७ श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः

७ श्रीमद्देवीभागवतमहापुराणे सप्तमः स्कन्धः

७.१ प्रथमोऽध्यायः । दक्षप्रजापतिवर्णनम् ।

सूत उवाच - श्रुत्वैतां तापसाद्दिव्यां कथां राजा मुदान्वितः । व्यासं पप्रच्छ धर्मात्मा परीक्षितसुतः पुनः ॥ १॥ जनमेजय उवाच - स्वामिन् सूर्यान्वयानां च राज्ञां वंशस्य विस्तरम् । तथा सोमान्वयानां च श्रोतुकामोऽस्मि सर्वथा ॥ २॥ कथयानघ सर्वज्ञ कथां पापप्रणाशिनीम् । चरितं भूपतीनां च विस्तराद्वंशयोर्द्वयोः ॥ ३॥ ते हि सर्वे पराशक्तिभक्ता इति मया श्रुतम् । देवीभक्तस्य चरितं श‍ृण्वन्कोऽस्ति विरक्तिभाक् ॥ ४॥ इति राजर्षिणा पृष्टो व्यासः सत्यवतीसुतः । तमुवाच मुनिश्रेष्ठः प्रसन्नवदनो मुनिः ॥ ५॥ व्यास उवाच - निशामय महाराज विस्तराद्गदतो मम । सोमसूर्यान्वयानां च तथान्येषां समुद्भवम् ॥ ६॥ विष्णोर्नाभिसरोजाद्वै ब्रह्माभूच्चतुराननः । तपस्तप्त्वा समाराध्य महादेवीं सुदुर्गमाम् ॥ ७॥ तया दत्तवरो धाता जगत्कर्तुं समुद्यतः । नाशकन्मानुषीं सृष्टिं कर्तुं लोकपितामहः ॥ ८॥ विचिन्त्य बहुधा चित्ते सृष्ट्यर्थं चतुराननः । न विस्तारं जगामाशु रचितापि महात्मना ॥ ९॥ (ससर्ज मानसान्पुत्रान्सप्तसङ्ख्यान्प्रजापतिः) मरीचिरङ्गिरात्रिश्च वसिष्ठः पुलहः क्रतुः । पुलस्त्यश्चेति विख्याताः सप्तैते मानसाः सुताः ॥ १०॥ रुद्रो रोषात्समुत्पन्नोऽप्युत्सङ्गान्नारदोऽभवत् । दक्षोऽङ्गुष्ठात्तथान्येऽपि मानसाः सनकादयः ॥ ११॥ वामाङ्गुष्ठाद्दक्षपत्नी जाता सर्वाङ्गसुन्दरी । वीरिणी नाम विख्याता पुराणेषु महीपते ॥ १२॥ असिक्नीति च नाम्ना सा यस्यां जातोऽथ नारदः । देवर्षिप्रवरः कामं ब्रह्मणो मानसः सुतः ॥ १३॥ जनमेजय उवाच - अत्र मे संशयो ब्रह्मन् यदुक्तं भवता वचः । वीरिण्यां नारदो जातो दक्षादिति महातपाः ॥ १४॥ कथं दक्षस्य पत्न्यां तु वीरिण्यां नारदो मुनिः । जातो हि ब्रह्मणः पुत्रो धर्मज्ञस्तापसोत्तमः ॥ १५॥ विचित्रमिदमाख्यातं भवता नारदस्य च । दक्षाज्जन्मास्य भार्यायां तद्वदस्व सविस्तरम् ॥ १६॥ पूर्वदेहः कथं मुक्तः शापात्कस्य महामना । नारदेन बहुज्ञेन कस्माज्जन्म कृतं मुने ॥ १७॥ व्यास उवाच - ब्रह्मणासौ समादिष्टो दक्षः सृष्ट्यर्थमादितः । प्रजाः सृजेति सुभृशं वृद्धिहेतोः स्वयम्भुवा ॥ १८॥ ततः पञ्चसहस्रांश्च जनयामास वीर्यवान् । दक्षः प्रजापतिः पुत्रान् वीरिण्यां बलवत्तरान् ॥ १९॥ दृष्ट्वा तान्नारदः पुत्रान्सर्वान्वर्धयिषून्प्रजाः । उवाच प्रहसन्वाचं देवर्षिः कालनोदितः ॥ २०॥ भुवः प्रमाणमज्ञात्वा स्रष्टुकामाः प्रजाः कथम् । लोकानां हास्यतां यूयं गमिष्यथ न संशयः ॥ २१॥ पृथिव्या वै प्रमाणं तु ज्ञात्वा कार्यः समुद्यमः । कृत्तोऽसौ सिद्धिमायाति नान्यथेति विनिश्चयः ॥ २२॥ बालिशा बत यूयं वै यदज्ञात्वा भुवस्तलम् । समुद्यताः प्रजाः कर्तुं कथं सिद्धिर्भविष्यति ॥ २३॥ व्यास उवाच - नारदेनैवमुक्तास्ते हर्यश्वा दैवयोगतः । अन्योन्यमूचुः सहसा सम्यगाह मुनिः किल ॥ २४॥ ज्ञात्व प्रमाणमुर्व्यास्तु सुखं स्रक्ष्यामहे प्रजाः । इति सञ्चिन्त्य ते सर्वे प्रयाताः प्रेक्षितुं भुवः ॥ २५॥ तलं सर्वं परिज्ञातुं वचनान्नारदस्य च । प्राच्यां केचिद्गताः कामं दक्षिणस्यां तथापरे ॥ २६॥ प्रतीच्यामुत्तरस्यां तु कृतोत्साहाः समन्ततः । दक्षः पुत्रान्गतान्दृष्ट्वा पीडितस्तु शुचा भृशम् ॥ २७॥ अन्यानुत्पादयामास प्रजार्थं कृतनिश्चयः । तेऽपि तत्रोद्यताः कर्तुं प्रजार्थमुद्यमं सुताः ॥ २८॥ नारदः प्राह तान्दृष्ट्वा पूर्वं यद्वचनं मुनिः । बालिशा बत यूयं वै यदज्ञात्वा भुवः किल ॥ २९॥ प्रमाणं तु प्रजाः कर्तुं प्रवृत्ताः केन हेतुना । श्रुत्वा वाक्यं मुनेस्तेऽपि मत्वा सत्यं विमोहिताः ॥ ३०॥ जग्मुः सर्वे यथापूर्वं भ्रातरश्चलितास्तथा । तान्सुतान्प्रस्थितान्दृष्ट्वा दक्षः कोपसमवितः ॥ ३१॥ शशाप नारदं कोपात् पुत्रशोकसमुद्भवात् । दक्ष उवाच - नाशिता मे सुता यस्मात् तस्मान्नाशमवाप्नुहि ॥ ३२॥ पापेनानेन दुर्बुद्धे गर्भवासं व्रजेति च । पुत्रो मे भव कामं त्वं यतो मे भ्रंशिताः सुताः ॥ ३३॥ इति शप्तस्ततो जातो वीरिण्यां नारदो मुनिः । षष्टिर्भूयोऽसृजत्कन्या वीरिण्यामिति नः श्रुतम् ॥ ३४॥ शोकं विहाय पुत्राणां दक्षः परमधर्मवित् । तासां त्रयोदश प्रादात्कश्यपाय महात्मने ॥ ३५॥ दश धर्माय सोमाय सप्तविंशति भूपते । द्वे चैव भृगवे प्रादाच्चतस्रोऽरिष्टनेमिने ॥ ३६॥ द्वे चैवाङ्गिरसे कन्ये तथैवाङ्गिरसे पुनः । तासां पुत्राश्च पौत्राश्च देवाश्च दानवास्तथा ॥ ३७॥ जाता बलसमायुक्ताः परस्परविरोधकाः । रागद्वेषान्विताः सर्वे परस्परविरोधिनः । सर्वे मोहावृताः शूरा ह्यभवन्नतिमायिनः ॥ ३८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सोमसूर्यवंशवर्णने दक्षप्रजापतिवर्णनं नाम प्रथोमोऽध्यायः ॥ ७.१॥

७.२ द्वितीयोऽध्यायः । शर्यातिराजवर्णनम् ।

ममाख्याहि महाभाग राज्ञां वंशं सुविस्तरम् । सूर्यान्वयप्रसूतानां धर्मज्ञानां विशेषतः ॥ १॥ श‍ृणु भारत वक्ष्यामि रविवंशस्य विस्तरम् । यथा श्रुतं मया पूर्वं नारदादृषिसत्तमात् ॥ २॥ एकदा नारदः श्रीमान्सरस्वत्यास्तटे शुभे । आजगामाश्रमे पुण्ये विचरन्स्वेच्छया मुनिः ॥ ३॥ प्रणम्य शिरसा पादौ तस्याग्रे संस्थितस्तदा । ततस्तस्यासनं दत्त्वा कृत्वार्हणमथादरात् ॥ ४॥ विधिवत्पूजयित्वा तमुक्तवान्वचनं त्विदम् । पावितोऽहं मुनिश्रेष्ठ पूज्यस्यागमनेन वै ॥ ५॥ कथां कथय सर्वज्ञ राज्ञां चरितसंयुताम् । राजानो ये समाख्याताः सप्तमेऽस्मिन्मनोः कुले ॥ ६॥ तेषामुत्पत्तिरतुला चरितं परमाद्भुतम् । श्रोतुकामोऽस्म्यहं ब्रह्मन् सूर्यवंशस्य विस्तरम् ॥ ७॥ समाख्याहि मुनिश्रेष्ठ समासव्यासपूर्वकम् । इति पृष्टो मया राजन्नारदः परमार्थवित् ॥ ८॥ उवाच प्रहसन्प्रीतः समाभाष्य मुदान्वयम् । नारद उवाच - श‍ृणु सत्यवतीसूनो राज्ञां वंशमनुत्तमम् ॥ ९॥ पावनं कर्णसुखदं धर्मज्ञानादिभिर्युतम् । ब्रह्मा पूर्वं जगत्कर्ता नाभिपङ्कजसम्भवः ॥ १०॥ विष्णोरिति पुराणेषु प्रसिद्धः परिकीर्तितः । सर्वज्ञः सर्वकर्तासौ स्वयम्भूः सर्वशक्तिमान् ॥ ११॥ तपस्तप्त्वा स विश्वात्मा वर्षाणामयुतं पुरा । सृष्टिकामः शिवां ध्यात्वा प्राप्य शक्तिमनुत्तमाम् ॥ १२॥ पुत्रानुत्पदयामास मानसाञ्छुभलक्षणान् । मरीचिः प्रथिस्तेषामभवत्सृष्टिकर्मणि ॥ १३॥ तस्य पुत्रोऽतिविख्यातः कश्यपः सर्वसम्मतः । त्रयोदशैव तस्यासन्भार्या दक्षसुताः किल ॥ १४॥ देवाः सर्वे समुत्पन्ना दैत्या यक्षाश्च पन्नगाः । पशवः पक्षिणश्चैव तस्मात्सृष्टिस्तु काश्यपी ॥ १५॥ देवानां प्रथितः सूर्यो विवस्वान्नाम तस्य तु । तस्य पुत्रः स विख्यातो वैवस्वतमनुर्नृपः ॥ १६॥ तस्य पुत्रस्तथेक्ष्वाकुः सूर्यवंशविवर्धनः । नवाभवन्सुतास्तस्य मनोरिक्ष्वाकुपूर्वजाः ॥ १७॥ तेषां नामानि राजेन्द्र श‍ृणुष्वैकमनाः पुनः । इक्ष्वाकुरथ नाभागो धृष्टः शर्यातिरेव च ॥ १८॥ नरिष्यन्तस्तथा प्रांशुर्नृगो दिष्टश्च सप्तमः । करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ १९॥ इक्ष्वाकुस्तु मनोः पुत्रः प्रथमः समजायत । तस्य पुत्रशतं चासीज्ज्येष्ठो विकुक्षिरात्मवान् ॥ २०॥ नवानां वंशविस्तारं सङ्क्षेपेण निशामय । शूराणां मनुपुत्राणां मनोरन्तरजन्मनाम् ॥ २१॥ नाभागस्य तु पुत्रोऽभूदम्बरीषः प्रतापवान् । धर्मज्ञः सत्यसन्धश्च प्रजापालनतत्परः ॥ २२॥ धृष्टात्तु धार्ष्टकं क्षत्रं ब्रह्मभूतमजायत । सङ्ग्रामकातरं सम्यग्ब्रह्मकर्मरतं तथा ॥ २३॥ शर्यातेस्तनयश्चाभूदानर्तो नाम विश्रुतः । सुकन्या च तथा पुत्री रूपलावण्यसंयुता ॥ २४॥ च्यवनाय सुता दत्ता राज्ञाप्यन्धाय सुन्दरी । मुनिः सुलोचनो जातस्तस्याः शीलगुणेन ह ॥ २५॥ विहितो रविपुत्राभ्यामश्विभ्यामिति नः श्रुतम् । जनमेजय उवाच । सन्देहोऽयं महान् ब्रह्मन् कथायां कथितस्त्वया ॥ २६॥ यद्राजा मुनयेऽन्धाय दत्ता पुत्री सुलोचना । कुरूपा गुणहीना वा नारी लक्षणवर्जिता ॥ २७॥ पुत्री यदा भवेद्राजा तदान्धाय प्रयच्छति । ज्ञात्वान्धं सुमुखीं कस्माद्दत्तवान्नृपसत्तमः ॥ २८॥ कारणं ब्रूहि मे ब्रह्मन्ननुग्राह्योऽस्मि सर्वदा । सूत उवाच - इति राज्ञो वचः श्रुत्वा परीक्षितसुतस्य वै ॥ २९॥ द्वैपायनः प्रसन्नात्मा तमुवाच हसन्निव । व्यास उवाच - वैवस्वतसुतः श्रीमाञ्छर्यातिर्नाम पार्थिवः ॥ ३०॥ तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः । राजपुत्र्यः सरूपाश्च सर्वलक्षणसंयुताः ॥ ३१॥ पत्न्यः प्रेमयुताः सर्वाः प्रिया राज्ञः सुसम्मताः । एका पुत्री तु तासां वै सुकन्या नाम सुन्दरी ॥ ३२॥ पितुः प्रिया च मातॄणां सर्वासां चारुहासिनी । नगरान्नातिदूरेऽभूत्सरो मानससन्निभम् ॥ ३३॥ बद्धसोपानमार्गं च स्वच्छपानीयपूरितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ॥ ३४॥ दात्यूहसारसाकीर्णं सर्वपक्षिगणावृतम् । पञ्चधाकमलोपेतं चञ्चरीकसुसेवितम् ॥ ३५॥ पार्श्वतश्च द्रुमाकीर्णं वेष्टितं पादपैः शुभैः । सालैस्तमालैः सरलैः पुन्नागाशोकमण्डितम् ॥ ३६॥ वटाश्वत्थकदम्बैश्च कदलीखण्डराजितम् । जम्बीरैर्बीजपूरैश्च खर्जूरैः पनसैस्तथा ॥ ३७॥ क्रमुकैर्नारिकेलैश्च केतकैः काञ्चनद्रुमैः । यूथिकाजालकैः शुभ्रैः संवृतं मल्लिकागणैः ॥ ३८॥ जम्ब्वाम्रतिन्तिणीभिश्च करञ्जकुटजावृतम् । पलाशनिम्बखदिरबिल्वामलकमण्डितम् ॥ ३९॥ बभूव कोकिलारावः केकास्वनविराजितम् । तत्समीपे शुभे देशे पादपानां गणावृते ॥ ४०॥ भार्गवश्च्यवनः शान्तस्तापसः संस्थितो मुनिः । ज्ञात्वासौ विजनं स्थानं तपस्तेपे समाहितः ॥ ४१॥ कृत्वा दृढासनं मौनमाधाय जितमारुतः । इन्द्रियाणि च संयम्य त्यक्ताहारस्तपोनिधिः ॥ ४२॥ जलपानादिरहितो ध्यायन्नास्ते पराम्बिकाम् । सवल्मीकोऽभवद्राजल्लँताभिः परिवेष्टितः ॥ ४३॥ कालेन महता राजन् समाकीर्णः पिपीलिकैः । तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वतः ॥ ४४॥ कदाचित्स महीपालः कामिनीगणसंवृतः । आजगाम सरो राजन् विहर्तुमिदमुत्तमम् ॥ ४५॥ शर्यातिः सुन्दरीवृन्दसंयुतः सलिलेऽमले । क्रीडासक्तो महीपालो बभूव कमलाकरे ॥ ४६॥ सुकन्या वनमासाद्य विजहार सखीवृता । सुमनांसि विचिन्वन्ती चञ्चला चञ्चलोपमा ॥ ४७॥ सर्वाभरणसंयुक्ता रणच्चरणनूपुरा । चङ्क्रममाणा वल्मीकं च्यवनस्य समासदत् ॥ ४८॥ क्रीडासक्तोपविष्टा सा वल्मीकस्य समीपतः । ददर्श चास्य रन्ध्रे वै खद्योत इव ज्योतिषी ॥ ४९॥ किमेतदिति सञ्चिन्त्य समुद्धर्तुं मनो दधे । गृहीत्वा कण्टकं तीक्ष्णं त्वरमाणा कृशोदरी ॥ ५०॥ सा दृष्टा मुनिना बाला समीपस्था कृतोद्यमा । विचरन्ती सुकेशान्ता मन्मथस्येव कामिनी ॥ ५१॥ तां वीक्ष्य सुदतीं तत्र क्षामकण्ठस्तपोनिधिः । तामभाषत कल्याणीं किमेतदिति भार्गवः ॥ ५२॥ दूरं गच्छ विशालाक्षि तापसोऽहं वरानने । मा भिन्दस्वाद्य वल्मीकं कण्टकेन कृशोदरि ॥ ५३॥ तेनेदं प्रोच्यमानापि सा चास्य न श‍ृणोति वै । किमु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥ ५४॥ दैवेन नोदिता भित्त्वा जगाम नृपकन्यका । क्रीडन्ती शङ्कमाना सा किं कृतं तु मयेति च ॥ ५५॥ चुक्रोध स तथा विद्धनेत्रः परममन्युमान् । वेदनाभ्यर्दितः कामं परितापं जगाम ह ॥ ५६॥ शकृन्मूत्रनिरोधोऽभूत्सैनिकानां तु तत्क्षणात् । विशेषेण तु भूपस्य सामात्यस्य समन्ततः ॥ ५७॥ गजोष्ट्रतुरगाणां च सर्वेषां प्राणिनां तदा । ततो रुद्धे शकृन्मूत्रे शर्यातिर्दुःखितोऽभवत् ॥ ५८॥ सैनिकैः कथितं तस्मै शकृन्मूत्रनिरोधनम् । चिन्तयामास भूपालः कारणं दुःखसम्भवे ॥ ५९॥ विचिन्त्याह ततो राजा सैनिकान्स्वजनांस्तथा । गृहमागत्य चिन्तार्तः केनेदं दुष्कृतं कृतम् ॥ ६०॥ सरसः पश्चिमे भागे वनमध्ये महातपाः । च्यवनस्तापसस्तत्र तपश्चरति दुश्चरम् ॥ ६१॥ केनाप्यपकृतं तत्र तापसेऽग्निसमप्रभे । तस्मात्पीडा समुत्पन्ना सर्वेषामिति निश्चयः ॥ ६२॥ तपोवृद्धस्य वृद्धस्य वरिष्ठस्य विशेषतः । केनाप्यपकृतं मन्ये भार्गवस्य महात्मनः ॥ ६३॥ ज्ञातं वा यदि वाज्ञातं तस्येदं फलमुत्तमम् । कैश्च दुष्टैः कृतं तस्य हेलनं तापसस्य ह ॥ ६४॥ इति पृष्टास्तमूचुस्ते सैनिका वेदनार्दिताः । मनोवाक्कायनितं न विद्मोऽपकृतं वयम् ॥ ६५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शर्यातिराजवर्णनं नाम द्वितीयोऽध्यायः ॥ ७.२॥

७.३ तृतीयोऽध्यायः । च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनम् ।

व्यास उवाच - इति पप्रच्छ तान्सर्वान् राजा चिन्ताकुलस्तथा । पर्यपृच्छत्सुहृद्वर्गं साम्ना चोग्रतयापि च ॥ १॥ पीड्यमानं जनं वीक्ष्य पितरं दुःखितं तथा । विचिन्त्य शूलभेदं सा सुकन्या चेदमब्रवीत् ॥ २॥ वने मया पितस्तत्र वल्मीको वीरुधावृतः । क्रीडन्त्या सुदृढो दृष्टश्छिद्रद्वयसमन्वितः ॥ ३॥ तत्र खद्योतवद्दीप्तज्योतीषी वीक्षिते मया । सूच्याविद्धे महाराज पुनः खद्योतशङ्कया ॥ ४॥ जलक्लिन्ना तदा सूची मया दृष्टा पितः किल । हाहेति च श्रुतः शब्दो मन्दो वल्मीकमध्यतः ॥ ५॥ तदाहं विस्मिता राजन्किमेतदिति शङ्कया । न जाने किं मया विद्धं तस्मिन्वल्मीकमण्डले ॥ ६॥ राजा श्रुत्वा तु शर्यातिः सुकन्यावचनं मृदु । मुनेस्तद्धेलनं ज्ञात्वा वल्मीकं क्षिप्रमभ्यगात् ॥ ७॥ तत्रापश्यत्तपोवृद्धं च्यवनं दुःखितं भृशम् । स्फोटयामास वल्मीकं मुनिदेहावृतं भृशम् ॥ ८॥ प्रणम्य दण्डवद्भूमौ राजा तं भार्गवं प्रति । तुष्टाव विनयोपेतस्तमुवाच कृताञ्जलिः ॥ ९॥ पुत्र्या मम महाभाग क्रीडन्त्या दुष्कृतं कृतम् । अज्ञानाद्बालया ब्रह्मन् कृतं तत्क्षन्तुमर्हसि ॥ १०॥ अक्रोधना हि मुनयो भवन्तीति मया श्रुतम् । तस्मात्त्वमपि बालायाः क्षन्तुमर्हसि साम्प्रतम् ॥ ११॥ व्यास उवाच - इति श्रुत्वा वचस्तस्य च्यवनो वाक्यमब्रवीत् । विनयोपनतं दृष्ट्वा राजानं दुःखितं भृशम् ॥ १२॥ च्यवन उवाच - राजन्नाहं कदाचिद्वै करोमि क्रोधमण्वपि । न मयाद्यैव शप्तस्त्वं दुहित्रा पीडने कृते ॥ १३॥ नेत्रे पीडा समुत्पन्ना मम चाद्य निरागसः । तेन पापेन जानामि दुःखितस्त्वं महीपते ॥ १४॥ अपराधं परं कृत्वा देवीभक्तस्य को जनः । सुखं लभेत यदपि भवेत् त्राता शिवः स्वयम् ॥ १५॥ किं करोमि महीपाल नेत्रहीनो जरावृतः । अन्धस्य परिचर्यां च कः करिष्यति पार्थिव ॥ १६॥ राजोवाच - सेवका बहवः सेवां करिष्यन्ति तवानिशम् । क्षमस्व मुनिशार्दूल स्वल्पक्रोधा हि तापसाः ॥ १७॥ च्यवन उवाच - अन्धोऽहं निर्जनो राजंस्तपस्तप्तुं कथं क्षमः । त्वदीयाः सेवकाः किं ते करिष्यन्ति मम प्रियम् ॥ १८॥ क्षमापयसि चेन्मां त्वं कुरु मे वचनं नृप । देहि मे परिचर्यार्थं कन्यां कमललोचनाम् ॥ १९॥ तुष्येऽनया महाराज पुत्र्या तव महामते । करिष्यामि तपश्चाहं सा मे सेवां करिष्यति ॥ २०॥ एवं कृते सुखं मे स्यात्तव चैव भविष्यति । सन्तुष्टे मयि राजेन्द्र सैनिकानां न संशयः ॥ २१॥ विचिन्त्य मनसा भूप कन्यादानं समाचर । न चात्र दूषणं किञ्चित्तापसोऽहं यतव्रतः ॥ २२॥ व्यास उवाच - शर्यातिर्वचनं श्रुत्वा मुनेश्चिन्तातुरोऽभवत् । न दास्येऽप्यथवा दास्ये किञ्चिन्नोवाच भारत ॥ २३॥ कथमन्धाय वृद्धाय कुरूपाय सुतामिमाम् । देवकन्योपमां दत्त्वा सुखी स्यामात्मसम्भवाम् ॥ २४॥ को वात्मनः सुखार्थाय पुत्र्याः संसारजं सुखम् । हरतेऽल्पमतिः पापो जानन्नपि शुभाशुभम् ॥ २५॥ प्राप्य सा च्यवनं सुभ्रूः पञ्चबाणशरार्दिता । अन्धं वृद्धं पतिं प्राप्य कथं कालं नयिष्यति ॥ २६॥ यौवने दुर्जयः कामो विशेषेण सुरूपया । आत्मतुल्यं पतिं प्राप्य किमु वृद्धं विलोचनम् ॥ २७॥ गौतमं तापसं प्राप्य रूपयौवनसंयुता । अहल्या वासवेनाशु वञ्चिता वरवर्णिनी ॥ २८॥ शप्ता च पतिना पश्चाज्ज्ञात्वा धर्मविपर्ययम् । तस्माद्भवतु मे दुःखं न ददामि सुकन्यकाम् ॥ २९॥ इति सञ्चिन्त्य शर्यातिर्विमना स्वगृहं ययौ । सचिवांश्च समादाय मन्त्रं चक्रेऽतिदुःखितः ॥ ३०॥ भो मन्त्रिणो ब्रुवन्त्वद्य किं कर्तव्यं मयाधुना । पुत्री देयाथ विप्राय भोक्तव्यं दुःखमेव वा ॥ ३१॥ विचारयध्वं मिलिता हितं स्यान्मम वै कथम् । मन्त्रिण ऊचुः - किं ब्रूमोऽस्मिन्महाराज सङ्कटेऽतिदुरासदे ॥ ३२॥ दुर्भगाय सुकन्यैषा कथं देयातिसुन्दरी । व्यास उवाच - तदा चिन्ताकुलं वीक्ष्य पितरं मन्त्रिणस्तदा ॥ ३३॥ सुकन्या त्विङ्गितं ज्ञात्वा प्रहस्येदमुवाच ह । पितः कस्माद्भवानद्य चिन्ताव्याकुलितेन्द्रियः ॥ ३४॥ मत्कृते दुःखसंविग्नो विषण्णवदनोऽसि वै । अहं गत्वा मुनिं तत्र समाश्वास्य भयार्दितम् ॥ ३५॥ करिष्यामि प्रसन्नं तमात्मदानेन वै पितः । इति राजा वचः श्रुत्वा भाषितं यत्सुकन्यया ॥ ३६॥ तामुवाच प्रसन्नात्मा सचिवानां च श‍ृण्वताम् । कथं पुत्रि त्वमन्धस्य परिचर्यां वनेऽबला ॥ ३७॥ करिष्यसि जरार्तस्य क्रोधनस्य विशेषतः । कथमन्धाय चानेन रूपेण रतिसन्निभाम् ॥ ३८॥ ददामि जरया ग्रस्तदेहाय सुखवाञ्छया । पित्रा पुत्री प्रदातव्या वयोज्ञातिबलाय च ॥ ३९॥ धनधान्यसमृद्धाय नाधनाय कदाचन । क्व ते रूपं विशालाक्षि क्वासौ वृद्धो वनेचरः ॥ ४०॥ कथं देया मया पुत्री तस्मै नातिवराय च । उटजे नियतं वासो यस्य नित्यं मनोहरे ॥ ४१॥ कथमम्बुजपत्राक्षि कल्पनीयो मया तव । मरणं मे वरं प्राप्तं सैनिकानां तथैव च ॥ ४२॥ न ते प्रदानमन्धाय रोचते पिकभाषिणि । भवितव्यं भवत्येव धैर्यं नैव त्यजाम्यहम् ॥ ४३॥ सुस्थिरा भव सुश्रोणि न दास्येऽन्धाय कर्हिचित् । राज्यं तिष्ठतु वा यातु देहोऽयं च तथैव मे ॥ ४४॥ न त्वां दास्याम्यहं तस्मै नेत्रहीनाय बालिके । सुकन्या तं तदा प्राह श्रुत्व तद्वचनं पितुः ॥ ४५॥ प्रसन्नवदनातीव स्नेहयुक्तमिदं वचः । सुकन्योवाच - न मे चिन्ता पितः कार्या देहि मां मुनयेऽधुना ॥ ४६॥ सुखं भवतु सर्वेषां लोकानां मत्कृतेन हि । सेवयिष्यामि सन्तुष्टा पतिं परमपावनम् ॥ ४७॥ भक्त्या परमया चापि वृद्धं च विजने वने । सतीधर्मपरा चाहं चरिष्यामि सुसम्मतम् ॥ ४८॥ न भोगेच्छास्ति मे तात स्वस्थं चित्तं ममानघ । व्यास उवाच - तच्छ्रुत्वा भाषितं तस्या मन्त्रिणो विस्मयं गताः ॥ ४९॥ राजा च परमप्रीतो जगाम मुनिसन्निधौ । गत्वा प्रणम्य शिरसा तमुवाच तपोधनम् ॥ ५०॥ स्वामिन् गृहाण पुत्रीं मे सेवार्थं विधिवद्विभो । इत्युक्त्वासौ ददौ पुत्रीं विवाहविधिना नृपः ॥ ५१॥ प्रतिगृह्य मुनिः कन्यां प्रसन्नो भार्गवोऽभवत् । पारिबर्हं न जग्राह दीयमानं नृपेण ह ॥ ५२॥ कन्यामेवाग्रहीत्कामं परिचर्यार्थमात्मनः । प्रसन्नेऽस्मिन्मुनौ जातं सैनिकानां सुखं तदा ॥ ५३॥ राज्ञश्च परमाह्लादः सञ्जातस्तत्क्षणादपि । दत्त्वा पुत्रीं यदा राजा गमनाय गृहं प्रति ॥ ५४॥ मतिं चकार तवङ्गी तदोवाच नृपं सुता । सुकन्योवाच - गृहाण मम वासांसि भूषणानि च मे पितः ॥ ५५॥ वल्कलं परिधानाय प्रयच्छाजिनमुत्तमम् । वेषं तु मुनिपत्नीनां कृत्वा तपसि सेवनम् ॥ ५६॥ करिष्यामि तथा तात यथा ते कीर्तिरच्युता । भविष्यति भुवः पृष्ठे तथा स्वर्गे रसातले ॥ ५७॥ परलोकसुखायाहं चरिष्यामि दिवानिशम् । दत्त्वान्धाय च वृद्धाय सुन्दरीं युवतीं तु माम् ॥ ५८॥ चिन्ता त्वया न कर्तव्या शीलनाशसमुद्भवा । अरुन्धती वसिष्ठस्य धर्मपत्नी यथा भुवि ॥ ५९॥ तथैवाहं भविष्यामि नात्र कार्या विचारणा । अनसूया यथा साध्वी भार्यात्रेः प्रथिता भुवि ॥ ६०॥ तथैवाहं भविष्यामि पुत्री कीर्तिकरी तव । सुकन्यावचनं श्रुत्वा राजा परमधर्मवित् ॥ ६१॥ दत्त्वाजिनं रुरोदाशु वीक्ष्य तां चारुहासिनीम् । त्यक्त्वा भूषणवासांसि मुनिवेषधरां सुताम् ॥ ६२॥ विवर्णवदनो भूत्वा स्थितस्तत्रैव पार्थिवः । राज्ञ्यः सर्वाः सुतां दृष्ट्वा वल्कलाजिनधारिणीम् ॥ ६३॥ रुरुदुर्भृशशोकार्ता वेपमाना इवाभवन् । तामापृच्छ्य महीपालो मन्त्रिभिः परिवारितः । ययौ स्वनगरं राजन् मुक्त्वा पुत्रीं शुचार्पिताम् ॥ ६४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनसुकन्ययोर्गार्हस्थ्यवर्णनं नाम तृतीयोऽध्यायः ॥ ७.३॥

७.४ चतुर्थोऽध्यायः । अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनम् ।

व्यास उवाच - गते राजनि सा बाला पतिसेवापरायणा । बभूव च तथाग्नीनां सेवने धर्मतत्परा ॥ १॥ फलान्यादाय स्वादूनि मूलानि विविधानि च । ददौ सा मुनये बाला पतिसेवापरायणा ॥ २॥ पतिं तप्तोदकेनाशु स्नापयित्वा मृगत्वचा । परिवेष्ट्य शुभायां तु बृस्यां स्थापितवत्यपि ॥ ३॥ तिलान् यवकुशानग्रे परिकल्प्य कमण्डलुम् । तमुवाच नित्यकर्म कुरुष्व मुनिसत्तम ॥ ४॥ तमुत्थाप्य करे कृत्वा समाप्ते नित्यकर्मणि । बृस्यां वा संस्तरे बाला भर्तारं संन्यवेशयत् ॥ ५॥ पश्चादानीय पक्वानि फलानि च नृपात्मजा । भोजयामास च्यवनं नीवारान्नं सुसंस्कृतम् ॥ ६॥ भुक्तवन्तं पतिं तृप्तं दत्त्वाचमनमादरात् । पश्चाच्च पूगं पत्राणि ददौ चादरसंयुता ॥ ७॥ गृहीतमुखवासं तं संवेश्य च शुभासने । गृहीत्वाऽऽज्ञां शरीरस्य चकार साधनं ततः ॥ ८॥ फलाहारं स्वयं कृत्वा पुनर्गत्वा च सन्निधौ । प्रोवाच प्रणयोपेता किमाज्ञापयसे प्रभो ॥ ९॥ पादसंवाहनं तेऽद्य करोमि यदि मन्यसे । एवं सेवापरा नित्यं बभूव पतितत्परा ॥ १०॥ सायं होमावसाने सा फलान्याहृत्य सुन्दरी । अर्पयामास मुनये स्वादूनि च मृदूनि च ॥ ११॥ ततः शेषाणि बुभुजे प्रेमयुक्ता तदाज्ञया । सुस्पर्शास्तरणं कृत्वा शाययामास तं मुदा ॥ १२॥ सुप्ते सुखं प्रिये कान्ता पदसंवाहनं तदा । चकार पृच्छती धर्मं कुलस्त्रीणां कृशोदरी ॥ १३॥ पादसंवाहनं कृत्वा निशि भक्तिपरायणा । निद्रितं च मुनिं ज्ञात्वा सुष्वाप चरणान्तिके ॥ १४॥ शुचौ प्रतिष्ठितं वीक्ष्य तालवृन्तेन भामिनी । कुर्वाणा शीतलं वायुं सिषेवे स्वपतिं तदा ॥ १५॥ हेमन्ते काष्ठसम्भारं कृत्वाग्निज्वलनं पुरः । स्थापयित्वा तथापृच्छत्सुखं तेऽस्तीति चासकृत् ॥ १६॥ ब्राह्मे मुहूर्ते चोत्थाय जलं पात्रं च मृत्तिकाम् । समर्पयित्वा शौचार्थं समुत्थाप्य पतिं प्रिया ॥ १७॥ स्थानाद्दूरे च संस्थाप्य दूरं गत्वा स्थिराभवत् । कृतशौचं पतिं ज्ञात्वा गत्वा जग्राह तं पुनः ॥ १८॥ आनीयाश्रममव्यग्रा चोपवेश्यासने शुभे । मृज्जलाभ्यां च प्रक्षाल्य पादावस्य यथाविधि ॥ १९॥ दत्त्वाऽऽचमनपात्रं तु दन्तधावनमाहरत् । समर्प्य दन्तकाष्ठं च यथोक्तं नृपनन्दिनी ॥ २०॥ चकारोष्णं जलं शुद्धं समानीतं सुपावनम् । स्नानार्थं जलमाहृत्य पप्रच्छ प्रणयान्विता ॥ २१॥ किमाज्ञापयसे ब्रह्मन् कृतं वै दन्तधावनम् । उष्णोदकं सुसम्पन्नं कुरु स्नानं समन्त्रकम् ॥ २२॥ वर्तते होमकालोऽयं सन्ध्या पूर्वा प्रवर्तते । विधिवद्धवनं कृत्वा देवतापूजनं कुरु ॥ २३॥ एवं कन्या पतिं लब्ध्वा तपस्विनमनिन्दिता । नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥ २४॥ अग्नीनामतिथीनां च शुश्रूषां कुर्वती सदा । आराधयामास मुदा च्यवनं सा शुभानना ॥ २५॥ कस्मिंश्चिदथ काले तु रविजावश्विनावुभौ । च्यवनस्याश्रमाभ्याशे क्रीडमानौ समगतौ ॥ २६॥ जले स्नात्वा तु तां कन्यां निवृत्तां स्वाश्रमं प्रति । गच्छन्तीं चारुसर्वाङ्गीं रविपुत्रावपश्यताम् ॥ २७॥ तां दृष्ट्वा देवकन्याभां गत्वा चान्तिकमादरात् । ऊचतुः समभिद्रुत्य नासत्यावतिमोहितौ ॥ २८॥ क्षणं तिष्ठ वरारोहे प्रष्टुं त्वां गजगामिनि । आवां देवसुतौ प्राप्तौ ब्रूहि सत्यं शुचिस्मिते ॥ २९॥ पुत्री कस्य पतिः कस्ते कथमुद्यानमागता । एकाकिनी तडागेऽस्मिन् स्नानार्थं चारुलोचने ॥ ३०॥ द्वितीया श्रीरिवाभासि कान्त्या कमललोचने । इच्छामस्तु वयं ज्ञातुं तत्त्वमाख्याहि शोभने ॥ ३१॥ कोमलौ चरणौ कान्ते स्थितौ भूमावनावृतौ । हृदाये कुरुतः पीडां चलन्तौ चललोचने ॥ ३२॥ विमानार्हासि तन्वङ्गि कथं पद्भ्यां व्रजस्यदः । अनावृतात्र विपिने किमर्थं गमनं तव ॥ ३३॥ दासीशतसमायुक्ता कथं च त्वं विनिर्गता । राजपुत्र्यप्सरा वासि वद सत्यं वरानने ॥ ३४॥ धन्या माता यतो जाता धन्योऽसौ जनकस्तव । वक्तुं त्वां नैव शक्तौ च भर्तुर्भाग्यं तवानघे ॥ ३५॥ देवलिकाधिका भूमिरियं चैव सुलोचने । प्रचलंश्चरणस्तेऽद्य सम्पावयति भूतलम् ॥ ३६॥ सौभाग्याश्च मृगाः कामं ये त्वां पश्यन्ति वै वने । ये चान्ये पक्षिणः सर्वे भूरियं चातिपावना ॥ ३७॥ स्तुत्यालं तव चात्यर्थं सत्यं ब्रूहि सुलोचने । पिता कस्ते पतिः क्वासौ द्रष्टुमिच्छास्ति सादरम् ॥ ३८॥ व्यास उवाच - तयोरिति वचः श्रुत्वा राजकन्यातिसुन्दरी । तावुवाच त्रपाक्रान्ता देवपुत्री नृपात्मजा ॥ ३९॥ शर्यातितनयां मां वां वित्तं भार्यां मुनेरिह । च्यवनस्य सतीं कान्तां पित्रा दत्तां यदृच्छया ॥ ४०॥ पतिरन्धोऽस्ति मे देवौ वृद्धश्चातीव तापसः । तस्य सेवामहोरात्रं करोमि प्रीतिमानसा ॥ ४१॥ कौ युवां किमिहायातौ पतिस्तिष्ठति चाश्रमे । तत्रागत्य प्रकुरुतमाश्रमं चाद्य पावनम् ॥ ४२॥ तदाकर्ण्य वचो दस्रावूचतुस्तां नराधिप । कथं त्वमपि कल्याणि पिता दत्ता तपस्विने ॥ ४३॥ भ्राजसेऽस्मिन्वनोद्देशे विद्युत्सौदामिनी यथा । न देवेष्वपि तुल्या हि तव दृष्टास्ति भामिनि ॥ ४४॥ त्वं दिव्याम्बरयोग्यासि शोभसे नाजिनैर्वृता । सर्वाभरणसंयुक्ता नीलालकवरूथिनी ॥ ४५॥ अहो विधेर्दुष्कलितं विचेष्टितं यदत्र रम्भोरु वने विषीदसि । विशालनेत्रेऽन्धमिमं पतिं प्रिये मुनिं समासाद्य जरातुरं भृशम् ॥ ४६॥ वृथा व्रतस्तेन भृशं न शोभसे नवं वयः प्राप्य सुनृत्यपण्डिते । मनोभवेनाशु शराः सुसन्धिताः पतन्ति कस्मिन्पतिरीदृशस्तव ॥ ४७॥ त्वमन्धभार्या नवयौवनान्विता कृतासि धात्रा ननु मन्दबुद्धिना । न चैनमर्हस्यसितायतेक्षणे पतिं त्वमन्यं कुरु चारुलोचने ॥ ४८॥ वृथैव ते जीवितमम्बुजेक्षणे पतिं च सम्प्राप्य मुनिं गतेक्षणम् । वने निवासं च तथाजिनाम्बर- प्रधारणं योग्यतरं न मन्महे ॥ ४९॥ अतोऽनवद्याङ्ग्युभयोस्त्वमेकं वरं कुरुषावहिता सुलोचने । किं यौवनं मानिनि सङ्करोषि वृथा मुनिं सुन्दरि सेवमाना ॥ ५०॥ किं सेवसे भाग्यविवर्जितं तं समुज्झितं पोषणरक्षणाभ्याम् । त्यक्त्वा मुनिं सर्वसुखापवर्जितं भजानवद्याङ्ग्युभयोस्त्वमेकम् ॥ ५१॥ त्वं नन्दने चैत्ररथे वने च कुरुष्व कान्ते प्रथितं विहारम् । अन्धेन वृद्धेन कथं हि कालं विनेष्यसे मानिनि मानहीनम् ॥ ५२॥ भूपात्मजा त्वं शुभलक्षणा च जानासि संसारविहारभावम् । भाग्येन हीना विजने वनेऽत्र कालं कथं वाहयसे वृथा च ॥ ५३॥ तस्माद्भजस्व पिकभाषिणि चारुवक्त्रे एवं द्वयोस्तव सुखाय विशालनेत्रे । देवालयुषे च कृशोदरि भुङ्क्ष्व भोगान् त्यक्त्वा मुनिं जरठमाशु नृपेन्द्रपुत्रि ॥ ५४॥ किं ते सुखं चात्र वने सुकेशि वृद्धेन सार्धं विजने मृगाक्षि । सेवा तथान्धस्य नवं वयश्च किं ते मतं भूपतिपुत्रि दुःखम् ॥ ५५॥ शशिमुखि त्वमतीव सुकोमला फलजलाहरणं तव नोचितम् ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विनीकुमारयोः सुकन्यां प्रति बोधवचनवर्णनं नाम चतुर्थोऽध्यायः ॥ ७.४॥

