याः प्रभावोऽयं सङ्क्षेपेणोपवर्णितः । पुराणस्य च माहात्म्यं को वक्तुं विस्तरात्क्षमः ॥ ८९॥ सूत उवाच । कुम्भयोनिस्तु माहात्म्यं विधिं भागवतस्य च । श्रुत्वा कुमारं चाभ्यर्च्य स्वाश्रमं पुनराययौ ॥ ९०॥ इदं मया भागवतस्य विप्रा माहाम्यमुक्तं भवतां समक्षम् । श‍ृणोति भक्त्या पठतीह भोगान् भुक्त्याखिलान्मुक्तिमुपैति चान्ते ॥ ९१॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये रैवतनामकमनुपुत्रोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ ०.४॥

०.५ देवीभागवतमाहात्म्यम् । पञ्चमोऽध्यायः । देवीभागवत-श्रवणविधिवर्णनम् ।

ऋषय ऊचुः । सूत सूत महाभाग श्रुतं माहात्म्यमुत्तमम् । अधुना श्रोतुमिच्छामः पुराणश्रवणे विधिम् ॥ १॥ सूत उवाच । श्रूयतां मुनयः सर्वे पुराणश्रवणे विधिम् । नराणां श‍ृण्वतां येन सिद्धिः स्यात्सार्वकामिकी ॥ २॥ आदौ दैवज्ञमाहूय मुहूर्तं कल्पयेत्सुधीः । आरभ्य शुचिमास तु मासषट्कं शुभावहम् ॥ ३॥ हस्ताश्विमूलपुष्यर्क्षे ब्रह्ममैत्रेन्दुवैष्णवे । सत्तिथौ शुभवारे च पुराणश्रवणं शुभम् ॥ ४॥ गुरुभाद्वेदवेदाब्जशराङ्गाब्धिगुणैः क्रमात् । धर्माप्तिरिन्दिराप्राप्तिः कथासिद्धिः परं सुखम् ॥ ५ पीडाथ भूपतिभयं ज्ञानप्राप्तिः क्रमात्फलम् । पुराणश्रवणे चक्रं शोधयेच्छिवभाषितम् ॥ ६ अथवा प्रीतये देव्या नवरात्रचतुष्टये । श‍ृणुयादन्यमासेऽपि तिथिवारर्क्षशोधिते ॥ ७ सम्भारं तादृशं कार्यं विवाहादौ च यादृशम् । नवाहयज्ञे चाप्यस्मिन्विधेयं यत्नतो बुधैः ॥ ८ सहाया बहवः कार्या दम्भलोभविवर्जिताः । चतुराश्च वदान्याश्च देवीभक्तिपरा नराः ॥ ९ प्रेष्या यत्नेन वार्तेयं देशे देशे जने जने । आगन्तव्यमिहावश्यं कथा देव्या भविष्यति ॥ १० सौराश्च गाणपत्याश्च शैवाः शाक्ताश्च वैष्णवाः । सर्वेषामपि सेव्येयं यतो देवाः सशक्तयः ॥ ११ श्रीमद्देवीभागवतपीयूषरसलोलुपैः । आगन्तव्यं विशेषेण कथार्थं प्रेमतत्परैः ॥ १२ ब्राह्मणाद्याश्च ये वर्णाः स्त्रियश्चाश्रमिणस्तथा । सकामाश्चापि निष्कामाः पातव्यं तैः कथामृतम् ॥ १३ नावकाशः कदाचित्स्यान्नवाहश्रवणेऽपि तैः । आगन्तव्यं यथाकालं यज्ञे पुण्या क्षणस्थितिः ॥ १४॥ विनयेनैव कर्तव्यमेवमाकारणं नृणाम् । आगतानाञ्च कर्तव्यं वासस्थानं यथोचितम् ॥ १५॥ कथास्थानं प्रकर्तव्यं भूमौ मार्जनपूर्वकम् । लेपनं गोमयेनाथ विशालायां मनोरमम् ॥ १६॥ कार्यस्तु मण्डपो रम्यो रम्भास्तम्भोपशोभितः । वितानमुपरिष्ठात्तु पताकाध्वजराजितः ॥ १७॥ वक्तुश्चैवासनं दिव्यं सुखास्तरणसंयुतम् । रचितव्यं प्रयत्नेन प्राङ्मुखं वाप्युदङ्मुखम् ॥ १८॥ यथोचितानि कुर्वीत श्रोतॄणामासनानि च । नृणां चैवाथ नारीणां कथाश्रवणहेतवे ॥ १९॥ वाग्मी दान्तश्च शास्त्रज्ञो देव्याराधनतत्परः । दयालुर्निस्पृहो दक्षो धीरो वक्तोत्तमो मतः ॥ २०॥ ब्रह्मण्यो देवताभक्तः कथारसपरायणः । उदारोऽलोलुपो नम्रः श्रोता हिंसादिवर्जितः ॥ २१॥ पाखण्डनिरतो लुब्धः स्त्रैणो धर्मध्वजस्तथा । निष्ठुरः क्रोधनो वक्ता देवीयज्ञे न शस्यते ॥ २२॥ संशयच्छेदनायैकः पण्डितश्च तथागुणः । श्रोतृबोधकृदव्यग्रः कार्यो वक्तुः सहायकृत् ॥ २३॥ मुहूर्तदिवसादर्वाग्वक्तृश्रोत्रादिभिर्जनैः । कर्तव्यं क्षौरकर्मादि ततो नियमकल्पनम् ॥ २४॥ अरुणोदयवेलायां स्नायाच्छौचं विधाय च । सस्थातर्पणकार्यञ्च नित्यं सङ्क्षेपतश्चरेत् ॥ २५॥ कथाश्रवणयोग्यत्वसिद्धये गाश्च दापयेत् । समस्तविघ्नहर्तारमादौ गणपतिं यजेत् ॥ २६॥ कलशांश्चापि संस्थाप्य पूजयेत्तत्र दिग्भवान् । वटुकं क्षेत्रपालञ्च योगिनीर्मातृकास्तथा ॥ २७॥ तुलसीञ्चापि सम्पूज्य ग्रहान्विष्णञ्च शङ्करम् । नवाक्षरेण मनुना पूजयेज्जगदम्बिकाम् ॥ २८॥ सर्वोपचारैः सम्पूज्य श्रीभागवतपुस्तकम् । श्रीदेव्या वाङ्मयी मूर्तिं यथावच्छोभनाक्षरम् ॥ २९॥ कथाविघ्नोपशान्त्यर्थं वृणुयात्पञ्च वाडवान् । जाप्यो नवार्णमन्त्रस्तैः पाठ्यः सप्तशतीस्तवः ॥ ३०॥ प्रदक्षिणनमस्कारान्कृत्वान्ते स्तुतिमाचरेत् । कात्यायनि महामाये भवानि भुवनेश्वरि ॥ ३१॥ संसारसागरे मग्नं मामुद्धर कृपामये । ब्रह्मविष्णुशिवाराध्ये प्रसीद जगदम्बिके ॥ ३२॥ मनोऽभिलषितं देवि वरं देहि नमोऽस्तु ते । इति सम्प्रार्थ्य श‍ृणुयात्कथां नियतमानसः ॥ ३३॥ वक्तारञ्चापि सम्पूज्य व्यासबुध्या यतात्मवान् । माल्यालङ्कारवस्त्राद्यैः सम्भूष्य प्रार्थयेच्च तम् ॥ ३४॥ सर्वशास्त्रेतिहासज्ञ व्यासरूप नमोऽस्तु ते । कथाचन्द्रोदयेनान्तस्तमःस्तोमं निराकुरु ॥ ३५॥ तदग्रे तु नवाहान्तं कर्तव्या नियमास्तदा । विप्रादीनुपवेश्यादौ सम्पूज्योपविशेत्स्वयम् ॥ ३६॥ श्रोतव्यं सावधानेन चतुर्वर्गफलाप्तये । गृहपुत्रकलत्राप्तधनचिन्तामपास्य च ॥ ३७॥ सूर्योदयं समारभ्य किञ्चित्सूर्येऽवशेषिते । मुहूर्तमात्रं विश्रम्य मध्याह्ने वाचयेत्सुधीः ॥ ३८॥ मलमूत्रजयायैषां लघु भोजनमिष्यते । हविष्यान्नं वरं भोज्यं सकृदेव कथार्थिना ॥ ३९॥ अथवा स्यात्फलाहारी पयोभुग्वा धृताशनः । यथा स्यान्न कथाविघ्नस्तथा कार्यं विचक्षणैः ॥ ४०॥ कथाश्रवणनिष्ठानां वक्ष्यामि नियमं द्विजाः । ब्रह्मविष्णुमहेशानां मध्ये ये भेददर्शिनः ॥ ४१॥ देवीभक्तिविहीना ये पाखण्डा हिंसकाः खलाः । विप्रदुहो नास्तिका ये न ते योग्याः कथाश्रवे ॥ ४२॥ ब्रह्मस्वहरणे लुब्धाः परदारधनेषु च । देवस्वहरणे तेषां नाधिकारः कथाश्रवे ॥ ४३॥ ब्रह्मचारी च भूशायी सत्यवक्ता जितेन्द्रियः । कथासमाप्तौ भुञ्जीत पत्रावल्यां यतात्मवान् ॥ ४४॥ वृन्ताकञ्च कलिन्दञ्च तैलञ्च द्विदलं मधु । दग्धमन्नं पर्युषितं भावदुष्टं त्यजेद् व्रती ॥ ४५॥ आमिषञ्च मसूरान्नमुदक्यादृष्टमेव च । रसोनं मूलकं हिङ्गुं पलाण्डुं गृञ्जनं तथा ॥ ४६॥ कूष्माण्डं नलिकाशाकं न भुञ्जीत कथाव्रती । कामं क्रोधं मदं लोभं दम्भ मानञ्च वर्जयेत् ॥ ४७॥ विप्रध्रुक्पतितव्रात्यश्वपाकयवनान्त्यजैः । उदक्यया वेदबाह्यैर्न वदेद्यः कथाव्रती ॥ ४८॥ वेदगोगुरुविप्राणां स्त्रीराज्ञां महतां तथा । देवानां देवभक्तानां न निन्दां श‍ृणुयादपि ॥ ४९॥ विनयं चार्जवं शौचं दयां च मितभाषणम् । उदारं मानसञ्चैव कुर्याद्यस्तु कथावती ॥ ५०॥ श्वित्री कुष्ठी क्षयी रुग्णो भाग्यहीनश्च पापकृत् । दरिद्रश्चानपत्यश्च भक्त्येमां श‍ृणयात्कथाम् ॥ ५१॥ वन्ध्या वा काकवन्ध्या वा दुर्भगा वा मृतार्भका । पतद्गर्भाङ्गना या च ताभिः श्राव्या तथा कथा ॥ ५२॥ धर्मार्थकाममोक्षांश्च यो वाच्छति विना श्रमम् । भगवत्या भागवतं श्रोतव्यं तेन यत्नतः ॥ ५३॥ कथादिनानि चैतानि नवयज्ञैः समानि हि । तेषु दत्तं हुतं जप्तमनन्तफलदं भवेत् ॥ ५४॥ एवं व्रतं नवाहं तु कृत्वोद्यापनमाचरेत् । महाष्टमीव्रतं यद्वत्तथा कार्यं फलेप्सुभिः ॥ ५५॥ निष्कामाः श्रवणेनैव पूता मुक्तिं व्रजन्ति हि । भोगमोक्षप्रदा नॄणां यतो भगवती परा ॥ ५६॥ पुस्तकस्य च वक्तुश्च पूजा कार्या तु नित्यशः । वक्त्रा दत्तं प्रसादं तु गह्णीयाद्भक्तिपूर्वकम् ॥ ५७॥ कुमारीः पूजयेन्नित्यं भोजयेत्पार्थयेच्च यः । सुवासिनीश्च विप्रांश्च तस्य सिद्धिर्न संशयः ॥ ५८॥ गायत्र्या नाम साहस्रं समाप्तावथ वा पठेत् । विष्णोर्नामसहस्रञ्च सर्वदोषोपशान्तये ॥ ५९॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति तस्माद्विष्णुञ्च कीर्तयेत् ॥ ६०॥ देव्याः सप्तशतीमन्त्रैः समाप्तौ होममाचरेत् । देवीमाहात्म्यमूलेन नवार्णमनुनाथवा ॥ ६१॥ गायत्र्या त्वथवा होमः पायसेन ससर्पिषा । यतो भागवतं त्वेतद् गायत्रीमयमीरितम् ॥ ६२॥ वाचकं तोषयेत्सम्यग्वस्त्रभूषाधनादिभिः । प्रसन्ने वाचके सर्वाः प्रसनास्तस्य देवताः ॥ ६३॥ ब्राह्मणान्भोजयेद्भक्त्या दक्षिणाभिश्च तोषयेत् । पृथिव्यां देवरूपास्ते तुष्टेष्वेष्वीप्सितं फलम् ॥ ६४॥ सुवासिनीः कुमारीश्च देवीभक्त्या च भोजयेत् । ताभ्योऽपि दक्षिणां दत्त्वा प्रार्थयेत्सिद्धिमात्मनः ॥ ६५॥ दद्याद्दानानि चान्यानि सुवर्णं गाः पयस्विनीः । हयानिभान्मेदिनीञ्च तस्य स्यादक्षयं फलम् ॥ ६६॥ देवीभागवतं चैतल्लिखितं शोभनाक्षरम् । हेमसिंहासने स्थाप्य पट्टवस्त्रेण वेष्टितम् ॥ ६७॥ अष्टम्यां वा नवम्याञ्च वाचकायार्चिताय च । दद्यात्स भोगान्भुक्त्वेह दुर्लभं मोक्षमाप्नुयात् ॥ ६८॥ दरिद्रो दुर्बलो बालस्तरुणो जरठोऽपि वा । पुराणवेत्ता वन्द्यः स्यात्पूज्यो मान्यश्च सर्वदा ॥ ६९॥ सन्ति लोकस्य बहवो गुरवो गुणजन्मतः । सर्वेषामपि तेषाञ्च पुराणज्ञः परो गुरुः ॥ ७०॥ पौराणिको ब्राह्मणस्तु व्यासासनसमाश्रितः । आसमाप्ते प्रसङ्गे तु नमस्कुर्यान्न कस्यचित् ॥ ७१॥ पौराणिकीं कथां दिव्यां येऽपि श‍ृण्वन्त्यभक्तितः । तेषां पुण्यफलं नास्ति दुःखदारिद्र्यभागिनाम् ॥ ७२॥ असम्पूज्य पुराणं तु ताम्बूलकुसुमादिभिः । ये श‍ृण्वन्ति कथां देव्यास्ते दरिद्रा भवन्तिहि ॥ ७३॥ कीर्त्यमानां कथां त्यक्त्या ये व्रजन्त्यन्यतो नराः । भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ॥ ७४॥ ये च तुङ्गासनारूढाः कथां श‍ृण्वन्ति दाम्भिकाः । ते वायसा भवन्त्यत्र भुक्त्वा निरययातनाम् ॥ ७५॥ ये चाढ्यासनसंस्थाश्च ये वीरासनसंस्थिताः । श‍ृण्वन्ति च कथां दिव्यां ते स्युरर्जुनशाखिनः ॥ ७६॥ कथायां कीर्त्यमानायां ये वदन्ति दुरुत्तरम् । रासभास्ते भवन्तीह कृकलासास्ततः परम् ॥ ७७॥ निन्दन्ति ये पुराणज्ञान् कथां वा पापहारिणीम् । ते तु जन्मशतं दुष्टाः शुनकाः स्युर्न संशयः ॥ ७८॥ ये श‍ृण्वन्ति कथां वक्तुः समानासनसंस्थिताः । गुरुतल्पसमं पापं लभन्ते नरकालयाः ॥ ७९॥ ये चाप्रणम्य श‍ृण्वन्ति ते भवन्ति विषद्रुमाः । शयाना येऽपि श‍ृण्वन्ति भवन्त्यजगराहयः ॥ ८०॥ ये कदाचन पौराणीं न श‍ृण्वन्ति कथां नराः । ते घोरं नरकं भुक्त्या भवन्ति वनसूकराः ॥ ८१॥ ये कथां नानुमोदन्ते विघ्नं कुर्वन्ति ये शठाः । कोट्यब्दं निरयं भुक्त्वा भवन्ति ग्रामसूकराः ॥ ८२॥ आसनं भाजनं द्रव्यं फलं वस्वाणि कम्बलम् । पुराणज्ञाय यच्छन्ति ते व्रजन्ति हरेः पदम् ॥ ८३॥ पुराणपुस्तकस्यापि ये पट्टवसनं नवम् । प्रयच्छन्ति शुभं सूत्रं ते नराः सुखभागिनः ॥ ८४॥ पुराणानां तु सर्वेषां श्रवणाद्यत्फलं लभेत् । तस्माच्छतगुणं पुण्यं देवीभागवताल्लभेत् ॥ ८५॥ यथा सरित्सु प्रवरा गङ्गा देवेषु शङ्करः । काव्ये रामायणं यद्वज्ज्योतिष्मत्सु यथा रविः ॥ ८६॥ आह्लादकानां चन्द्रश्च धनानाञ्च यथा यशः । क्षमावतां यथा भूमिर्गाम्भीर्ये सागरो यथा ॥ ८७॥ मन्त्राणां चैव सावित्री पापनाशे हरिस्मृतिः । अष्टादशपुराणानां देवीभागवतं तथा ॥ ८८॥ येन केनाप्युपायेन नवकृत्व श‍ृणोति चेत् । न शक्यं तत्कलं वक्तुं जीवन्मुक्तः स एव हि ॥ ८९॥ राजशत्रुभये प्राप्ते महामारीभये तथा । दुर्भिक्षे राष्ट्रभङ्गे च तच्छान्त्यै श‍ृणयादिदम् ॥ ९०॥ भूतप्रेतविनाशाय राज्यलाभाय शत्रुतः । पुत्रलाभाय श‍ृणुयाद्देवीभागवतं द्विजाः ॥ ९१॥ श्रीमद्भागवतं यस्तु पठेद्वा श‍ृणुयादपि । श्लोकार्धं श्लोकपादं वा स याति परमां गतिम् ॥ ९२॥ भगवत्या स्वयं देव्या श्लोकार्धेन प्रकाशितम् । शिष्यप्रशिष्यद्वारेण तदेव विपुलीकृतम् ॥ ९३॥ न गायत्र्या परो धर्मो न गायत्र्याः परं तपः । न गायत्र्या समो देवो न गायत्र्याः परो मनुः ॥ ९४॥ गातारं त्रायते यस्माद् गायत्री तेन सोच्यते । सात्र भागवते देवी सरहस्या प्रतिष्ठिता ॥ ९५॥ अतो भागवतस्यास्य देव्याः प्रीतिकरस्य च । महान्त्यपि पुराणानि कलां नार्हन्ति षोडशीम् ॥ ९६॥ श्रीमद्भागवतं पुराणममलं यद्ब्राह्मणानां धनं धर्मो धर्मसुतेन यत्र गदितो नारायणेनामलः । गायत्र्याश्च रहस्यमत्र च मणिद्वीपश्च संवर्णितः श्रीदेव्या हिमभूभृते भगवती गीता च गीता स्वयम् ॥ ९७॥ तस्मान्नास्य पुराणस्य लोकेऽन्यत्सदृशं परम् । अतः सदैव संसेव्यं देवीभागवतं द्विजाः ॥ ९८॥ यस्याः प्रभावमखिलं न हि वेद धाता नो वा हरिर्न गिरिशो न हि चाप्यनन्तः । अंशांशका अपि च ते किमुतान्यदेवा- स्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ ९९॥ यत्पादपङ्कजरजः समवाप्य विश्वं ब्रह्मा सृजत्यनुदिनञ्च बिभर्ति विष्णुः । रुद्रश्च संहरति नेतरथा समर्था- स्तस्यै नमोऽस्तु सततं जगदम्बिकायै ॥ १००॥ सुधाकूपारान्तस्त्रिदशतरुवाटीविलसिते मणिद्वीपे चिन्तामणिमयगृहे चित्ररुचिरे । विराजन्तीमम्बां परशिवहृदि स्मेरवदनां नरो ध्यात्वा भोगं भजति खलु मोक्षञ्च लभते ॥ १०१॥ ब्रह्मेशाच्युतशक्राद्यैर्महर्षिभिरुपासिता । जगतां श्रेयसे सास्तु मणिद्वीपाधिदेवता ॥ १०२॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवत-श्रवणविधिवर्णनं नाम पञ्चमोऽध्यायः ॥ ०.५॥ ॥ समाप्तमिदं श्रीमद्देवीभागवतमाहात्म्यम् ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavatamahatmya Importance of Devi Bhagavatam from Skandapuranam
% File name             : devIbhAgavatam00.itx
% itxtitle              : devIbhAgavatamAhAtmyam (skandaurANantargatam)
% engtitle              : devIbhAgavatamAhAtmyam (skandaurANantargatam)
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Description/comments  : skandapurANe mAnasakhaNDe
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org