७.५ पञ्चमोऽध्यायः । अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनम् ।

व्यास उवाच - तयोस्तद्भाषितं श्रुत्वा वेपमाना नृपात्मजा । धैर्यमालम्ब्य तौ तत्र बभाषे मितभाषिणी ॥ १॥ देवौ वां रविपुत्रौ च सर्वज्ञौ सुरसम्मतौ । सतीं मां धर्मशीलां च नैवं वदितुमर्हथः ॥ २॥ पित्रा दत्ता सुरश्रेष्ठौ मुनये योगधर्मिणे । कथं गच्छामि तं मार्गं पुंश्चलीगणसेवितम् ॥ ३॥ द्रष्टायं सर्वलोकस्य कर्मसाक्षी दिवाकरः । कश्यपाच्चैव सम्भूतो नैवं भाषितुमर्हथः ॥ ४॥ कुलकन्या पतिं त्यक्त्वा कथमन्यं भजेन्नरम् । असारेऽस्मिन्हि संसारे जानन्तौ धर्मनिर्णयम् ॥ ५॥ यथेच्छं गच्छतं देवौ शापं दास्यामि वानघौ । सुकन्याहं च शर्यातेः पतिभक्तिपरायणा ॥ ६॥ व्यास उवाच - इत्याकर्ण्य वचस्तस्या नासत्यौ विस्मितौ भृशम् । तावब्रूतां पुनस्त्वेनां शङ्कमानौ भयं मुनेः ॥ ७॥ राजपुत्रि प्रसन्नौ ते धर्मेण वरवर्णिनि । वरं वरय सुश्रोणि दास्यावः श्रेयसे तव ॥ ८॥ जानीहि प्रमदे नूनमावां देवभिषग्वरौ । युवानं रूपसम्पन्नं प्रकुर्यावः पतिं तव ॥ ९॥ ततस्त्रयाणामस्माकं पतिमेकतमं वृणु । समानरूपदेहानां मध्ये चातुर्यपण्डिते ॥ १०॥ सा तर्योवचनं श्रुत्वा विस्मिता स्वपतिं तदा । गत्वोवाच तयोर्वाक्यं ताभ्यामुक्तं यदद्भुतम् ॥ ११॥ सुकन्योवाच - स्वामिन् सूर्यसुतौ देवौ सम्प्राप्तौ च्यवनाश्रमे । दृष्टौ मया दिव्यदेहौ नासत्यौ भृगुनन्दन ॥ १२॥ वीक्ष्य मां चारुसर्वाङ्गीं जातौ कामातुरावुभौ । कथितं वचनं स्वामिन् पतिं ते नवयौवनम् ॥ १३॥ दिव्यदेहं करिष्यावश्चक्षुष्मन्तं मुनिं किल । एतेन समयेनाद्य तं श‍ृणु त्वं मयोदितम् ॥ १४॥ समावयवरूपं च करिष्यावः पतिं तव । तत्र त्रयाणामस्माकं पतिमेकतमं वृणु ॥ १५॥ तच्छ्रुत्वाहमिहायाता प्रष्टुं त्वां कार्यमद्भुतम् । किं कर्तव्यमतः साधो ब्रूह्यस्मिन्कार्यसङ्कटे ॥ १६॥ देवमायापि दुर्ज्ञेया न जाने कपटं तयोः । यदाज्ञापय सर्वज्ञ तत्करोमि तवेप्सितम् ॥ १७॥ च्यवन उवाच - गच्छ कान्तेऽद्य नासत्यौ वचनान्मम सुव्रते । आनयस्व समीपं मे शीघ्रं देवभिषग्वरौ ॥ १८॥ क्रियतामाशु तद्वाक्यं नात्र कार्या विचारणा व्यास उवाच - एवं सा समनुज्ञाता तत्र गत्वा वचोऽब्रवीत् ॥ १९॥ क्रियतामाशु नासत्यौ समयेन सुरोत्तमौ । तच्छ्रुत्वा चाश्विनौ वाक्यं तस्यास्तौ तत्र चागतौ ॥ २०॥ ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः । रूपार्थं च्यवनस्तूर्णं ततोऽम्भः प्रविवेश ह ॥ २१॥ अश्विनावपि पश्चात्तत्प्रविष्टौ सर उत्तमम् । ततस्ते निःसृतास्तस्मात्सरसस्तत्क्षणात्त्रयः । तुल्यरूपा दिव्य देहा युवानः सदृशाः किल । दिव्यकुण्डलभूषाढ्याः समानावयवास्तथा ॥ २३॥ तेऽब्रुवन्सहिताः सर्वे वृणीष्व वरवर्णिनि । अस्माकमीप्सितं भद्रे पतिं त्वममलानने ॥ २४॥ यस्मिन्वाप्यधिका प्रीतिस्तं वृणुष्व वरानने । व्यास उवाच - सा दृष्ट्वा तुल्यरूपांस्तान्समानवयसस्तथा ॥ २५॥ एकस्वरांस्तुल्यवेषांस्त्रीन्वै देवसुतोपमान् । सा तु संशयमापन्ना वीक्ष्य तान्सदृशाकृतीन् ॥ २६॥ अजानन्ती पतिं सम्यग्व्याकुला समचिन्तयत् । किं करोमि त्रयस्तुल्याः कं वृणोमि न वेद्म्यहम् ॥ २७॥ पतिं देवसुता ह्येते संशये पतितास्म्यहम् । इन्द्रजालमिदं सम्यग्देवाभ्यामिह कल्पितम् ॥ २८॥ कर्तव्यं किं मया चात्र मरणं समुपागतम् । न मया पतिमुत्सृज्य वरणीयः कथञ्चन ॥ २९॥ देवस्त्वाधुनिकः कश्चिदित्येषा मम धारणा । इति सञ्चिन्त्य मनसा परां विश्वेश्वरीं शिवाम् ॥ ३०॥ दध्यौ भगवतीं देवीं तुष्टाव च कृशोदरी । सुकन्योवाच - शरणं त्वां जगन्मातः प्राप्तास्मि भृशदुःखिता ॥ ३१॥ रक्ष मेऽद्य सतीधर्मं नमामि चरणौ तव । नमः पद्मोद्भवे देवि नमः शङ्करवल्लभे ॥ ३२॥ विष्णुप्रिये नमो लक्ष्मि वेदमातः सरस्वति । इदं जगत्त्वया सृष्टं सर्वं स्थावरजङ्गमम् ॥ ३३॥ पासि त्वमिदमव्यग्रा तथात्सि लोकशान्तये । ब्रह्मविष्णुमहेशानां जननी त्वं सुसम्मता ॥ ३४॥ बुद्धिदासि त्वमज्ञानां ज्ञानिनां मोक्षदा सदा । आज्ञा त्वं प्रकृतिः पूर्णा पुरुषप्रियदर्शना ॥ ३५॥ भुक्तिमुक्तिप्रदासि त्वं प्राणिनां विशदात्मनाम् । अज्ञानां दुःखदा कामं सत्त्वानां सुखसाधना ॥ ३६॥ सिद्धिदा योगिनामम्ब जयदा कीर्तिदा पुनः । शरणं त्वां प्रपन्नास्मि विस्मयं परमं गता ॥ ३७॥ पतिं दर्शय मे मातर्मग्नास्मि शोकसागरे । देवाभ्यां चरितं कूटं कं वृणोमि विमोहिता ॥ ३८॥ पतिं दर्शय सर्वज्ञे विदित्वा मे सतीव्रतम् । व्यास उवाच - एवं स्तुता तदा देवा तथा त्रिपुरसुन्दरी ॥ ३९॥ हृदयेऽस्यास्तदा ज्ञानं ददावाशु सुखोदयम् । निश्चित्य मनसा तुल्यवयोरूपधरान्सती ॥ ४०॥ प्रसमीक्ष्य तु तान् सर्वान्वव्रे बाला स्वकं पतिम् । वृतेऽथ च्यवने देवौ सन्तुष्टौ तौ बभूवतुः ॥ ४१॥ सतीधर्मं समालोक्य सम्प्रीतौ ददतुर्वरम् । भगवत्याः प्रसादेन प्रसन्नौ तौ सुरौत्तमौ ॥ ४२॥ मुनिमामन्त्र्य तरसा गमनायोद्यतावुभौ । लब्ध्वा तु च्यवनो रूपं नेत्रे भार्यां च यौवनम् ॥ ४३॥ हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः । उपकारः कृतोऽयं मे युवाभ्यां सुरसत्तमौ ॥ ४४॥ किं ब्रवीमि सुखं प्राप्तं संसारेऽस्मिन्ननुत्तमे । प्राप्य भार्यां सुकेशान्तां दुःखं मेऽभवदन्वहम् ॥ ४५॥ अन्धस्य चातिवृद्धस्य भोगहीनस्य कानने । युवाभ्यां नयने दत्ते यौवनं रूपमद्भुतम् ॥ ४६॥ सम्पादितं ततं किञ्चिदुपकर्तुमहं ब्रुवे । उपकारिणि मित्रे यो नोपकुर्यात्कथञ्चन ॥ ४७॥ तं धिगस्तु नरं देवौ भवेच्च ऋणवान्भुवि । तस्माद्वां वाञ्छितं किञ्चिद्दातुमिच्छामि साम्प्रतम् ॥ ४८॥ आत्मनो ऋणमोक्षाय देवेशौ नूतनस्य च । प्रार्थितं वां प्रदास्यामि यदलभ्यं सुरासुरैः ॥ ४९॥ ब्रुवाथां वां मनोद्दिष्टं प्रीतोऽस्मि सुकृतेन वाम् । श्रुत्वा तौ तु मुनेर्वाक्यमभिमन्त्र्य परस्परम् ॥ ५०॥ तमूचतुर्मुनिश्रेष्ठं सुकन्यासहितं स्थितम् । मुने पितुः प्रसादेन सर्वं नो मनसेप्सितम् ॥ ५१॥ उत्कण्ठा सोमपानस्य वर्तते नौ सुरैः सह । भिषजाविति देवेन निषिद्धौ चमसग्रहे ॥ ५२॥ शक्रेण वितते यज्ञे ब्रह्मणः कनकाचले । तस्मात्त्वमपि धर्मज्ञ यदि शक्तोऽसि तापस ॥ ५३॥ कार्यमेतद्धि कर्तव्यं वाञ्छितं नौ सुसम्मतम् । एतद्विज्ञाय वा ब्रह्मन्कुरु वां सोमपायिनौ ॥ ५४॥ पिपासास्ति सुदुष्प्रापपा त्वत्तः समुपयास्यति । च्यवनस्तु तयोः प्राह तच्छ्रुत्वा वचनं मृदु ॥ ५५॥ यदहं रूपसम्पन्नो वयसा च समन्वितः । कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिति ॥ ५६॥ तस्माद्युवां करिष्यामि प्रीत्याहं सोमपायिनौ । मिषतो देवराजस्य सत्यमेतद्ब्रवीम्यहम् ॥ ५७॥ राज्ञस्तु वितते यज्ञे शर्यातेरमितद्युतेः । इत्याकर्ण्य वचो हृष्टौ तौ दिवं प्रतिजग्मतुः ॥ ५८॥ च्यवनस्तां गृहीत्वा तु जगामाश्रममण्डलम् ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे अश्विभ्यां च्यवनद्वारा सोमपानाय प्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ ७.५॥

७.६ षष्ठोऽध्यायः । च्यवनेश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनम् ।

जनमेजय उवाच - च्यवनेन कथं वैद्यौ तौ कृतौ सोमपायिनौ । वचनं च कथं सत्यं जातं तस्य महात्मनः ॥ १॥ मानुषस्य बलं कीदृग्देवराजबलं प्रति । निषिद्धौ भिषजौ तेन कृतौ तौ सोमपायिनौ ॥ २॥ धर्मनिष्ठ तदाश्चर्यं विस्तरेण वद प्रभो । चरितं च्यवनस्याद्य श्रोतुकामोऽस्मि सर्वथा ॥ ३॥ व्यास उवाच - निशामय महाराज चरितं परमाद्भुतम् । च्यवनस्य मखे तस्मिञ्छर्यातेर्भुवि भारत ॥ ४॥ सुकन्यां सुन्दरीं प्राप्य च्यवनः सुरसन्निभः । विजहार प्रसन्नात्मा देवकन्यामिवापरः ॥ ५॥ कदाचिदथ शर्यातिभार्या चिन्तातुरा भृशम् । पतिं प्राह वेपमाना वचनं रुदती प्रिया ॥ ६॥ राजन् पुत्री त्वया दत्ता मुनयेऽन्धाय कानने । मृता जीवति वा सा तु द्रष्टव्या सर्वथा त्वया ॥ ७॥ गच्छ नाथ मुनेस्तावदाश्रमं द्रष्टुमादरात् । किं करोति सुकन्या सा प्राप्य नाथं तथाविधम् ॥ ८॥ पुत्रीदुःखेन राजर्षे दग्धास्मि सर्वथा हृदि । तामानय विशालाक्षीं तपःक्षामां मदन्तिके ॥ ९॥ पश्यामि सर्वथा पुत्रीं कृशाङ्गीं वल्कलावृताम् । अन्धं पतिं समासाद्य दुःखभाजं कृशोदरीम् ॥ १०॥ शर्यातिरुवाच - गच्छामोऽद्य विशालाक्षि सुकन्यां द्रष्टुमादरात् । प्रियपुत्रीं वरारोहे मुनिं तं संशितव्रतम् ॥ ११॥ व्यास उवाच - एवमुक्त्व तु शर्यातिः कामिनीं शोकसङ्कुलाम् । जगाम रथमारुह्य त्वरितश्चाश्रमं मुनेः ॥ १२॥ गत्वाऽऽश्रमसमीपे तु तमपश्यन्महीपतिः । नवयौवनसम्पन्नं देवपुत्रोपमं मुनिम् ॥ १३॥ तं विलोक्यामराकारं विस्मयं नृपतिर्गतः । किं कृतं कुत्सितं कर्म पुत्र्या लोकविगर्हितम् ॥ १४॥ निहतोऽसौ मुनिर्वृद्धस्त्वनयान्यः पतिः कृतः । कामपीडितया कामं प्रशान्तोऽप्यतिनिर्धनः ॥ १५॥ दुःसहयोऽयं पुष्पधन्वा विशेषेण च यौवने । कुले कलङ्कः सुमहाननया मानवे कृतः ॥ १६॥ धिक्तस्य जीवितं लोके यस्य पुत्री हि कुत्सिता । सर्वपापैस्तु दुःखाय पुत्री भवति देहिनाम् ॥ १७॥ मया त्वनुचितं कर्म कृतं स्वार्थस्य सिद्धये । वृद्धायान्धाय या दत्ता पुत्री सर्वात्मना किल ॥ १८॥ कन्या योग्याय दातव्या पित्रा सर्वात्मना किल । तादृशं हि फलं प्राप्तं यादृशं वै कृतं मया ॥ १९॥ हन्मि चेदद्य तनयां दुःशीलां पापकारिणीम् । स्त्रीहत्या दुस्तरा स्यान्मे तथा पुत्र्या विशेषतः ॥ २०॥ मनुवंशस्तु विख्यातः सकलङ्कः कृतो मया । लोकापवादो बलवान्दुस्त्याज्या स्नेहश‍ृङ्खला ॥ २१॥ किं करोमीति चिन्ताब्धौ यदा मग्नः स पार्थिवः । सुकन्यया तदा दैवाद्दृष्टश्चिन्ताकुलः पिता ॥ २२॥ सा दृष्ट्वा तं जगामाशु सुकन्या पितुरन्तिके । गत्वा पप्रच्छ भूपालं प्रेमपूरितमानसा ॥ २३॥ किं विचारयसे राजंश्चिन्ताव्याकुलिताननः । उपविष्टं मुनिं वीक्ष्य युवानमम्बुजेक्षणम् ॥ २४॥ एह्येहि पुरुषव्याघ्र प्रणमस्व पतिं मम । मा विषादं नृपश्रेष्ठ साम्प्रतं कुरु मानव ॥ २५॥ व्यास उवाच - इति पुत्र्या वचं श्रुत्वा शर्यातिः क्रोधपीडितः । प्रोवाच वचनं राजा पुरःस्थां तनयां ततः ॥ २६॥ राजोवाच - क्व मुनिश्च्यवनः पुत्रि वृद्धोऽन्धस्तापसोत्तमः । कोऽयं युवा मदोन्मत्तः सन्देहोऽत्र महान्मम ॥ २७॥ मुनिः किं निहतः पापे त्वया दुष्कृतकारिणि । नूतनोऽसौ पतिः कामात्कृतः कुलविनाशिनि ॥ २८॥ सोऽहं चिन्तातुरस्तं न पश्याम्याश्रमसंस्थितम् । किं कृतं दुष्कृतं कर्म कुलटाचरितं किल ॥ २९॥ निमग्नोऽहं दुराचारे शोकाब्धौ त्वत्कृतेऽधुना । दृष्ट्वैनं पुरुषं दिव्यमदृष्ट्वा च्यवनं मुनिम् ॥ ३०॥ विहस्य तमुवाचाशु सा श्रुत्वा वचनं पितुः । गृहीत्वाऽऽनीय पितरं भर्तुरन्तिकमादरात् ॥ ३१॥ च्यवनोऽसौ मुनिस्तात जामाता ते न संशयः । अश्विभ्यामीदृशः कान्तः कृतः कमललोचनः ॥ ३२॥ यदृच्छयात्र सम्प्राप्तौ नासत्यावाश्रमे मम । ताभ्यां करुणया नूनं च्यवनस्तादृशः कृतः ॥ ३३॥ नाहं तव सुता तात तथा स्यां पापकारिणी । यथा त्वं मन्यसे राजन् विमूढो रूपसंशये ॥ ३४॥ प्रणम त्वं मुनिं राजन् भार्गवं च्यवनं पितः । आपृच्छ कारणं सर्वं कथियिष्यति विस्तरम् ॥ ३५॥ इति श्रुत्वा वचं पुत्र्या शर्यातिस्त्वरितस्तदा । प्रणनाम मुनिं तत्र गत्वा पप्रच्छ सादरम् ॥ ३६॥ राजोवाच - कथयस्व स्ववृत्तान्तं भार्गवाशु यथोचितम् । नयने च कथं प्राप्ते क्व गता ते जरा पुनः ॥ ३७॥ संशयोऽयं महान्मेऽस्ति रूपं दृष्ट्वातिसुन्दरम् । वद विस्तरतो ब्रह्मन् श्रुत्वाहं सुखमाप्नुयाम् ॥ ३८॥ च्यवन उवाच - नासत्यावत्र सम्प्राप्तौ देवानां भिषजावुभौ । उपकारः कृतस्ताभ्यां कृपया नृपसत्तम ॥ ३९॥ मया ताभ्यां वरो दत्त उपकारस्य हेतवे । करिष्यामि मखे राज्ञो भवन्तौ सोमपायिनौ ॥ ४०॥ एवं मया वयः प्राप्तं लोचने विमले तथा । स्वस्थो भव महाराज संविशस्वासने शुभे ॥ ४१॥ इत्युक्तः स तु विप्रेण सभार्यः पृथिवीपतिः । सुखोपविष्टः कल्याणीः कथाश्चक्रे महात्मना ॥ ४२॥ अथैनं भार्गवं प्राह राजानं परिसान्त्वयन् । याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय ॥ ४३॥ मया प्रतिश्रुतं ताभ्यां कर्तव्यौ सोमपौ युवाम् । तत्कर्तव्यं नृपश्रेष्ठ तव यज्ञेऽतिविस्तरे ॥ ४४॥ इन्द्रं निवारयिष्यामि क्रुद्धं तेजोबलेन वै । पाययिष्यामि राजेन्द्र सोमं सोममखे तव ॥ ४५॥ ततः परमसन्तुष्टः शर्यातिः पृथिवीपतिः । च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् ॥ ४६॥ सम्मान्य च्यवनं राजा जगाम नगरं प्रति । सभार्यश्चातिसन्तुष्टः कुर्वन्वार्तां मुनेः किल ॥ ४७॥ प्रशस्तेहनि यज्ञीये सर्वकामसमृद्धिमान् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥ ४८॥ समानीय मुनीन्पूज्यान्वसिष्ठप्रमुखानसौ । भार्गवो याजयामास च्यवनः पृथिवीपतिम् ॥ ४९॥ वितते तु तथा यज्ञे देवाः सर्वे सवासवाः । आजग्मुश्चाश्विनौ तत्र सोमार्थमुपजग्मतुः ॥ ५०॥ इन्द्रस्तु शङ्कितस्तत्र वीक्ष्य तावश्विनावुभौ । पप्रच्छ च सुरान्सर्वान्किमेतौ समुपागतौ ॥ ५१॥ चिकित्सकौ न सोमार्हौ केनानीताविहेति च । नाब्रुवन्नमरास्तत्र राज्ञस्तु वितते मखे ॥ ५२॥ अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा । शक्रस्तं वारयामास मा गृहाणैतयोर्ग्रहम् ॥ ५३॥ तमाह च्यवनस्तत्र कथमेतौ रवेः सुतौ । न ग्रहार्हौ च नासत्यौ ब्रूहि सत्यं शचीपते ॥ ५४॥ न सङ्करौ समुत्पन्नौ धर्मपत्नीसुतौ रवेः । केन दोषेण देवेन्द्र नार्हौ सोमं भिषग्वरौ ॥ ५५॥ निर्णयोऽत्र मखे शक्र कर्तव्यः सर्वदैवतैः । ग्राहयिष्यामहं सोमं कृतौ तौ सोमपौ मया ॥ ५६॥ प्रेरितोऽसौ मया राजा मखाय मघवन्किल । एतदर्थं करिष्यामि सत्यं मे वचनं विभो ॥ ५७॥ आभ्यामुपकृतः शक्र तथा दत्तं नवं वयः । तस्मात्प्रत्युपकारस्तु कर्तव्यः सर्वथा मया ॥ ५८॥ इन्द्र उवाच - चिकित्सकौ कृतावेतौ नासत्यौ निन्दितौ सुरैः । उभावेतौ न सोमार्हौ मा गृहाणैतयोर्ग्रहम् ॥ ५९॥ च्यवन उवाच - अहल्याजार संयच्छ कोपं चाद्य निरर्थकम् । वृत्रघ्न किं हि नासत्यौ न सोमार्हौ सुरात्मजौ ॥ ६०॥ एवं विवादे समुपस्थिते च न कोऽपि वाचं तमुवाच भूप । ग्रहं तयोर्भार्गवतिग्मतेजाः सङ्ग्राहयामास तपोबलेन ॥ ६१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे च्यवनाश्विनोः कृते सोमपानाधिकारत्वचेष्टावर्णनं नाम षष्टोऽध्यायः ॥ ७.६॥

७.७ सप्तमोऽध्यायः । रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनम् ।

व्यास उवाच - दत्ते ग्रहे तु राजेन्द्र वासवः कुपितौ भृशम् । प्रोवाच च्यवनं तत्र दर्शयन्बलमात्मनः ॥ १॥ मा ब्रह्मबन्धो मर्यादामिमां त्वं कर्त्तुमर्हसि । वधिष्यामि द्विषन्तं त्वां विश्वरूपमिवाऽपरम् ॥ २॥ च्यवन उवाच - मावमंस्था महात्मानौ रूपद्रविणवर्चसा । यौ चक्रतुर्मां मघवन् वृन्दारकमिवापरम् ॥ ३॥ ऋते त्वां विबुधाश्चान्ये कथं वाददते ग्रहम् । अश्विनावपि देवेन्द्र देवौ विद्धि परन्तपौ ॥ ४॥ इन्द्र उवाच - भिषजौ नार्हतः कामं ग्रहं यज्ञे कथञ्चन । यदि दित्ससि मन्दात्मन् शिरश्छेत्स्यामि साम्प्रतम् ॥ ५॥ व्यास उवाच । अनादृत्य तु तद्वाक्यं वासवस्य च भार्गवः । ग्रहं तु ग्राहयामास भर्त्सयन्निव तं भृशम् ॥ ६॥ सोमपात्रं यदा ताभ्यां गृहीतं तु पिपासया । समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥ ७॥ आभ्यमर्थाय सोमं त्वं ग्राहयिष्यसि चेत्स्वयम् । वज्रं तु प्रहरिष्यामि विश्वरूपमिवापरम् ॥ ८॥ वासवेनैवमुक्तस्तु भार्गवश्चातिगर्वितः । जग्राह विधिवत्सोममश्विभ्यामतिमन्युमान् ॥ ९॥ इन्द्रोऽपि प्राक्षिपत्कोपाद्वज्रमस्मै स्वमायुधम् । पश्यतां सर्वदेवानां सूर्यकोटिसमप्रभम् ॥ १०॥ प्रेरितं चाशनिं प्रेक्ष्य च्यवनस्तपसा ततः । स्तम्भयामास वज्रं स शक्रस्यामिततेजसः ॥ ११॥ कृत्यया स महाबाहुरिन्द्रं हन्तुमिहोद्यतः । जुहावाग्नौ श्रुतं हव्यं मन्त्रेण मुनिसत्तमः ॥ १२॥ तत्र कृत्या समुत्पन्ना च्यवनस्य तपोबलात् । प्रबलः पुरुषः क्रूरो बृहत्कायो महासुरः ॥ १३॥ मदो नाम महाघोरो भयदः प्राणिनामिह । शरीरे पर्वताकारस्तीक्ष्णदंष्ट्रो मयानकः ॥ १४॥ चतस्रश्चायता दंष्ट्रा योजनानां शतं शतम् । इतरे त्वस्य दशना बभूवुर्दशयोजनाः ॥ १५॥ बाहू पर्वतसङ्काशावायतौ क्रूरदर्शनौ । जिह्वा तु भीषणा क्रूरा लेलिहाना नभस्तलम् ॥ १६॥ ग्रीवा तु गिरिश‍ृङ्गाभा कठिना भीषणा भृशम् । नखा व्याघ्रनखप्रख्याः केशाश्चातीवभीषणाः ॥ १७॥ शरीरं कज्जलाभं च तस्य चास्यं भयानकम् । नेत्रे दावानलप्रख्ये भीषणेऽतिभयानके ॥ १८॥ हनुरेका स्थिता तस्य भूमावेका दिवं गता । एवंविधः समुत्पन्नो मदो नाम बृहत्तनुः ॥ १९॥ तं विलोक्य सुराः सर्वे भयमाजग्मुरंहसा । इन्द्रोऽपि भयसन्त्रस्तो युद्धाय न मनो दधे ॥ २०॥ दैत्योऽपि वदने कामं वज्रमादाय संस्थितः । व्याप्तं नभो घोरदृष्टिर्ग्रसन्निव जगत्त्रयम् ॥ २१॥ स भक्ष्ययिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् । चक्रुशुश्च सुराः सर्वे हा हताः स्मेति संस्थिताः ॥ २२॥ इन्द्रः स्तम्भितबाहुस्तु मुमुक्षुर्वज्रमन्तिकात् । न शशाक पविं तस्मिन्प्रहर्तुं पाकशासनः ॥ २३॥ वज्रहस्तः सुरेशानस्तं वीक्ष्य कालसन्निभम् । सस्मार मनसा तत्र गुरुं समयकोविदम् ॥ २४॥ स्मरणादाजगामाशु बृहस्पतिरुदारधीः । गुरुस्तत्समयं दृष्ट्वा विपत्तिसदृशं महत् ॥ २५॥ विचार्य मनसा कृत्यं तमुवाच शचीपतिम् । दुःसाध्योऽयं महामन्त्रैस्त्वयं वज्रेण वासव ॥ २६॥ असुरो मदसंज्ञस्तु यज्ञकुण्डात्समुत्थितः । तपोबलमृषेः सम्यक् च्यवनस्य महाबलः ॥ २७॥ अनिवार्यो ह्ययं शत्रुस्त्वया देवैस्तथा मया । शरणं याहि देवेश च्यवनस्य महात्मनः ॥ २८॥ स निवारयिता नूनं कृत्यामात्मकृतां किल । न निवारयितुं शक्ताः शक्तिभक्तरुषं क्वचित् ॥ २९॥ व्यास उवाच - इत्युक्तो गुरुणा शक्रस्तदागच्छन्मुनिं प्रति । प्रणम्य शिरसा नम्रः तमुवाच भयान्वितः ॥ ३०॥ क्षमस्व मुनिशार्दूल शमयासुरमुद्यतम् । प्रसन्नो भव सर्वज्ञ वचनं ते करोम्यहम् ॥ ३१॥ सोमार्हावश्विनावेतावद्यप्रभृति भार्गव । भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ ३२॥ मिथ्या ते नोद्यमो ह्येष भवत्येव तपोधन । जाने त्वमपि धर्मज्ञ मिथ्या नैव करिष्यसि ॥ ३३॥ सोमपावश्विनावेतौ त्वत्कृतौ च सदैवे हि । भविष्यतश्च शर्यातेः कीर्तिस्तु विपुला भवेत् ॥ ३४॥ मया यद्धि कृतं कर्म सर्वथा मुनिसत्तम । परीक्षार्थं तु विज्ञेयं तव वीर्यप्रकाशनम् ॥ ३५॥ प्रसादं कुरु मे ब्रह्मन् मदं संहर चोत्थितम् । कल्याणं सर्वदेवानां तथा भूयो विधीयताम् ॥ ३६॥ एवमुक्तस्तु शक्रेण च्यवनः परमार्थवित् । सञ्जहार तपः कोपं समुत्पन्नं विरोधजम् ॥ ३७॥ देवमाश्वास्य संविग्नं भार्गवस्तु मदं ततः । व्यभजत्स्त्रीषु पानेषु द्यूतेषु मृगयासु च ॥ ३८॥ मदं विभज्य देवेन्द्रमाश्वास्य चकितं भिया । संस्थाप्य च सुरान्सर्वान्मखं तस्य न्यवर्तयत् ॥ ३९॥ ततस्तु संस्कृतं सोमं वासवाय महात्मने । अश्विभ्यां सर्वधर्मात्मा पाययामास भार्गवः ॥ ४०॥ एवं तौ च्यवनेनार्यावश्विनौ रविपुत्रकौ । विहितौ सोमपौ राजन् सर्वथा तपसो बलात् ॥ ४१॥ सरस्तदपि विख्यातं जातं यूपविमण्डितम् । आश्रमस्तु मुनेः सम्यक् पृथिव्यां विश्रुतोऽभवत् ॥ ४२॥ शर्यातिरपि सन्तुष्टो ह्यभवत्तेन कर्मणा । यज्ञं समाप्य नगरे जगाम सचिवैर्वृतः ॥ ४३॥ राज्यं चकार धर्मज्ञो मनुपुत्रः प्रतापवान् । आनर्तस्तस्य पुत्रोऽभूदानर्ताद्रेवतोऽभवत् ॥ ४४॥ सोऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दमः ॥ ४५॥ तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । पुत्री च रेवती नाम्ना सुन्दरी शुभलक्षणा ॥ ४६॥ वरयोग्या यदा जाता तदा राजा च रेवतः । चिन्तयामास राजेन्द्रो राजपुत्रान्कुलोद्भवान् ॥ ४७॥ रैवतं नाम च गिरिमाश्रितः पृथिवीपतिः । चकार राज्यं बलवानानर्तेषु नराधिपः ॥ ४८॥ विचिन्त्य मनसा राजा कस्मै देया मया सुता । गत्वा पृच्छामि ब्रह्माणं सर्वज्ञं सुरपूजितम् ॥ ४९॥ इति सञ्चिन्त्य भूपालः सुतामादाय रेवतीम् । ब्रह्मलोकं जगामाशु प्रष्टुकामः पितामहम् ॥ ५०॥ यत्र देवाश्च यज्ञाश्च छन्दांसि पर्वतास्तथा । अब्धयः सिद्धगन्धर्वाः दिव्यरूपधराः स्थिताः ॥ ५१॥ ऋषयः सिद्धगन्धर्वाः पन्नगाश्चारणास्तथा । तस्थुः प्राञ्जलयः सर्वे स्तुवन्तश्च पुरातनाः ॥ ५२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे रेवतस्य रेवतीवरार्थं ब्रह्मलोकगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ७.७॥

७.८ अष्टमोऽध्यायः । इक्ष्वाकुवंशवर्णनम् ।

जनमेजय उवाच - संशयोऽयं महान् ब्रह्मन् वर्तते मम मानसे । ब्रह्मलोकं गतो राजा रेवतीसंयुतः स्वयम् ॥ १॥ मया पूर्वं श्रुतं कृत्स्नं ब्राह्मणेभ्यः कथान्तरे । ब्राह्मणो ब्रह्मविच्छान्तो ब्रह्मलोकमवाप्नुयात् ॥ २॥ राजा कथं गतस्तत्र रेवतीसंयुतः स्वयम् । सत्यलोकेऽतिदुष्प्रापे भूर्लोकादिति संशयः ॥ ३॥ मृतः स्वर्गमवाप्नोति सर्वशास्त्रेषु निर्णयः । (मानुषेण तु देहेन ब्रह्मलोके गतिः कथं । ) स्वर्गात्पुनः कथं लोके मानुषे जायते गतिः ॥ ४॥ एतन्मे संस्ययं विद्वंश्छेत्तुमर्हसि साम्प्रतम् । यथा राजा गतस्तत्र प्रष्टुकामः प्रजापतिम् ॥ ५॥ व्यास उवाच - मेरोस्तु शिखरे राजन् सर्वे लोकाः प्रतिष्ठिताः । इन्द्रलोको वह्निलोको या च संयमिनी पुरी ॥ ६॥ तथैव सत्यलोकश्च कैलासश्च तथा पुनः । वैकुण्ठश्च पुनस्तत्र वैष्णवं पदमुच्यते ॥ ७॥ यथार्जुनः शक्रलोके गतः पार्थो धनुर्धरः । पञ्चवर्षाणि कौन्तेयः स्थितस्तत्र सुरालये ॥ ८॥ मानुषेणैव देहेन वासवस्य च सन्निधौ । तथैवान्येऽपि भूपालाः ककुत्स्थप्रमुखाः किल ॥ ९॥ स्वर्लोकगतयः पश्चाद्दैत्याश्चापि महाबलाः । जित्वेन्द्रसदनं प्राप्य संस्थितास्तत्र कामतः ॥ १०॥ महाभिषः पुरा राजा ब्रह्मलोकं गतः स्वराट् । आगच्छन्तीं नृपो गङ्गामपश्यच्चातिसुन्दरीम् ॥ ११॥ वायुनाम्बरमस्यास्तु दैवादपहृतं नृप । किञ्चिन्नग्ना नृपेणाथ दृष्टा सा सुन्दरी तथा ॥ १२॥ स्मितं चकार कामार्तः सा च किञ्चिज्जहास वै । ब्रह्मणा तौ तदा दृष्टौ शप्तौ जातौ वसुन्धराम् ॥ १३॥ वैकुण्ठेऽपि सुराः सर्वे पीडिता दैत्यदानवैः । गत्वा हरिं जगन्नाथमस्तुवन्कमलापतिम् ॥ १४॥ सन्देहो नात्र कर्तव्यः सर्वथा नृपसत्तम । गम्याः सर्वेऽपि लोकाः स्युर्मानवानां नराधिप ॥ १५॥ अवश्यं कृतपुण्यानां तापसानां नराधिप । पुण्यसद्भाव एवात्र गमने कारणं नृप ॥ १६॥ तथैव यजमानानां यज्ञेन भावितात्मनाम् । जनमेजय उवाच - रेवतो रेवतीं कन्यां गृहीत्वा चारुलोचनाम् ॥ १७॥ ब्रह्मलोकं गतः पश्चात्किं कृतं तेने भूभुजा । ब्रह्मणा किं समादिष्टं कस्मै दत्ता सुता पुनः ॥ १८॥ तत्सर्वं विस्तराद्बह्मन् कथय त्वं ममाधुना । व्यास उवाच - निशामय महीपाल राजा रेवतकः किल ॥ १९॥ पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकं गतो यदा । आवर्तमाने गान्धर्वे स्थितो लब्धक्षणः क्षणम् ॥ २०॥ श‍ृण्वन्नतृप्यद्धृष्टात्मा सभायां तु सकन्यकः । समाप्ते तत्र गान्धर्वे प्रणम्य परमेश्वरम् ॥ २१॥ दर्शयित्वा सुतां तस्मै स्वाभिप्रायं न्यवेदयत् । राजोवाच - वरं कथय देवेश कन्येयं मम पुत्रिका ॥ २२॥ देया कस्मै मया ब्रह्मन् प्रष्टुं त्वां समुपागतः । बहवो राजपुत्रा मे वीक्षिताः कुलसम्भवाः ॥ २३॥ कस्मिंश्चिन्मे मनः कामं नोपतिष्ठति चञ्चलम् । तस्मात्त्वां देवदेवेश प्रष्टुमत्रागतोऽस्म्यहम् ॥ २३॥ तदाज्ञापय सर्वज्ञ योग्यं राजसुतं वरम् । कुलीनं बलवन्तं च सर्वलक्षणसंयुतम् ॥ २५॥ दातारं धर्मशीलं च राजपुत्रं समादिश । व्यास उवाच - तदाकर्ण्य जगत्कर्ता वचनं नृपतेस्तदा ॥ २६॥ तमुवाच हसन्वाक्यं दृष्ट्वा कालस्य पर्ययम् । ब्रह्मोवाच - राजपुत्रास्त्वया राजन् वरा ये हृदये कृताः ॥ २७॥ ग्रस्ताः कालेन ते सर्वे सपितृपौत्रबान्धवाः । सप्तविंशतिमोऽद्यैव द्वापरस्तु प्रवर्तते ॥ २८॥ वंशजास्ते मृताः सर्वे पुरी दैत्यैर्विलुण्ठिता । सोमवंशोद्भवस्तत्र राजा राज्यं प्रशास्ति हि ॥ २९॥ उग्रसेन इति ख्यातो मथुराधिपतिः किल । ययातिवंशसम्भूतो राजा माथुरमण्डले ॥ ३०॥ उग्रसेनात्मजः कंसः सुरद्वेषी महाबलः । दैत्यांशः पितरं सोऽपि कारागारं न्यवेशयत् ॥ ३१॥ स्वयं राज्यं चकारासौ नृपाणां मदगर्वितः । मेदिनी चातिभारार्ता ब्रह्माणं शरणं गता ॥ ३२॥ दुष्टराजन्यसैन्यायां भारेणातिसमाकुला । अंशावतरणं तत्र गदितं सुरसत्तमैः ॥ ३३॥ वासुदेवः समुत्पन्नः कृष्णः कमललोचनः । देवक्यां देवरूपिण्यां योऽसौ नारायणो मुनिः ॥ ३४॥ तपश्चचार दुःसाध्यं धर्मपुत्रः सनातनः । गङ्गातीरे नरसखः पुण्ये बदरिकाश्रमे ॥ ३५॥ सोऽवतीर्णो यदुकुले वासुदेवोऽपि विश्रुतः । तेनासौ निहतः पापः कंसः कृष्णेन सत्तम ॥ ३६॥ उग्रसेनाय राज्यं वै दत्तं हत्वा खलं सुतम् । कंसस्य श्वशुरः पापो जरासन्धो महाबलः ॥ ३७॥ आगत्य मथुरां क्रोधाच्चकार सङ्गरं मुदा । कृष्णेनासौ जितः सङ्ख्ये जरासन्धो महाबलः ॥ ३८॥ प्रेषयामास युद्धाय सबलं यवनं ततः । श्रुत्वाऽऽयान्तं महाशूरं ससैन्यं यवनाधिपम् ॥ ३९॥ [कृष्णस्तु मथुरां त्यक्त्वा पुरीं द्वारावतीमगात् । प्रभग्नां तां पुरीं कृष्णः शिल्पिभिः सह सङ्गतैः ॥ कारयामास दुर्गाढ्यां हट्टशालाविमण्डिताम् । जीर्णोद्धारं पुरः कृत्वा वासुदेवः प्रतापवान् । उग्रसेनं च राजानं चकार वशवर्तिनम् ॥ ] यादवान्स्थापयामास द्वारवत्यां यदूत्तमः । वासुदेवस्तु तत्राद्य वर्तते बान्धवैः सह ॥ ४०॥ तास्याग्रतः स विख्यातो बलदेवो हलायुधः । शेषांशो मुसली वीरो वरोऽस्तु तव सम्मतः ॥ ४१॥ सङ्कर्षणाय देह्याशु कन्यां कमललोचनाम् । रेवतीं बलभद्राय विवाहविधिना ततः ॥ ४२॥ दत्त्वा पुत्रीं नृपश्रेष्ठ गच्छ त्वं बदरिकाश्रमम् । तपस्तप्तुं सुरारामं पावनं कामदं नृणाम् ॥ ४३॥ व्यास उवाच - इति राजा समादिष्टो ब्रह्मणा पद्मयोनिना । जगाम तरसा राजन् द्वारकां कन्ययान्वितः ॥ ४४॥ ददौ तां बलदेवाय कन्यां वै शुभलक्षणाम् । ततस्तप्त्वा तपस्तीव्रं नृपतिः कालपर्यये ॥ ४५॥ जगाम त्रिदशावासं त्यक्त्वा देहं सरित्तटे । राजोवाच - भगवन्महदाश्चर्यं भवता समुदाहृतम् ॥ ४६॥ रेवतस्तु स्थितस्तत्र ब्रह्मलोके सुतार्थतः । युगानां तु गतं तत्र शतमष्टोत्तरं किल ॥ ४७॥ कन्या वृद्धा न सञ्जाता राजा वातितरां नु किम् । एतावन्तं तथा कालमायुः पूर्णं तयोः कथम् ॥ ४८॥ व्यास उवाच - न जरा क्षुपित्पासा वा न मृत्युर्न भयं पुनः । न तु ग्लानिः प्रभवति ब्रह्मलोके सदानघ ॥ ४९॥ मेरुं गतस्य शर्यातेः सन्तती राक्षसैर्हता । गताः कुशस्थलीं त्यक्त्वा भयभीता इतस्ततः ॥ ५०॥ मनोश्च क्षुवतः पुत्र उत्पन्नो वीर्यवत्तरः । इक्ष्वाकुरिति विख्यातः सूर्यवंशकरस्तु सः ॥ ५१॥ वंशार्थं तप आतिष्ठद्देवीं ध्यात्वा निरन्तरम् । नारदस्योपदेशेन प्राप्य दीक्षामनुत्तमाम् ॥ ५२॥ तस्य पुत्रशतं राजन्निक्ष्वाकोरिति विश्रुतम् । विकुक्षिः प्रथमस्तेषां बलवीर्यसमन्वितः ॥ ५३॥ अयोध्यायां स्थितो राजा इक्ष्वाकुरिति विश्रुतः । शकुनिप्रमुखाः पुत्रा पञ्चाशद्बलवत्तराः ॥ ५४॥ उत्तरापथदेशस्य रक्षितारः कृताः किल । दक्षिणस्यां तथा राजन्नादिष्टास्तेन ते सुताः ॥ ५५॥ चत्वारिंशत्तथाष्टौ च रक्षणार्थं महात्मना । अन्यौ द्वौ संस्थितौ पार्श्वे सेवार्थं तस्य भूपतेः ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे इक्ष्वाकुवंशवर्णनं नामाष्टमोऽध्यायः ॥ ७.८॥

७.९ नवमोऽध्यायः । मान्धातोत्पत्तिवर्णनम् ।

व्यास उवाच - कदाचिदष्टकाश्राद्धे विकुक्षिं पृथिवीपतिः । आज्ञापयदसम्मूढो मांसमानय सत्वरम् ॥ १॥ मेध्यं श्राद्धार्थमधुना वने गत्वा सूतादरात् । उत्युक्तोऽसौ तथेत्याशु जगाम वनमस्त्रभृत् ॥ २॥ गत्वा जघान बाणैः स वराहान्सूकरान्मृगान् । शशांश्चापि परिश्रान्तो बभूवाथ बुभूक्षितः ॥ ३॥ विस्मृता चाष्टका तस्य शशं चाददसौ वने । शेषं निवेदयामास पित्रे मांसमनुत्तमम् ॥ ४॥ प्रोक्षणाय समानीतं मांसं दृष्ट्वा गुरुस्तदा । अनर्हमिति तज्ज्ञात्वा चुकोप मुनिसत्तमः ॥ ५॥ भुक्तशेषं तु न श्राद्धे प्रोक्षणीयमिति स्थितिः । राज्ञे निवेदयामास वसिष्ठः पाकदूषणम् ॥ ६॥ पुत्रस्य कर्म तज्ज्ञात्वा भूपतिर्गुरुणोदितम् । चुकोप विधिलोपात्तं देशान्निःसारयत्ततः ॥ ७॥ शशाप इति विख्यातो नाम्ना जातो नृपात्मजः । गतो वने शशादस्तु पितृकोपादसम्भ्रमः ॥ ८॥ वन्येन वर्तयन्कालं नीतवान् धर्मतत्परः । पितर्युपरते राज्यं प्राप्तं तेन महात्मना ॥ ९॥ शशादस्त्वकरोद्राज्यमयोध्यायाः पतिः स्वयम् । यज्ञाननेकशः पूर्णांश्चकार सरयूतटे ॥ १०॥ शशादस्याभवत्पुत्रः ककुत्स्थ इति विश्रुतः । तस्यैव नामभेदाद्वै इन्द्रवाहः पुरञ्जयः ॥ ११॥ जनमेजय उवाच - नामभेदः कथं जातो राजपुत्रस्य चानघ । कारणं ब्रूहि मे सर्वं कर्मणा येन चाभवत् ॥ १२॥ व्यास उवाच - शशादे स्वर्गते राजा ककुत्स्थ इति चाभवत् । [राज्यं चकार धर्मज्ञः पितृपैतामहं बलात् ।] एतस्मिन्नन्तरे देवा दैत्यैः सर्वे पराजिताः ॥ १३॥ जग्मुस्त्रिलोकाधिपतिं विष्णुं शरणमव्ययम् । तान्प्रोवाच महाविष्णुस्तदा देवान्सनातनः ॥ १४॥ विष्णुरुवाच - पार्ष्णिग्राहं महीपालं प्रार्थयन्तु शशादजम् । स हनिष्यति वै दैत्यान्सङ्ग्रामे सुरसत्तमाः ॥ १५॥ आगमिष्यति धर्मात्मा साहाय्यार्थं धनुर्धरः । पराशक्तेः प्रसादेन सामर्थ्यं तस्य चातुलम् ॥ १६॥ हरेः सुवचनाद्देवा ययुः सर्वे सवासवाः । अयोध्यायां महाराज शशादतनयं प्रति ॥ १७॥ तानागतान् सुरान् राजा पूजयामास धर्मतः । पप्रच्छागमने राजा प्रयोजनमतन्द्रितः ॥ १८॥ राजोवाच - धन्योऽहं पावितश्चास्मि जीवितं सफलं मम । यदागत्य गृहे देवा ददुश्च दर्शनं महत् ॥ १९॥ ब्रुवन्तु कृत्यं देवेशा दुःसाध्यमपि मानवैः । करिष्यामि महत्कार्यं सर्वथा भवतां महत् ॥ २०॥ देवा ऊचुः - साहाय्यं कुरु राजेन्द्र सखा भव शचीपतेः । सङ्ग्रामे जय दैत्येन्द्रान्दुर्जयांस्त्रिदशैरपि ॥ २१॥ पराशक्तिप्रसादेन दुर्लभं नास्ति ते क्वचित् । विष्णुना प्रेरिताश्चैवमागतास्तव सन्निधौ ॥ २२॥ राजोवाच - पार्ष्णिग्राहो भवाम्यद्य देवानां सुरसत्तमाः । इन्द्रो मे वाहनं तत्र भवेद्यदि सुराधिपः ॥ २३॥ सङ्ग्रामं तु करिष्यामि दैत्यैर्देवकृतेऽधुना । आरुह्येन्द्रं गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ २४॥ तदोचुर्वासवं देवाः कर्तव्यं कार्यमद्भुतम् । पत्रं भव नरेन्द्रस्य त्यक्त्वा लज्जां शचीपते ॥ २५॥ लज्जमानस्तदा शक्रः प्रेरितो हरिणा भृशम् । बभूव वृषभस्तूर्णं रुद्रस्येवापरो महान् ॥ २६॥ तमारुरोह राजासौ सङ्ग्रामगमनाय वै । स्थितः ककुदि येनास्य ककुत्स्थस्तेन चाभवत् ॥ २७॥ इन्द्रो वाहः कृतो येन तेन नाम्नेन्द्रवाहकः । पुरं जितं तु दैत्यानां तेनाभूच्च पुरञ्जयः ॥ २८॥ जित्वा दैत्यान्महाबाहुर्धनं तेषां प्रदत्तवान् । पप्रच्छ चैवं राजर्षेरिति सख्यं बभूव ह ॥ २९॥ ककुत्स्थश्चातिविख्यातो नृपतिस्तस्य वंशजाः । काकुत्स्था भुवि राजानो बभूवुर्बहुविश्रुताः ॥ ३०॥ ककुत्स्थस्याभवत्पुत्रो धर्मपत्न्यां महाबलः । अनेना विश्रुतस्तस्य पृथुः पुत्रश्च वीर्यवान् ॥ ३१॥ विष्णोरंशः स्मृतः साक्षात्पराशक्तिपदार्चकः । विश्वरन्धिस्तु विज्ञेयः पृथोः पुत्रो नराधिपः ॥ ३२॥ चन्द्रस्तस्य सुतः श्रीमान् राजा वंशकरः स्मृतः । तत्सुतो युवनाश्वस्तु तेजस्वी बलवत्तरः ॥ ३३॥ शावन्तो युवनाश्वस्य जज्ञे परमधार्मिकः । शावन्ती निर्मिता तेन पुरी शक्रपुरीसमा ॥ ३४॥ बृहदश्वस्तु पुत्रोऽभूच्छावन्तस्य महात्मनः । कुवलयाश्वः सुतस्तस्य बभूव पृथिवीपतिः ॥ ३५॥ धुन्धुर्नामा हतो दैत्यस्तेनासौ पृथिवीतले । धुन्धुमारेति विख्यातं नाम प्रापातिविश्रुतम् ॥ ३६॥ पुत्रस्तस्य दृढाश्वस्तु पालयामास मेदिनीम् । दृढाश्वस्य सुतः श्रीमान्हर्यश्व इति कीर्तितः ॥ ३७॥ निकुम्भस्तत्सुतः प्रोक्तो बभूव पृथिवीपतिः । बर्हणाश्वो निकुम्भस्य कुशाश्वस्तस्य वै सुतः ॥ ३८॥ प्रसेनजित्कृशाश्वस्य बलवान्सत्यविक्रमः । तस्य पुत्रो महाभागो यौवनाश्वेति विश्रुतः ॥ ३९॥ यौवनाश्वसुतः श्रीमान्मान्धातेति महीपतिः । अष्टोत्तरसहस्रं तु प्रासादा येन निर्मिताः ॥ ४०॥ भगवत्यास्तु तुष्ट्यर्थं महातीर्थेषु मानद । मातृगर्भे न जातोऽसावुत्पन्नो जनकोदरे ॥ ४१॥ निःसारितस्ततः पुत्रः कुक्षिं भित्त्वा पितुः पुनः । राजोवाच - न श्रुतं न च दृष्टं वा भवता तदुदाहृतम् ॥ ४२॥ असम्भाव्यं महाभाग तस्य जन्म यथोदितम् । विस्तरेण वदस्वाद्य मान्धातुर्जन्मकारणम् ॥ ४३॥ राजोदरे यथोत्पन्नः पुत्रः सर्वाङ्गसुन्दरः । व्यास उवाच - यौवनाश्वोऽनपत्योऽभूद्राजा परमधार्मिकः ॥ ४४॥ भार्याणां च शतं तस्य बभूव नृपतेर्नृप । राजा चिन्तापरः प्रायश्चिन्तयामास नित्यशः ॥ ४५॥ अपत्यार्थे यौवनाश्वो दुःखितस्तु वनं गतः । ऋषीणामाश्रमे पुण्ये निर्विण्णः स च पार्थिवः ॥ ४६॥ मुमोच दुःखितः श्वासांस्तापसानां च पश्यताम् । दृष्ट्वा तु दुःखितं विप्रा बभूवुश्च कृपालवः ॥ ४७॥ तमूचुर्ब्राह्मणा राजन्कस्माच्छोचसि पार्थिव । किं ते दुःखं महाराज ब्रूहि सत्यं मनोगतम् ॥ ४८॥ प्रतीकारं करिष्यामो दुःखस्य तव सर्वथा । यौवनाश्व उवाच - राज्यं धनं सदश्वाश्च वर्तन्ते मुनयो मम ॥ ४९॥ भार्याणां च शतं शुद्धं वर्तते विशदप्रभम् । नारातिस्त्रिषु लोकेषु कोऽप्यस्ति बलवान्मम ॥ ५०॥ आज्ञाकरास्तु सामन्ता वर्तन्ते मन्त्रिणस्तथा । एकं सन्तानजं दुःखं नान्यत्पश्यामि तापसाः ॥ ५१॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्माच्छोचामि विप्रेन्द्राः सन्तानार्थं भृशं ततः ॥ ५२॥ वेदशास्त्रार्थतत्त्वज्ञास्तापसाश्च कृतश्रमाः । इष्टिं सन्तानकामस्य युक्तां ज्ञात्वा दिशन्तु मे ॥ ५३॥ कुर्वन्तु मम कार्यं वै कृपा चेदस्ति तापसाः । व्यास उवाच - तच्छ्रुत्वा वचनं राज्ञः कृपया पूर्णमानसाः ॥ ५४॥ कारयामासुरव्यग्रास्तस्येष्टिमिन्द्रदेवताम् । कलशः स्थापितस्तत्र जलपूर्णस्तु वाडवैः ॥ ५५॥ मन्त्रितो वेदमन्त्रैश्च पुत्रार्थं तस्य भूपतेः । राजा तद्यज्ञसदनं प्रविष्टस्तृषितो निशि ॥ ५६॥ विप्रान्दृष्ट्वा शयानान्स पपौ मन्त्रजलं स्वयम् । भार्यार्थं संस्कृतं विप्रैर्मन्त्रितं विधिनोद्धृतम् ॥ ५७॥ पीतं राज्ञा तृषार्तेन तदज्ञानान्नृपोत्तम । व्युदकं कलशं दृष्ट्वा तदा विप्रा विशङ्किताः ॥ ५८॥ पप्रच्छुस्ते नृपं केन पीतं जलमिति द्विजाः । राज्ञा पीतं विदित्वा ते ज्ञात्वा दैवबलं महत् ॥ ५९॥ इष्टिं समापयामासुर्गतास्ते मुनयो गृहान् । गर्भं दधार नृपतिस्ततो मन्त्रबलादथ ॥ ६०॥ ततः काले स उत्पन्नः कुक्षिं भित्त्वाऽस्य दक्षिणाम् । पुत्रं निष्कासमायासुर्मन्त्रिणस्तस्य भूपतेः ॥ ६१॥ देवानां कृपया तत्र न ममार महीपतिः । कं धास्यति कुमारोऽयं मन्त्रिणश्चुक्रुशुर्भृशम् ॥ ६२॥ तदेन्द्रो देशिनीं प्रादान्मां धातेत्यवदद्वचः । सोऽभवद्बलवान् राजा मान्धाता पृथिवीपतिः । तदुत्पत्तिस्तु भूपाल कथिता तव विस्तरात् ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे मान्धातोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ ७.९॥

७.१० दशमोऽध्यायः । सत्यव्रताख्यानवर्णनम् ।

व्यास उवाच - बभूव चक्रवर्ती स नृपतिः सत्यसङ्गरः । मान्धाता पृथिवीं सर्वामजयन्नृपतीश्वरः ॥ १॥ दस्यवोऽस्य भयत्रस्ता ययुर्गिरिगुहासु च । इन्द्रेणास्य कृतं नाम त्रसद्दस्युरिति स्फुटम् ॥ २॥ तस्य बिन्दुमती भार्या शशबिन्दोः सुताभवत् । पतिव्रता सुरूपा च सर्वलक्षणसंयुता ॥ ३॥ तस्यामुत्पादयामास मान्धाता द्वौ सुतौ नृप । पुरुकुत्सं सुविख्यातं मुचुकुन्दं तथापरम् ॥ ४॥ पुरुकुत्सात्ततोऽरण्यः पुत्रः परमधार्मिकः । पितृभक्तिरतश्चाभूद्बृहदश्वस्तदात्मजः ॥ ५॥ हर्यश्वस्तस्य पुत्रोऽभूद्धार्मिकः परमार्थवित् । तस्यात्मजस्त्रिधन्वाभूदरुणस्तस्य चात्मजः ॥ ६॥ अरुणस्य सुतः श्रीमान्सत्यव्रत इति श्रुतः । सोऽभूदिच्छाचरः कामी मन्दात्मा ह्यतिलोलुपः ॥ ७॥ स पापात्मा विप्रभार्यां हृतवान्काममोहितः । विवाहे तस्य विघ्नं स चकार नृपतेः सुतः ॥ ८॥ मिलिता ब्राह्मणास्तत्र राजानमरुणं नृप । ऊचुर्भृशं सुदुःखार्ता हा हताःस्मेति चासकृत् ॥ ९॥ पप्रच्छ राजा तान्विप्रान्दुःखितान्पुरवासिनः । किं कृतं मम पुत्रेण भवतामशुभं द्विजाः ॥ १०॥ तन्निशम्य द्विजा वाक्यं राज्ञो विनयपूर्वकम् । तदोचुस्त्वरुणं विप्रां कृताशीर्वचना भृशम् ॥ ११॥ ब्राह्मणा ऊचुः - राजंस्तव सुतेनाद्य विवाहे प्रहृता किल । विवाहिता विप्रकन्या बलेन बलिनांवर ॥ १२॥ व्यास उवाच - श्रुत्वा तेषां वचस्तथ्यं राजा परमधार्मिकः । पुत्रमाह वृथा नाम कृतं ते दुष्टकर्मणा ॥ १३॥ गच्छ दूरं सुमन्दात्मन्दुराचार गृहान्मम । न स्थातव्यं त्वया पाप विषये मम सर्वथा ॥ १४॥ कुपितं पितरं प्राह क्व गच्छामीति वै मुहुः । अरुणस्तमथोवाच श्वपाकैः सह वर्तय ॥ १५॥ श्वपचस्य कृतं कर्म द्विजदारापहारणम् । तस्मात्तैः सह संसर्गं कृत्वा तिष्ठ यथासुखम् ॥ १६॥ नाहं पुत्रेण पुत्रार्थी त्वया च कुलपांसन । यथेष्टं व्रज दुष्टात्मन् कीर्तिनाशः कृतस्त्वया ॥ १७॥ स निशम्य पितुर्वाक्यं कुपितस्य महात्मनः । निश्चक्राम पुरात्तस्मात्तरसा श्वपचान्ययौ ॥ १८॥ सत्यव्रतस्तदा तत्र श्वपाकैः सह वर्तते । धनुर्बाणधरः श्रीमान्कवची करुणालयः ॥ १९॥ यदा निष्कासितः पित्रा कुपितेन महात्मना । गुरुणाथ वसिष्ठेन प्रेरितोऽसौ महीपतिः ॥ २०॥ तस्मात्सत्यव्रतस्तस्मिन्बभूव क्रोधसंयुतः । वसिष्ठे धर्मशास्त्रज्ञे निवारणपराङ्मुखे ॥ २१॥ केनचित्कारणेनाथ पिता तस्य महीपतिः । पुत्रार्थेऽसौ तपस्तप्तुं पुरं त्यक्त्वा वनं गतः ॥ २२॥ न ववर्ष तदा तस्मिन्विषये पाकशासनः । समा द्वादश राजेन्द्र तेनाधर्मेण सर्वथा ॥ २३॥ विश्वामित्रस्तदा दारांस्तस्मिंस्तु विषये नृप । संन्यस्य कौशिकीतीरे चचार विपुलं तपः ॥ २४॥ कातरा तत्र सञ्जाता भार्या वै कौशिकस्य ह । कुटुम्बभरणार्थाय दुःखिता वरवर्णिनी ॥ २५॥ बालकान्क्षुधयाक्रान्तान्रुदतः पश्यती भृशम् । याचमानांश्च नीवारान्कष्टमाप पतिव्रता ॥ २६॥ चिन्तयामास दुःखार्ता तोकान्वीक्ष्य क्षुधातुरान् । नृपो नास्ति पुरे ह्यद्य कं याचे वा करोमि किम् ॥ २७॥ न मे त्रातास्ति पुत्राणां पतिर्मे नास्ति सन्निधौ । रुदन्ति बालकाः कामं धिङ्मे जीवनमद्य वै ॥ २८॥ धनहीनां च मां त्यक्त्वा तपस्तप्तुं गतः पतिः । न जानाति समर्थोऽपि दुःखितां धनवर्जिताम् ॥ २९॥ बालानां भरणं केन करोमि पतिना विना । मरिष्यन्ति सुताः सर्वे क्षुधया पीडिता भृशम् ॥ ३०॥ एकं सुतं तु विक्रीय द्रव्येण कियता पुनः । पालयामि सुतानन्यानेष मे विहितो विधिः ॥ ३१॥ सर्वेषां मारणं नाद्धा युक्तं मम विपर्यये । कालस्य कलनायाहं विक्रीणामि तथात्मजम् ॥ ३२॥ हृदयं कठिनं कृत्वा सञ्चिन्त्य मनसा सती । सा दर्भरज्ज्वा बद्ध्वाथ गले पुत्रं विनिर्गता ॥ ३३॥ मुनिपत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् । शेषस्य भरणार्थाय गृहीत्वा चलिता गृहात् ॥ ३४॥ दृष्टा सत्यव्रतेनार्ता तापसी शोकसंयुता । पप्रच्छ नृपतिस्तां तु किं चिकीर्षसि शोभने ॥ ३५॥ रुदन्तं बालकं कण्ठे बद्ध्वा नयसि काधुना । किमर्थं चारुसर्वाङ्गि सत्यं ब्रूहि ममाग्रतः ॥ ३६॥ ऋषिपत्न्युवाच - विश्वामित्रस्य भार्याहं पुत्रोऽयं मे नृपात्मज । विक्रेतुमौरसं कामं गमिष्ये विषमे सुतम् ॥ ३७। अन्नं नास्ति पतिर्मुक्त्वा गतस्तप्तुं नृप क्वचित् । विक्रीणामि क्षुधार्तैनं शेषस्य भरणाय वै ॥ ३८॥ राजोवाच - पतिव्रते रक्ष पुत्रं दास्यामि भरणं तव । तावदेव पतिस्तेऽत्र वनाच्चैवागमिष्यति ॥ ३९॥ वृक्षे तवाश्रमाभ्याशे भक्ष्यं किञ्चिन्निरन्तरम् । बन्धयित्वा गमिष्यामि सत्यमेतद्ब्रवीम्यहम् ॥ ४०॥ इत्ययुक्ता सा तदा तेन राज्ञा कौशिककामिनी । विबन्धं तनयं कृत्वा जगामाश्रममण्डलम् ॥ ४१॥ सोऽभवद् गालवो नाम गलबन्धान्महातपाः । सा तु स्वस्याश्रमे गत्वा मुमोद बालकैर्वृता ॥ ४२॥ सत्यव्रतस्तु भक्त्या च कृपया च परिप्लुतः । विश्वामित्रस्य च मुनेः कलत्रं तद् बभार ह ॥ ४३॥ वने स्थितान्मृगान्हत्वा वराहान्महिषांस्तथा । विश्वामित्रवनाभ्याशे मांसं वृक्षे बबन्ध ह ॥ ४४॥ ऋषिपत्नी गृहीत्वा तन्मांसं पुत्रानदात्ततः । निर्वृत्तिं परमां प्राप प्राप्य भक्ष्यमनुत्तमम् ॥ ४५॥ अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । गते तप्तुं नृपे तस्मिन्वसिष्ठः पर्यरक्षत ॥ ४६॥ सत्यव्रतोऽपि धर्मात्मा ह्यतिष्ठन्नगराद् बहिः । पितुराज्ञां समास्थाय पशुघ्नव्रतवान्वने ॥ ४७॥ सत्यव्रतो ह्यकस्माच्च कस्यचित्कारणान्नृपः । वसिष्ठे चाधिकं मन्युं धारयामास नित्यदा ॥ ४८॥ त्यज्यमानं वने पित्रा धर्मिष्ठं च प्रियं सुतम् । न वारयामास मुनिर्वसिष्ठः कारणेन ह ॥ ४९॥ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । जानन्नपि स धर्मात्मा विप्रदारपरिग्रहे ॥ ५०॥ कस्मिंश्चिद्दिवसेऽरण्ये मृगाभावे महीपतिः । वसिष्ठस्य च गां दोग्ध्रीमपश्यद्वनमध्यगाम् ॥ ५१॥ तां जघान क्षुधार्तस्तु क्रोधान्मोहाच्च दस्युवत् । वृक्षे बबन्ध तन्मांसं नीत्वा स्वयमभक्षयत् ॥ ५२॥ ऋषिपत्नी सुतान्सर्वान्भोजयमास तत्तदा । शङ्कमाना मृगस्येति न गोरिति च सुव्रता ॥ ५३॥ वसिष्ठस्तु हतां दोग्ध्रीं ज्ञात्वा क्रुद्धस्तमब्रवीत् । दुरात्मन् किं कृतं पापं धेनुघातात्पिशाचवत् ॥ ५४॥ एवं ते शङ्कवः क्रूराः पतन्तु त्वरितास्त्रयः । गोवधाद्दारहरणात्पितुः क्रोधात्तथा भृशम् ॥ ५५॥ त्रिशङ्कुरिति नाम्ना वै भुवि ख्यातो भविष्यसि । पिशाचरूपमात्मानं दर्शयन्सर्वदेहिनाम् ॥ ५६॥ व्यास उवाच - एवं शप्तो वसिष्ठेन तदा सत्यव्रतो नृपः । चचार च तपस्तीव्रं तस्मिन्नेवाश्रमे स्थितः ॥ ५७॥ कस्माच्चिन्मुनिपुत्रात्तु प्राप्य मन्त्रमनुत्तमम् । ध्यायन्भगवतीं देवीं प्रकृतिं परमां शिवाम् ॥ ५८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताख्यानवर्णनं नाम दशमोऽध्यायः ॥ ७.१०॥

७.११ एकादशोऽध्यायः । सत्यव्रताय राजनीत्युपदेशवर्णनम् ।

जनमेजय उवाच - वसिष्ठेन च शप्तोऽसौ त्रिशङ्कुर्नृपतेः सुतः । कथं शापाद्विनिर्मुक्तस्तन्मे ब्रूहि महामते ॥ १॥ व्यास उवाच - सत्यव्रतस्तथा शप्तः पिशाचत्वमवाप्तवान् । तस्मिन्नेवाश्रमे तस्थौ देवीभक्तिपरायणः ॥ २॥ कदाचिन्नृपतिस्तत्र जप्त्वा मन्त्रं नवाक्षरम् । होमार्थं ब्राह्मणान्गत्वा प्रणम्योवाच भक्तितः ॥ ३॥ भूमिदेवाः श‍ृणुध्वं वै वचनं प्रणतस्य मे । ऋत्विजो मम सर्वेऽत्र भवन्तः प्रभवन्तु ह ॥ ४॥ जपस्य च दशांशेन होमः कार्यो विधानतः । भवद्भिः कार्यसिद्ध्यर्थं वेदविद्भिः कृपापरैः ॥ ५॥ सत्यव्रतोऽहं नृपतेः पुत्रो ब्रह्मविदांवराः । कार्यं मम विधातव्यं सर्वथा सुखहेतवे ॥ ६॥ तच्छ्रुत्वा ब्राह्मणास्तत्र तमूचुर्नृपतेः सुतम् । शप्तस्त्वं गुरुणा प्राप्तं पिशाचत्वं त्वयाधुना ॥ ७॥ न यागार्होऽसि तस्मात्त्वं वेदेष्वनधिकारतः । पिशाचत्वमनुप्राप्तं सर्वलोकेषु गर्हितम् ॥ ८॥ व्यास उवाच - तन्निशम्य वचस्तेषां राजा दुःखमवाप ह । धिग्जीवितमिदं मेऽद्य किं करोमि वने स्थितः ॥ ९॥ पित्रा चाहं परित्यक्तः शप्तश्च गुरुणा भृशम् । राज्याद्भ्रष्टः पिशाचत्वमनुप्राप्तः करोमि किम् ॥ १०॥ तदा पृथुतरां कृत्वा चितां काष्ठैर्नृपात्मजः । सस्मार चण्डिकां देवीं प्रवेशमनुचिन्तयन् ॥ ११॥ स्मृता देवीं महामायां चितां प्रज्वलितां पुरः । कृत्वा स्नात्वा प्रवेशार्थं स्थितः प्राञ्जलिरग्रतः ॥ १२॥ ज्ञात्वा भगवती तं तु मर्तुकामं महीपतिम् । आजगाम तदाऽऽकाशं प्रत्यक्षं तस्य चाग्रतः ॥ १३॥ दत्त्वाथ दर्शनं देवी तमुवाच नृपात्मजम् । सिंहारूढा महाराज मेघगम्भीरया गिरा ॥ १४। देव्युवाच - किं ते व्यवसितं साधो हुताशे मा तनुं त्यज । स्थिरो भव महाभाग पिता ते जरसान्वितः ॥ १५॥ राज्यं दत्त्वा वने तुभ्यं गन्तास्ति तपसे किल । विषादं त्यज हे वीर परश्वोऽहनि भूपते ॥ १६॥ नेतुं त्वामागमिष्यन्ति सचिवाश्व पितुस्तव । मत्प्रसादात्पिता च त्वामभिषिच्य नृपासने ॥ १७॥ जित्वा कामं ब्रह्मलोकं गमिष्येत्येष निश्चयः । व्यास उवाच - इत्युक्त्वा तं तदा देवी तत्रैवान्तरधीयत ॥ १८॥ राजपुत्रो विरमितो मरणात्पावकात्ततः । अयोध्यायां तदाऽऽगत्य नारदेन महात्मना ॥ १९॥ वृत्तान्तः कथितः सर्वो राज्ञे सत्वरमादितः । श्रुत्वा राजाथ पुत्रस्य तं तथा मरणोद्यमम् ॥ २०॥ खेदमाधाय मनसि शुशोच बहुधा नृपः । सचिवानाह धर्मात्मा पुत्रशोकपरिप्लुतः ॥ २१॥ ज्ञातं भवद्भिरत्युग्रं पुत्रस्य मम चेष्टितम् । त्यक्तो मया वने धीमान्पुत्रः सत्यव्रतो मम ॥ २२॥ आज्ञयासौ गतः सद्यो राज्यार्हः परमार्थवित् । स्थितस्तत्रैव विज्ञाने धनहीनः क्षमान्वितः ॥ २३॥ वसिष्ठेन तथा शप्तः पिशाचसदृशः कृतः । सोऽद्य दुःखेन सन्तप्तः प्रवेष्टुञ्च हुताशनम् ॥ २४॥ उद्यतः श्रीमहादेव्या निषिद्धः संस्थितः पुनः । तस्माद् गच्छन्तु तं शीघ्रं ज्येष्ठपुत्रं महाबलम् ॥ २५॥ आश्वास्य वचनैरत्र तरसैवानयन्त्विह । अभिषिच्य सुतं राज्ये औरसं पालनक्षमम् ॥ २६॥ वनं यास्यामि शान्तोऽहं तपसे कृतनिश्चयः । इत्युक्त्वा मन्त्रिणः सर्वान्प्रेषयामास पार्थिवः ॥ २७॥ तस्यैवानयनार्थं हि प्रीतिप्रवणमानसः । ते गत्वा तं समाश्वास्य मन्त्रिणः पार्थिवात्मजम् ॥ २८॥ अयोध्यायां महात्मानं मानपूर्वं समानयन् । दृष्ट्वा सत्यव्रतं राजा दुर्बलं मलिनाम्बरम् ॥ २९॥ जटाजूटधरं क्रूरं चिन्तातुरमचिन्तयत् । किं कृतं निष्ठुरं कर्म मया पुत्रो विवासितः ॥ ३०॥ राज्यार्हश्चातिमेधावी जानता धर्मनिश्चयम् । इति सञ्चिन्त्य मनसा तमालिङ्य महीपतिः ॥ ३१॥ आसने स्वसमीपशे समाश्वास्योपवेशयत् । उपविष्टं सुतं राजा प्रेमपूर्वमुवाच ह ॥ ३२॥ प्रेमगद्गदया वाचा नीतिशास्त्रविशारदः । राजोवाच - पुत्र धर्मे मतिः कार्या माननीया मुखोद्भवाः ॥ ३३॥ न्यायागतं धनं ग्राह्यं रक्षणीयाः सदा प्रजाः । नासत्यं क्वापि वक्तव्यं नामार्गे गमनं क्वचित् ॥ ३४॥ शिष्टप्रोक्तं प्रकर्तव्यं पूजनीयास्तपस्विनः । हन्तव्या दस्यवः क्रूरा इन्द्रियाणां तथा जयः ॥ ३५॥ कर्तव्यं कार्यसिद्ध्यर्थं राज्ञा पुत्र सदैव हि । मन्त्रस्तु सर्वथा गोप्यः कर्तव्यः सचिवैः सह ॥ ३६॥ नोपेक्ष्योऽल्पोऽपि कृतिना रिपुः सर्वात्मना सुत । न विश्वसेत्परासक्तं सचिवं च तथा नतम् ॥ ३७॥ चाराः सर्वत्र योक्तव्याः शत्रुमित्रेषु सर्वथा । धर्मे मतिः सदा कार्या दानं दद्याच्च नित्यशः ॥ ३८॥ शुष्कवादो न कर्तव्यो दुष्टसङ्गं च वर्जयेत् । यष्टव्या विविधा यज्ञाः पूजनीया महर्षयः ॥ ३९॥ न विश्वसेत्स्त्रियं क्वापि स्त्रैणं द्यूतरतं नरम् । अत्यादरो न कर्तव्यो मृगयायां कदाचन ॥ ४०॥ द्यूते मद्ये तथा गेये नूनं वारवधूषु च । स्वयं तद्विमुखो भूयात् प्रजास्तेभ्यश्च रक्षयेत् ॥ ४१॥ ब्राह्मे मुहूर्ते कर्तव्यमुत्थानं सर्वथा सदा । स्नानादिकं सर्वविधिं विधाय विधिवद्यथा ॥ ४२॥ पराशक्तेः परां पूजां भक्त्या कुर्यात्सुदीक्षितः । पुत्रैतज्जन्मसाफल्यं पराशक्तेः पदार्चनम् ॥ ४३॥ सकृत्कृत्वा महापूजां दैवीपादजलं पिबन् । न जातु जननीगर्भे गच्छेदिति विनिश्चयः ॥ ४४॥ सर्वं दृश्यं महादेवी द्रष्टा साक्षी च सैव हि । इति तद्भावभरितस्तिष्ठेन्निर्भयचेतसा ॥ ४५॥ कृत्वा नित्यविधिं सम्यग्गन्तव्यं सदसि द्विजान् । समाहूय च प्रष्टव्यो धर्मशास्त्रविनिर्णयः ॥ ४६॥ सम्पूज्य ब्राह्मणान्पूज्यान्वेदवेदान्तपारगान् । गोभूहिरण्यादिकं च देयं पात्रेषु सर्वदा ॥ ४७॥ अविद्वान्ब्राह्मणः कोऽपि नैव पूज्यः कदाचन । आहारादधिकं नैव देयं मूर्खाय कर्हिचित् ॥ ४८॥ न वा लोभात्त्वया पुत्र कर्तव्यं धर्मलङ्घनम् । अतः परं न कर्तव्यं क्वचिद्विप्रावमाननम् ॥ ४९॥ ब्राह्मणा भूमिदेवाश्च माननीयाः प्रयत्नतः । कारणं क्षत्रियाणां च द्विजा एव न संशयः ॥ ५०॥ अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ५१॥ तस्माद्राज्ञा विशेषेण माननीया मुखोद्भवाः । दानेन विनयेनैव सर्वथा भूतिमिच्छता ॥ ५२॥ दण्डनीतिः सदा कार्या धर्मशास्त्रानुसारतः । कोशस्य सङ्ग्रहः कार्यो नूनं न्यायागतस्य ह ॥ ५३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे सत्यव्रताय राजनीत्युपदेशवर्णनं नामैकादशोऽध्यायः ॥ ७.११॥

७.१२ द्वादशोऽध्यायः । त्रिशङ्कूपाख्यानवर्णनम् ।

एवं प्रबोधितः पित्रा त्रिशङ्कुः प्रणतो नृपः । तथेति पितरं प्राह प्रेमगद्गदया गिरा ॥ १॥ विप्रानाहूय मन्त्रज्ञान्वेदशास्त्रविशारदान् । अभिषेकाय सम्भारान् कारयामास सत्वरम् ॥ २॥ सलिलं सर्वतीर्थानां समानाय्य विशाम्पतिः । प्रकृतीश्च समाहूय सामन्तान्भूपतींस्तथा ॥ ३॥ पुण्येऽह्नि विधिवत्तस्मै ददावासनमुत्तमम् । अभिषिच्य सुतं राज्ये त्रिशङ्कुं विधिवत्पिता ॥ ४॥ तृतीयमाश्रमं पुण्यं जग्राह भार्यया युतः । वने त्रिपथगाकूले चचार दुश्चरं तपः ॥ ५॥ काले प्राप्ते ययौ स्वर्गं पूजितस्त्रिदशैरपि । इन्द्रासनसमीपस्थो रराज रविवत्सदा ॥ ६॥ राजोवाच । पूर्वं भगवता प्रोक्तं कथायोगेन साम्प्रतम् । सत्यव्रतो वसिष्ठेन शप्तो दोग्ध्रीवधात्किल ॥ ७॥ कुपितेने पिशाचत्वं प्रापितो गुरुणा ततः । कथं मुक्तः पिशाचत्वादित्येतत्संशयः प्रभो ॥ ८॥ न सिंहासनयोग्यो हि भवेच्छापसमन्वितः । मुनिना मोचितः शापात्केनान्येन च कर्मणा ॥ ९॥ एतन्मे ब्रूहि विप्रर्षे शापमोक्षणकारणम् । आनीतस्तु कथं पित्रा स्वगृहे तादृशाकृतिः ॥ १०॥ व्यास उवाच - वसिष्ठेन च शप्तोऽसौ सद्यः पैशाचतां गतः । दुर्वेषश्चातिदुर्धर्षः सर्वलोकभयङ्करः ॥ ११॥ यदैवोपासिता देवी भक्त्या सत्यव्रतेन ह । तया प्रसन्नया राजन् दिव्यदेहः कृतः क्षणात् ॥ १२॥ पिशाचत्वं गतं तस्य पापं चैव क्षयं गतम् । विपाप्मा चातितेजस्वी सम्भूतस्तत्कृपामृतात् ॥ १३॥ वसिष्ठोऽपि प्रसन्नात्मा जातः शक्तिप्रसादतः । पितापि च बभूवास्य प्रेमयुक्तस्त्वनुग्रहात् ॥ १४॥ राज्यं शशास धर्मात्मा मृते पितरि पार्थिवः । ईजे च विविधैर्यज्ञैर्देवदेवीं सनातनीम् ॥ १५॥ तस्य पुत्रो बभूवाथ हरिश्चन्द्रः सुशोभनः । लक्षणैः शास्त्रनिर्दिष्टैः संयुतश्चातिसुन्दरः ॥ १६॥ युवराजं सुतं कृत्वा त्रिशङ्कुः पृथिवीपतिः । मानुषेण शरीरेण स्वर्गं भोक्तुं मनो दधे ॥ १७॥ वसिष्ठस्याश्रमं गत्वा प्रणम्य विधिवन्नृपः । उवाच वचनं प्रीतः कृताञ्जलिपुटस्तदा ॥ १८॥ राजोवाच - ब्रह्मपुत्र महाभाग सर्वमन्त्रविशारद । विज्ञप्तिं मे सुमनसा श्रोतुमर्हसि तापस ॥ १९॥ इच्छा मेऽद्य समुत्पन्ना स्वर्गलोकसुखाय च । अनेनैव शरीरेण भोगान्भोक्तुममानुषान् ॥ २०॥ अप्सरोभिश्च संवासः क्रीडितुं नन्दने वने । देवगन्धर्वगानं च श्रोतव्यं मधुरं किल ॥ २१॥ याजय त्वं मखेनाशु तादृशेन महामुने । यथानेन शरीरेण वसे लोकं त्रिविष्टपम् ॥ २२॥ समर्थोऽसि मुनिश्रेष्ठ कुरु कार्यं ममाधुना । प्रापयाशु मखं कृत्वा देवलोकं दुरासदम् ॥ २३॥ वसिष्ठ उवाच - राजन् मानुषदेहेन स्वर्गे वासः सुदुर्लभः । मृतस्य हि ध्रुवं स्वर्गः कथितः पुण्यकर्मणा ॥ २४॥ तस्माद् बिभेमि सर्वज्ञ दुर्लभाच्च मनोरथात् । अप्सरोभिश्च संवासो जीवमानस्य दुर्लभः ॥ २५॥ कुरु यज्ञान्महाभाग मृतः स्वर्गमवाप्स्यसि । व्यास उवाच - इत्याकर्ण्य वचस्तस्य राजा परमदुर्मनाः ॥ २६॥ उवाच वचनं भूयो वसिष्ठं पूर्वरोषितम् । न त्वं याजयसे ब्रह्मन् गर्वावेशाच्च मां यदि ॥ २७॥ अन्यं पुरोहितं कृत्वा यक्ष्येऽहं किल साम्प्रतम् । तच्छ्रुत्वा वचनं तस्य वसिष्ठः कोपसंयुतः ॥ २८॥ शशाप भूपतिं चेति चाण्डालो भव दुर्मते । अनेन त्वं शरीरेण श्वपचो भव सत्वरम् ॥ २९॥ स्वर्गकृन्तन पापिष्ठ सुरभीवधदूषित । ब्रह्मपत्नीहरोच्छिन्न धर्ममार्गविदूषक ॥ ३०॥ न ते स्वर्गगतिः पाप मृतस्यापि कथञ्चन । व्यास उवाच - इत्युक्तो गुरुणा राजंस्त्रिशङ्कुस्तत्क्षणादपि ॥ ३१॥ तत्र तेन शरीरेण बभूव श्वपचाकृतिः । कुण्डलेऽश्ममये वापि जाते तस्य च तत्क्षणात् ॥ ३२॥ देहे चन्दनगन्धश्च विगन्धो ह्यभवत्तदा । नीलवर्णेऽथ सञ्जाते दिव्ये पीताम्बरे तनौ ॥ ३३॥ राजवर्णोऽभवद्देहः शापात्तस्य महात्मनः । शक्त्युपासकरोषेण फलमेतदभून्नृप ॥ ३४॥ तस्माच्छ्रीशक्तिभक्तो हि नावमान्यः कदाचन । गायत्रीजपनिष्ठो हि वसिष्ठो मुनिसत्तमः ॥ ३५॥ दृष्ट्वा निन्द्यं निजं देहं राजा दुःखमवाप्तवान् । न जगाम गृहे दीनो वनमेवाभितो ययौ ॥ ३६॥ चिन्तयामास दुःखार्तास्त्रिशङ्कुः शोकविह्वलः । किं करोमि क्व गच्छामि देहो मेऽतीव निन्दितः ॥ ३७॥ कर्तव्यं नैव पश्यामि येन मे दुःखसङ्क्षयः । गृहे गच्छामि चेत्पुत्रः पीडितोऽद्य भविष्यति ॥ ३८॥ भार्यापि श्वपचं दृष्ट्वा नाङ्गीकारं करिष्यति । सचिवा नादरिष्यन्ति वीक्ष्य मामीदृशं पुनः ॥ ३९॥ ज्ञातयो बन्धुवर्गश्च सङ्गतो न भजिष्यति । सर्वैस्तक्तस्य मे नूनं जीवितान्मरणं वरम् ॥ ४०॥ विषं वा भक्षयित्वाद्य पतित्वा वा जलाशये । कृत्वा वा कण्ठपाशं च देहत्यागं करोम्यहम् ॥ ४१॥ अग्नौ वा ज्वलिते देहं जुहोमि विधिवद् बलात् । कृत्वा वानशनं प्राणांस्त्यजामि दूषितान्भृशम् ॥ ४२॥ आत्महत्या भवेन्नूनं पुनर्जन्मनि जन्मनि । श्वपचत्वं च शापश्च हत्यादोषाद्भवेदपि ॥ ४३॥ पुनर्विचार्य भूपालश्चेतसा समचिन्तयत् । आत्महत्या न कर्तव्या सर्वथैव मयाधुना ॥ ४४॥ भोक्तव्यं स्वकृतं कर्म देहेनानेन कानने । भोगेनास्य विपाकस्य भविता सर्वथा क्षयः ॥ ४५॥ प्रारब्धकर्मणां भोगादन्यथा न क्षयो भवेत् । तस्मान्मयात्र भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ४६॥ कुर्वन्पुण्याश्रमाभ्याशे तीर्थानां सेवनं तथा । स्मरणं चाम्बिकायास्तु साधूनां सेवनं तथा ॥ ४७॥ एवं कर्मक्षयं नूनं करिष्यामि वने वसन् । भाग्ययोगात्कदाचित्तु भवेत्साधुसमागमः ॥ ४८॥ इति सञ्चिन्त्य मनसा त्यक्त्वा स्वनगरं नृपः । गङ्गातीरे गतः कामं शोचंस्तत्रैव संस्थितः ॥ ४९॥ हरिश्चन्द्रस्तदा ज्ञात्वा पितुः शापस्य कारणम् । दुःखितः सचिवांस्तत्र प्रेषयामास पार्थिवः ॥ ५०॥ सचिवास्तत्र गत्वाऽऽशु तमूचुः प्रश्रयान्विताः । प्रणम्य श्वपचाकारं निःश्वसन्तं मुहुर्मुहुः ॥ ५१॥ राजन् पुत्रेण ते नूनं प्रेषितान्समुपागतान् । अवेहि सचिवांस्त्वं नो हरिश्चन्द्राज्ञया स्थितान् ॥ ५२॥ युवराजसुतः प्राह यत्तच्छृणु नराधिप । आनयध्वं नृपं यूयं सम्मान्य पितरं मम ॥ ५३॥ तस्माद्राजन् समागच्छ राज्यं प्रति गतव्यथः । सेवां सर्वे करिष्यन्ति सचिवाश्च प्रजास्तथा ॥ ५४॥ गुरुं प्रसादयिष्यामः स यथा तु दयेत वै । प्रसन्नोऽसौ महातेजा दुःखस्यान्तं करिष्यति ॥ ५५॥ इति पुत्रेण ते राजन् कथितं बहुधा किल । तस्माद् गमनमेवाशु रोचतां निजसद्मनि ॥ ५६॥ व्यास उवाच - इति तेषां नृपः श्रुत्वा भाषितं श्वपचाकृतिः । स्वगृहं गमनायासौ न मतिं कृतवानतः ॥ ५७॥ तानुवाच तदा वाक्यं व्रजन्तु सचिवाः पुरम् । गत्वा पुरं महाभागा ब्रुवन्तु वचनाच्च मे ॥ ५८॥ नागमिष्याम्यहं पुत्र कुरु राज्यमतन्द्रितः । मानयन्ब्राह्मणान्देवान्यजन्यज्ञैरनेकशः ॥ ५९॥ नाहं श्वपचवेषेण गर्हितेन महात्मभिः । आगमिष्याम्ययोध्यायां सर्वे गच्छन्तु मा चिरम् ॥ ६०॥ पुत्रं सिंहासने स्थाप्य हरिश्चन्द्रं महाबलम् । कुर्वन्तु राज्यकर्माणि यूयं तत्र ममाज्ञया ॥ ६१॥ इत्यादिष्टास्ततस्ते तु रुरुदुश्चातुरा भृशम् । सचिवा निर्ययुस्तूर्णं नत्वा तं च वनाश्रमात् ॥ ६२॥ अयोध्यायामुपागत्य पुण्येऽह्नि विधिपूर्वकम् । अभिषेकं तदा चक्रुर्हरिश्चन्द्रस्य मूर्ध्नि ते ॥ ६३॥ अभिषिक्तस्तु तेजस्वी सचिवैश्च नृपाज्ञया । राज्यं चकार धर्मिष्ठः पितरं चिन्तयन्भृशम् ॥ ६४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कूपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१२॥

७.१३ त्रयोदशोऽध्यायः । त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनम् ।

राजोवाच - हरिश्चन्द्रः कृतो राजा सचिवैर्नृपशासनात् । त्रिशङ्कुस्तु कथं मुक्तस्तस्माच्चाण्डालदेहतः ॥ १॥ मृतो वा वनमध्ये तु गङ्गातीरे परिप्लुतः । गुरुणा वा कृपां कृत्वा शापात्तस्माद्विमोचितः ॥ २॥ एतद् वृत्तान्तमखिलं कथयस्व ममाग्रतः । चरितं तस्य नृपतेः श्रोतुकामोऽस्मि सर्वथा ॥ ३॥ व्यास उवाच - अभिषिक्तं सुतं कृत्वा राजा सन्तुष्टमानसः । कालातिक्रमणं तत्र चकार चिन्तयञ्छिवाम् ॥ ४॥ एवं गच्छति काले तु तपस्तप्त्वा समाहितः । द्रष्टुं दारान्सुतादींश्च तदागात्कौशिको मुनिः ॥ ५॥ आगत्य स्वजनं दृष्ट्वा सुस्थितं मुदमाप्तवान् । भार्यां पप्रच्छ मेधावी स्थितामग्रे सपर्यया ॥ ६॥ दुर्भिक्षे तु कथं कालस्तया नीतः सुलोचने । अन्नं विना त्विमे बालाः पालिता केन तद्वद ॥ ७॥ अहं तपसि सन्नद्धो नागतः श‍ृणु सुन्दरि । किं कृतं तु त्वया कान्ते विना द्रव्येण शोभने ॥ ८॥ मया चिन्ता कृता तत्र श्रुत्वा दुर्भिक्षमद्भुतम् । नागतोऽहं विचार्यैवं किं करिष्यामि निर्धनः ॥ ९॥ अहमप्यति वामोरु पीडितः क्षुधया वने । प्रविष्टश्चौरभावेन कुत्रचिच्छ्वपचालये ॥ १०॥ श्वपचं निद्रितं दृष्ट्वा क्षुधया पीडितो भृशम् । महानसं परिज्ञाय भक्ष्यार्थं समुपस्थितः ॥ ११॥ यदा भाण्डं समुद्घाट्य पक्वं श्वतनुजामिषम् । गृह्णामि भक्षणार्थाय तदा दृष्टस्तु तेन वै ॥ १२॥ पृष्टः कस्त्वं कथं प्राप्तो गृहे मे निशि सादरम् । ब्रूहि कार्यं किमर्थं त्वमुद्घाटयसि भाण्डकम् ॥ १३॥ इत्युक्तः श्वपचेनाहं क्षुधया पीडितो भृशम् । तमवोचं सुकेशान्ते कामं गद्गदया गिरा ॥ १४॥ ब्राह्मणोऽहं महाभाग तापसः क्षुधयार्दितः । चौरभावमनुप्राप्तो भक्ष्यं पश्यामि भाण्डके ॥ १५॥ चौरभावेन सम्प्राप्तोऽस्म्यतिथिस्ते महामते । क्षुधितोऽस्मि ददस्वाज्ञां मांसमद्मि सुसंस्कृतम् ॥ १६॥ विश्वामित्र उवाच - श्वपचस्तु वचः श्रुत्वा मामुवाच सुनिश्चितम् । भक्षं मा कुरु वर्णाग्र्य जानीहि श्वपचालयम् ॥ १७॥ दुर्लभं खलु मानुष्यं तत्रापि च द्विजन्मता । द्विजत्वे ब्राह्मणत्वं च दुर्लभं वेत्सि किं न हि ॥ १८॥ दुष्टाहारो न कर्तव्यः सर्वथा लोकमिच्छता । अग्राह्या मनुना प्रोक्ताः कर्मणा सप्त चान्त्यजाः ॥ १९॥ त्याज्योऽहं कर्मणा विप्र श्वपचो नात्र संशयः । निवारयामि भक्ष्यात्त्वां न लोभेनाञ्जसा द्विज ॥ २०॥ वर्णसङ्करदोषोऽयं मा यातु त्वां द्विजोत्तम । विश्वामित्र उवाच । सत्यं वदसि धर्मज्ञ मतिस्ते विशदान्त्यज ॥ २१॥ तथाप्यापदि धर्मस्य सूक्ष्ममार्गं ब्रवीम्यहम् । देहस्य रक्षणं कार्यं सर्वथा यदि मानद ॥ २२॥ पापस्यान्ते पुनः कार्यं प्रायश्चित्तं विशुद्धये । दुर्गतिस्तु भवेत्पापादनापदि न चापदि ॥ २३॥ मरणात्क्षुधितस्याथ नरको नात्र संशयः । तस्मात्क्षुधापहरणं कर्तव्यं शुभमिच्छता ॥ २४॥ तेनाहं चौर्यधर्मेण देहं रक्षेऽप्यथान्त्यज । अवर्षणे च चौर्येण यत्पापं कथितं बुधैः ॥ २५॥ यो न वर्षति पर्जन्यस्तत्तु तस्मै भविष्यति । इत्युक्ते वचने कान्ते पर्जन्यः सहसापतत् ॥ २६॥ गगनाद्धस्तिहस्ताभिर्धाराभिरभिकाङ्क्षितः । मुदितोऽहं घनं वीक्ष्य वर्षन्तं विद्युता सह ॥ २७॥ तदाहं तद्गृहं त्यक्त्वा निःसृतः परया मुदा । कथय त्वं वरारोहे कालो नीतस्त्वया कथम् ॥ २८॥ कान्तारे परमः क्रूरः क्षयकृत्प्राणिनामिह । व्यास उवाच - इति तस्य वचः श्रुत्वा पतिमाह प्रियंवदा ॥ २९॥ यथा श‍ृणु मया नीतः कालः परमदारुणः । गते त्वयि मुनिश्रेष्ठ दुर्भिक्षं समुपागतम् ॥ ३०॥ अन्नार्थं पुत्रकाः सर्वे बभूवुश्चातिदुःखिताः । क्षुधितान्बालकान्वीक्ष्य नीवारार्थं वने वने ॥ ३१॥ भ्रान्ताहं चिन्तयाऽऽविष्टा किञ्चित्प्राप्तं फलं तदा । एवं च कतिचिन्मासा नीवारेणातिवाहिताः ॥ ३२॥ तदभावे मया कान्त चिन्तितं मनसा पुनः । न भिक्षा किल दुर्भिक्षे नीवारा नापि कानने ॥ ३३॥ न वृक्षेषु फलान्यासुर्न मूलानि धरातले । क्षुधया पीडिता बाला रुदन्ति भृशमातुराः ॥ ३४॥ किं करोमि क्व गच्छामि किं ब्रवीमि क्षुधार्तितान् । एवं विचिन्त्य मनसा निश्चयस्तु मया कृतः ॥ ३५॥ पुत्रमेकं ददाम्यद्य कस्मैचिद्धनिने किल । गृहीत्वा तस्य मौल्यं तु तेन द्रव्येण बालकान् ॥ ३६॥ पालयेऽहं क्षुधार्तांस्तु नान्योपायोऽस्ति पालने । इति सञ्चिन्त्य मनसा पुत्रोऽयं प्रहितो मया ॥ ३७॥ विक्रयार्थं महाभाग क्रन्दमानो भृशातुरः । क्रन्दमानं गृहीत्वैनं निर्गताहं गतत्रपा ॥ ३८॥ तदा सत्यव्रतो मार्गे मामुद्वीक्ष्य भृशातुराम् । पप्रच्छ स च राजर्षिः कस्माद्रोदिति बालकः ॥ ३९॥ तदाहं तमुवाचेदं वचनं मुनिसत्तम । विक्रयार्थं नीयतेऽसौ बालकोऽद्य मया नृप ॥ ४०॥ श्रुत्वा मे वचनं राजा दयार्द्रहृदयस्ततः । मामुवाच गृहं याहि गृहीत्वैनं कुमारकम् ॥ ४१॥ भोजनार्थे कुमाराणामामिषं विहितं तव । प्रापयिष्याम्यहं नित्यं यावन्मुनिसमागमः ॥ ४२॥ अहन्यहनि भूपालो वृक्षेऽस्मिन्मृगसूकरान् । विन्यस्य याति हत्वासौ प्रत्यहं दययान्वितः ॥ ४३॥ तेनैव बालकाः कान्त पालिता वृजिनार्णवात् । वसिष्ठेनाथ शप्ताऽसौ भूपतिर्मम कारणात् ॥ ४४॥ कस्मिंश्चिद्दिवसे मांसं न प्राप्तं तेन कानने । हता दोग्ध्री वसिष्ठस्य तेनासौ कुपितो मुनिः ॥ ४५॥ त्रिशङ्कुरिति भूपस्य कृतं नाम महात्मना । कुपितेन वधाद्धेतोश्चाण्डालश्च कृतो नृपः ॥ ४६॥ तेनाहं दुःखिता जाता तस्य दुःखेन कौशिक । श्वपचत्वमसौ प्राप्तो मत्कृते नृपनन्दनः ॥ ४७॥ येन केनाप्युपायेन भवता नृपतेः किल । तस्माद्रक्षा प्रकर्तव्या तपसा प्रबलेन ह ॥ ४८॥ व्यास उवाच - इति भार्यावचः श्रुत्वा कौशिको मुनिसत्तमः । तामाह कामिनीं दीनां सान्त्वपूर्वमरिन्दम ॥ ४९॥ विश्वामित्र उवाच - मोचयिष्यामि तं शापान्नृपं कमललोचने । उपकारः कृतो येन कान्ताराद्रक्षितासि वै ॥ ५०॥ विद्यातपोबलेनाहं करिष्ये दुःखसङ्क्षयम् । इत्याश्वास्य प्रियां तत्र कौशिकः परमार्थवित् ॥ ५१॥ चिन्तयामास नृपतेः कथं स्याद्दुःखनाशनम् । संविमृश्य मुनिस्तत्र जगाम यत्र पार्थिवः ॥ ५२॥ त्रिशङ्कुः पक्वणे दीनः संस्थितः श्वपचाकृतिः । आगच्छन्तं मुनिं दृष्ट्वा विस्मितोऽसौ नराधिपः ॥ ५३॥ दण्डवन्निपपातोर्व्यां पादयोस्तरसा मुनेः । गृहीत्वा तं करे भूपं पतितं कौशिकस्तदा ॥ ५४॥ उत्थाप्योवाच वचनं सान्त्वपूर्वं द्विजोत्तमः । मत्कृते त्वं महीपाल शप्तोऽसि मुनिना यतः ॥ ५५॥ वाञ्छितं ते करिष्यामि ब्रूहि किं करवाण्यहम् । राजोवाच - मया सम्प्रार्थितः पूर्वं वसिष्ठो मखहेतवे ॥ ५६॥ मां याजय मुनिश्रेष्ठ करोमि मखमुत्तमम् । यथेष्टं कुरु विप्रेन्द्र यथा स्वर्गं व्रजाम्यहम् ॥ ५७॥ अनेनैव शरीरेण शक्रलोकं सुखालयम् । कोपं कृत्वा वसिष्ठोऽसौ मामाहेति सुदुर्मते ॥ ५८॥ मानुषेण हि देहेन स्वर्गवासः कुतस्तव । पुनर्मयोक्तो भगवान्स्वर्गलुब्धेन चानघ ॥ ५९॥ अन्यं पुरोहितं कृत्वा यक्ष्येऽहं यज्ञमुत्तमम् । तदा तेनैव शप्तोऽहं चाण्डालो भव पामर ॥ ६०॥ इत्येतत्कथितं सर्वं कारणं शापसम्भवम् । मम दुःखविनाशाय समर्थोऽसि मुनीश्वर ॥ ६१॥ इत्युक्त्वा विररमासौ राजा दुःखरुजार्दितः । कौशिकोऽपि निराकर्तुं शापं तस्य व्यचिन्तयत् ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे त्रिशङ्कुशापोद्धाराय विश्वामित्रसान्त्वनवर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३॥

७.१४ चतुर्दशोऽध्यायः । वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनम् ।

व्यास उवाच - विचिन्त्य मनसा कृत्यं गाधिसूनुर्महातपाः । प्रकल्प्य यज्ञसम्भारान्मुनीनामन्त्रयत्तदा ॥ १॥ मुनयस्तं मखं ज्ञात्वा विश्वामित्रनिमन्त्रिताः । नागताः सर्व एवैते वसिष्ठेन निवारिताः ॥ २॥ गाधिसूनुस्तदाज्ञाय विमनाश्चातिदुःखितः । आजगामाश्रमं तत्र यत्रासौ नृपतिः स्थितः ॥ ३॥ तमाह कौशिकः क्रुद्धो वसिष्ठेन निवारिताः । नागताः ब्राह्मणाः सर्वे यज्ञार्थं नृपसत्तम ॥ ४॥ पश्य मे तपसः सिद्धिं यथा त्वां सुरसद्मनि । प्रापयामि महाराज वाञ्छितं ते करोम्यहम् ॥ ५॥ इत्युक्त्वा जलमादाय हस्तेन मुनिसत्तमः । ददौ पुण्यं तदा तस्मै गायत्रीजपसम्भवम् ॥ ६॥ दत्त्वाथ सुकृतं राज्ञे तमुवाच महीपतिम् । यथेष्टं गच्छ राजर्षे त्रिविष्टपमतन्द्रितः ॥ ७॥ पुण्येन मम राजेन्द्र बहुकालार्जितेन च । याहि शक्रपुरीं प्रीतः स्वस्ति तेऽस्तु सुरालये ॥ ८॥ व्यास उवाच - इत्युक्तवति विप्रेन्द्रे त्रिशङ्कुस्तरसा ततः । उत्पपात यथा पक्षी वेगवांस्तपसो बलात् ॥ ९॥ उत्पत्य गगने राजा गतः शक्रपुरीं यदा । दृष्टो देवगणैस्तत्र क्रूरश्चाण्डालवेषभाक् ॥ १०॥ कथितोऽसौ सुरेन्द्राय कोऽयमायाति सत्वरः । गगने देववद्वा यो दुर्दर्शः श्वपचाकृतिः ॥ ११॥ सहसोत्थाय शक्रस्तमपश्यत्पुरुषाधमम् । ज्ञात्वा त्रिशङ्कुमपि स निर्भर्त्स्य तरसाब्रवीत् ॥ १२॥ श्वपच क्व समायासि देवलोके जुगुप्सितः । याहि शीघ्रं ततो भूमौ नात्र स्थातुं त्वयोचितम् ॥ १३॥ इत्युक्तः स्खलितः स्वर्गाच्छक्रेणामित्रकर्शन । निपपात तदा राजा क्षीणपुण्यो यथामरः ॥ १४॥ पुनश्चुक्रोश भूपालो विश्वामित्रेति चासकृत् । पतामि रक्ष दुःखार्तं स्वर्गाच्चलितमाशुगम् ॥ १५॥ तस्य तत्क्रन्दितं राजन् पतितः कौशिको मुनिः । श्रुत्वा तिष्ठेति होवाच पतन्तं वीक्ष्य भूपतिम् ॥ १६॥ वचनात्तस्य तत्रैव स्थितोऽसौ गगने नृपः । मुनेस्तपःप्रभावेण चलितोऽपि सुरालयात् ॥ १७॥ विश्वामित्रोऽप्यपः स्पृष्ट्वा चकारेष्टिं सुविस्तराम् । विधातुं नूतनां सृष्टिं स्वर्गलोकं द्वितीयकम् ॥ १८॥ तस्योद्यमं तथा ज्ञात्वा त्वरितस्तु शचीपतिः । तत्राजगाम सहसा मुनिं प्रति तु गाधिजम् ॥ १९॥ किं ब्रह्मन् क्रियते साधो कस्मात्कोपसमाकुलः । अलं सृष्ट्या मुनिश्रेष्ठ ब्रूहि किं करवाणि ते ॥ २०॥ विश्वामित्र उवाच - स्वं निवासं महीपालं च्युतं त्वद्भुवनाद् विभो । नयस्व प्रीतियोगेन त्रिशङ्कुं चातिदुःखितम् ॥ २१॥ व्यास उवाच - तस्य तं निश्चयं ज्ञात्वा तुराषाडतिशङ्कितः । तपोबलं विदित्वोग्रमोमित्योवाच वासवः ॥ २२॥ दिव्यदेहं नृपं कृत्वा विमानवरसंस्थितम् । आपृच्छ्य कौशिकं शक्रोऽगमन्निजपुरीं तदा ॥ २३॥ गते शक्रे तु वै स्वर्गं त्रिशङ्कुसहिते ततः । विश्वामित्रः सुखं प्राप्य स्वाश्रमे सुस्थिरोऽभवत् ॥ २४॥ हरिश्चन्द्रोऽथ तच्छ्रुत्वा विश्वामित्रोपकारकम् । पितुः स्वर्गमनं कामं मुदितो राज्यमन्वशात् ॥ २५॥ अयोध्याधिपतिः क्रीडां चकार सह भार्यया । रूपयौवनचातुर्ययुक्तया प्रीतिसंयुतः ॥ २६॥ अतीतकाले युवती न सा गर्भवती ह्यभूत् । तदा चिन्तातुरो राजा बभूवातीव दुःखितः ॥ २७॥ वसिष्टस्याश्रमं गत्वा प्रणम्य शिरसा मुनिम् । अनपत्यत्वजां चिन्तां गुरवे समवेदयत् ॥ २८॥ दैवज्ञोऽसि भवान्कामं मन्त्रविद्याविशारदः । उपायं कुरु धर्मज्ञ सन्ततेर्मम मानद ॥ २९॥ अपुत्रस्य गतिर्नास्ति जानासि द्विजसत्तम । कस्मादुपेक्षसे जानन् दुःखं मम च शक्तिमान् ॥ ३०॥ कलविङ्कास्त्विमे धन्या ये शिशुं लालयन्ति हि । मन्दभाग्योऽहमनिशं चिन्तयामि दिवानिशम् ॥ ३१॥ व्यास उवाच - इत्याकर्ण्य मुनिस्तस्य निर्वेदमिश्रितं वचः । सञ्चिन्त्य मनसा सम्यक् तमुवाच विधेः सुतः ॥ ३२॥ वसिष्ठ उवाच - सत्यं ब्रूहि महाराज संसारेऽस्मिन्न विद्यते । अनपत्यत्वजं दुःखं यत्तथा दुःखमद्भुतम् ॥ ३३॥ तस्मात्त्वमपि राजेन्द्र वरुणं यादसां पतिम् । समाराधय यत्नेन स ते कार्यं करिष्यति ॥ ३४॥ वरुणादधिको नास्ति देवः सन्तानदायकः । तमाराधय धर्मिष्ठ कार्यसिद्धिर्भविष्यति ॥ ३५॥ दैवं पुरुषकारश्च माननीयाविमौ नृभिः । उद्यमेन विना कार्यसिद्धिः सञ्जायते कथम् ॥ ३६॥ न्यायतस्तु नरैः कार्य उद्यमस्तत्त्वदर्शिभिः । कृते तस्मिन्भवेत्सिद्धिर्नान्यथा नृपसत्तम ॥ ३७॥ इति तस्य वचः श्रुत्वा गुरोरमिततेजसः । प्रणम्य निर्ययौ राजा तपसे कृतनिश्चयः ॥ ३८॥ गङ्गातीरे शुभे स्थाने कृतपद्मासनो नृपः । ध्यायन्पाशधरं चित्ते चचार दुश्चरं तपः ॥ ३९॥ एवं तपस्यतस्तस्य प्रचेता दृष्टिगोचरः । कृपयाभून्महाराज प्रसन्नमुखपङ्कजः ॥ ४०॥ हरिश्चन्द्रमुवाचेदं वचनं यादसां पतिः । वरं वरय धर्मज्ञ तुष्टोऽस्मि तपसा तव ॥ ४१॥ राजोवाच - अनपत्योऽस्मि देवेश पुत्रं देहि सुखप्रदम् । ऋणत्रयापहारार्थमुद्यमोऽयं मया कृतः ॥ ४२॥ नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितस्य च । स्मितपूर्वं ततः पाशी तमाह पुराः स्थितम् ॥ ४३॥ वरुण उवाच - पुत्रो यदि भवेद्राजन् गुणी मनसि वाञ्छितः । सिद्धे कार्ये ततः पश्चात्किं करिष्यसि मे प्रियम् ॥ ४४॥ यदि त्वं तेन पुत्रेण मां यजेथा विशङ्कितः । पशुबन्धेन तेनैव ददामि नृपते वरम् ॥ ४५॥ राजोवाच - देव मे मास्तु वन्ध्यत्वं यजिष्येऽहं जलाधिप । पशुं कृत्वा सुतं पुत्रं सत्यमेतद्ब्रवीमि ते ॥ ४६॥ वन्ध्यत्वे परमं दुःखमसह्यं भुवि मानद । शोकाग्निशमनं नॄणां तस्माद्देहि सुतं शुभम् ॥ ४७॥ वरुण उवाच - भविष्यति सुतः कामं राजन् गच्छ गृहाय वै । सत्यं तद्वचनं कार्यं यद्ब्रवीषि ममाग्रतः ॥ ४८॥ व्यास उवाच - इत्युक्तो वरुणेनासौ हरिश्चन्द्रो गृहं ययौ । भार्यायै कथयामास वृत्तान्तं वरदानजम् ॥ ४९॥ तस्य भार्याशतं पूर्णं बभूवातिमनोहरम् । पट्टराज्ञी शुभा शैव्या धर्मपत्नी पतिव्रता ॥ ५०॥ काले गतेऽथ सा गर्भं दधार वरवर्णिनी । बभूव मुदितो राजा श्रुत्वा दोहदचेष्टितम् ॥ ५१॥ कारयामास विधिवत्संस्कारान्नृपतिस्तदा । मासेऽथ दशमे पूर्णे सुषुवे सा शुभे दिने ॥ ५२॥ ताराग्रहबलोपेते पुत्रं देवसुतोपमम् । पुत्रे जाते नृपः स्नात्वा ब्राह्मणैः परिवेष्टितः ॥ ५३॥ चकार जातकर्मादौ ददौ दानानि भूरिशः । राज्ञश्चातिप्रमोदोऽभूत्पुत्रजन्मसमुद्भवः ॥ ५४॥ बभूव परमोदारो धनधान्यसमन्वितः । विशेषदानसंयुक्तो गीतवादित्रसङ्कुलः ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वरुणकृपया शैव्यायां पुत्रोप्तत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ ७.१४॥

७.१५ पञ्चदशोऽध्यायः । हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनम् ।

व्यास उवाच - प्रवृत्ते सदने तस्य राज्ञः पुत्रमहोत्सवे । आजगाम तदा पाशी विप्रवेषधरः शुभः ॥ १॥ स्वस्तीत्युक्त्वा नृपं प्राह वरुणोऽहं निशामय । पुत्रो जातस्तवाधीश यजानेन नृपाशु माम् ॥ २॥ सत्यं कुरु वचो राजन् यत्प्रोक्तं भवतः पुरा । वन्ध्यत्वं तु गतं तेऽद्य वरदानेन मे किल ॥ ३॥ इति तस्य वचः श्रुत्वा राजा चिन्तां चकार ह । कथं हन्मि सुतं जातं जलजेन समाननम् ॥ ४॥ लोकपालः समायातो विप्रवेषेण वीर्यवान् । न देवहेलनं कार्यं सर्वथा शुभमिच्छता ॥ ५॥ पुत्रस्नेहः सुदुश्छेद्यः सर्वथा प्राणिभिः सदा । किं करोमि कथं मे स्यात्सुखं सन्ततिसम्भवम् ॥ ६॥ धैर्यमालम्ब्य भूपालस्तं नत्वा प्रतिपूज्य च । उवाच वचनं श्लक्ष्णं युक्तं विनयपूर्वकम् ॥ ७॥ राजोवाच - देवदेव तवानुज्ञां करोमि करुणानिधे । वेदोक्तेन विधानेन मखं च बहुदक्षिणम् ॥ ८॥ पुत्रे जाते दशाहेन कर्मयोग्यो भवेत्पिता । मासेन शुध्येज्जननी दम्पती तत्र कारणम् ॥ ९॥ सर्वज्ञोऽसि प्रचेतस्त्वं धर्मं जानासि शाश्वतम् । कृपां कुरु त्वं वारीश क्षमस्व परमेश्वर ॥ १०॥ व्यास उवाच - इत्युक्तस्तु प्रचेतास्तं प्रत्युवाच जनाधिपम् । स्वस्ति तेऽस्तु गमिष्यामि कुरु कार्याणि पार्थिव ॥ ११॥ आगमिष्यामि मासान्ते यष्टव्यं सर्वथा त्वया । कृत्वौत्थानिकमाचारं पुत्रस्य नृपसत्तम ॥ १२॥ इत्युक्त्वा श्लक्ष्णया वाचा राजानं यादसां पतिः । हरिश्चन्द्रो मुदं प्राप गते पाशिनि पार्थिवः ॥ १३॥ कोटिशः प्रददौ गास्ता घटोध्नीर्हेमपूरिताः । विप्रेभ्यो वेदविद्भ्यश्च तथैव तिलपर्वतान् ॥ १४॥ राजा पुत्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्वकम् ॥ १५॥ पूर्णे मासे ततः पाशी विप्रवेषेण भूपतेः । आजगाम गृहे सद्यो यजस्वेति ब्रुवन्मुहुः ॥ १६॥ वीक्ष्य तं नृपतिर्देवं निमग्नः शोकसागरे । प्रणिपत्य कृतातिथ्यं तमुवाच कृताञ्जलिः ॥ १७॥ दिष्ट्या देव त्वमायातो गृहं मे पावितं प्रभो । मखं करोमि वारीश विधिवद्वाञ्छितं तव ॥ १८॥ अदन्तो न पशुः श्लाघ्य इत्याहुर्वेदवादिनः । तस्माद्दन्तोद्भवे तेऽहं करिष्यामि महामखम् ॥ १९॥ व्यास उवाच - इत्युक्तस्तेन वरुणस्तथेत्युक्त्वा ययावथ । हरिश्चन्द्रो मुदं प्राप्य विजहार गृहाश्रमे ॥ २०॥ पुनर्दन्तोद्भवं ज्ञात्वा प्रचेता द्विजरूपवान् । आजगाम गृहे तस्य कुरु कार्यमिति ब्रुवन् ॥ २१॥ भूपालोऽपि जलाधीशं वीक्ष्य प्राप्तं द्विजाकृतिम् । प्रणम्यासनसम्मानैः पूजयामास सादरम् ॥ २२॥ स्तुत्वा प्रोवाच वचनं विनयानतकन्धरः । करोमि विधिवत्कामं मखं प्रबलदक्षिणम् ॥ २३॥ बालोऽप्यकृतचौलोऽयं गर्भकेशो न सम्मतः । यज्ञार्थे पशुकरणे मया वृद्धमुखाच्छ्रुतम् ॥ २४॥ तावत्क्षमस्व वारीश विधिं जानासि शाश्वतम् । कर्तव्यः सर्वथा यज्ञो मुण्डनान्ते शिशोः किल ॥ २५॥ तस्येति वचनं श्रुत्वा प्रचेताः प्राह तं पुनः । प्रतारयसि मां राजन् पुनः पुनरिदं ब्रुवन् ॥ २६॥ अपि ते सर्वसामग्री वर्तते नृपतेऽधुना । पुत्रस्नेहनिबद्धस्त्वं वञ्चयस्येव साम्प्रतम् ॥ २७॥ क्षौरकर्मविधिं कृत्वा न कर्तासि मखं यदि । तदाहं दारुणं शापं दास्ये कोपसमन्वितः ॥ २८॥ अद्य गच्छामि राजेन्द्र वचनात्तव मानद । न मृषा वचनं कार्यं त्वयेक्ष्वाकुकुलोद्भव ॥ २९॥ इत्याभाष्य ययावाशु प्रचेता नृपतेर्गृहात् । राजा परमसन्तुष्टो ननन्द भवने तदा ॥ ३०॥ चूडाकरणकाले तु प्रवृत्ते परमोत्सवे । सम्प्राप्तस्तरसा पाशी भवनं नृपतेः पुनः ॥ ३१॥ यदाङ्के सुतमादाय राज्ञी नृपतिसन्निधौ । उपविष्टा क्रियाकाले तदैव वरुणोऽभ्यगात् ॥ ३२॥ कुरु कर्मेति विस्पष्टं वचनं कथयन्नृपम् । विप्ररूपधरः श्रीमान् प्रत्यक्ष इव पावकः ॥ ३३॥ नृपतिस्त्वं समालोक्य बभूवातीव विह्वलः । नमश्चकार तं भीत्या कृताञ्जलिपुटः पुरः ॥ ३४॥ विधिवत्पूजयित्वा तं राजोवाच विनीतवान् । स्वामिन् कार्यं करोम्यद्य मखस्य विधिपूर्वकम् ॥ ३५॥ वक्तव्यमस्ति तत्रापि श‍ृणुष्वैकमना विभो । युक्तं चेन्मन्यसे स्वामिंस्तद् ब्रवीमि तवाग्रतः ॥ ३६॥ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । संस्कृताश्चान्यथा शूद्रा एवं वेदविदो विदुः ॥ ३७॥ तस्मादयं सुतो मेऽद्य शुद्रवद्वर्तते शिशुः । उपनीतः क्रियार्हः स्यादिति वेदेषु निर्णयः ॥ ३८॥ राज्ञामेकादशे वर्षे सदोपनयनं स्मृतम् । अष्टमे ब्राह्मणानां च वैश्यानां द्वादशे किल ॥ ३९॥ दयसे यदि देवेश दीनं मां सेवकं तव । तदोपनीय कर्तास्मि पशुना यज्ञमुत्तमम् ॥ ४०॥ लोकपालोऽसि धर्मज्ञ सर्वशास्त्रविशारद । मन्यसे मद्वचः सत्यं तद् गच्छ भवनं विभो ॥ ४१॥ व्यास उवाच - इति तस्य वचः श्रुत्वा दयावान् यादसां पतिः । ओमित्युक्त्वा ययावाशु प्रसन्नवदनो नृपः ॥ ४२॥ गतेऽथ वरुणो राजा बभूवातिमुदान्वितः । सुखं प्राप्य सुतस्यैवं राजा मुदमवाप ह ॥ ४३॥ चकार राजकार्याणि हरिश्चन्द्रस्तदा नृपः । कालेन व्रजता पुत्रो बभूव दशवार्षिकः ॥ ४४॥ तस्योपवीतसामग्रीं विभूतिसदृशीं नृपः । चकार ब्राह्मणैः शिष्टैरन्वितः सचिवैस्तथा ॥ ४५॥ एकादशे सुतास्याब्दे व्रतबन्धविधौ नृपः । विदधे विधिवत्कार्यं चित्ते चिन्तातुरः पुनः ॥ ४६॥ वर्तमाने तथा कार्ये उपनीते कुमारके । आजगामाथ वरुणो विप्रवेषधरस्तदा ॥ ४७॥ तं वीक्ष्य नृपतिस्तूर्णं प्रणम्य पुरतः स्थितः । कृताञ्जलिपुटः प्रीतः प्रत्युवाच सुरोत्तमम् ॥ ४८॥ देव दत्तोपवीतोऽयं पशुयोग्योऽस्ति मे सुतः । प्रसादात्तव मे शोको गतो वन्ध्यापवादजः ॥ ४९॥ कर्तुमिच्छाम्यहं यज्ञं प्रभूतवरदक्षिणम् । समये श‍ृणु धर्मज्ञ सत्यमद्य ब्रवीम्यहम् ॥ ५०॥ समावर्तनकर्मान्ते करिष्यामि तवेप्सितम् । ममोपरि दयां कृत्वा तावत्त्वं क्षन्तुमर्हसि ॥ ५१॥ वरुण उवाच - प्रतारयसि मां राजन् पुत्रप्रेमाकुलो भृशम् । मुहुर्मुहुर्मतिं कृत्वा युक्तियुक्तां महामते ॥ ५२॥ गच्छाम्यद्य महाराज वचसा तव नोदितः । आगमिष्यामि समये समावर्तनकर्मणि ॥ ५३॥ इत्युक्त्वा प्रययौ पाशी तपापृच्छ्य विशाम्पते । राजा प्रमुदितः कार्यं चकार च यथोत्तरम् ॥ ५४॥ आगतं वरुणं दृष्ट्वा कुमारोऽतिविचक्षणः । यज्ञस्य समयं ज्ञात्वा तदा चिन्तातुरोऽभवत् ॥ ५५॥ शोकस्य कारणं राज्ञः पर्यपृच्छदितस्ततः । ज्ञात्वात्मवधमायुष्मन् गमनाय मतिं दधौ ॥ ५६॥ निश्चयं परमं कृत्वा सम्मन्त्र्य सचिवात्मजैः । प्रययौ नगरात्तस्मान्निर्गत्य वनमप्यसौ ॥ ५७॥ गते पुत्रे नृपः कामं दुःखितोऽभूद् भृशं तदा । प्रेरयामास दूतान्स्वांस्तस्यान्वेषणकाम्यया ॥ ५८॥ एवं गतेऽथ कालेऽसौ वरुणस्तद्गृहं गतः । राजानं शोकसन्तप्तं कुरु यज्ञमिति ब्रुवन् ॥ ५९॥ राजा प्रणम्य तं प्राह देवदेव करोमि किम् । न जाने क्वापि पुत्रो मे गतस्त्वद्य भयाकुलः ॥ ६०॥ सर्वत्र गिरिदुर्गेषु मुनीनामाश्रमेषु च । अन्वेषितो मे दूतैस्तु न प्राप्तो यादसाम्पते ॥ ६१॥ आज्ञापय महाराज किं करोमि गते सुते । न मे दोषोऽत्र सर्वज्ञ भाग्यदोषस्तु सर्वथा ॥ ६२॥ व्यास उवाच - इति भूपवचः श्रुत्वा प्रचेताः कुपितो भृशम् । शशाप च नृपं क्रोधाद्वञ्चितस्तु पुनः पुनः ॥ ६३॥ नृपतेऽहं त्वया यस्माद्वचसा च प्रवञ्चितः । तस्माज्जलोदरो व्याधिस्त्वां तुदत्वतिदारुणः ॥ ६४॥ व्यास उवाच - इति शप्तो महीपालः कुपितेन प्रचेतसा । पीडितोऽभूत्तदा राजा व्याधिना दुःखदेन तु ॥ ६५॥ एवं शप्त्वा नृपं पाशी जगाम निजमास्पदम् । राजा प्राप्य महाव्याधिं बभूवातीव दुःखितः ॥ ६६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य जलोदरव्याधिप्राप्तिवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१५॥

७.१६ षोडशोऽध्यायः । यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनम् ।

व्यास उवाच - गतेऽथ वरुणे राजा रोगेणातीव पीडितः । दुःखाद्दुःखं परं प्राप्य व्यथितोऽभूद् भृशं तदा ॥ १॥ कुमारोऽसौ वने श्रुत्वा पितरं रोगपीडितम् । गमनाय मतिं राजंश्चकार स्नेहयन्त्रितः ॥ २॥ संवत्सरे व्यतीते तु पितरं द्रष्टुमादरात् । गन्तुकामं तु तं ज्ञात्वा शक्रस्तत्राजगाम ह ॥ ३॥ वासवस्तु तदा रूपं कृत्वा विप्रस्य सत्वरः । वारयामास युक्त्या वै कुमारं गन्तुमुद्यतम् ॥ ४॥ इन्द्र उवाच - राजपुत्र न जानासि राजनीतिं सुदुर्लभाम् । अतः करोषि मूढस्त्वं गमनाय मतिं वृथा ॥ ५॥ पिता तव महाभाग ब्राह्मणैर्वेदपारगैः । कारयिष्यति होमं ते ज्वलितेऽथ विभावसौ ॥ ६॥ आत्मा हि वल्लभस्तात सर्वेषां प्राणिनां खलु । तदर्थे वल्लभाः सन्ति पुत्रदारधनादयः ॥ ७॥ आत्मनो देहरक्षार्थं हत्वा त्वां वल्लभं सुतम् । हवनं कारयित्वासौ रोगमुक्तो भविष्यति ॥ ८॥ तस्मात्त्वया न गन्तव्यं राजपुत्र पितुर्गृहे । मृते पितरि गन्तव्यं राज्यार्थे सर्वथा पुनः ॥ ९॥ एवं निषेधितस्तत्र वासवेन नृपात्मजः । वनमध्ये स्थितः कामं पुनः संवत्सरं नृप ॥ १०॥ अत्यन्तं दुःखितं श्रुत्वा हरिश्चन्द्रं तदाऽऽत्मजः । गमनाय मतिं चक्रे मरणे कृतनिश्चयः ॥ ११॥ तुषाराड् द्विजरूपेण तत्रागत्य च रोहितम् । निवारयामास सुतं युक्तिवाक्यैः पुनः पुनः ॥ १२॥ हरिश्चन्द्रोऽतिदुःखार्तो वसिष्ठं स्वपुरोहितम् । पप्रच्छ रोगनाशाय तत्रोपायं सुनिश्चितम् ॥ १३॥ तमाह ब्रह्मणः पुत्रो यज्ञं कुरु नृपोत्तम । क्रयक्रीतेन पुत्रेण शापमोक्षो भविष्यति ॥ १४॥ पुत्रा दशविधां प्रोक्ता ब्राह्मणैर्वेदपारगैः । द्रव्येणानीय तस्मात्त्वं पुत्रं कुरु नृपोत्तम ॥ १५॥ वरुणोऽपि प्रसन्नः सन्सुखकारी भविष्यति । लोभात्कोऽपि द्विजः पुत्रं प्रदास्यति स्वराष्ट्रजः ॥ १६॥ एवं प्रमोदितो राजा वसिष्ठेन महामना । प्रधानं प्रेरयामास तदन्वेषणकाम्यया ॥ १७॥ अजीगर्तो द्विजः कश्चिद्विषये तस्य भूपतेः । तस्यासंश्च त्रयः पुत्रा निर्धनस्य विशेषतः ॥ १८॥ प्रधानेनाप्यसौ पृष्टः पुत्रार्थं दुर्बलो द्विजः । गवां शतं ददामीति देहि पुत्रं मखाय वै ॥ १९॥ शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इत्यमी । तेषामेकतमं देहि ददामि तु गवां शतम् ॥ २०॥ अजीगर्तस्तु तच्छ्रुत्वा क्षुधया पीडितो भृशम् । पुत्रं च कतमं तेभ्यो विक्रेतुं वै मनो दधे ॥ २१॥ कार्याधिकारिणं ज्येष्ठं मत्वा नासावदादमुम् । कनिष्ठं नाप्यदान्माता ममैष इति वादिनी ॥ २२॥ मध्यमं च शुनःशेपं ददौ गवां शतेन च । आनिनाय पशुं चक्रे नरमेधे नराधिपः ॥ २३॥ रुदन्तं दुःखितं दीनं वेपमानं भृशातुरम् । यूपे बद्धं निरीक्ष्यामुं चुक्रुशुर्मुनयस्तदा ॥ २४॥ शामित्राय पशुं चक्रे नरमेधे नराधिपः । शमिता नाददे शस्त्रं तमालम्भयितुं शिशुम् ॥ २५॥ नाहं द्विजसुतं दीनं रुदन्तं करुणं भृशम् । हनिष्यामि स्वलोभार्थमित्युवाचाप्यसौ तदा ॥ २६॥ इत्युक्त्वा विररामासौ कर्मणो दुष्करादथ । राजा आभासदः प्राह किं कर्तव्यमिति द्विजाः ॥ २७॥ जातः किलकिलाशब्दो जनानां क्रोशतां तदा । क्रन्दमाने शुनःशेपे सभायां भृशमद्भुतम् ॥ २८॥ अजीगर्तस्तदोत्थाय तमुवाच नृपोत्तमम् । राजन् कार्यं करिष्यामि तवाहं सुस्थिरो भव ॥ २९॥ वेतनं द्विगुणं देहि हनिष्यामि पशुं किल । कर्तव्यं मखकार्यं वै मया तेऽद्य धनार्थिना ॥ ३०॥ दुःखितस्य धनार्थस्य सदासूया प्रसूयते । व्यास उवाच - तच्छ्रुत्वा वचनं तस्य हरिश्चन्द्रो मुदान्वितः ॥ ३१॥ तमुवाच ददाम्यद्य गवां शतमनुत्तमम् । तदाकर्ण्य पिता तस्य पुत्रं हन्तुं समुद्यतः ॥ ३२॥ लोभेनाकुलचित्तोऽसौ शामित्रे कृतनिश्चयः । समुद्यतं च तं दृष्ट्वा जनाः सर्वे सभासदः ॥ ३३॥ चुक्रुशुर्भृशदुःखार्ता हाहेति जगदुर्वचः । पिशाचोऽयं महापापी क्रूरकर्मा द्विजाकृतिः ॥ ३४॥ यत्स्वयं स्वसुतं हन्तुमुद्यतः कुलपांसनः । धिक्चाण्डाल किमेतत्ते पापकर्म चिकीर्षितम् ॥ ३५॥ हत्वा सुतं धनं प्राप्य किं सुखं ते भविष्यति । आत्मा वै जायते पुत्र अङ्गाद्वै वेदभाषितम् ॥ ३६॥ तत्कथं पापबुद्धे त्वमात्मानं हन्तुमिच्छसि । एवं कोलाहले तत्र जाते कुशिकनन्दनः ॥ ३७॥ समीपं नृपतेर्गत्वा तमुवाच दयापरः । विश्वामित्र उवाच - राजन्नमुं शुनःशेपं रुदन्तं भृशदुःखितम् ॥ ३८॥ क्रतुस्ते भविता पूर्णो रोगनाशश्च सर्वथा । दयासमं नास्ति पुण्यं पापं हिंसासमं नहि ॥ ३९॥ रागिणां रोचनार्थाय नोदनेयं विचारय । आत्मदेहस्य रक्षार्थं परदेहनिकृन्तनम् ॥ ४०॥ न कर्तव्यं महाराज सर्वतः शुभमिच्छता । दयया सर्वभूतेषु सन्तुष्टो येन केन च ॥ ४१॥ सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जगत्पतिः । आत्मवत्सर्वभूतेषु चिन्तनीयं नृपोत्तम ॥ ४२॥ जीवितव्यं प्रियं नूनं सर्वेषां सर्वदा किल । त्वमिच्छसि सुखं कर्तुं देहे हत्वा त्वमुं द्विजम् ॥ ४३॥ कथं नेच्छेदसौ देहं रक्षितुं स्वसुखास्पदम् । पूर्वजन्मकृतं वैरं नानेन सह ते नृप ॥ ४४॥ येनामुं हन्तुकामस्त्वं द्विजपुत्रं निरागसम् । यो यं हन्ति विना वैरं स्वकामः सततं पुनः ॥ ४५॥ हन्तारं हन्ति तं प्राप्य जननं जननान्तरे । जनकोऽस्य सुदुष्टात्मा येनासौ ते समर्पितः ॥ ४६॥ स्वात्मजो धनलोभेन पापाचारः सुदुर्मतिः । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ ४७॥ यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् । देशमध्ये च यः कश्चित्पापकर्म समाचरेत् ॥ ४८॥ षष्ठांशस्तस्य पापस्य राजा भुङ्क्ते न संशयः । निषेधनीयो राज्ञासौ पापं कर्तुं समुद्यतः ॥ ४९॥ न निषिद्धस्त्वया कस्मात्पुत्रं विक्रेतुमुद्यतः । सूर्यवंशे समुत्पन्नस्त्रिशङ्कुतनयः शुभः ॥ ५०॥ आर्यस्त्वनार्यवत्कर्म कर्तुमिच्छसि पार्थिव । मोचनान्मुनिपुत्रस्य करणाद्वचनस्य मे ॥ ५१॥ तव देहे सुखं राजन् भविष्यत्यविचारणात् । पिता ते शापयोगेन चाण्डालत्वमुपागतः ॥ ५२॥ मयासौ तेन देहेन स्वर्लोकं प्रापितः किल । तेनैव प्रीतियोगेन कुरु मे वचनं नृप ॥ ५३॥ मुञ्चैनं बालकं दीनं रुदन्तं भृशमातुरम् । याचितोऽसि मया नूनं यज्ञेऽस्मिन् राजसूयके ॥ ५४॥ प्रार्थनाभङ्गजं दोषं कथं त्वं नावबुध्यसे । प्रार्थितं सर्वदा देयं मखेऽस्मिन्नृपसत्तम ॥ ५५॥ अन्यथा पापमेव स्यात्तव राजन्न संशयः । व्यास उवाच - इति तस्य वचः श्रुत्वा कौशिकस्य नृपोतमः ॥ ५६॥ प्रत्युवाच महाराज कौशिकं मुनिसत्तमम् । जलोदरेण गाधेय दुःखितोऽहं भृशं मुने ॥ ५७॥ तस्मान्न मोचयाम्येनमन्यत्प्रार्थय कौशिक । न त्वया विग्रहः कार्यः कार्येऽस्मिन्मम सर्वथा ॥ ५८॥ तच्छ्रुत्वा वचनं राज्ञो विश्वामित्रोऽतिकोपनः । बभूव दुःखसन्तप्तो वीक्ष्य दीनं द्विजात्मजम् ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे यज्ञपशुभूतस्य ब्राह्मणपुत्रस्य वधकरणाय विश्वामित्रनिषेधवर्णनं नाम षोडशोऽध्यायः ॥ ७.१६॥

७.१७ सप्तदशोऽध्यायः । वसिष्ठविश्वामित्रपणवर्णनम् ।

व्यास उवाच - रुदन्तं बालकं वीक्ष्य विश्वामित्रो दयातुरः । शुनःशेपमुवाचेदं गत्वा पार्श्वेऽतिदुःखितम् ॥ १॥ मन्त्रं प्रचेतसः पुत्र मयोक्तं मनसा स्मरन् । जपतस्तव कल्याणं भविष्यति ममाज्ञया ॥ २॥ विश्वामित्रवचः श्रुत्वा शुनःशेपः शुचाऽऽकुलः । मन्त्रं जजाप मनसा कौशिकोक्तं स्फुटाक्षरम् ॥ ३॥ जपतस्तत्र तस्याशु प्रचेतास्तु कृपाकरः । प्रादुर्बभूव सहसा प्रसन्नो नृप बालके ॥ ४॥ दृष्ट्वा तमागतं सर्वे विस्मयं परमं गताः । तुष्टुवुर्वरुणं देवं मुदिता दर्शनेन ते ॥ ५॥ राजातिविस्मितः पादौ प्रणनाम रुजातुरः । बद्धाञ्जलिपुटो देवं तुष्टाव पुरतः स्थितम् ॥ ६॥ हरिश्चन्द्र उवाच - देवदेव कृपासिन्धो पापात्माहं सुमन्दधीः । कृतापराधः कृपणः पावितः परमेष्ठिना ॥ ७॥ मया ते पुत्रकामेन दुःखसंस्थेन हेलनम् । कृतं क्षमाप्यं प्रभुणा कोऽपराधः सुदुर्मतेः ॥ ८॥ अर्थी दोषं न जानाति तस्मात्पुत्रार्थिना मया । वञ्चितस्त्वं देवदेव भीतेन नरकाद्विभो ॥ ९॥ अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । भीतोऽहं तेन वाक्येन तस्मात्ते हेलनं कृतम् ॥ १०॥ नाज्ञस्य दूषणं चिन्त्यं नूनं ज्ञानवता विभो । दुःखितोऽहं रुजाक्रान्तो वञ्चितः स्वसुतेन ह ॥ ११॥ न जानेऽहं महाराज पुत्रो मे क्व गतः प्रभो । वञ्चयित्वा वने भीतो मरणान्मां कृपानिधे ॥ १२॥ प्रययौ द्रविणं दत्वा गृहीतो द्विजबालकः । यज्ञोऽयं क्रीतपुत्रेण प्रारब्धस्तव तुष्टये ॥ १३॥ दर्शनं तव सम्प्राप्य गतं दुःखं ममाद्भुतम् । जलोदरकृतं सर्वं प्रसन्ने त्वयि साम्प्रतम् ॥ १४॥ व्यास उवाच - इति तस्य वचः श्रुत्वा राज्ञो रोगातुरस्य च । दयावान्देवदेवेशः प्रत्युवाच नृपोत्तमम् ॥ १५॥ वरुण उवाच - मुञ्च राजञ्छुनःशेपं स्तुवन्तं मां भृशातुरम् । यज्ञोऽयं परिपूर्णस्ते रोगमुक्तो भवात्मना ॥ १६॥ इत्युक्त्वा वरुणस्तूर्णं राजानं विरुजं तथा । चकार पश्यतां तत्र सदस्यानां सुसंस्थितम् ॥ १७॥ विमुक्तोऽसौ द्विजः पाशाद्वरुणेन महात्मना । जयशब्दस्ततस्तत्र सञ्जातो मखमण्डपे ॥ १८॥ राजा प्रमुदितः सद्यो रोगान्मुक्तः सुदारुणात् । यूपान्मुक्तः शुनःशेपो बभूवातीव संस्थितः ॥ १९॥ राजा त्विमं मखं पूर्णं चकार विनयान्वितः । शुनःशेपस्तदा सभ्यानित्युवाच कृताञ्जलिः ॥ २०॥ भो भोः सभ्या सुधर्मज्ञाः ब्रुवन्तु धर्मनिर्णयम् । वेदशास्त्रानुसारेण यथार्थवादिनः किल ॥ २१॥ पुत्रोऽहं कस्य सर्वज्ञाः पिता के कोऽग्रतः परम् । भवतां वचनात्तस्य शरणं प्रव्रजाम्यहम् ॥ २२॥ इत्युक्ते वचने तत्र सभ्याः प्रोचुः परस्परम् । सभ्या ऊचूः - अजीगर्तस्य पुत्रोऽयं कस्यान्यस्य भवेदसौ ॥ २३॥ अङ्गादङ्गात्समुद्भूतः पालितस्तेन भक्तितः । अन्यस्य कस्य पुत्रोऽसौ प्रभवेदिति निश्चयः ॥ २४॥ तच्छ्रुत्वा वामदेवस्तु तानुवाच सभासदः । विक्रीतस्तेन तातेन द्रव्यलोभात्सुतः किल ॥ २५॥ पुत्रोऽयं धनदातुश्च राज्ञस्तत्र न संशयः । अथवा वरुणस्यैष पाशान्मुक्तोऽस्त्यनेन वै ॥ २६॥ अन्नदाता भयत्राता तथा विद्याप्रदश्च यः । तथा वित्तप्रदश्चैव पञ्चैते पितरः स्मृताः ॥ २७॥ तदा केचित्पितुः प्राहुः केचिद्राज्ञस्तथापरे । वरुणस्येति संवादे निर्णयं न ययुश्च ते ॥ २८॥ इत्थं सन्देहमापन्ने वसिष्ठो वाक्यमब्रवीत् । सभ्यान्विवदतस्तत्र सर्वज्ञः सर्वपूजितः ॥ २९॥ श‍ृणुध्वं भो महाभागा निर्णयं श्रुतिसम्मतम् । निःस्नेहेन यदा पित्रा विक्रीतोऽयं सुतः शिशुः ॥ ३०॥ सम्बन्धस्तु गतस्तस्य तदैव धनसङ्ग्रहात् । हरिश्चन्द्रस्य सञ्जातः पुत्रोऽसौ क्रीत एव च ॥ ३१॥ यूपे बद्धो यदा राज्ञा तदा तस्य न वै सुतः । वरुणस्तु स्तुतोऽनेन तेन तुष्टेन मोचितः ॥ ३२॥ तस्मान्नायं महाभागा ह्यसौ पुत्रः प्रचेतसः । यो यं स्तौति महामन्त्रैः सोऽपि तुष्टो ददाति च ॥ ३३॥ धनं प्राणान्पशून् राज्यं तथा मोक्षं किलेप्सितम् । कौशिकस्य सुतश्चायमरिष्टे येन रक्षितः ॥ ३४॥ मन्त्रं दत्त्वा महावीर्यं वरुणस्यातिसङ्कटे । व्यास उवाच - श्रुत्वा वाक्यं वसिष्ठस्य बाढमूचुः सभासदः ॥ ३५॥ विश्वामित्रस्तु जग्राह तं करे दक्षिणे तदा । एहि पुत्र गृहं मे त्वमित्युक्त्वा प्रेमपूरितः ॥ ३६॥ शुनःशेपो जगामाशु तेनैव सह सत्वरः । वरुणस्तु प्रसन्नात्मा जगाम च स्वमालयम् ॥ ३७॥ ऋत्विजश्च तथा सभ्याः स्वगृहान्निर्ययुस्तदा । राजापि रोगनिर्मुक्तो बभूवातिमुदान्वितः ॥ ३८॥ प्रजास्तु पालयामास सुप्रसन्नेन चेतसा । रोहिताख्यस्तु तच्छ्रुत्वा वृत्तान्तं वरुणस्य ह ॥ ३९॥ आजगाम गृहं प्रीतो दुर्गमाद्वनपर्वतात् । दूता राजानमभ्येत्य प्रोचुः पुत्रं समागतम् ॥ ४०॥ मुदितोऽसौ जगामाशु सम्मुखः कोसलाधिपः । दृष्ट्वा पितरमायान्तं प्रेमोद्रिक्तः सुसम्भ्रमः ॥ ४१॥ दण्डवत्पतितो भूमावश्रुपूर्णमुखः शुचा । राजापि तं समुत्थाप्य परिरभ्य मुदान्वितः ॥ ४२॥ तमाघ्राय सुतं मूर्ध्नि पप्रच्छ कुशलं पुनः । उत्सङ्गे तं समारोप्य मुदितो मेदिनीपतिः ॥ ४३॥ उष्णैर्नेत्रजलैः शीर्षण्यभिषेकमथाकरोत् । राज्यं शशास तेनासौ पुत्रेणातिप्रियेण च ॥ ४४॥ वृत्तान्तं नरमेधस्य कथयामास विस्तरात् । राजसूयं क्रतुवरं चकार नृपसत्तमः ॥ ४५॥ वसिष्ठं पूजयित्वाथ होतारमकरोद्विभुः । समाप्ते त्वथ यज्ञेशे वसिष्ठोऽतीव पूजितः ॥ ४६॥ शक्रस्य सदनं रम्यं जगाम मुनिरादरात् । विश्वामित्रोऽपि तत्रैव वसिष्ठेन च सङ्गतः ॥ ४७॥ मिलित्वा तौ स्थितौ देवसदने मुनिसत्तम । विश्वामित्रोऽपि पप्रच्छ वसिष्ठं प्रतिपूजितम् ॥ ४८॥ वीक्ष्य विस्मयचित्तस्तं सभायां तु शचीपतेः । विश्वामित्र उवाच - क्वेयं पूजा त्वया प्राप्ता महती मुनिसत्तम ॥ ४९॥ कृता केन महाभाग सत्यं ब्रूहि ममान्तिके । वसिष्ठ उवाच - यजमानोऽस्ति मे राजा हरिश्चन्द्रः प्रतापवान् ॥ ५०॥ राजसूयः कृतस्तेन राज्ञा प्रवरदक्षिणः । नेदृशोऽस्ति नृपश्चान्यः सत्यवादी धृतव्रतः ॥ ५१॥ दाता च धर्मशीलश्च प्रजारञ्जनतत्परः । तस्य यज्ञे मया पूजा प्राप्ता कौशिकनन्दन ॥ ५२॥ [ किं पृच्छसि पुनः सत्यं ब्रवीम्यकृत्रिमं द्विज ] हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । सत्यवादी तथा दाता शूरः परमधार्मिकः ॥ ५३॥ व्यास उवाच । इति तस्य वचः श्रुत्वा विश्वामित्रोऽतिकोपनः । बभूव क्रोधसंरक्तलोचनोऽप्यब्रवीच्च तम् ॥ ५४॥ विश्वामित्र उवाच । एवं स्तौषि नृपं मिथ्यावादिनं कपटप्रियम् । वञ्चितो वरुणो येन प्रतिश्रुत्य वरं पुनः ॥ ५५॥ मम जन्मार्जितं पुण्यं तपसः पठितस्य च । त्वदीयं वातितपसो ग्लहं कुरु महामते ॥ ५६॥ अहं चेत्तं नृपं सद्यो न करोम्यतिसंस्तुतम् । असत्यवादिनं काममदातारं महाखलम् ॥ ५७॥ आजन्मसञ्चितं सर्वं पुण्यं मम विनश्यतु । अन्यथा त्वत्कृतं सर्वं पुण्यं त्विति पणावहे ॥ ५८॥ ग्लहं कृत्वा ततस्तौ तु विवदन्तौ मुनी तदा । स्वाश्रमं स्वर्गलोकाच्च गतौ परमकोपनौ ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे वसिष्ठविश्वामित्रपणवर्णनं नाम सप्तदशोऽध्यायः ॥ ७.१७॥

७.१८ अष्टादशोऽध्यायः । हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनम् ।

व्यास उवाच - कदाचित्तु हरिश्चन्द्रो मृगयार्थं वनं ययौ । अपश्यद्रुदतीं बालां सुन्दरीं चारुलोचनाम् ॥ १॥ तामपृच्छन्महाराजः कामिनीं करुणापरः । पद्मपत्रविशालाक्षि किं रोदिषि वरानने ॥ २॥ केनासि पीडितात्यर्थं किं ते दुःखं वदाशु मे । का च त्वं विजने घोरे कस्ते भर्ता पिताथवा ॥ ३॥ न बाधते च राज्ये मे राक्षसोऽपि पराङ्गनाम् । तं हन्मि तरसा कान्ते यस्त्वां सुन्दरि बाधते ॥ ४॥ ब्रूहि दुःखं वरारोहे स्वस्था भव कृशोदरि । विषये मम पापात्मा न तिष्ठति सुमध्यमे ॥ ५॥ इति तस्य वचः श्रुत्वा नारी तमब्रवीन्नृपम् । प्रमृज्याश्रूणि वदनाद्धरिश्चन्द्रं नृपोत्तमम् ॥ ६॥ नार्युवाच - राजन् मां बाधतेऽत्यर्थं विश्वामित्रो महामुनिः । तपः करोति यद्घोरं मदर्थं कौशिको वने ॥ ७॥ तेनाहं दुःखिता राजन् विषये तव सुव्रत । विद्धि मां कमनां कान्तां पीडितां मुनिना भृशम् ॥ ८॥ राजोवाच - स्वस्था भव विशालाक्षि न ते दुःखं भविष्यति । तमहं वारयिष्यामि मुनिं तापपरायणम् ॥ ९॥ इत्याश्वास्य स्त्रियं राजा तरसा मुनिसन्निधौ । नत्वा प्रणम्य शिरसा तमुवाच महीपतिः ॥ १०॥ स्वामिन्किं क्रियतेऽत्यर्थं तपसा देहपीडनम् । किमर्थं ते समारम्भो ब्रूहि सत्यं महामते ॥ ११॥ वाञ्छितं तव गाधेय करोमि सफलं किल । उत्तिष्ठोत्तिष्ठ तरसा तपसालमतः परम् ॥ १२॥ विषये मम सर्वज्ञ न कर्तव्यं सुदारुणम् । लोकपीडाकरं घोरं तपः केनापि कर्हिचित् ॥ १३॥ इत्थं निषिध्य तं राजा विश्वामित्रं गृहं ययौ । मनसा क्रोधमाधाय गतोऽसौ कौशिको मुनिः ॥ १४॥ स गत्वा चिन्तयामास नृपकृत्यमसाम्प्रतम् । वसिष्ठस्य च संवादं तपसः प्रतिषेधनम् ॥ १५॥ कोपाविष्टेन मनसा प्रतीकारमथाकरोत् । विचिन्त्य बहुधा चित्ते दानवं घोरविग्रहम् ॥ १६॥ प्रेषयामास तद्देशं विधाय सूकराकृतिम् । सोऽतिकायो महाकालः कुर्वन्नादं सुदारुणम् ॥ १७॥ राज्ञश्चोपवने प्राप्तस्त्रासयन् रक्षकांस्तदा । मालतीनां च खण्डानि कदम्बानां तथैव च ॥ १८॥ यूथिकानां च वृन्दानि कम्पयंश्च मुहुर्मुहुः । दन्तेन विलिखन्भूमिं समुन्मूलयते द्रुमान् ॥ १९॥ चम्पकान्केतकीखण्डान्मल्लिकानां च पादपान् । करवीरानुशीरांश्च निचखान शुभान्मृदून् ॥ २०॥ मुचुकुन्दानशोकांश्च बकुलांस्तिलकांस्तथा । उन्मूल्य कदनं तत्र चकार सूकरो वने ॥ २१॥ वाटिकारक्षकाः सर्वे दुद्रुवुः शस्त्रपाणयः । हाहेति चुक्रुशुस्तत्र मालाकारा भृशातुराः ॥ २२॥ बाणैः सन्ताड्यमानोऽपि यदा त्रस्तो न वै मृगः । रक्षकान्पीडयामास कोलः कालसमद्युतिः ॥ २३॥ ते तदातिभयाक्रान्ता राजानं शरणं ययुः । तमूचुस्त्राहि त्राहीति वेपमाना भयाकुलाः ॥ २४॥ तानागतान्समालोक्य भयार्तान्भूपतिस्तदा । पप्रच्छ किं भयं कस्मान्मां ब्रुवन्तु समागताः ॥ २५॥ नाहं बिभेमि देवेभ्यो राक्षसेभ्यश्च रक्षकाः । कस्माद्भयं समुत्पन्नं तद् ब्रुवन्तु ममाग्रतः ॥ २६॥ हन्मि चैकेन बाणेन तं शत्रुं दुर्भगं किल । यो मेऽरातिः समुत्पन्नो लोके पापमतिः खलः ॥ २७॥ देवो वा दानवो वापि तं निहन्मि शरैः शितैः । क्व तिष्ठति कियद्रूपः कियद्बलसमन्वितः ॥ २८॥ मालाकारा ऊचुः - न देवो न च दैत्योऽस्ति न यक्षो न च किन्नरः । कश्चित्कोलो महाकायो राजंस्तिष्ठति कानने ॥ २९॥ पुष्पवृक्षानतिमृदून्दन्तेनोन्मूलयत्यसौ । विदीर्णं तद्वनं सर्वं सूकरेणातिरंहसा ॥ ३०॥ विशिखैस्ताडितोऽस्माभिर्दृषद्भिर्लकुटैस्तथा । न बिभेति महाराज हन्तुमस्मानुपाद्रवत् ॥ ३१॥ व्यास उवाच - इत्याकर्ण्य वचस्तेषां राजा कोपसमाकुलः । अश्वमारुह्य तरसा जगामोपवनं प्रति ॥ ३२॥ सैन्येन महता युक्तो गजाश्वरथसंयुतः । पदातिवृन्दसहितः प्रययौ वनमुत्तमम् ॥ ३३॥ तत्रापश्यन्महाकोलं घुर्घुरन्तं भयानकम् । वनं भग्नं च संवीक्ष्य राजा क्रोधयुतोऽभवत् ॥ ३४॥ चापे बाणं समारोप्य विकृष्य च शरासनम् । तं हन्तुं सूकरं पापं तरसा समुपाक्रमत् ॥ ३५॥ समालोक्य च राजानं चापहस्तं रुषाकुलम् । सम्मुखोऽभ्यद्रवत्तूर्णं कुर्वञ्छब्दं सुदारुणम् ॥ ३६॥ तमायान्तं समालोक्य वराहं विकृताननम् । मुमोच विशिखं तस्मिन्हन्तुकामो महीपतिः ॥ ३७॥ वञ्चयित्वाथ तद्बाणं सूकरस्तरसा बलात् । निर्जगाम महावेगात्तमुल्लङ्घ्य नृपं तदा ॥ २८॥ गच्छन्तं तं समालोक्य राजा कोपसमन्वितः । मुमोच विशिखांस्तीक्ष्णांश्चापमाकृष्य यत्नतः ॥ ३९॥ क्षणं दृष्टिपथं राज्ञः क्षणं चादर्शनं गतः । कुर्वन्बहुविधारावं सूकरं समुपाद्रवत् ॥ ४०॥ हरिश्चन्द्रोऽतिकुपितो मृगस्यानुजगाम ह । अश्वेन वायुवेगेन विकृष्य च शरासनम् ॥ ४१॥ इतस्ततस्ततः सैन्यमगमच्च वनान्तरम् । एकाकी नृपतिः कोलं व्रजन्तं समुपाद्रवत् ॥ ४२॥ मध्याह्नसमये राजा सम्प्राप्तो विजने वने । तृषितः क्षुधितोऽत्यर्थं बभूव श्रान्तवाहनः ॥ ४३॥ सूकरोऽदर्शनं प्राप्तो राजा चिन्तातुरोऽभवत् । मार्गभ्रष्टोऽतिविपिने दारुणे दीनवत्स्थितः ॥ ४४॥ किं करोमि क्व गच्छामि न सहायोऽस्ति मे वने । अज्ञातस्वपथः कुत्र व्रजामीति व्यचिन्तयत् ॥ ४५॥ एवं चिन्तयतस्तत्र विपिने जनवर्जिते । राज्ञा चिन्तातुरोऽपश्यन्नदीं सुविमलोदकाम् ॥ ४६॥ वीक्ष्य तां मुदितो राजा पाययित्वा तुरङ्गकम् । अश्वादुत्तेर्य विमलं पपौ पानीयमुत्तमम् ॥ ४७॥ जलं पीत्वा नृपस्तत्र सुखमाप महीपतिः । इत्येष नगरं गन्तुं दिग्भ्रमेणातिमोहितः ॥ ४८॥ विश्वामित्रस्तु सम्प्राप्तो वृद्धब्राह्मणरूपधृक् । ननाम वीक्ष्य राजा तं प्रीतिपूर्वं द्विजोत्तमम् ॥ ४९॥ तमुवाच गाधिराजः प्रणमन्तं नृपोत्तमम् । स्वस्ति तेऽस्तु महाराज किमर्थमिह चागतः ॥ ५०॥ एकाकी विजने राजन् किं चिकीर्षितमत्र ते । ब्रूहि सर्वं स्थिरो भूत्वा कारणं नृपसत्तम ॥ ५१॥ राजोवाच - सूकरोऽतिमहाकायो बलवान्पुष्पकाननम् । समुपेत्य ममर्दाशु कोमलान्पुष्पपादपान् ॥ ५२॥ तं निवारयितुं दुष्टं करे कृत्वा च कार्मुकम् । ससैन्योऽहं स्वनगरान्निर्गतो मुनिसत्तम ॥ ५३॥ गतोऽसौ दृक्पथात्पापो मायावी क्वापि वेगवान् । पृष्ठतोऽहमपि प्राप्तः सैन्यं क्वापि गतं मम ॥ ५४॥ क्षुधितस्तृषितश्चाहं सैन्यभ्रष्टस्त्विहागतः । न जाने पुरमार्गं च तथा सैन्यगतिं मुने ॥ ५५॥ पन्थानं दर्शय विभो व्रजामि नगरं प्रति । ममात्र भाग्ययोगेन प्राप्तस्त्वं विजने वने ॥ ५६॥ अयोध्यादिपतिश्चाहं हरिश्चन्द्रोऽतिविश्रुतः । राजसूयस्य कर्ता च वाञ्छितार्थप्रदः सदा ॥ ५७॥ धनेच्छा यदि ते ब्रह्मन् यज्ञार्थं द्विजसत्तम । आगन्तव्यमयोध्यायां दास्यामि विपुलं धनम् ॥ ५८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रद्वारा वृद्धब्राह्मणाय धनदानप्रतिज्ञावर्णनं नामाष्टादशोऽध्यायः ॥ ७.१८॥

७.१९ एकोनविंशोऽध्यायः । कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनम् ।

व्यास उवाच - इति तस्य वचः श्रुत्वा भूपतेः कौशिको मुनिः । प्रहस्य प्रत्युवाचेदं हरिश्चन्द्रं तथा नृप ॥ १॥ राजंस्तीर्थमिदं पुण्यं पावनं पापनाशनम् । स्नानं कुरु महाभाग पितॄणां तर्पणं तथा ॥ २॥ कालः शुभतमोऽस्तीह तीर्थे स्नात्वा विशाम्पते । दानं ददस्व शक्त्यात्र पुण्यतीर्थेऽतिपावने ॥ ३॥ प्राप्य तीर्थं महापुण्यमस्नात्वा यस्तु गच्छति । स भवेदात्महा भूय इति स्वायम्भुवोऽब्रवीत् ॥ ४॥ तस्मात्तीर्थवरे राजन् कुरु पुण्यं स्वशक्तितः । दर्शयिष्यामि मार्गं ते गन्तासि नगरं ततः ॥ ५॥ आगमिष्यामहं मार्गदर्शनार्थं तवानघ । त्वया सहाद्य काकुत्स्थ तव दानेन तोषितः ॥ ६॥ तच्छ्रुत्वा वचनं राजा मुनेः कपटमण्डितम् । वासांस्युत्तार्य विधिवत्स्नातुमभ्याययौ नदीम् ॥ ७॥ बन्धयित्वा हयं वृक्षे मुनिवाक्येन मोहितः । अवश्यम्भावियोगेन तद्वशस्तु तदाभवत् ॥ ८॥ राजा स्नानविधिं कृत्वा सन्तर्प्य पितृदेवताः । विश्वामित्रमुवाचेदं स्वामिन् दानं ददामि ते ॥ ९॥ यदिच्छसि महाभाग तत्ते दास्यामि साम्प्रतम् । गावो भूमिर्हिरण्यं च गजाश्वरथवाहनम् ॥ १०॥ नादेयं मे किमप्यस्ति कृतमेतद् व्रतं पुरा । राजसूये मखश्रेष्ठे मुनीनां सन्निधावपि ॥ ११॥ तस्मात्त्वमिह सम्प्ताप्तस्तीर्थेऽस्मिन्प्रवरे मुने । यत्तेऽस्ति वाञ्छितं ब्रूहि ददामि तव वाञ्छितम् ॥ १२॥ विश्वामित्र उवाच - मया पूर्वं श्रुता राजन् कीर्तिस्ते विपुला भुवि । वसिष्ठेन च सम्प्रोक्ता दाता नास्ति महीतले ॥ १३॥ हरिश्चन्द्रो नृपश्रेष्ठः सूर्यवंशे महीपतिः । तादृशो नृपतिर्दाता न भूतो न भविष्यति ॥ १४॥ पृथिव्यां परमोदारस्त्रिशङ्कुतनयो यथा । अतस्त्वां प्रार्थयाम्यद्य विवाहो मेऽस्ति पार्थिवः ॥ १५॥ पुत्रस्य च महाभाग तदर्थं देहि मे धनम् । राजोवाच - विवाहं कुरु विप्रेन्द्र ददामि प्रार्थितं तव ॥ १६॥ यदिच्छसि धनं कामं दाता तस्यास्मि निश्चितम् । व्यास उवाच - इत्युक्तः कौशिकस्तेन वञ्चनातत्परो मुनिः ॥ १७॥ उद्भाव्य मायां गान्धर्वीं पार्थिवायाप्यदर्शयत् । कुमारः सुकामारश्च कन्या च दशवार्षिकी ॥ १८॥ एतयोः कार्यमप्यद्य कर्तव्यं नृपसत्तम । राजसूयाधिकं पुण्यं गृहस्थस्य विवाहतः ॥ १९॥ भविष्यति तवाद्यैव विप्रपुत्रविवाहतः । तच्छ्रुत्वा वचनं राजा मायया तस्य मोहितः ॥ २०॥ तथेति च प्रतिज्ञाय नोवाचाल्पं वचस्तथा । तेन दर्शितमार्गोऽसौ नगरं प्रति जग्मिवान् ॥ २१॥ विश्वामित्रोऽपि राजानं वञ्चयित्वाऽऽश्रमं ययौ । कृतोद्वाहविधिस्तावद्विश्वामित्रोऽब्रवीन्नृपम् ॥ २२॥ वेदीमध्ये नृपाद्य त्वं देहि दानं यथेप्सितम् । राजोवाच - किं तेऽभीष्टं द्विज ब्रूहि ददामि वाञ्छितं किल ॥ २३॥ अदेयमपि संसरे यशःकामोऽस्मि साम्प्रतम् । व्यर्थं हि जीवितं तस्य विभवं प्राप्य येन वै ॥ २४॥ नोपार्जितं यशः शुद्धं परलोकसुखप्रदम् । विश्वामित्र उवाच - राज्यं देहि महाराज वराय सपरिच्छदम् ॥ २५॥ गजाश्वरथरत्नाढ्यं वेदीमध्येऽतिपावने । व्यास उवाच - मोहितो मायया तस्य श्रुत्वा वाक्यं मुनेर्नृपः ॥ २६॥ दत्तमित्युक्तवान् राज्यमविचार्य यदृच्छया । गृहीतमिति तं प्राह विश्वामित्रोऽतिनिष्ठुरः ॥ २७॥ दक्षिणां देहि राजेन्द्र दानयोग्यां महामते । दक्षिणारहितं दानं निष्फलं मनुरब्रवीत् ॥ २८॥ तस्माद्दानफलाय त्वं यथोक्तां देहि दक्षिणाम् । इत्युक्तस्तु तदा राजा तमुवाचातिविस्मितः ॥ २९॥ ब्रूहि कियद्धनं तुभ्यं देयं स्वामिन् मयाधुना । दक्षिणानिष्क्रयं साधो वद तावत्प्रमाणकम् ॥ ३०॥ दानपूर्त्यै प्रदास्यामि स्वस्थो भव तपोधन । विश्वामित्रस्तु तच्छ्रुत्वा तमाह मेदिनीपतिम् ॥ ३१॥ हेमभारद्वयं सार्धं दक्षिणां देहि साम्प्रतम् । दास्यामीति प्रतिश्रुत्य तस्मै राजातिविस्मितः ॥ ३२॥ तदैव सैनिकास्तस्य वीक्षमाणाः समागताः । दृष्ट्वा महीपतिं व्यग्रं तुष्टुवुस्ते मुदान्विताः ॥ ३३॥ व्यास उवाच - श्रुत्वा तेषां वचो राजा नोक्त्वा किञ्चिच्छुभाशुभम् । चिन्तयन्स्वकृतं कर्म ययावन्तःपुरे ततः ॥ ३४॥ किं मया स्वीकृतं दानं सर्वस्वं यत्समर्पितम् । वञ्चितोऽहं द्विजेनात्र वने पाटच्चरैरिव ॥ ३५॥ राज्यं सोपस्करं तस्मै मया सर्वं प्रतिश्रुतम् । भारद्वयं सुवर्णस्य सार्धं च दक्षिणा पुनः ॥ ३६॥ किं करोमि मतिर्भ्रष्टा न ज्ञातं कपटं मुनेः । प्रतारितोऽहं सहसा ब्राह्मणेन तपस्विना ॥ ३७॥ न जाने दैवकार्यं वै हा दैव किं भविष्यति । इति चिन्तापरो राजा गृहं प्राप्तोऽतिविह्वलः ॥ ३८॥ पतिं चिन्तापरं दृष्त्वा राज्ञी पप्रच्छ कारणम् । किं प्रभो विमना भासि का चिन्ता ब्रूहि साम्प्रतम् ॥ ३९॥ वनात्पुत्रः समायातो राजसूयः कृतः पुरा । कस्माच्छोचसि राजेन्द्र शोकस्य कारणं वद ॥ ४०॥ नारातिर्विद्यते क्वापि बलवान्दुर्बलोऽपि वा । वरुणोऽपि सुसन्तुष्टः कृतकृत्योऽसि भूतले ॥ ४१॥ चिन्तया क्षीयते देहो नास्ति चिन्तासमा मृतिः । त्यज्यतां नृपशार्दूल स्वस्थो भव विचक्षण ॥ ४२॥ तन्निशम्य प्रियावाक्यं प्रीतिपूर्वं नराधिपः । प्रोवाच किञ्चिच्चिन्तायाः कारणं च शुभाशुभम् ॥ ४३॥ भोजनं न चकाराऽसौ चिन्ताविष्टस्तथा नृपः । सुप्त्वापि शयने शुभ्रे लेभे निद्रां न भूमिपः ॥ ४४॥ प्रातरुत्थाय चिन्तार्तो यावत्सन्ध्यादिकाः क्रियाः । करोति नृपतिस्तावद्विश्वामित्रः समागतः ॥ ४५॥ क्षत्रा निवेदितो राज्ञे मुनिः सर्वस्वहारकः । आगत्योवाच राजानं प्रणमन्तं पुनः पुनः ॥ ४६॥ विश्वामित्र उवाच - राजंस्त्यज स्वराज्यं मे देहि वाचा प्रतिश्रुतम् । सुवर्णं स्पृश राजेन्द्र सत्यवाग्भव साम्प्रतम् ॥ ४७॥ हरिश्चन्द्र उवाच - स्वामिन् राज्यं तवेदं मे मया दत्तं किलाधुना । त्यक्त्वान्यत्र गमिष्यामि मा चिन्ता कुरु कौशिक ॥ ४८॥ सर्वस्वं मम ते ब्रह्मन् गृहीतं विधिवद्विभो । सुवर्णदक्षिणां दातुमशक्तोऽस्म्यधुना द्विज ॥ ४९॥ दानं ददामि ते तावद्यावन्मे स्याद्धनागमः । पुनश्चेत्कालयोगेन तदा दास्यामि दक्षिणाम् ॥ ५०॥ इत्युक्त्वा नृपतिः प्राह पुत्रं भार्यां च माधवीम् । राज्यमस्मै प्रदत्तं वै मया वेद्यां सुविस्तरम् ॥ ५१॥ हस्त्यश्वरथसंयुक्तं रत्नहेमसमन्वितम् । त्यक्त्वा त्रीणि शरीराणि सर्वं चास्मै समर्पितम् ॥ ५२॥ त्यक्त्वायोध्यां गमिष्यामि कुत्रचिद्वनगह्वरे गृह्णात्विदं मुनिः सम्यग्राज्यं सर्वसमृद्धिमत् ॥ ५३॥ इत्याभाष्य सुतं भार्यां हरिश्चन्द्रः स्वमन्दिरात् । विनिर्गतः सुधर्मात्मा मानयंस्तं द्विजोत्तमम् ॥ ५४॥ व्रजन्तं भूपतिं वीक्ष्य भार्यापुत्रावुभावपि । चिन्तातुरौ सुदीनास्यौ जग्मतुः पृष्ठतस्तदा ॥ ५५॥ हाहाकारो महानासीन्नगरे वीक्ष्य तांस्तथा । चुक्रुशुः प्राणिनः सर्वे साकेतपुरवासिनः ॥ ५६॥ हा राजन् किं कृतं कर्म कुतः क्लेशः समागतः । वञ्चितोऽसि महाराज विधिनापण्डितेन ह ॥ ५७॥ सर्वे वर्णास्तदा दुःखमाप्नुयुस्तं महीपतिम् । विलोक्य भार्यया सार्धं पुत्रेण च महात्मना ॥ ५८॥ निनिन्दुर्ब्राह्मणं तं तु दुराचारं पुरौकसः । धूर्तोऽयमिति भाषन्तो दुःखार्ता ब्राह्मणादयः ॥ ५९॥ निर्गत्य नगरात्तस्माद्विश्वामित्रः क्षितीश्वरम् । गच्छन्तं तमुवाचेदं समेत्य निष्ठुरं वचः ॥ ६०॥ दक्षिणायाः सुवर्णं मे दत्त्वा गच्छ नराधिप । नाहं दास्यामि वा ब्रूहि मया त्यक्तं सुवर्णकम् ॥ ६१॥ राज्यं गृहाण वा सर्वं लोभश्चेद्धृति वर्तते । दत्तं चेन्मन्यसे राजन् देहि यत्तत्प्रतिश्रुतम् ॥ ६२॥ एवं ब्रुवन्तं गाधेयं हरिश्चन्द्रो महीपतिः । प्रणिपत्य सुदीनात्मा कृताञ्जलिपुटोऽब्रवीत् ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे कौशिकाय सर्वस्वसमर्पणं तद्दक्षिणादानवर्णनं नामैकोनविंशोऽध्यायः ॥ ७.१९॥

७.२० विंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।

हरिश्चन्द्र उवाच - अदत्त्वा ते हिरण्यं वै न करिष्यामि भोजनम् । प्रतिज्ञा मे मुनिश्रेष्ठ विषादं त्यज सुव्रत ॥ १॥ सूर्यवंशसमुद्भूतः क्षत्रियोऽहं महीपतिः । राजसूयस्य यज्ञस्य कर्ता वाञ्छितदो नृषु ॥ २॥ कथं करोमि नाकारं स्वामिन्दत्त्वा यदृच्छया । अवश्यमेव दातव्यमृणं ते द्विजसत्तम ॥ ३॥ स्वस्थो भव प्रदास्यामि सुवर्णं मनसेप्सितम् । कञ्चित्कालं प्रतीक्षस्व यावत्प्राप्स्याम्यहं धनम् ॥ ४॥ विश्वामित्र उवाच - कुतस्ते भविता राजन् धनप्राप्तिरतः परम् । गतं राज्यं तथा कोशो बलं चैवार्थसाधनम् ॥ ५॥ वृथाशा ते महीपाल धनार्थे किं करोम्यहम् । निर्धनं त्वां च लोभेन पीडयामि कथं नृप ॥ ६॥ तस्मात्कथय भूपाल न दास्यामीति साम्प्रतम् । त्यक्त्वाऽऽशां महतीं कामं गच्छाम्यहमतः परम् ॥ ७॥ यथेष्टं व्रज राजेन्द्र भार्यापुत्रसमन्वितः । सुवर्णं नास्ति किं तुभ्यं ददामीति वदाधुना ॥ ८॥ गच्छन्वाक्यमिदं श्रुत्वा ब्राह्मणस्य च भूपतिः । प्रत्युवाच मुनिं ब्रह्मन् धैर्यं कुरु ददाम्यहम् ॥ ९॥ मम देहोऽस्ति भार्यायाः पुरस्य च ह्यनामयः । क्रीत्वा देहं तु तं नूनमृणं दास्यामि ते द्विज ॥ १०॥ ग्राहकं पश्य विप्रेन्द्र वाराणस्यां पुरि प्रभो । दासभावं गमिष्यामि सदारोऽहं सपुत्रकः ॥ ११॥ गृहाण काञ्चनं पूर्णं सार्धं भारद्वयं मुने । मौल्येन दत्त्वा सर्वान्नः सन्तुष्टो भव भूधर ॥ १२॥ इति ब्रुवञ्जगामाथ सह पत्न्या सुतान्वितः । उमया कान्तया सार्धं यत्रास्ते शङ्करः स्वयम् ॥ १३॥ तां दृष्ट्वा च पुरीं रम्यां मनसो ह्लादकारिणीम् । उवाच स कृतार्थोऽस्मि पुरीं पश्यन्सुवर्चसम् ॥ १४॥ ततो भागीरथीं प्राप्य स्नात्वा देवादितर्पणम् । देवार्चनं च निर्वर्त्य कृतवान् दिग्विलोकनम् ॥ १५॥ प्रविश्य वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभुक्तेति शूलपाणेः परिग्रहः ॥ १६॥ जगाम पद्भ्यां दुःखार्तः सह पत्न्या समाकुलः । पुरीं प्रविश्य स नृपो विश्वासमकरोत्तदा ॥ १७॥ ददृशेऽथ मुनिश्रेष्ठं ब्राह्मणं दक्षिणार्थिनम् । तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् ॥ १८॥ प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् । इमे प्राणाः सुतश्चायं प्रिया पत्नी मुने मम ॥ १९॥ येन ते कृत्यमस्त्याशु गृहाणाद्य द्विजोत्तम । यच्चान्यत्कार्यमस्माभिस्तन्ममाख्यातुमर्हसि ॥ २०॥ विश्वामित्र उवाच - पूर्णः स मासो भद्रं ते दीयतां मम दक्षिणा । पूर्वं तस्य निमित्तं हि स्मर्यते स्ववचो यदि ॥ २१॥ राजोवाच - ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोबल । तिष्ठत्येकदिनार्धं यत्तप्रतीक्षस्व नापरम् ॥ २२॥ विश्वामित्र उवाच - एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रयच्छसि ॥ २३॥ इत्युक्त्वाथ ययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रयच्छामि दक्षिणा या प्रतिश्रुता ॥ २४॥ कुतः पुष्टानि मित्राणि कुत्रार्थः साम्प्रतं मम । प्रतिग्रहः प्रदुष्टो मे तत्र याञ्चा कथं भवेत् ॥ २५॥ राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् । यदि प्राणान्विमुञ्चामि ह्यप्रदाय च दक्षिणाम् ॥ २६॥ ब्रह्मस्वहा कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेततां यास्ये वर एवात्मविक्रयः ॥ २७॥ सूत उवाच - राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥ २८॥ त्यज चिन्तां महाराज स्वधर्ममनुपालय । प्रेतवद्वर्जनीयो हि नरः सत्यबहिष्कृतः ॥ २९॥ नातः परतरं धर्मं वदन्ति पुरुषस्य च । यादृशं पुरुषव्याघ्र स्वसत्यस्यानुपालनम् ॥ ३०॥ अग्निहोत्रमधीतं च दानाद्याः सकलाः क्रियाः । भवन्ति तस्य वैफल्यं वाक्यं यस्यानृतं भवेत् ॥ ३१॥ सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥ ३२॥ शताश्वमेधानादृत्य राजसूयं च पार्थिवः । कृत्वा राजा सकृत्स्वर्गादसत्यवचनाच्च्युतः ॥ ३३॥ राजोवाच - वंशवृद्धिकरश्चायं पुत्रस्तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वाक्यं गजगामिनि ॥ ३४॥ पत्न्युवाच - राजन् माभूदसत्यं ते पुंसां पुत्रफलाः स्त्रियः । तन्मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥ ३५॥ व्यास उवाच - एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां वै विललापातिदुःखितः ॥ ३६॥ महद्दुखःमिदं भद्रे यत्त्वमेवं ब्रवीषि मे । किं तव स्मितसंल्लापा मम पापस्य विस्मृताः ॥ ३७॥ हा हा त्वया कथं योग्यं वक्तुमेतच्छुचिस्मिते । दुर्वाच्यमेतद्वचनं कथं वदसि भामिनि ॥ ३८॥ इत्युक्त्वा नृपतिश्रेष्ठो न धीरो दारविक्रये । निपपात महीपृष्ठे मूर्च्छयातिपरिप्लुतः ॥ ३९॥ शयानं भुवि तं दृष्ट्वा मूर्च्छयापि महीपतिम् । उवाचेदं सुकरुणं राजपुत्री सुदुःखिता ॥ ४०॥ हा महाराज कस्येदमपध्यानादुपागतम् । यस्त्वं निपतितो भूमौ रङ्कवच्छरणोचितः ॥ ४१॥ येनैव कोटिशो वित्तं विप्राणामपवर्जितम् । स एव पृथिवीनाथो भुवि स्वपिति मे पतिः ॥ ४२॥ हा कष्टं किं तवानेन कृतं दैव महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः पापामिमां दशाम् ॥ ४३॥ इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तुर्दुःखमहाभारेणासह्येनातिपीडिता ॥ ४४॥ शिशुर्दृष्ट्वा क्षुधाविष्टः प्राह वाक्यं सुदुःखितः । तात तात प्रदेह्यन्नं मातर्मे देहि भोजनम् ॥ ४५॥ क्षुन्मे बलवती जाता जिह्वाग्रे मेऽतिशुष्यति ॥ ४६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम विंशोऽध्यायः ॥ ७.२०॥

७.२१ एकविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।

एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । अन्तकेन समः क्रुद्धो धनं स्वं याचितुं हृदा ॥ १॥ तमालोक्य हरिश्चन्द्रः पपात भुवि मूर्च्छितः । स वारिणा तमभ्युक्ष्य राजानमिदमब्रवीत् ॥ २॥ उत्तिष्ठोत्तिष्ठ राजेन्द्र स्वां ददस्वेष्टदक्षिणाम् । ऋणं धारयतां दुःखमहन्यहनि वर्धते ॥ ३॥ आप्यायमानः स तदा हिमशीतेन वारिणा । अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च ॥ ४॥ पुनर्मोहं समापेदे ह्यथ क्रोधं ययौ मुनिः समाश्वास्य च राजानं वाक्यमाह द्विजोत्तमः ॥ ५॥ विश्वामित्र उवाच - दीयतां दक्षिणा सा मे यदि धैर्यमवेक्षसे । सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी ॥ ६॥ सत्ये प्रोक्तः परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः । अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् ॥ ७॥ अश्वमेधसहस्राद्धि सत्यमेकं विशिष्यते । अथवा किं ममैतेन प्रोक्तेनास्ति प्रयोजनम् ॥ ८॥ मदीयां दक्षिणां राजन्न दास्यति भवान्यदि । अस्ताचलगते ह्यर्के शप्स्यामि त्वामतो ध्रुवम् ॥ ९॥ इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः । दुःखीभूतोऽवनौ निःस्वो नृशंसमुनिनार्दितः ॥ १०॥ सूत उवाच - एतस्मिन्नन्तरे तत्र ब्राह्मणो वेदपारगः । ब्राह्मणैर्बहुभिः सार्धं निर्ययौ स्वगृहाद् बहिः ॥ ११॥ ततो राज्ञी तु तं दृष्ट्वा आयान्तं तापसं स्थितम् । उवाच वाक्यं राजानं धर्मार्थसहितं तदा ॥ १२॥ त्रयाणामपि वर्णानां पिता ब्राह्मण उच्यते । पितृद्रव्यं हि पुत्रेण ग्रहीतव्यं न संशयः ॥ १३॥ तस्मादयं प्रार्थनीयो धनार्थमिति मे मतिः । राजोवाच - नाहं प्रतिग्रहं काङ्क्षे क्षत्रियोऽहं सुमध्यमे ॥ १४॥ याचनं खलु विप्राणां क्षत्रियाणां न विद्यते । गुरुर्हि विप्रो वर्णानां पूजनीयोऽस्ति सर्वदा ॥ १५॥ तस्माद् गुरुर्न याच्यः स्यात्क्षत्रियाणां विशेषतः । यजनाध्ययनं दानं क्षत्रियस्य विधीयते ॥ १६॥ शरणागतानामभयं प्रजानां प्रतिपालनम् । न चाप्येवं तु वक्तव्यं देहीति कृपणं वचः ॥ १७॥ ददामीत्येव मे देवि हृदये निहितं वचः । अर्जितं कुत्रचिद् द्रव्यं ब्राह्मणाय ददाम्यहम् ॥ १८॥ पत्न्युवाच - कालः समविषमकरः परिभवसम्मानमानदः कालः । कालः करोति पुरुषं दातारं याचितारं च ॥ १९॥ विप्रेण विदुषा राजा क्रुद्धेनातिबलीयसा । राज्यान्निरस्तः सौख्याच्च पश्य कालस्य चेष्टितम् ॥ २०॥ राजोवाच - असिना तीक्ष्णधारेण वरं जिह्वा द्विधा कृता । न तु मानं परित्यज्य देहि देहीति भाषितम् ॥ २१॥ क्षत्रियोऽहं महाभागे न याचे किञ्चिदप्यहम् । ददामि वाहं नित्यं हि भुजवीर्यार्जितं धनम् ॥ २२॥ पत्न्युवाच - यदि ते हि महाराज याचितुं न क्षमं मनः । अहं तु न्यायतो दत्ता देवैरपि सवासवैः ॥ २३॥ अहं शास्या च पत्या च रक्ष्या चैव महाद्युते । मन्मौल्यं सङ्गृहीत्वाथ गुर्वर्थं सम्प्रदीयताम् ॥ २४॥ एतद्वाक्यमुपश्रुत्य हरिश्चन्द्रो महीपतिः । कष्टं कष्टमिति प्रोच्य विललापातिदुःखितः ॥ २५॥ भार्या च भूयः प्राहेदं क्रियतां वचनं मम । विप्रशापाग्निदग्धत्वान्नीचत्वमुपयास्यसि ॥ २६॥ न द्युतहेतोर्न च मद्यहेतो- र्न राज्यहेतोर्न च भोगहेतोः । ददस्व गुर्वर्थमतो मया त्वं सत्यव्रतत्वं सफलं कुरुष्व ॥ २७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम एकविंशोऽध्यायः ॥ ७.२१॥

७.२२ द्वाविंशोऽध्यायः । हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनम् ।

व्यास उवाच - स तया नोद्यमानस्तु राजा पत्न्या पुनः पुनः । प्राह भद्रे करोम्येष विक्रयं ते सुनिर्घृणः ॥ १॥ नृशंसैरपि यत्कर्तुं न शक्यं तत्करोम्यहम् । यदि ते भ्राजते वाणी वक्तुमीदृक्सुनिष्ठुरम् ॥ २॥ एवमुक्त्वा ततो राजा गत्वा नगरमातुरः । अवतार्य तदा रङ्गे तां भार्यां नृपसत्तमः । बाष्पगद्गदकण्ठस्तु ततो वचनमब्रवीत् । भो भो नागरिकाः सर्वे श‍ृणुध्वं वचनं मम ॥ ४॥ कस्यचिद्यदि कार्यं स्याद्दास्या प्राणेष्टया मम । स ब्रवीतु त्वरायुक्तो यावत्स्वं धारयाम्यहम् ॥ ५॥ तेऽब्रुवन्पण्डिताः कस्त्वं पत्नीं विक्रेतुमागतः । राजोवाच - किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ ६॥ राक्षसो वास्मि कठिनस्ततः पापं करोम्यहम् । व्यास उवाच - तं शब्दं सहसा श्रुत्वा कौशिको विप्ररूपधृक् ॥ ७॥ वृद्धरूपं समास्थाय हरिश्चन्द्रमभाषत । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ८॥ अस्ति मे वित्तमतुलं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ ९॥ अहं गृह्णामि दासीं तु कति दास्यामि ते धनम् । एवमुक्ते तु विप्रेण हरिश्चन्द्रस्य भूपतेः ॥ १०॥ विदीर्णं तु मनो दुःखान्न चैनं किञ्चिदब्रवीत् । विप्र उवाच - कर्मणश्च वयोरूपशीलानां तव योषितः ॥ ११॥ अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् । धर्मशास्त्रेषु यद् दृष्टं स्त्रियो मौल्यं नरस्य च ॥ १२॥ द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता । कोटिमौल्यं सुवर्णस्य स्त्रियः पुंसस्तथार्बुदम् ॥ १३॥ इत्याकर्ण वचस्तस्य हरिश्चन्द्रो महीपतिः । दुःखेन महताऽऽविष्टो न चैनं किञ्चिदब्रवीत् ॥ १४॥ ततः स विप्रो नृपतेः पुरतो वल्कलोपरि । धनं निधाय केशेषु धृत्वा राज्ञीमकर्षयत् ॥ १५॥ राज्ञ्युवाच - मुञ्च मुञ्चार्य मां सद्यो यावत्पश्याम्यहं सुतम् । दुर्लभं दर्शनं विप्र पुनरस्य भविष्यति ॥ १६॥ पश्येह पुत्र मामेवं मातरं दास्यतां गताम् । मां मास्प्राक्षी राजपुत्र न स्पृश्याहं त्वयाधुना ॥ १७॥ ततः स बालः सहसा दृष्ट्वाऽऽकृष्टां तु मातरम् । समभ्यधावदम्बेति वदन्साश्रुविलोचनः ॥ १८॥ हस्ते वस्त्रं समाकर्षन् काकपक्षधरः स्खलन् । तमागतं द्विजः क्रोधाद् बालमप्याहनत्तदा ॥ १९॥ वदंस्तथापि सोऽम्बेति नैव मुञ्चति मातरम् । राज्ञ्युवाच - प्रसादं कुरु मे नाथ क्रीणीष्वेमं हि बालकम् ॥ २०॥ क्रीतापि नाहं भविता विनैनं कार्यसाधिका । इत्थं ममाल्पभाग्यायाः प्रसादं कुरु मे प्रभो ॥ २१॥ ब्राह्मण उवाच - गृह्यतां वित्तमेतत्ते दीयतां मम बालकः । स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् ॥ २२॥ शतं सहस्रं लक्षं च कोटिमौल्यं तथापरैः । द्वात्रिंशल्लक्षणोपेता दक्षा शीलगुणान्विता ॥ २३॥ कोटिमौल्यं स्त्रियः प्रोक्तं पुरुषस्य तथार्बुदम् । सूत उवाच - तथैव तस्य तद्वित्तं पुरः क्षिप्तं पटे पुनः ॥ २४॥ प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् । प्रतस्थे स गृहं क्षिप्रं तया सह मुदान्वितः ॥ २५॥ प्रदक्षिणां तु सा कृत्वा जानुभ्यां प्रणता स्थिता । बाष्पपर्याकुला दीना त्विदं वचनमब्रवीत् ॥ २६॥ यदि दत्तं यदि हुतं ब्राह्मणास्तर्पिता यदि । तेन पुण्येन मे भर्ता हरिश्चन्द्रोऽस्तु वै पुनः ॥ २७॥ पादयोः पतितां दृष्ट्वा प्राणेभ्योऽपि गरीयसीम् । हाहेति च वदन् राजा विललापाकुलेन्द्रियः ॥ २८॥ वियुक्तेयं कथं जाता सत्यशीलगुणान्विता । वृक्षच्छायापि वृक्षं तं न जहाति कदाचन ॥ २९॥ एवं भार्यां वदित्वाथ सुसम्बद्धं परस्परम् । पुत्रं च तमुवाचेदं मां त्वं हित्वा क्व यास्यसि ॥ ३०॥ कां दिशं प्रति यास्यामि को मे दुःखं निवारयेत् । राज्यत्यागे न मे दुःखं वनवासे न मे द्विज ॥ ३१॥ यत्पुत्रेण वियोगो मे एवमाह स भूपतिः । सद्भर्तृभोग्या हि सदा लोके भार्या भवन्ति हि ॥ ३२॥ मया त्यक्तासि कल्याणि दुःखेन विनियोजिता । इक्ष्वाकुवंशसम्भूतं सर्वराज्यसुखोचितम् ॥ ३३॥ मामीदृशां पतिं प्राप्य दासीभावं गता ह्यसि । ईदृशे मज्जमानं मां सुमहच्छोकसागरे ॥ ३४॥ को मामुद्धरते देवि पौराणाख्यानविस्तरैः । सूत उवाच - पश्यतस्तस्य राजर्षेः कशाघातैः सुदारुणैः ॥ ३५॥ घातयित्वा तु विप्रेशो नेतुं समुपचक्रमे । नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः ॥ ३६॥ विललापातिदुःखार्तो निःश्वस्योष्णं पुनः पुनः । यां न वायुर्न वाऽऽदित्यो न चन्द्रो न पृथ्ग्जनाः ॥ ३७॥ दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता । सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः ॥ ३८॥ सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् । हा प्रिये हा शिशो वत्स ममानार्यस्य दुर्नयः ॥ ३९॥ दैवाधीनदशां प्राप्तो न मृतोऽस्मि तथापि धिक् । व्यास उवाच - एवं विलपितो राज्ञोऽग्रे विप्रोऽन्तरधीयत ॥ ४०॥ वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः । अत्रान्तरे मुनिश्रेष्ठस्त्वाजगाम महातपाः ॥ ४१॥ सशिष्यः कौशिकेन्द्रोऽसौ निष्ठुरः क्रूरदर्शनः । विश्वामित्र उवाच- या त्वयोक्ता पुरा राजन् राजसूयस्य दक्षिणा ॥ ४२॥ तां ददस्व महाबाहो यदि सत्यं पुरस्कृतम् । हरिश्चन्द्र उवाच - नमस्करोमि राजर्षे गृहाणेमां स्वदक्षिणाम् ॥ ४३॥ राजसूयस्य यागस्य या मयोक्ता पुरानघ । विश्वामित्र उवाच - कुतो लब्धमिदं द्रव्यं दक्षिणार्थे प्रदीयते ॥ ४४॥ एतदाचक्ष्व राजेन्द्र यथा द्रव्यं त्वयार्जितम् । राजोवाच - किमनेन महाभाग कथितेन तवानघ ॥ ४५॥ शोकस्तु वर्धते विप्र श्रुतेनानेन सुव्रत । ऋषिरुवाच - अशस्तं नैव गृह्णामि शस्तमेव प्रयच्छ मे ॥ ४६॥ द्रव्यस्यागमनं राजन् कथयस्व यथातथम् । राजोवाच - मया देवी तु सा भार्या विक्रीता कोटिसम्मितैः । निष्कैः पुत्रो रोहिताख्यो विक्रीतोऽर्बुदसङ्ख्यया । विप्रैकादशकोट्यस्त्वं सुवर्णस्य गृहाण मे ॥ ४८॥ सूत उवाच - तद्वित्तं स्वप्लमालक्ष्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ ४९॥ ऋषिरुवाच - राजसूयस्य यज्ञस्य नैषा भवति दक्षिणा । अन्यदुत्पादय क्षिप्रं सम्पूर्णा येन सा भवेत् ॥ ५०॥ क्षत्रबन्धो ममेमां त्वं सदृशीं यदि दक्षिणाम् । मन्यसे तर्हि तत्क्षिप्रं पश्य त्वं मे परं बलम् ॥ ५१॥ तपसोऽस्य सुतप्तस्य ब्राह्मणस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥ ५२॥ राजोवाच - अन्यद्दास्यामि भगवन् कालः कश्चित्प्रतीक्ष्यताम् । अधुनैवास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ ५३॥ विश्वामित्र उवाच - चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रस्य पत्नीपुत्रविक्रयवर्णनं नाम द्वाविंशोऽध्यायः ॥ ७.२२॥

७.२३ त्रयोविंशोऽध्यायः । हरिश्चन्द्रोपाख्यानवर्णनम् ।

व्यास उवाच - तमेवमुक्त्वा राजानं निर्घृणं निष्ठुरं वचः । तदादाय धनं पूर्णं कुपितः कौशिको ययौ ॥ १॥ विश्वामित्रे गते राजा ततः शोकमुपागतः । श्वासोच्छ्वासं मुहुः कृत्वा प्रोवाचोच्चैरधोमुखः ॥ २॥ वित्तक्रीतेन यस्यार्तिर्मया प्रेतेन गच्छति । स ब्रवीतु त्वरायुक्तो यामे तिष्ठति भास्करः ॥ ३॥ अथाजगाम त्वरितो धर्मश्चाण्डालरूपधृक् । दुर्गन्धो विकृतोरस्कः श्मश्रुलो दन्तुरोऽघृणी ॥ ४॥ कृष्णो लम्बोदरः स्निग्धः करालः पुरुषाधमः । हस्तजर्जरयष्टिश्च शवमाल्यैरलङ्कृतः ॥ ५॥ चाण्डाल उवाच - अहं गृह्णामि दासत्वे भृत्यार्थः सुमहान्मम । क्षिप्रमाचक्ष्व मौल्यं किमेतत्ते सम्प्रदीयते ॥ ६॥ व्यास उवाच - तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिर्घृणम् । वदन्तमतिदुःशीलं कस्त्वमित्याह पार्थिवः ॥ ७॥ चाण्डाल उवाच - चाण्डालोऽहमिह ख्यातः प्रवीरेति नृपोत्तम । शासने सर्वदा तिष्ठ मृतचैलापहारकः ॥ ८॥ एवमुक्तस्तदा राजा वचनं चेदमब्रवीत् । ब्राह्मणः क्षत्रियो वापि गृह्णात्विति मतिर्मम ॥ ९॥ उत्तमस्योत्तमो धर्मो मध्यमस्य च मध्यमः । अधमस्याधमश्चैव इति प्राहुर्मनीषिणः ॥ १०॥ चाण्डाल उवाच । एवमेव त्वया धर्मः कथितो नृपसत्तम । अविचार्य त्वया राजन्नधुनोक्तं ममाग्रतः ॥ ११॥ विचारयित्वा यो ब्रूते सोऽभीष्टं लभते नरः । सामान्यमेव तत्प्रोक्तमविचार्य त्वयानघ ॥ १२॥ यदि सत्यं प्रमाणं ते गृहीतोऽसि न संशयः । हरिश्चन्द्र उवाच - असत्यान्नरके गच्छेत्सद्यः क्रूरे नराधमः ॥ १३॥ ततश्चाण्डालता साध्वी न वरा मे ह्यसत्यता । व्यास उवाच - तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः ॥ १४॥ क्रोधामर्षविवृत्ताक्षः प्राह चेदं नराधिपम् । चाण्डालोऽयं मनस्थं ते दातुं वित्तमुपस्थितः ॥ १५॥ कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा । राजोवाच - भगवन्सूर्यवंशोत्थमात्मानं वेद्मि कौशिक ॥ १६॥ कथं चाण्डालदासत्वं गमिष्ये वित्तकामतः । विश्वामित्र उवाच - यदि चाण्डालवित्तं त्वमात्मविक्रयजं मम ॥ १७॥ न प्रदास्यसि चेत्तर्हि शप्स्यामि त्वामसंशयम् । चाण्डालादथवा विप्राद्देहि मे दक्षिणाधनम् ॥ १८॥ विना चाण्डालमधुना नान्यः कश्चिद्धनप्रदः । धनेनाहं विना राजन्न यास्यामि न संशयः ॥ १९॥ इदानीमेव मे वित्तं न प्रदास्यसि चेन्नृप । दिनेऽर्धघटिकाशेषे तत्त्वां शापाग्निना दहे ॥ २०॥ व्यास उवाच - हरिश्चन्द्रस्ततो राजा मृत्ववच्छ्रितजीवितः । प्रसीदेति वदन्पादौ ऋषेर्जग्राह विह्वलः ॥ २१॥ हरिश्चन्द्र उवाच - दासोऽस्म्यार्तोऽस्मि दीनोऽस्मि त्वद्भक्तश्च विशेषतः । प्रसादं कुरु विप्रर्षे कष्टश्चाण्डालसङ्करः ॥ २२॥ भवेयं वित्तशेषेण तव कर्मकरो वशः । तवैव मुनिशार्दूल प्रेष्यश्चित्तानुवर्तकः ॥ २३॥ विश्वामित्र उवाच - एवमस्तु महाराज ममैव भव किङ्करः । किन्तु मद्वचनं कार्यं सर्वदैव नराधिप ॥ २४॥ व्यास उवाच - एवमुक्तेऽथ वचने राजा हर्षसमन्वितः । अमन्यत पुनर्जातमात्मानं प्राह कौशिकम् ॥ २५॥ तवादेशं करिष्यामि सदैवाहं न संशयः । आदेशय द्विजश्रेष्ठ किं करोमि तवानघ ॥ २६॥ विश्वामित्र उवाच - चाण्डालागच्छ मद्दासमौल्यं किं मे प्रयच्छसि । गृहाण दासं मौल्येन मया दत्तं तवाधुना ॥ २७॥ नास्ति दासेन मे कार्यं वित्ताशा वर्तते मम । व्यास उवाच - एवमुक्ते तदा तेन स्वपचो हृष्टमानसः ॥ २८॥ आगत्य सन्निधौ तूर्णं विश्वामित्रमभाषत । चाण्डाल उवाच - दशयोजनविस्तीर्णे प्रयागस्य च मण्डले ॥ २९॥ भूमिं रत्नमयीं कृत्वा दास्ये तेऽहं द्विजोत्तम । अस्य विक्रयणेनेयमार्तिश्च प्रहता त्वया ॥ ३०॥ व्यास उवाच - ततो रत्नसहस्राणि सुवर्णमणिमौक्तिकैः । चाण्डालेन प्रदत्तानि जग्राह द्विजसत्तमः ॥ ३१॥ हरिश्चन्द्रस्तथा राजा निर्विकारमुखोऽभवत् । अमन्यत तथा धैर्याद्विश्वामित्रो हि मे पतिः ॥ ३२॥ तत्तदेव मया कार्यं यदयं कारयिष्यति । अथान्तरिक्षे सहसा वागुवाचाशरीरिणी ॥ ३३॥ अनृणोऽसि महाभाग दत्ता सा दक्षिणा त्वया । ततो दिवः पुष्पवृष्टिः पपात नृपमूर्धनि ॥ ३४॥ साधु साध्विति तं देवाः प्रोचुः सेन्द्रा महौजसः । हर्षेण महताऽऽविष्टो राजा कौशिकमब्रवीत् ॥ ३५॥ राजोवाच - त्वं हि माता पिता चैव त्वं हि बन्धुर्महामते । यदर्थं मोचितोऽहं ते क्षणाच्चैवानृणीकृतः ॥ ३६॥ किं करोमि महाबाहो श्रेयो मे वचनं तव । एवमुक्ते तु वचने नृपं मुनिरभाषत ॥ ३७॥ विश्वामित्र उवाच - चाण्डालवचनं कार्यमद्यप्रभृति ते नृप । स्वस्ति तेऽस्विति तं प्रोच्य तदादाय धनं ययौ ॥ ३८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्यानवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ७.२३॥

७.२४ चतुर्विंशोऽध्यायः । हरिश्चन्द्रचिन्तावर्णनम् ।

शौनक उवाच - ततः किमकरोद्राजा चाण्दालस्य गृहे गतः । तद् ब्रूहि सूतवर्य त्वं पृच्छतः सत्वरं हि मे ॥ १॥ सूत उवाच - विश्वामित्रे गते विप्रे श्वपचो हृष्टमानसः । विश्वामित्राय तद् द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ २॥ असत्यो यास्यसीत्युक्त्वा दण्डेनाताडयत्तदा । दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् ॥ ३॥ इष्टबन्धुवियोगार्तमानीय निजपक्कणे । निगडे स्थापयित्वा तं स्वयं सुष्वाप विज्वरः ॥ ४॥ निगडस्थस्ततो राजा वसंश्चाण्डालपक्कणे । अन्नपाने परित्यज्य सदा वै तदशोचयत् ॥ ५॥ तन्वी दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरन्त्यसुखाविष्टा मोक्षयिष्यति नौ नृपः ॥ ६॥ उपात्तवित्तो विप्राय दत्त्वा वित्तं प्रतिश्रुतम् । रोदमानं सुतं वीक्ष्य मां च सम्बोधयिष्यति ॥ ७॥ तातपार्श्वं व्रजामीति रुदन्तं बालकं पुनः । तात तातेति भाषन्तं तथा सम्बोधयिष्यति ॥ ८॥ न सा मां मृगशावाक्षी वेत्ति चाण्डालतां गतम् । राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः ॥ ९॥ ततश्चाण्डालता चेयमहो दुःखपरम्परा । एवं स निवसन्नित्यं स्मरंश्च दयितां सुतम् ॥ १०॥ निनाय दिवसान् राजा चतुरो विधिपीडितः । अथाह्नि पञ्चमे तेन निगडान्मोचितो नृपः ॥ ११॥ चाण्डालेनानुशिष्टश्च मृतचैलापहारणे । क्रुद्धेन परुषैर्वाक्यैर्निर्भत्स्य च पुनः पुनः ॥ १२॥ काश्याश्च दक्षिणे भागे श्मशानं विद्यते महत् । तद्रक्षस्व यथान्यायं न त्याज्यं तत्त्वया क्वचित् ॥ १३॥ इमं च जर्जरं दण्डं गृहीत्वा याहि मा चिरम् । वीरबाहोरयं दण्ड इति घोषस्व सर्वतः ॥ १४॥ सूत उवाच - कस्मिंश्चिदथ काले तु मृतचैलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने दद्वशानुगः ॥ १५॥ चाण्डालेनानुशिष्टस्तु मृतचैलापहारिणा । राजा तेन समादिष्टो जगाम शवमन्दिरम् ॥ १६॥ पुर्यास्तु दक्षिणे देशे विद्यमानं भयानकम् । शवमाल्यसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥ १७॥ श्मशानं घोरसन्नादं शिवाशतसमाकुलम् । गृद्ध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम् ॥ १८॥ अस्थिसङ्घातसङ्कीर्णं महादुर्गन्धसङ्कुलम् । अर्धदग्धशवास्यानि विकसद्दन्तपङ्क्तिभिः ॥ १९॥ हसन्तीवाग्निमध्यस्थकायस्यैवं व्यवस्थितिः । नानामृतसुहृन्नादं महाकोलाहलाकुलम् ॥ २०॥ हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे । हाप्यते भागिनेयार्ह हा मातुल पितामह ॥ २१॥ मातामह पितः पौत्र क्व गतोऽस्येहि बान्धव । इति शब्दैः समाकीर्णं भैरवैः सर्वदेहिनाम् ॥ २२॥ ज्वलन्मांसवसामेदच्छूमिति ध्वनिसङ्कुलम् । अग्नेश्चटचटाशब्दो भैरवो यत्र जायते ॥ २३॥ कल्पान्तसदृशाकारं श्मशानं तत्सुदारुणम् । स राजा तत्र सम्प्राप्तो दुःखादेवमशोचत ॥ २४॥ हा भृत्या मन्त्रिणो यूयं क्व तद्राज्यं कुलोचितम् । हा प्रिय पुत्र मे बाल मां त्यक्त्वा मन्दभाग्यकम् ॥ २५॥ ब्राह्मणस्य च कोपेन गता यूयं क्व दूरतः । विना धर्मं मनुष्याणां जायते न शुभं क्वचित् ॥ २६॥ यत्नतो धारयेत्तस्मात्पुरुषो धर्ममेव हि । इत्येवं चिन्तयंस्तत्र चाण्डालोक्तं पुनः पुनः ॥ २७॥ मलेन दिग्धसर्वाङ्गः शवानां दर्शने व्रजन् । लकुटाकारकल्पश्च धावंश्चापि ततस्ततः ॥ २८॥ अस्मिञ्छव इदं मौल्यं शतं प्राप्स्यामि चाग्रतः । इदं मम इदं राज्ञ इदं चाण्डालकस्य च ॥ २९॥ इत्येवं चिन्तयन् राजा व्यवस्थां दुस्तरां गतः । जीर्णैकपटसुग्रन्थिकृतकन्थापरिग्रहः ॥ ३०॥ चिताभस्मरजोलिप्तमुखबाहूदराङ्घ्रिकः । नानामेदोवसामज्जालिप्तपाण्यङ्गुलिः श्वसन् ॥ ३१॥ नानाशवौदनकृतक्षुन्निवृत्तिपरायणः । तदीयमाल्यसंश्लेषकृतमस्तकमण्डलः ॥ ३२॥ न रात्रौ न दिवा शेते हाहेति प्रवदन्मुहुः । एवं द्वादश मासास्तु नीता वर्षशतोपमाः ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रचिन्तावर्णनं नाम चतुर्विंशोऽध्यायः ॥ ७.२४॥

७.२५ पञ्चविंशोऽध्यायः । चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनम् ।

सूत उवाच - एकदा तु गतो रन्तुं बालकैः सहितो बहिः । वाराणस्या नातिदूरे रोहिताख्यः कुमारकः ॥ १॥ क्रीडां कृत्वा ततो दर्भान् ग्रहीतुमुपचक्रमे । कोमलानल्पमूलांश्च साग्राञ्छक्त्यनुसारतः ॥ २॥ आर्यप्रीत्यर्थमित्युक्त्वा हस्तयुग्मेन यत्नतः । सलक्षणाश्च समिधो बर्हिरिध्मं सलक्षणम् ॥ ३॥ पलाशकाष्ठान्यादाय त्वग्निहोमार्थमादरात् । मस्तके भारकं कृत्वा खिद्यमानः पदे पदे ॥ ४॥ उदकस्थानमासाद्य तदा बालस्तृषान्वितः । भुवि भारं विनिक्षिप्य जलस्थाने तदा शिशुः ॥ ५॥ कामतः सलिलं पीत्वा विश्रम्य च मुहूर्तकम् । वल्मीकोपरि विन्यस्तभारो हर्तुं प्रचक्रमे ॥ ६॥ विश्वामित्राज्ञया तावत्कृष्णसर्पो भयावहः । महाविषो महाघोरो वल्मीकान्निर्गतस्तदा ॥ ७॥ तेनासौ बालको दष्टस्तदैव च पपात ह । रोहिताख्यं मृतं दृष्ट्वा ययुर्बाला द्विजालयम् ॥ ८॥ त्वरिता भयसंविग्नाः प्रोचुस्तन्मातुरग्रतः । हे विप्रदासि ते पुत्रः क्रीडां कर्तुं बहिर्गतः ॥ ९॥ अस्माभिः सहितस्तत्र सर्पदष्टो मृतस्ततः । इति सा तद्वचः श्रुत्वा वज्रपातोपमं तदा ॥ १०॥ पपात मूर्च्छिता भूमौ छिन्नेव कदली यथा । अथ तां ब्राह्मणो रुष्टः पानीयेनाभ्यषिञ्चत ॥ ११॥ मुहूर्ताच्चेतनां प्राप्ता ब्राह्मणस्तामथाब्रवीत् । ब्राह्मण उवाच - अलक्ष्मीकारकं निन्द्यं जानती त्वं निशामुखे ॥ १२॥ रोदनं कुरुषे दुष्टे लज्जा ते हृदये न किम् । ब्राह्मणेनैवमुक्ता सा न किञ्चिद्वाक्यमब्रवीत् ॥ १३॥ रुरोद करुणं दीना पुत्रशोकेन पीडिता । अश्रुपूर्णमुखी दीना धूसरा मुक्तमूर्धजा ॥ १४॥ अथ तां कुपितो विप्रो राजपत्नीमभाषत । धिक्त्वां दुष्टे क्रयं गृह्य मम कार्यं विलुम्पसि ॥ १५॥ अशक्ता चेत्कथं तर्हि गृहीतं मम तद्धनम् । एवं निर्भर्त्सिता तेन क्रूरवाक्यैः पुनः पुनः ॥ १६॥ रुदिता कारणं प्राह विप्रं गद्गदया गिरा । स्वामिन् मम सुतो बालः सर्पदष्टो मृतो बहिः ॥ १७॥ अनुज्ञां मे प्रयच्छस्व द्रष्टुं यास्यामि बालकम् । दुर्लभं दर्शनं तेन सञ्जातं मम सुव्रत ॥ १८॥ इत्युक्त्वा करुणं बाला पुनरेव रुरोद ह । पुनस्तां कुपितो विप्रो राजपत्नीमभाषत ॥ १९॥ ब्राह्मण उवाच - शठे दुष्टसमाचारे किं न जानासि पातकम् । यः स्वामिवेतनं गृह्य तस्य कार्यं विलुम्पति ॥ २०॥ नरके पच्यते सोऽथ महारौरवपूर्वके । उषित्वा नरके कल्पं ततोऽसौ कुक्कुटो भवेत् ॥ २१॥ किमनेनाथवा कार्यं धर्मसङ्कीर्तनेन मे । यस्तु पापरतो मूर्खः क्रूरो नीचोऽनृतः शठः ॥ २२॥ तद्वाक्यं निष्फलं तस्मिन्भवेद् बीजमिवोषरे । एहि ते विद्यते किञ्चित्परलोकभयं यदि ॥ २३॥ एवमुक्ताथ सा विप्रं वेपमानाब्रवीद्वचः । कारुण्यं कुरु मे नाथ प्रसीद सुमुखो भव ॥ २४॥ प्रस्थापय मुहूर्तं मां यावद् द्रक्ष्यामि बालकम् । एवमुक्त्वाथ सा मूर्ध्ना निपत्य द्विजपादयोः ॥ २५॥ रुरोद करुणं बाला पुत्रशोकेन पीडिता । अथाह कुपितो विप्रः क्रोधसंरक्तलोचनः ॥ २६॥ विप्र उवाच - किं ते पुत्रेण मे कार्यं गृहकर्म कुरुष्व मे । किं न जानासि मे क्रोधं कशाघातफलप्रदम् ॥ २७॥ एवमुक्ता स्थिता धैर्याद् गृहकर्म चकार ह । अर्धरात्रो गतस्तस्याः पादाभ्यङ्गादिकर्मणा ॥ २८॥ ब्राह्मणेनाथ सा प्रोक्ता पुत्रपार्श्वं व्रजाधुना । तस्य दाहादिकं कृत्वा पुनरागच्छ सत्वरम् ॥ २९॥ न लुप्येत यथा प्रातर्गृहकर्म ममेति च । ततस्त्वेकाकिनी रात्रौ विलपन्ती जगाम ह ॥ ३०॥ दृष्ट्वा मृतं निजं पुत्रं भृशं शोकेन पीडिता । यूथभ्रष्टा कुरङ्गीव विवत्सा सौरभी यथा ॥ ३१॥ वाराणस्या बहिर्गत्वा क्षणाद् दृष्ट्वा निजं सुतम् । शयानं रङ्कवद्भूमौ काष्ठदर्भतृणोपरि ॥ ३२॥ विललापातिदुःखार्ता शब्दं कृत्वा सुनिष्ठुरम् । एहि मे सम्मुखं कस्माद्रोषितोऽसि वदाधुना ॥ ३३॥ आयास्यभिमुखो नित्यमम्बेत्युक्त्वा पुनः पुनः । गत्वा स्खलत्पदा तस्य पपातोपरि मूर्छिता ॥ ३४॥ पुनः सा चेतनां प्राप्य दोर्भ्यामालिङ्ग्य बालकम् । तन्मुखे वदनं न्यस्य रुरोदार्तस्वनैस्तदा ॥ ३५॥ कराभ्यां ताडनं चक्रे मस्तकस्योदरस्य च । हा बाल हा शिशो वत्स हा कुमारक सुन्दर ॥ ३६॥ हा राजन् क्व गतोऽसि त्वं पश्येमं बालकं निजम् । प्राणेभ्योऽपि गरीयांसं भूतले पतितं मृतम् ॥ ३७॥ तथापश्यन्मुखं तस्य भूयो जीवितशङ्कया । निर्जीववदनं ज्ञात्वा मूर्छिता निपपात ह ॥ ३८॥ हस्तेन वदनं गृह्य पुनरेवमभाषत । शयनं त्यज हे बाल शीघ्रं जागृहि भीषणम् ॥ ३९॥ निशार्धं वर्धते चेदं शिवाशतनिनादितम् । भूतप्रेतपिशाचादिडाकिनीयूथनादितम् ॥ ४०॥ मित्राणि ते गतान्यस्तात्त्वमेकस्तु कुतः स्थितः । सूत उवाच - एवमुक्त्वा पुनस्तन्वी करुणं प्ररुरोद ह ॥ ४१॥ हा शिशो बाल हा वत्स रोहिताख्य कुमारक । रे पुत्र प्रतिशब्दं मे कस्मात्त्वं न प्रयच्छसि ॥ ४२॥ तवाहं जननी वत्स किं न जानासि पश्य माम् । देशत्यागाद्राज्यनाशात्पुत्र भर्त्रा स्वविक्रयात् ॥ ४३॥ यद्दासीत्वाच्च जीवामि त्वां दृष्ट्वा पुत्र केवलम् । ते जन्मसमये विप्रैरादिष्टं यत्त्वनागतम् ॥ ४४॥ दीर्घायुः पृथिवीराजः पुत्रपौत्रसमन्वितः । शौर्यदानरतिः सत्त्वो गुरुदेवद्विजार्चकः ॥ ४५॥ मातापित्रोस्तु प्रियकृत्सत्यवादी जितेन्द्रियः । इत्यादि सकलं जातमसत्यमधुना सुत ॥ ४६॥ चक्रमत्स्यावातपत्रश्रीवत्सस्वस्तिकध्वजाः । तव पाणितले पुत्र कलशश्चामरं तथा ॥ ४७॥ लक्षणानि तथान्यानि त्वद्धस्ते यानि सन्ति च । तानि सर्वाणि मोघानि सञ्जातान्यधुना सुत ॥ ४८॥ हा राजन्पृथिवीनाथ क्व ते राज्यं क्व मन्त्रिणः । क्व ते सिंहासनं छत्रं क्व ते खड्गः क्व तद्धनम् ॥ ४९॥ क्व सायोध्या क्व हर्म्याणि क्व गजाश्वरथप्रजाः । सर्वमेतत्तथा पुत्र मां त्यक्त्वा क्व गतोऽसि रे ॥ ५०॥ हा कान्त हा नृपागच्छ पश्येमं स्वसुतं प्रियम् । येन ते रिङ्गता वक्षः कुङ्कुमेनावलेपितम् ॥ ५१॥ स्वशरीररजःपङ्कैर्विशालं मलिनीकृतम् । येन ते बालभावेन मृगनाभिविलेपितः ॥ ५२॥ भ्रंशितो भालतिलकस्तवाङ्कस्थेन भूपते । यस्य वक्त्रं मृदा लिप्तं स्नेहाद्वै चुम्बितं मया ॥ ५३॥ तन्मुखं मक्षिकालिङ्ग्यं पश्ये कीटैर्विदूषितम् । हा राजन् पश्य तं पुत्रं भुविस्थं रङ्कवन्मृतम् ॥ ५४॥ हा देव किं मया कृत्यं कृतं पूर्वभवान्तरे । तस्य कर्मफलस्येह न पारमुपलक्षये ॥ ५५॥ हा पुत्र हा शिशो वत्स का कुमारक सुन्दर । एवं तस्या विलापं ते श्रुत्वा नगरपालकाः ॥ ५६॥ जागृतास्त्वरितास्तस्याः पार्श्वमीयुः सुविस्मिताः । जना ऊचुः - का त्वं बालस्य कस्यायं पतिस्ते कुत्र तिष्ठति ॥ ५७॥ एकैव निर्भया रात्रौ कस्मात्त्वमिह रोदिषि । एवमुक्ताथ सा तन्वी न किञ्चिद्वाक्यमब्रवीत् ॥ ५८॥ भूयोऽपि पृष्टा सा तूष्णीं स्तब्धीभूता बभूव ह । विललापातिदुःखार्ता शोकाश्रुप्लुतलोचना ॥ ५९॥ अथ ते शङ्कितास्तस्यां रोमाञ्चिततनूरुहाः । सन्त्रस्ताः प्राहुरन्योन्यमुद्धृतायुधपाणयः ॥ ६०॥ नूनं स्त्री न भवत्येषा यतः किञ्चिन्न भाषते । तस्माद्वध्या भवेदेषा यत्नतो बालघातिनी ॥ ६१॥ शुभा चेत्तर्हि किं ह्यत्र निशार्धे तिष्ठते बहिः । भक्षार्थमनया नूनमानीतः कस्यचिच्छिशुः ॥ ६२॥ इत्युक्त्वा तैर्गृहिता सा गाढं केशेषु सत्वरम् । भुजयोरपरैश्चैव कैश्चापि गलके तथा ॥ ६३॥ खेचरी यास्यतीत्युक्तं बहुभिः शस्त्रपाणिभिः । आकृष्य पक्कणे नीता चाण्डालाय समर्पिता ॥ ६४॥ हे चाण्डाल बहिर्दृष्टा ह्यस्माभिर्बालघातिनी । वध्यतां वध्यतामेष शीघ्रं नीत्वा बहिःस्थले ॥ ६५॥ चाण्डालः प्राह तां दृष्ट्वा ज्ञातेयं लोकविश्रुता । न दृष्टपूर्वा केनापि लोकडिम्भान्यनेकधा ॥ ६६॥ भक्षितान्यनया भूरि भवद्भिः पुण्यमार्जितम् । ख्यातिर्वः शाश्वती लोके गच्छध्वं च यथासुखम् ॥ ६७॥ द्विजस्त्रीबालगोघाती स्वर्णस्तेयी च यो नरः । अग्निदो वर्त्मघाती च मद्यपो गुरुतल्पगः ॥ ६८॥ महाजनविरोधी च तस्य पुण्यप्रदो वधः । द्विजस्यापि स्त्रियो वापि न दोषो विद्यते वधे ॥ ६९॥ अस्या वधश्च मे योग्य इत्युक्त्वा गाडबन्धनैः । बद्ध्वा केशेष्वथाकृष्य रज्जुभिस्तामताडयत् ॥ ७०॥ हरिश्चन्द्रमथोवाच वाचा परुषया तदा । रे दास वध्यतामेषा दुष्टात्मा मा विचारय ॥ ७१॥ तद्वाक्यं भूपतिः श्रुत्वा वज्रपातोपमं तदा । वेपमानोऽथ चाण्डालं प्राह स्त्रीवधशङ्कितः ॥ ७२॥ न शक्तोऽहमिदं कर्तुं प्रेष्यं देहि ममापरम् । असाध्यमपि यत्कर्म तत्करिष्ये त्वयोदितम् ॥ ७३॥ श्रुत्वा तदुक्तं वचनं श्वपचो वाक्यमब्रवीत् । मा भैषीस्त्वं गृहाणासिं वधोऽस्याः पुण्यदो मतः ॥ ७४॥ बालानामेव भयदा नेयं रक्ष्या कदाचन । तच्छ्रुत्वा वचनं तस्य राजा वचनमब्रवीत् ॥ ७५॥ स्त्रियो रक्ष्याः प्रयत्नेन न हन्तव्याः कदाचन । स्त्रीवधे कीर्तितः पापं मुनिभिर्धर्मतत्परैः ॥ ७६॥ पुरुषो यः स्त्रियं हन्याज्ज्ञानतोऽज्ञानतोऽपि वा । नरके पच्यते सोऽथ महारौरवपूर्वके ॥ ७७॥ चाण्डाल उवाच - मा वदासिं गृहाणैनं तीक्ष्णं विद्युत्समप्रभम् । यत्रैकस्मिन्वधं नीते बहूनां तु सुखं भवेत् ॥ ७८॥ तस्य हिंसा कृतं नूनं बहुपुण्यप्रदा भवेत् । भक्षितान्यनया भूरि लोके डिम्भानि दुष्टया ॥ ७९॥ तत्क्षिप्रं वध्यतामेषा लोकः स्वस्थो भविष्यति । राजोवाच - चाण्डालाधिपते तीव्रं व्रतं स्त्रीवधवर्जनम् ॥ ८०॥ आजन्मतस्ततो यत्नं न कुर्यां स्त्रीवधे तव । चाण्डाल उवाच - स्वामिकार्यं विना दुष्ट किं कार्यं विद्यतेऽपरम् ॥ ८१॥ गृहीत्वा वेतनं मेऽद्य कस्मात्कार्यं विलुम्पसि । यः स्वामिवेतनं गृह्य स्वामिकार्यं विलुम्पति ॥ ८२॥ नरकान्निष्कृतिस्तस्य नास्ति कल्पायुतैरपि । राजोवाच - चाण्डालनाथ मे देहि प्राप्यमन्यत्सुदारुणम् ॥ ८३॥ स्वशत्रुं ब्रूहि तं क्षिप्रं घातयिष्याम्यसंशयम् । घातयित्वा तु तं शत्रुं तव दास्यामि मेदिनीम् ॥ ८४॥ देव देवोरगैः सिद्धैर्गन्धर्वैरपि संयुतम् । देवेन्द्रमपि जेष्यामि निहत्य निशितैः शरैः ॥ ८५॥ एतच्छ्रुत्वा ततो वाक्यं हरिश्चन्द्रस्य भूपतेः । चाण्डालः कुपितः प्राह वेपमानं महीपतिम् ॥ ८६॥ चाण्डाल उवाच - (नैतद्वाक्यं सुघटितं यद्वाक्यं दासकीर्तितम्) चाण्डालदासतां कृत्वा सुराणां भाषसे वचः । दास किं बहुना नूनं श‍ृणु मे गदतो वचः ॥ ८७॥ निर्लज्ज तव चेदस्ति किञ्चित्पापभयं हृदि । किमर्थं दासतां यातश्चाण्डालस्य तु वेश्मनि ॥ ८८॥ गृहाणैनं ततः खड्गमस्याश्छिन्धि शिरोऽम्बुजम् । एवमुक्त्वाथ चाण्डालो राज्ञे खड्गं न्यवेदयत् ॥ ८९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे चाण्डालाज्ञया हरिश्चन्द्रस्य खड्गग्रहणवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ७.२५॥

७.२६ षड्विंशोऽध्यायः । हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनम् ।

सूत उवाच - ततोऽथ भूपतिः प्राह राज्ञीं स्थित्वा ह्यधोमुखः । अत्रोपविश्यतां बाले पापस्य पुरतो मम ॥ १॥ शिरस्ते छेदयिष्यामि हन्तुं शक्नोति चेत्करः । एवमुक्त्वा समुद्यम्य खड्गं हन्तुं गतो नृपः ॥ २॥ न जानाति नृपः पत्नीं सा न जानाति भूपतिम् । अब्रवीद् भृशदुःखार्ता स्वमृत्युमभिकाङ्क्षति ॥ ३॥ स्त्र्युवाच - चाण्डाल श‍ृणु मे वाक्यं किञ्चित्त्वं यदि मन्यसे । मृतस्तिष्ठति मे पुत्रो नातिदूरे बहिः पुरात् ॥ ४॥ तं दहामि हतं यावदानयित्वा तवान्तिकम् । तावत्प्रतीक्ष्यतां पश्चादसिना घातयस्व माम् ॥ ५॥ तेनाथ बाढमित्युक्त्वा प्रेषिता बालकं प्रति । सा जगामातिदुःखार्ता विपलन्ती सुदारुणम् ॥ ६॥ भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् । हा पुत्र हा वत्स शिशो इत्येवं वदती मुहुः ॥ ७॥ कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा । श्मशानभूमिमागत्य बालं स्थाप्याविशद्भुवि ॥ ८॥ (राजन्नद्य स्वबालं तं पश्यसीह महीतले । रममाणं स्वसखिभिर्दष्टं दुष्टाहिना मृतम् ॥) तस्या विलापशब्दं तमाकर्ण्य स नराधिपः । शवसन्निधिमागत्य वस्त्रमस्याक्षिपत्तदा ॥ ९॥ तां तथा रुदतीं भार्यां नाभिजानाति भूमिपः । चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥ १०॥ सापि तं चारुकेशान्तं पुरो दृष्ट्वा जटालकम् । नाभ्यजानान्नृपवरं शुष्कवृक्षत्वचोपमम् ॥ ११॥ भूमौ निपतितं बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतमचिन्तयदसौ नृपः ॥ १२॥ अस्य पूर्णेन्दुवद्वक्त्रं शुभमुन्नसमव्रणम् । दर्पणप्रतिमोत्तुङ्गकपोलयुगशोभितम् ॥ १३॥ नीलान्केशान्कुञ्चिताग्रान् सान्द्रान्दीर्घांस्तरङ्गिणः । राजीवसदृशे नेत्रे ओष्ठौ बिम्बफलोपमौ ॥ १४॥ विशालवक्षा दीर्घाक्षो दीर्घबाहून्नतांसकः । विशालपादो गम्भीरःसूक्ष्माङ्गुल्यवनीधरः ॥ १५॥ मृणालपादो गम्भीरनाभिरुद्धतकन्धरः । अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः ॥ १६॥ जातो नीतः कृतान्तेन कालपाशाद्दुरात्मना । सूत उवाच - एवं दृष्ट्वाथ तं बालं मातुरङ्के प्रसारितम् ॥ १७॥ स्मृतिमभ्यागतो राजा हाहेत्यश्रूण्यपातयत् । सोऽप्युवाच च वत्सो मे दशामेतामुपागतः ॥ १८॥ नीतो यदि च घोरेण कृतान्तेनात्मनो वशम् । विचारयित्वा राजासौ हरिश्चन्द्रस्तथा स्थितः ॥ १९॥ ततो राज्ञी महादुःखावेशादिदमभाषत । राज्ञ्युवाच - हा वत्स कस्य पापस्य त्वपध्यानादिदं महत् ॥ २०॥ दुःखमापतितं घोरं तद्रूपं नोपलभ्यते । हा नाथ राजन् भवता मामपास्य सुदुःखिताम् ॥ २१॥ कस्मिन्संस्थीयते स्थाने विश्रब्धं केन हेतुना । राज्यनाशं सुहृत्त्यागो भार्यातनयविक्रयः ॥ २२॥ हरिश्चन्द्रस्य राजर्षेः किं विधातः कृतं त्वया । इति तस्या वचः श्रुत्वा राजा स्थानच्युतस्तदा ॥ २३॥ प्रत्यभिज्ञाय देवीं तां पुत्रं च निधनं गतम् । कष्टं ममैव पत्नीयं बालकश्चापि मे सुतः ॥ २४॥ ज्ञात्वा पपात सन्तप्तो मूर्च्छामतिजगाम ह । सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् ॥ २५॥ मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले । चेतनां प्राप्य राजेन्द्रो राजपत्नी च तौ समम् ॥ २६॥ विलेपतुः सुसन्तप्तौ शोकभारेण पीडितौ । राजोवाच - हा वत्स सुकुमारं ते वदनं कुञ्चितालकम् ॥ २७॥ पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते । तात तातेति मधुरं ब्रुवाणं स्वयमागतम् ॥ २८॥ उपगुह्य कदा वक्ष्ये वत्सवत्सेति सौहृदात् । कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना ॥ २९॥ ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति । न वालं मम सम्भूतं मनो हृदयनन्दन ॥ ३०॥ (मयासि पितृमान्पित्रा विक्रीतो येन वस्तुवत् ।) गतं राज्यमशेषं मे सबान्धवधनं महत् । (हीनदैवान्नृशंसेन दृष्टो मे तनयस्ततः ।) अहं महाहिदष्टस्य पुत्रस्याननपङ्कजम् ॥ ३१॥ निरीक्षन्नद्य घोरेण विषेणाधिकृतोऽधुना । एवमुक्त्वा तमादाय बालकं बाष्पगद्गदः ॥ ३२॥ परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह । ततस्तं पतितं दृष्ट्वा शैव्या चैवमचिन्तयत् ॥ ३३॥ अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ ३४॥ तथास्य नासिका तुङ्गा तिलपुष्पोपमा शुभा । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ ३५॥ श्मशानमागतः कस्माद्यद्येवं स नरेश्वरः । विहाय पुत्रशोकं सा पश्यन्ती पतितं पतिम् ॥ ३६॥ प्रहृष्टा विस्मिता दीना भर्तृपुत्रार्तिपीडिता । वीक्षती सा तदापतन्मूर्च्छया धरणीतले ॥ ३७॥ प्राप्य चेतश्च शनकैः सा गद्गदमभाषत । धिक्त्वां दैव ह्यकरुण निर्मर्याद जुगुप्सित ॥ ३८॥ येनायममरप्रख्यो नीतो राजा श्वपाकताम् । राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् ॥ ३९॥ प्रापयित्वापि येनाद्य चाण्डालोऽयं कृतो नृपः । नाद्य पश्यामि ते छत्रं सिंहासनमथापि वा ॥ ४०॥ चामरव्यजने वापि कोऽयं विधिविपर्ययः । यस्यास्य व्रजतः पूर्वं राजानो भृत्यतां गताः ॥ ४१॥ स्वोत्तरीयैः प्रकुर्वन्ति विरजस्कं महीतलम् । सोऽयं कपालसंलग्ने घटीपटनिरन्तरे ॥ ४२॥ मृतनिर्माल्यसूत्रान्तर्लग्नकेशसुदारुणे । वसानिष्पन्दसंशुष्कमहापटलमण्डिते ॥ ४३॥ भस्माङ्गारार्धदग्धास्थिमज्जासङ्घट्टभीषणे । गृध्रगोमायुनादार्ते पुष्टक्षुद्रविहङ्गमे ॥ ४४॥ चिताधूमायतपटे नीलीकृतदिगन्तरे । कुणपास्वादनमुदा सम्प्रकृष्टनिशाचरे ॥ ४५॥ चरत्यमेध्ये राजेन्द्रः श्मशाने दुःखपीडितः । एवमुक्त्वाथ संश्लिष्य कण्ठे राज्ञो नृपात्मजा ॥ ४६॥ कष्टं शोकसमाविष्टा विललापार्तया गिरा । राजन् स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् ॥ ४७॥ तत्कथ्यतां महाभाग मनो वै मुह्यते मम । यद्येतदेव धर्मज्ञ नास्ति धर्मे सहायता ॥ ४८॥ तथैव विप्रदेवादिपूजने सत्यपालने । नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ॥ ४९॥ यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः । सूत उवाच - इति तस्या वचः श्रुत्वा निःश्वस्योष्णं सगद्गदः ॥ ५०॥ कथयामास तन्वङ्ग्यै यथा प्राप्तः श्वपाकताम् । रुदित्वा सा तु सुचिरं निःश्वस्योष्णं सुदुःखिता ॥ ५१॥ स्वपुत्रमरणं भीरुर्यथावत्तं न्यवेदयत् । श्रुत्वा राजा तथा वाक्यं निपपात महीतले ॥ ५२॥ मृतपुत्रं समानीय जिह्वया विलिहन्मुहुः । हरिश्चन्द्रमथो प्राह शैव्या गद्गदया गिरा ॥ ५३॥ कुरुष्व स्वामिनः प्रेष्यं छेदयित्वा शिरो मम । स्वामिद्रोहो न तेऽस्त्वद्य मासत्यो भव भूपते ॥ ५४॥ मासत्यं तव राजेन्द्र परद्रोहस्तु पातकम् । एतदाकर्ण्य राजा तु पपात भुवि मूर्च्छितः ॥ ५५॥ क्षणेन चेतनां प्राप्य विललापातिदुःखितः । राजोवाच - कथं प्रिये त्वया प्रोक्तं वचनं त्वतिनिष्ठुरम् ॥ ५६॥ यदशक्यं भवेद्वक्तुं तत्कर्म क्रियते कथम् । पत्न्युवाच - मया च पूजिता गौरी देवा विप्रास्तथैव च ॥ ५७॥ भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ ५८॥ मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच - प्रिये न रोचते दीर्घं कालं क्लेशं मयाशितुम् ॥ ५९॥ नात्मायत्तोऽहं तन्वङ्गि पश्य मे मन्दभाग्यताम् । चाण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि ॥ ६०॥ चाण्डालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ ६१॥ तापं प्राप्स्यामि सम्प्राप्य महारौरवरौरवे । मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ ६३॥ एकोऽपि बालको योऽयमासीद्वंशकरः सुतः । मम दैवानुयोगेन मृतो सोऽपि बलीयसा ॥ ६३॥ कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः । तथापि दुःखबाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ ६४॥ त्रैलोक्ये नास्ति तद्दुःखं नासिपत्रवने तथा । वैतरण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवे ॥ ६५॥ सोऽहं सुतशरीरेण दीप्यमाने हुताशने । निपतिष्यामि तन्वङ्गि क्षन्तव्यं तन्ममाधुना ॥ ६६॥ न वक्तव्य त्वया किञ्चिदतः कमललोचने । मम वाक्यं च तन्वङ्गि निबोधाहतमानसा ॥ ६७॥ अनुज्ञाताथ गच्छ त्वं विप्रवेश्म शुचिस्मिते । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ ६८॥ सङ्गमः परलोके मे निजपुत्रेण चेत्त्वया । इहलोके कुतस्त्वेतद्भविष्यति समीप्सितम् ॥ ६९॥ यन्मया हसता किञ्चिद्रहसि त्वां शुचिस्मिते । अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ ७०॥ राजपत्नीति गर्वेण नावज्ञेयः स मे द्विजः । सर्वयत्नेन तोष्यं स्यात्स्वामी दैवतवच्छुभे ॥ ७१॥ राज्ञ्युवाच । अहमप्यत्र राजर्षे निपतिष्ये हुताशने । दुःखभारासहा देव सह यास्यामि वै त्वया ॥ ७२॥ त्वया सह मम श्रेयो गमनं नान्यथा भवेत् । सह स्वर्गं च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ ७३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्रोपाख्याने राज्ञो हुताशनप्रवेशोद्योगवर्णनं नाम षड्विंशोऽध्यायः ॥ ७.२६॥

७.२७ सप्तविंशोऽध्यायः । हरिश्चन्द्राख्यानश्रवणफलवर्णनम् ।

सूत उवाच - ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा बद्धाञ्जलिपुटस्तदा ॥ १॥ चिन्तयन्परमेशानीं शताक्षीं जगदीश्वरीम् । पञ्चकोशान्तरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ २॥ रक्ताम्बरपरीधानां करुणारससागरम् । नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ ३॥ तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥ ४॥ आगत्य सर्वे प्रोचुस्ते राजञ्छ्रुणु महाप्रभो । अहं पितामहः साक्षाद्धर्मश्च भवगान्स्वयम् ॥ ५॥ साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥ ६॥ एते चान्येऽथ बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मैत्रीं कर्तुमिच्छति धर्मतः ॥ ७॥ विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति । धर्म उवाच - मा राजन् साहसं कार्षीर्धर्मोऽहं त्वामुपागतः ॥ ८॥ तितिक्षादमसत्त्वाद्यैस्त्वद्गुणैः परितोषितः । इन्द्र उवाच - हरिश्चन्द्र महाभाग प्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ ९॥ त्वयाद्य भार्यापुत्रेण जिता लोकाः सनातनाः । आरोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ १०॥ सुदुष्प्रापं नरैरन्यैर्जितमात्मीयकर्मभिः । सूत उवाच - ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ ११॥ इन्द्रः प्रासृजदाकाशाच्चितामध्यगते शिशौ । पुष्पवृष्टिश्च महती दुन्दुभिस्वन एव च ॥ १२॥ समुत्तस्थौ मृतः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः ॥ १३॥ ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा । सभार्यः स्वश्रिया युक्तो दिव्यमालाम्बरावृतः ॥ १४॥ बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥ १५॥ सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् । समारोह महाभाग निजानां कर्मणां फलम् ॥ १६॥ हरिश्चन्द्र उवाच - देवराजाननुज्ञातः स्वामिना श्वपचेन हि । अकृत्वा निष्कृतिं तस्य नारोक्ष्ये वै सुरालयम् ॥ १७॥ धर्म उवाच - तवैवं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपचतां नीतो दर्शितं तच्च पक्कणम् ॥ १८॥ इन्द्र उवाच - प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ १९॥ हरिश्चन्द्र उवाच - देवराज नमस्तुभ्यं वाक्यं चेदं निबोध मे । मच्छोकमग्नमनसः कौसले नगरे नराः ॥ २०॥ तिष्ठन्ति तानपास्यैवं कथं यास्याम्यहं दिवम् । ब्रह्महत्या सुरापानं गोवधः स्त्रीवधस्तथा ॥ २१॥ तुल्यमेभिर्महत्पापं भक्तत्यागादुदाहृतम् । भजन्तं भक्तमत्याज्यं त्यजतः स्यात्कथं सुखम् ॥ २२॥ तैर्विना न प्रयास्यामि तस्माच्छक्र दिवं व्रज । यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर ॥ २३॥ ततोऽहमपि यास्यामि नरकं वापि तैः सह । इन्द्र उवाच - बहूनि पुण्यपापानि तेषां भिन्नानि वै नृप ॥ २४॥ कथं सङ्घातभोज्यं त्वं भूप स्वर्गमभीप्ससि । हरिश्चन्द्र उवाच - भुङ्क्ते शक्र नृपो राज्यं प्रभावात्प्रकृतेध्रुवम् ॥ २५॥ यजते च महायज्ञैः कर्म पूर्तं करोति च । तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् ॥ २६॥ उपदादान्न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया । तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् ॥ २७॥ दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः । बहुकालोपभोज्यं च फलं यन्मम कर्मगम् ॥ २८॥ तदस्तु दिनमप्येकं तैः समं त्वप्रसादतः । सूत उवाच - एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः ॥ २९॥ प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः । गत्वा तु नगरं सर्वे चातुर्वर्ण्यसमाकुलम् ॥ ३०॥ हरिश्चन्द्रस्य निकटे प्रोवाच विबुधाधिपः । आगच्छन्तु जनाः शीघ्रं स्वर्गलोकं सुदुर्लभम् ॥ ३१॥ धर्मप्रसादात्सम्प्राप्तं सर्वैर्युष्माभिरेव तु । हरिश्चन्द्रोऽपि तान्सर्वाञ्जनान्नगरवासिनः ॥ ३२॥ प्राह राजा धर्मपरो दिवमारुह्यतामिति । सूत उवाच - तदिन्द्रस्य वचः श्रुत्वा प्रीतास्तस्य च भूपतेः ॥ ३३॥ ये संसारेषु निर्विण्णास्ते धुरं स्वसुतेषु वै । कृत्वा प्रहृष्टमनसो दिवमारुरुहुर्जनाः ॥ ३४॥ विमानवरमारूढाः सर्वे भास्वरविग्रहाः । तदा सम्भूतहर्षास्ते हरिश्चन्द्रश्च पार्थिवः ॥ ३५॥ राज्येऽभिषिच्य तनयं रोहिताख्यं महामनाः । अयोध्याख्ये पुरे रम्ये हृष्टपुष्टजनान्विते ॥ ३६॥ तनयं सुहृदश्चापि प्रतिपूज्याभिनन्द्य च । पुण्येन लभ्यां विपुलां देवादीनां सुदुर्लभाम् ॥ ३७॥ सम्प्राप्य कीर्तिमतुलां विमाने स महीपतिः । आसाञ्चक्रे कामगमे क्षुद्रघण्टाविराजिते ॥ ३८॥ ततस्तर्हि समालोक्य श्लोकमन्त्रं तदा जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥ ३९॥ शुक्र उवाच - अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रो महेन्द्रस्य सलोकताम् ॥ ४०॥ सूत उवाच - एतत्ते सर्वमाख्यानं हरिश्चन्द्रस्य चेष्टितम् । यः श‍ृणोति च दुःखार्तः स सुखं लभतेऽन्वहम् ॥ ४१॥ स्वर्गार्थी प्राप्नुयात् स्वर्गं सुतार्थी सुतमाप्नुयात् । भार्यार्थी प्राप्नुयाद्भार्यां राज्यार्थीं राज्यमाप्नुयात् ॥ ४२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हरिश्चन्द्राख्यानश्रवणफलवर्णनं नाम सप्तविंशोऽध्यायः ॥ ७.२७॥

७.२८ अष्टाविंशोऽध्यायः । शताक्षीचरित्रवर्णनम् ।

जनमेजय उवाच - विचित्रमिदमाख्यानं हरिश्चन्द्रस्य कीर्तितम् । शताक्षीपादभक्तस्य राजर्षेर्धार्मिकस्य च ॥ १॥ शताक्षी सा कुतो जाता देवी भगवती शिवा । तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥ २॥ को हि देव्या गुणाञ्छृण्वंस्तृप्तिं यास्यति शुद्धधीः । पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥ ३॥ व्यास उवाच - श‍ृणु राजन् प्रवक्ष्यामि शताक्षीसम्भवं शुभम् । तवावाच्यं न मे किञ्चिद्देवीभक्तस्य विद्यते ॥ ४॥ दुर्गमाख्यो महादैत्यः पूर्वं परमदारुणः । हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥ ५॥ देवानां तु बलं वेदो नाशे तस्य सुरा अपि नङ्क्ष्यन्त्येव न सन्देहो विधेयं तावदेव तत् ॥ ६॥ विमृश्यैतत्तपश्चर्यां गतः कर्तुं हिमालये । ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥ ७॥ सहस्रवर्षपर्यन्तं चकार परमं तपः । तेजसा तस्य लोकास्तु सन्तप्ताः ससुरासुराः ॥ ८॥ ततः प्रसन्नो भगवान् हंसारूढश्चतुर्मुखः । ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥ ९॥ समाधिस्थं मीलिताक्षं स्फुटमाह चतुर्मुखः । वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥ १०॥ तवाद्य तपसा तुष्टो वरदेशोऽहमागतः । श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥ ११॥ पूजयित्वा वरं वव्रे वेदान्देहि सुरेश्वर । त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥ १२॥ विद्यन्ते ते तु सान्निध्ये मम सन्तु महेश्वर । बलं च देहि येन स्याद्देवानां च पराजयः ॥ १३॥ इति तस्य वचः श्रुत्वा तथास्त्विति वचो वदन् । जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥ १४॥ ततः प्रभृति विप्रैस्तु विस्मृता वेदराशयः । स्नानसन्ध्यानित्यहोमश्राद्धयज्ञजपादयः ॥ १५॥ विलुप्ता धरणीपृष्ठे हाहाकारो महानभूत् । किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥ १६॥ वेदाभावात्तदस्माभिः कर्तव्यं किमतः परम् । इति भूमौ महानर्थे जाते परमदारुणे ॥ १७॥ निर्जराः सजरा जाता हविर्भागाद्यभावतः । रुरोध स तदा दैत्यो नगरीममरावतीम् ॥ १८॥ अशक्तास्तेन ते योद्धुं वज्रदेहासुरेण च । पलायनं तदा कृत्वा निर्गता निर्जराः क्वचित् ॥ १९॥ निलयं गिरिदुर्गेषु रत्नसानुगुहासु च । संस्थिताः परमां शक्तिं ध्यायन्तस्ते पराम्बिकाम् ॥ २०॥ अग्नौ होमाद्यभावात्तु वृष्ट्यभावोऽप्यभून्नृप । वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥ २१॥ कूपवापीतडागाश्च सरितः शुष्कतां गताः । अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥ २२॥ मृताः प्रजाश्च बहुधा गोमहिष्यादयस्तथा । गृहे गृहे मनुष्याणामभवच्छवसङ्ग्रहः ॥ २३॥ अनर्थे त्वेवमुद्भूते ब्राह्मणाः शान्तचेतसः । गत्वा हिमवतः पार्श्वे रिराधयिषवः शिवम् ॥ २४॥ समाधिध्यानपूजाभिर्देवीं तुष्टुवुरन्वहम् । निराहारास्तदासक्तास्तामेव शरणं ययुः ॥ २५॥ दयां कुरु महेशानि पामरेषु जनेषु हि । सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवाम्बिके ॥ २६॥ कोपं संहर देवेशि सर्वान्तर्यामिरूपिणि । त्वया यथा प्रेर्यतेऽयं करोति स तथा जनः ॥ २७॥ नान्या गतिर्जनस्यास्य किं पश्यसि पुनः पुनः । यथेच्छसि तथा कर्तुं समर्थासि महेश्वरि ॥ २८॥ समुद्धर महेशानि सङ्कटात्परमोत्थितात् । जीवनेन विनास्माकं कथं स्यात्स्थितिरम्बिके ॥ २९॥ प्रसीद त्वं महेशानि प्रसीद जगदम्बिके । अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥ ३०॥ नमः कूटस्थरूपायै चिद्रूपायै नमो नमः । नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥ ३१॥ नेति नेतीति वाक्यैर्या बोध्यते सकलागमैः । तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥ ३२॥ इति सम्प्रार्थिता देवी भुवनेशी महेश्वरी । अनन्ताक्षिमयं रूपं दर्शयामास पार्वती ॥ ३३॥ नीलाञ्जनसमप्रख्यं नीलपद्मायतेक्षणम् । सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥ ३४॥ बाणमुष्टिं च कमलं पुष्पपल्लवमूलकान् । शाकादीन्फलसंयुक्ताननन्तरससंयुतान् ॥ ३५॥ क्षुत्तृड्जरापहान् हस्तैर्बिभ्रती च महाधनुः । सर्वसौन्दर्यसारं तद्रूपं लावण्यशोभितम् ॥ ३६॥ कोटिसूर्यप्रतीकाशं करुणारससागरम् । दर्शयित्वा जगद्धात्री सानन्तनयनोद्भवा ॥ ३७॥ मोचयामास लोकेषु वारिधारां सहस्रशः । नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलैः ॥ ३८॥ दुःखितान्वीक्ष्य सकलान्नेत्राश्रूणि विमुञ्चती । तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥ ३९॥ नदीनदप्रवाहास्तैर्जलैः समभवन्नृप । निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहिः ॥ ४०॥ मिलित्वा ससुरा विप्रा देवीं समभितुष्टुवुः । नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥ ४१॥ स्वमायया सर्वजगद्विधात्र्यै ते नमो नमः । भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि ॥ ४२॥ नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः । अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥ ४३॥ त्वया यतो धृतं देवि शताक्षी त्वं ततो भव । क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः ॥ ४४॥ कृपां कुरु महेशानि वेदानप्याहराम्बिके । व्यास उवाच - इति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥ ४५॥ स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा । नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥ ४६॥ काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ । शाकम्भरीति नामापि तद्दिनात्समभून्नृप ॥ ४७॥ ततः कोलाहले जाते दूतवाक्येन बोधितः । ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥ ४८॥ सहस्राक्षौहिणीयुक्तः शरान्मुञ्चंस्त्वरान्वितः । रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥ ४९॥ तथा विप्रगणं चैव रोधयामास सर्वतः । ततः किलकिला शब्दः समभूद्देवमण्डले ॥ ५०॥ त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः । ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥ ५१॥ चकार रक्षणार्थाय स्वयं तस्माद् बहिः स्थिता । ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ५२॥ शरवर्षसमाच्छन्नं सूर्यमण्डलमद्भुतम् । परस्परशरोद्घर्षसमुद्भूताग्निसुप्रभम् ॥ ५३॥ कठोरज्याटणत्कारबधिरीकृतदिक्तटम् । ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥ ५४॥ कालिका तारिणी बाला त्रिपुरा भैरवी रमा । बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी ॥ ५५॥ कामाक्षी तुलजा देवी जम्भिनी मोहिनी तथा । छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥ ५६॥ द्वात्रिंशच्छक्तयश्चान्याश्चतुष्षष्टिमिताः पराः । असङ्ख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥ ५७॥ मृदङ्गशङ्खवीणादिनादितं सङ्गरस्थलम् । शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥ ५८॥ अग्रेसरः समभवद्दुर्गमो वाहिनीपतिः । शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥ ५९॥ महद्युद्धं समभवद्यत्राभूद्रक्तवाहिनी । अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशभिर्दिनैः ॥ ६०॥ तत एकादशे प्राप्ते दिने परमदारुणे । रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ॥ ६१॥ कृत्वोत्सवं महान्तं तु युद्धाय रथसंस्थितः । संरम्भेणैव महता शक्तीः सर्वा विजित्य च ॥ ६२॥ महादेवीरथाग्रे तु स्वरथं संन्यवेशयत् । ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥ ६३॥ प्रहरद्वयपर्यन्तं हृदयत्रासकारकम् । ततः पञ्चदशात्युग्रबाणान्देवी मुमोच ह ॥ ६४॥ चतुर्भिश्चतुरो वाहान्बाणेनैकेन सारथिम् । द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥ ६५॥ पञ्चभिर्हृदयं तस्य विव्याध जगदम्बिका । ततो वमन् स रुधिरं ममार पुर ईशितुः ॥ ६६॥ तस्य तेजस्तु निर्गत्य देवीरूपे विवेश ह । हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥ ६७॥ ततो ब्रह्मादयः सर्वे तुष्टुवुर्जगदम्बिकाम् । पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥ ६८॥ देवा ऊचुः । जगद्भ्रमविवर्तैककारणे परमेश्वरि । नमः शाकम्भरि शिवे नमस्ते शतलोचने ॥ ६९॥ सर्वोपनिषदुद्घुष्टे दुर्गमासुरनाशिनि । नमो मायेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥ ७०॥ चेतसा निर्विकल्पेन यां ध्यायन्ति मुनीश्वराः । प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥ ७१॥ अनन्तकोटिब्रह्माण्डजननीं दिव्यविग्रहाम् । ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥ ७२॥ कः कुर्यात्पामरान्दृष्ट्वा रोदनं सकलेश्वरः । सदयां परमेशानीं शताक्षीं मातरं विना ॥ ७३॥ व्यास उवाच - इति स्तुता सुरैर्देवी ब्रह्मविष्ण्वादिभिर्वरैः । पूजिता विविधैर्द्रव्यैः सन्तुष्टाभूच्च तत्क्षणे ॥ ७४॥ प्रसन्ना सा तदा देवी वेदानाहृत्य सा ददौ । ब्राह्मणेभ्यो विशेषेण प्रोवाच पिकभाषिणी ॥ ७५॥ ममेयं तनुरुत्कृष्टा पालनीया विशेषतः । यया विनानर्थ एष जातो दृष्टोऽधुनैव हि ॥ ७६॥ पूज्याहं सर्वदा सेव्या युष्माभिः सर्वदैव हि । नातः परतरं किञ्चित्कल्याणायोपदिश्यते ॥ ७७॥ पठनीयं ममैतद्धि माहात्म्यं सर्वदोत्तमम् । तेन तुष्टा भविष्यामि हरिष्यामि तथापदः ॥ ७८॥ दुर्गमासुरहन्त्रीत्वाद्दुर्गेति मम नाम यः । गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥ ७९॥ किमुक्तेनात्र बहुना सारं वक्ष्यामि तत्त्वतः । संसेव्याहं सदा देवाः सर्वैरपि सुरासुरैः ॥ ८०॥ इत्युक्त्वान्तर्हिता देवी देवानां चैव पश्यताम् । सन्तोषं जनयन्त्येवं सच्चिदनन्दरूपिणी ॥ ८१॥ एतत्ते सर्वमाख्यातं रहस्यं परमं महत् । गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥ ८२॥ य इमं श‍ृणुयान्नित्यमध्यायं भक्तितत्परः । सर्वान्कामानवाप्नोति देवीलोके महीयते ॥ ८३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे शताक्षीचरित्रवर्णनं नामाष्टाविंशोऽध्यायः ॥ ७.२८॥

७.२९ एकोनत्रिंशोऽध्यायः । भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनम् ।

व्यास उवाच - इत्येवं सूर्यवंश्यानां राज्ञां चरितमुत्तमम् । सोमवंशोद्भवानां च वर्णनीयं मया कियत् ॥ १॥ पराशक्तिप्रसादेन महत्त्वं प्रतिपेदिरे । राजन् सुनिश्चितं विद्धि पराशक्तिप्रसादतः ॥ २॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं पराशक्त्यंशसम्भवम् ॥ ३॥ एते चान्ये च राजानः पराशक्तेरुपासकाः । संसारतरुमूलस्य कुठारा अभवन्नृप ॥ ४॥ तस्मात्सर्वप्रयत्नेन संसेव्या भुवनेश्वरी । पलालमिव धान्यार्थी त्यजेदन्यमशेषतः ॥ ५॥ आमथ्य वेददुग्धाब्धिं प्राप्तं रत्नं मया नृप । पराशक्तिपदाम्भोजं कृतकृत्योऽस्म्यहं ततः ॥ ६॥ पञ्चब्रह्मासनारूढा नास्त्यन्या कापि देवता । तत एव महादेव्या पञ्चब्रह्मासनं कृतम् ॥ ७॥ पञ्चभ्यस्त्वधिकं वस्तु वेदेऽव्यक्तमितीर्यते । यस्मिन्नोतं च प्रोतं च सैव श्रीभुवनेश्वरी ॥ ८॥ तामविज्ञाय राजेन्द्र नैव मुक्तो भवेन्नरः । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ॥ ९॥ तदा शिवामविज्ञाय दुःखस्यान्तो भविष्यति । अत एव श्रुतौ प्राहुः श्वेताश्वतरशाखिनः ॥ १०॥ ते ध्यानयोगानुगता अपश्य- न्देवात्मशक्तिं स्वगुणैर्निगूढाम् ॥ ११॥ तस्मात् सर्वप्रयत्नेन जन्मसाफल्यहेतवे । लज्जया वा भयेनापि भक्त्या वा प्रेमयुक्तया । सर्वसङ्गं परित्यज्य मनो हृदि निरुध्य च ॥ १२॥ तन्निष्ठस्तत्परो भूयादिति वेदान्तडिण्डिमः । येन केन मिषेणापि स्वपंस्तिष्ठन्व्रजन्नपि ॥ १३॥ कीर्तयेत्सततं देवीं स वै मुच्येत बन्धनात् । तस्मात्सर्वप्रयत्नेन भज राजन् महेश्वरीम् ॥ १४॥ विराड्रूपां सूत्ररूपां तथान्तर्यामिरूपिणीम् । सोपानक्रमतः पूर्वं ततः शुद्धे तु चेतसि ॥ १५॥ सच्चिदानन्दलक्ष्यार्थरूपां तां ब्रह्मरूपिणीम् । आराधय परां शक्तिं प्रपञ्चोल्लासवर्जिताम् ॥ १६॥ तस्यां चित्तलयो यः स तस्या आराधनं स्मृतम् । राजन् राज्ञां पराशक्तिभक्तानां चरितं मया ॥ १७॥ धार्मिकाणां सूर्यसोमवंशजानां मनस्विनाम् । पावनं कीर्तिदं धर्मबुद्धिदं सद्गतिप्रदम् ॥ १८॥ कथितं पुण्यदं पश्चात्किमन्यच्छ्रोतुमिच्छसि । जनमेजय उवाच - गौरीलक्ष्मीसरस्वत्यो दत्ताः पूर्वं पराम्बया ॥ १९॥ हराय हरये तद्वन्नाभिपद्मोद्भवाय च । तुषाराद्रेश्च दक्षस्य गौरी कन्येति विश्रुतम् ॥ २०॥ क्षीरोदधेश्च कन्येति महालक्ष्मीरिति स्मृतम् । मूलदेव्युद्भवानां च कथं कन्यात्वमन्ययोः ॥ २१॥ असम्भाव्यमिदं भाति संशयोऽत्र महामुने । छिन्धि ज्ञानासिना तं त्वं संशयच्छेदतत्परः ॥ २२॥ व्यास उवाच - श‍ृणु राजन् प्रवक्ष्यामि रहस्यं परमाद्भुतम् । देवीभक्तस्य ते किञ्चिदवाच्यं न हि विद्यते ॥ २३॥ देवीत्रयं यदा देवत्रयायादात्पराम्बिका । तदाप्रभृति ते देवाः सृष्टिकार्याणि चक्रिरे ॥ २४॥ कस्मिंश्चित्समये राजन् दैत्या हालाहलाभिधाः । महापराक्रमा जातास्त्रैलोक्यं तैर्जितं क्षणात् ॥ २५॥ ब्रह्मणो वरदानेन दर्पिता रजताचलम् । रुरुधुर्निजसेनाभिस्तथा वैकुण्ठमेव च ॥ २६॥ कामारिः कैटभारिश्च युद्धोद्योगं च चक्रतुः । षष्टिवर्षसहस्राणामभूद्युद्धं महोत्कटम् ॥ २७॥ हाहाकारो महानासीद्देवदानवसेनयोः । महताथ प्रयत्नेन ताभ्यां ते दानवा हताः ॥ २८॥ स्वस्वस्थानेषु गत्वा तावभिमानं च चक्रतुः । स्वशक्त्योर्निकटे राजन् यद्वशादेव ते हताः ॥ २९॥ अभिमानं तयोर्ज्ञात्वा छलहास्यं च चक्रतुः । महालक्ष्मीश्च गौरी च हास्यं दृष्ट्वा तयोस्तु तौ ॥ ३०॥ देवावतीव सङ्कृद्धौ मोहितावादिमायया । दुरुत्तरं च ददतुरवमानपुरःसरम् ॥ ३१॥ ततस्ते देवते तस्मिन्क्षणे त्यक्त्वा तु तौ पुनः । अन्तर्हिते चाभवतां हाहाकारस्तदा ह्यभूत् ॥ ३२॥ निस्तेजस्कौ च निःशक्ती विक्षिप्तौ च विचेतनौ । अवमानात्तयोः शक्त्योर्जातौ हरिहरौ तदा ॥ ३३॥ ब्रह्मा चिन्तातुरो जातः किमेतत्समुपस्थितम् । प्रधानौ देवतामध्ये कथं कार्याक्षमावमू ॥ ३४॥ अकाण्डे किं निमित्तेन सङ्कटं समुपस्थितम् । प्रलयो भविता किं वा जगतोऽस्य निरागसः ॥ ३५॥ निमित्तं नैव जानेऽहं कथं कार्या प्रतिक्रिया । इति चिन्तातुरोऽत्यर्थं दध्यौ मीलितलोचनः ॥ ३६॥ पराशक्तिप्रकोपात्तु जातमेतदिति स्म ह । जानंस्तदा सावधानः पद्मजोऽभून्नृपोत्तम ॥ ३७॥ ततस्तयोश्च यत्कार्यं स्वयमेवाऽकरोत्तदा । स्वशक्तेश्च प्रभावेण कियत्कालं तपोनिधिः ॥ ३८॥ ततस्तयोस्तु स्वस्त्यर्थं मन्वादीन्स्वसुतानथ । आह्वयामास धर्मात्मा सनकादींश्च सत्वरः ॥ ३९॥ उवाच वचनं तेभ्यः सन्नतेभ्यस्तपोनिधिः । कार्यासक्तोऽहमधुना तपः कर्तुं न च क्षमः ॥ ४०॥ पराशक्तेस्तु तोषार्थं जगद्भारयुतोऽस्म्यहम् । शिवविष्णू च विक्षिप्तौ पराशक्तिप्रकोपतः ॥ ४१॥ तस्मात्तां परमां शक्तिं यूयं सन्तोषयन्त्वथ । अत्यद्भुतं तपः कृत्वा भक्त्या परमया युताः ॥ ४२॥ यथा तौ पूर्ववृत्तौ च स्यात शक्तियुतावपि । तथा कुरुत मत्पुत्रा यशोवृद्धिर्भवेद्धि वः ॥ ४३॥ कुले यस्य भवेज्जन्म तयोः शक्त्योस्तु तत्कुलम् । पावयेज्जगतीं सर्वां कृतकृत्यं स्वयं भवेत् ॥ ४४॥ व्यास उवाच - पितामहवचः श्रुत्वा गताः सर्वे वनान्तरे । रिराधयिषवः सर्वे दक्षाद्या विमलान्तराः ॥ ४५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे भगवतीं समाराधयिषूणां देवानां तपःकरणवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ७.२९॥

७.३० त्रिंशोऽध्यायः । देवीपीठवर्णनम् ।

व्यास उवाच - ततस्ते तु वनोद्देशे हिमाचलतटाश्रयाः । मायाबीजजपासक्तास्तपश्चेरुः समाहिताः ॥ १॥ ध्यायतां परमां शक्तिं लक्षवर्षाण्यभून्नृप । ततः प्रसन्ना देवी सा प्रत्यक्ष्यं दर्शनं ददौ ॥ २॥ पाशाङ्कुशवराभीतिचतुर्बाहुस्त्रिलोचना । करुणारससम्पूर्णा सच्चिदानन्दरूपिणी ॥ ३॥ दृष्ट्वा तां सर्वजननीं तुष्टुवुर्मुनयोऽमलाः । नमस्ते विश्वरूपायै वैश्वानरसुमूर्तये ॥ ४॥ नमस्तेजसरूपायै सूत्रात्मवपुषे नमः । यस्मिन्सर्वे लिङ्गदेहा ओतप्रोता व्यवस्थिताः ॥ ५॥ नमः प्राज्ञस्वरूपायै नमोऽव्याकृतमूर्तये । नमः प्रत्यक्स्वरूपायै नमस्ते ब्रह्ममूर्तये ॥ ६॥ नमस्ते सर्वरूपायै सर्वलक्ष्यात्ममूर्तये । इति स्तुत्वा जगद्धात्रीं भक्तिगद्गदया गिरा ॥ ७॥ प्रणेमुश्चरणाम्भोजं दक्षाद्या मुनयोऽमलाः । ततः प्रसन्ना सा देवी प्रोवाच पिकभाषिणी ॥ ८॥ वरं ब्रूत महाभागा वरदाहं सदा मता । तस्यास्तु वचनं श्रुत्वा हरविष्ण्वोस्तनोः शमम् ॥ ९॥ तयोस्तच्छक्तिलाभं च वव्रिरे नृपसत्तम । दक्षोऽथ पुनरप्याह जन्म देवि कुले मम ॥ १०॥ भवेत्तवाम्ब येनाहं कृतकृत्यो भवे इति । जपं ध्यानं तथा पूजां स्थानानि विविधानि च ॥ ११॥ वद मे परमेशानि स्वमुखेनैव केवलम् । देव्युवाच - मच्छक्त्योरवमानाच्च जातावस्था तयोर्द्वयोः ॥ १२॥ नैतादृशः प्रकर्तव्यो मेऽपराधः कदाचन । अधुना मत्कृपालेशाच्छरीरे स्वस्थता तयोः ॥ १३॥ भविष्यति च ते शक्ती त्वद्गृहे क्षीरसागरे । जनिष्यतस्तत्र ताभ्यां प्राप्स्यतः प्रेरिते मया ॥ १४॥ मायाबीजं हि मन्त्रो मे मुख्यः प्रियकरः सदा । ध्यानं विराट्स्वरूपं मेऽथवा त्वत्पुरतः स्थितम् ॥ १५॥ सच्चिदानन्दरूपं वा स्थानं सर्वं जगन्मम । युष्माभिः सर्वदा चाहं पूज्या ध्येया च सर्वदा ॥ १६॥ व्यास उवाच - इत्युक्त्वान्तर्दधे देवी मणिद्वीपाधिवासिनी । दक्षाद्या मुनयः सर्वे ब्रह्माणं पुनराययुः ॥ १७॥ ब्रह्मणे सर्ववृतान्तं कथयामासुरादरात् । हरो हरिश्च स्वस्थौ तौ स्वस्वकार्यक्षमौ नृप ॥ १८॥ जातौ पराम्बाकृपया गर्वेण रहितौ तदा । कदाचितदथ काले तु महः शाक्तमवातरत् ॥ १९॥ दक्षदेहे महाराज त्रैलोक्येऽप्युत्सवोऽभवत् । देवाः प्रमुदिताः सर्वे पुष्पवृष्टिं च चक्रिरे ॥ २०॥ नेदुर्दुन्दुभयः स्वर्गे करकोणाहता नृप । मनांस्यासन्प्रसन्नानि साधूनाममलात्मनाम् ॥ २१॥ सरितो मार्गवाहिन्यः सुप्रभोऽभूद्दिवाकरः । मङ्गलायां तु जातायां जातं सर्वत्र मङ्गलम् ॥ २२॥ तस्या नाम सतीं चक्रे सत्यत्वात्परसंविदः । ददौ पुनः शिवायाथ तस्य शक्तिस्तु याभवत् ॥ २३॥ सा पुनर्ज्वलने दग्धा दैवयोगान्मनोर्नृप । जनमेजय उवाच - अनर्थकरमेतत्ते श्रावितं वचनं मुने ॥ २४॥ एतादृशं महद्वस्तु कथं दग्धं हुताशने । यन्नामस्मरणान्नृणां संसाराग्निभयं न हि ॥ २५॥ केन कर्मविपाकेन मनोर्दग्धं तदेव हि । व्यास उवाच - श‍ृणु राजन् पुरा वृत्तं सतीदायस्य कारणम् ॥ २६॥ कदाचिदथ दुर्वासा गतो जाम्बूनदेश्वरीम् । ददर्श देवीं तत्रासौ मायाबीजं जजाप सः ॥ २७॥ ततः प्रसन्ना देवेशी निजकण्ठगतां स्रजम् । भ्रमद्भ्रमरसंसक्तां मकरन्दमदाकुलाम् ॥ २८॥ ददौ प्रसादभूतां तां जग्राह शिरसा मुनिः । ततो निर्गत्य तरसा व्योममार्गेण तापसः ॥ २९॥ आजगाम स यत्रास्ते दक्षः साक्षात्सतीपिता । सन्दर्शनार्थमम्बाया ननाम च सतीपदे ॥ ३०॥ पृष्टो दक्षेण स मुनिर्माला कस्यास्त्यलौकिकी । कथं लब्धा त्वया नाथ दुर्लभा भुवि मानवैः ॥ ३१॥ तच्छ्रुत्वा वचनं तस्य प्रोवाचाश्रुयुतेक्षणः । देव्याः प्रसादमतुलं प्रेमगद्गदितान्तरः ॥ ३२॥ प्रार्थयामास तां मालां तं मुनिं स सतीपिता । अदेयं शक्तिभक्ताय नास्ति त्रैलोक्यमण्डले ॥ ३३॥ इति बुद्ध्या तु तां मालां मनवे स समर्पयत् । गृहीता शिरसा माला मनुना निजमन्दिरे ॥ ३४॥ स्थापिता शयनं यत्र दम्पत्योरतिसुन्दरम् । पशुकर्मरतो रात्रौ मालागन्धेन मोदितः ॥ ३५॥ अभवत्स महीपालस्तेन पापेन शङ्करे । शिवे द्वेषमतिर्जातो देव्यां सत्यां तथा नृप ॥ ३६॥ राजंस्तेनापराधेन तज्जन्यो देह एव च । सत्या योगाग्निना दग्धः सतीधर्मदिदृक्षया ॥ ३७॥ पुनश्च हिमवत्पृष्ठे प्रादुरासीत्तु तन्महः । जनमेजय उवाच - दह्यमाने सतीदेहे जाते किमकरोच्छिवः ॥ ३८॥ प्राणाधिका सती तस्य तद्वियोगेन कातरः । व्यास उवाच - ततः परं तु यज्जातां मया वक्तुं न शक्यते ॥ ३९॥ त्रैलोक्यप्रलयो जातः शिवकोपाग्निना नृप । वीरभद्रः समुत्पन्नो भद्रकालीगणान्वितः ॥ ४०॥ त्रैलोक्यनाशनोद्युक्तो वीरभद्रो यदाभवत् । ब्रह्मादयस्तदा देवाः शङ्करं शरणं ययुः ॥ ४१॥ जाते सर्वस्वनाशेऽपि करुणानिधिरीश्वरः । अभयं दत्तवांस्तेभ्यो बस्तवक्त्रेण तं मनुम् ॥ ४२॥ अजीवयन्महात्मासौ ततः खिन्नो महेश्वरः । यज्ञवाटमुपागम्य रुरोद भृशदुःखितः ॥ ४३॥ अपश्यत्तां सतीं वह्नौ दह्यमानां तु चित्कलाम् । स्कन्धेऽप्यारोपयामास हा सतीति वदन्मुहुः ॥ ४४॥ बभ्राम भ्रान्तचित्तः सन्नानादेशेषु शङ्करः । तदा ब्रह्मादयो देवाश्चिन्तामापुरनुत्तमाम् ॥ ४५॥ विष्णुस्तु त्वरया तत्र धनुरुद्यम्य मार्गणैः । चिच्छेदावयवान्सत्यास्तत्तत्स्थानेषु तेऽपतन् ॥ ४६॥ तत्तत्स्थानेषु तत्रासीन्नानामूर्तिधरो हरः । उवाच च ततो देवान्स्थानेष्वेतेषु ये शिवाम् ॥ ४७॥ भजन्ति परया भक्त्या तेषां किञ्चिन्न दुर्लभम् । नित्यं सन्निहिता यत्र निजाङ्गेषु पराम्बिका ॥ ४८॥ स्थानेष्वेतेषु ये मर्त्याः पुरश्चरणकर्मिणः । तेषां मन्त्राः प्रसिद्ध्यन्ति मायाबीजं विशेषतः ॥ ४९॥ इत्युक्त्वा शङ्करस्तेषु स्थानेषु विरहातुरः । कालं निन्ये नृपश्रेष्ठ जपध्यानसमाधिभिः ॥ ५०॥ जनमेजय उवाच - कानि स्थानानि तानि स्युः सिद्धपीठानि चानघ । कति सङ्ख्यानि नामानि कानि तेषां च मे वद ॥ ५१॥ तत्र स्थितानां देवीनां नामानि च कृपाकर । कृतार्थोऽहं भवे येन तद्वदाशु महामुने ॥ ५२॥ व्यास उवाच - श‍ृणु राजन्प्रवक्ष्यामि देवेपीठानि साम्प्ततम् । येषां श्रवणमात्रेण पापहीनो भवेन्नरः ॥ ५३॥ येषु येषु च पीठेषूपास्येयं सिद्धिकाङ्क्षिभिः । भूतिकामैरभिध्येया तानि वक्ष्यामि तत्त्वतः ॥ ५४॥ वाराणस्यां विशालाक्षी गौरीमुखनिवासिनी । क्षेत्रे वै नैमिषारण्ये प्रोक्ता सा लिङ्गधारिणी ॥ ५५॥ प्रयागे ललिता प्रोक्ता कामुकी गन्धमादने । मानसे कुमुदा प्रोक्ता दक्षिणे चोत्तरे तथा ॥ ५६॥ विश्वकामा भगवती विश्वकामप्रपूरणी । गोमन्ते गोमती देवी मन्दरे कामचारिणी ॥ ५७॥ मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । गौरी प्रोक्ता कान्यकुब्जे रम्भा तु मलयाचले ॥ ५८॥ एकाम्रपीठे सम्प्रोक्ता देवी सा कीर्तिमत्यपि । विश्वे विश्वेश्वरीं प्राहुः पुरुहूतां च पुष्करे ॥ ५९॥ केदारपीठे सम्प्रोक्ता देवी सन्मार्गदायिनी । मन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ ६०॥ स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्रिका । श्रीशैले माधवी प्रोक्ता भद्रा भद्रेश्वरे तथा ॥ ६१॥ वराहशैले तु जया कमला कमलालये । रुद्राणी रुद्रकोट्यां तु काली कालञ्जरे तथा ॥ ६२॥ शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ ६३॥ मायापुर्यां कुमारी स्यात्सन्ताने ललिताम्बिका । गयायां मङ्गला प्रोक्ता विमला पुरुषोत्तमे ॥ ६४॥ उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । विपाशायाममोघाक्षी पाडला पुण्ड्रवर्धने ॥ ६५॥ नारायणी सुपार्श्वे तु त्रिकुटे रुद्रसुन्दरी । विपुले विपुला देवी कल्याणी मलयाचले ॥ ६६॥ सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ ६७॥ कोटवी कोटतीर्थे तु सुगन्धा माधवे वने । गोदावर्यां त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ॥ ६८॥ शिवकुण्डे शुभानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ ६९॥ देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ ७०॥ करवीरे महालक्षीरुमा देवी विनायके । आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ॥ ७१॥ अभयेत्युष्णतीर्थेषु नितम्बा विन्ध्यपर्वते । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरीपुरे ॥ ७२॥ छगलण्डे प्रचण्डा तु चण्डीकामरकण्टके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ ७३॥ देवमाता सरस्वत्यां पारावारा तटे स्मृता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ ७४॥ सिंहिका कृतशौचे तु कार्तिके त्वतिशाङ्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ ७५॥ माता सिद्धवने लक्ष्मीरनङ्गा भरताश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ ७६॥ देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु तुष्टिर्विश्वेश्वरे तथा ॥ ७७॥ कपालमोचने शुद्धिर्माता कामावरोहणे । शङ्खोद्धारे धारा नाम धृतिः पिण्डारके तथा ॥ ७८॥ कला तु चन्द्रभागायामच्छोदे शिवधारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ ७९॥ औषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ॥ ८०॥ अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसन्निधौ ॥ ८१॥ देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ ८२॥ अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ ८३॥ इमान्यष्ट शतानि स्युः पीठानि जनमेजय । तत्सङ्ख्याकास्तदीशान्यो देव्यश्च परिकीर्तिताः ॥ ८४॥ सतीदेव्यङ्गभूतानि पीठानि कथितानि च । अन्यान्यपि प्रसङ्गेन यानि मुख्यानि भूतले ॥ ८५॥ यः स्मरेच्छृणुयाद्वापि नामाष्टशतमुत्तमम् । सर्वपापविनिर्मुक्तो देवीलोकं परं व्रजेत् ॥ ८६॥ एतेषु सर्वपीठेषु गच्छेद्यात्राविधानतः । सन्तर्पयेच्च पित्रादीञ्छ्राद्धादीनि विधाय च ॥ ८७॥ कुर्याच्च महतीं पूजां भगवत्या विधानतः । क्षमापयेज्जगधात्रीं जगदम्बां मुहुर्मुहुः ॥ ८८॥ कृतकृत्यं स्वमात्मानं जानीयाज्जनमेजय । भक्ष्यभोज्यादिभिः सर्वान्ब्राह्मणान्भोजयेत्ततः ॥ ८९॥ सुवासिनीः कुमारीश्च बटुकादींस्तथा नृप । तस्मिन्क्षेत्रे स्थिता ये तु चाण्डालाद्या अपि प्रभो ॥ ९०॥ देवीरूपाः स्मृताः सर्वे पूजनीयास्ततो हि ते । प्रतिग्रहादिकं सर्वं तेषु क्षेत्रेषु वर्जयेत् ॥ ९१॥ यथाशक्ति पुरश्चर्यां कुर्यान्मन्त्रस्य सत्तमः । मायाबीजेन देवेशीं तत्तत्पीठाधिवासिनीम् ॥ ९२॥ पूजयेदनिशं राजन् पुरश्चरणकृद्भवेत् । वित्तशाठ्यं न कुर्वीत देवीभक्तिपरो नरः ॥ ९३॥ य एवं कुरुते यात्रां श्रीदेव्याः प्रीतमानसः । सहस्रकल्पपर्यन्तं ब्रह्मलोके महत्तरे ॥ ९४॥ वसन्ति पितरस्तस्य सोऽपि देवीपुरे तथा । अन्ते लब्ध्वा परं ज्ञानं भवेन्मुक्तो भवाम्बुधेः ॥ ९५॥ नामाष्टशतजापेन बहवः सिद्धतां गताः । यत्रैतल्लिखितं साक्षात्पुस्तके वापि तिष्ठति ॥ ९६॥ ग्रहमारीभयादीनि तत्र नैव भवन्ति हि । सौभाग्यं वर्धते नित्यं यथा पर्वणि वारिधिः ॥ ९७॥ न तस्य दुर्लभं किञ्चिन्नामाष्टशतजापिनः । कृतकृत्यो भवेन्नूनं देवीभक्तिपरायणः ॥ ९८॥ नमन्ति देवतास्तं वै देवीरूपो हि स स्मृतः । सर्वथा पूज्यते देवैः किं पुनर्मनुजोत्तमैः ॥ ९९॥ श्राद्धकाले पठेदेतन्नामाष्टशतमुत्तमम् । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ॥ १००॥ इमानि मुक्तिक्षेत्राणि साक्षात्संविन्मयानि च । सिद्धपीठानि राजेन्द्र संश्रयेन्मतिमान्नरः ॥ १०१॥ पृष्टं यत्तत्त्वया राजन्नुक्तं सर्वं महेशितुः । रहस्यातिरहस्यं च किं भूयः श्रोतुमिच्छसि ॥ १०२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीपीठवर्णनं नाम त्रिंशोऽध्यायः ॥ ७.३०॥

७.३१ एकत्रिंशोऽध्यायः । हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनम् ।

जनमेजय उवाच । धराधराधीशमौलावाविरासीत्परं महः । यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ १॥ को विरज्येत मतिमान् पिबञ्छक्तिकथामृतम् । सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ २॥ व्यास उवाच । धन्योऽसि कृतकृत्योऽसि शिक्षितोऽसि महात्मभिः । भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ ३॥ श‍ृणु राजन्पुरा वृत्तं सतीदेहेऽग्निभर्जिते । भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरोऽभवत् ॥ ४॥ प्रपञ्चभानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ ५॥ सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् । शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ ६॥ आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे । उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ ७॥ सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् । ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ ८॥ अधिभूताधिदैवानां सत्यभावान्नृपाभवन् । अथाऽस्मिन्नेव काले तु तारकाख्यो महसुरः ॥ ९॥ ब्रह्मदत्तवरो दैत्योऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ १०॥ इति कल्पितमृत्युः स देवदेवैर्महासुरः । शिवौरससुताभावाज्जगर्ज च ननन्द च ॥ ११॥ तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः । शिवौरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ १२॥ नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भवः । अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ १३॥ इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले । शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ १४॥ कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा । जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ १५॥ अस्माकमनया देव तदुपेक्षास्ति नान्यथा । शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय च ॥ १६॥ लालने ताडने मातुर्नाकारुण्यं यथार्भके । तद्वदेव जगन्मातुर्नियन्त्र्या गुणदोषयोः ॥ १७॥ अपराधो भवत्येव तनयस्य पदे पदे । कोऽपरः सहते लोके केवलं मातरं विना ॥ १८॥ तस्माद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ १९॥ इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ २०॥ आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ २१॥ अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ २२॥ केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ २३॥ मन्त्रपारायणपराः केचित्कृच्छ्रादिकारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ २४॥ हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालोऽगाज्जनमेजय ॥ २५॥ अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ २६॥ चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ २७॥ विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ २८॥ आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् । न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ २९॥ दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते । पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ ३०॥ तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् । अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ ३१॥ उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् । रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ ३२॥ कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् । अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ ३३॥ तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ ३४॥ कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ ३५॥ अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् । रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ ३६॥ कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् । रत्नसम्भिन्नमुकुटां चन्द्ररेखावतंसिनीम् ॥ ३७॥ मल्लिकामालतीमालाकेशपाशविराजिताम् । काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ ३८॥ पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । रक्तवस्त्रपरीधानां दाडिमीकुसुमप्रभाम् ॥ ३९॥ सर्वश‍ृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् । सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ ४०॥ प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् । अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ ४१॥ दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः । वक्तुं नाशक्नुवन् किञ्चिद्वाष्पसंरुद्धनिःस्वनाः ॥ ४२॥ कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः । प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ ४३॥ देवा ऊचुः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ४४॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ ४५॥ देवीं वाचमजनयन्त देवा- स्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ ४६॥ कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ४७॥ महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ ४८॥ नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये । नमोऽव्याकृतरूपिण्यै नमः श्रीब्रह्ममूर्तये ॥ ४९॥ यदज्ञानाज्जगद्भाति रज्जुसर्पस्रगादिवत् । यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ ५०॥ नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् । अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ ५१॥ पञ्चकोशातिरिक्तां तामवस्थात्रयसाक्षिणीम् । नुमस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ ५२॥ नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये । नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ ५३॥ इति स्तुता तदा देवैर्मणिद्वीपाधिवासिनी । प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ ५४॥ श्रीदेव्युवाच । वदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः । वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ ५५॥ तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् । समुद्धरामि मद्भक्तान्दुःखसंसारसागरात् ॥ ५६॥ इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः । इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ ५७॥ निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् । देवा ऊचुः । नाज्ञातं किञ्चिदप्यत्र भवत्यास्ति जगत्त्रये ॥ ५८॥ सर्वज्ञया सर्वसाक्षिरूपिण्या परमेश्वरि । तारकेणासुरेन्द्रेण पीडिताः स्मो दिवानिशम् ॥ ५९॥ शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणा शिवे । शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ ६०॥ सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः । एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ ६१॥ सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला । प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ ६२॥ इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी । मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ ६३॥ शिवाय सा प्रदेया स्यात्सा वः कार्यं विधास्यति । भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ ६४॥ हिमालयो हि मनसा मामुपास्तेऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ ६५॥ व्यास उवाच । हिमालयोऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः । बाष्पैः संरुद्धकण्ठाक्षो महाराज्ञीं वचोऽब्रवीत् ॥ ६६॥ महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि । नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ ६७॥ असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादिपुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ ६८॥ अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् । अहो हिमालयस्यास्य धन्योऽसौ भाग्यवानिति ॥ ६९॥ यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ ७०॥ न जानेऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् । एतादृशानां वासाय येषां वंशेऽस्ति मादृशः ॥ ७१॥ इदं यथा च दत्तं मे कृपया प्रेमपूर्णया । सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥ ७२॥ योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ ७३॥ व्यास उवाच । इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ ७४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे हिमालयगृहे पार्वतीजन्मविषये देवान् प्रति देवीकथनवर्णनं नामैकत्रिंशोऽध्यायः ॥ ७.३१॥

७.३२ द्वात्रिंशोऽध्यायः । देव्या व्यष्टिसमष्टिरूपवर्णनम् ।

श्रीदेव्युवाच । श‍ृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ १॥ अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २॥ अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ ३॥ न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ ४॥ पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५॥ तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६॥ स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७॥ चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ ८॥ केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९॥ विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १०॥ एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ ११॥ चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२॥ अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३॥ प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ १४॥ जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५॥ यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६॥ अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७॥ मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ १८॥ अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९॥ ज्ञानस्य जडशेषत्वं न दृष्टं न च सम्भवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २०॥ तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ २१॥ स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥ २२॥ अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३॥ एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४॥ प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५॥ सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६॥ तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ २७॥ जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८॥ शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९॥ शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ ३०॥ सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१॥ यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ ३२॥ पञ्चसङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा ॥ ३३॥ एकैकं भागमेकस्य चतुर्धा विभजेद् गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ ३४॥ तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ ३५॥ ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम् ॥ ३६॥ यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ ३७॥ अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ ३८॥ तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैतु प्राणो भवति पञ्चधा ॥ ३९॥ हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद् व्यानः सर्वशरीरगः ॥ ४०॥ ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः ॥ ४१॥ एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता ॥ ४२॥ सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३॥ तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ ४४॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ ४५॥ तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६॥ देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ ४७॥ स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८॥ प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९॥ करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां देव्या व्यष्टिसमष्टिरूपवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ७.३२॥

७.३३ त्रयस्त्रिंशोऽध्यायः । श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनम् ।

देव्युवाच । मन्मायाशक्तिसङ्क्लृप्तं जगत्सर्वं चराचरम् । सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ १॥ व्यवहारदृशा सेयं विद्या मायेति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ २॥ साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ ३॥ लोकान्तरगतिर्नोचेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ ४॥ उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ ५॥ न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ ६॥ वदन्ति चात्मा कर्मेति विमूढा न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ ७॥ जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा ॥ ८॥ तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः ॥ ९॥ तथेश्वरबहुत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ १०॥ अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर ॥ ११॥ माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ १२॥ ईश्वरोऽहं च सूत्रात्मा विराडात्माहमस्मि च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ १३॥ सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालोऽहं च तस्करः ॥ १४॥ व्याधोऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ १५॥ यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ १६॥ न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ १७॥ रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ १८॥ अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत्सत्तावान्नान्यथा भवेत् ॥ १९॥ हिमालय उवाच । यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ २०॥ व्यास उवाच । इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ २१॥ अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ २२॥ अपश्यंस्ते महादेव्या विराड्रूपं परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ २३॥ दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ २४॥ नभस्तलं नाभिसरो ज्योतिश्चक्रमुरःस्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ २५॥ तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ २६॥ नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतो बुधैः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ २७॥ ब्रह्मस्थानं भ्रूविजृम्भोऽप्यापस्तालुः प्र्कीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ २८॥ दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपाङ्गमोक्षः स्याद् व्रीडोर्ध्वोष्ठो महेशितुः ॥ २९॥ लोभः स्यादधरोष्ठोऽस्याधर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ ३०॥ कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः । नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ ३१॥ कौमारयौवनजरा वयोऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ ३२॥ राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रोऽन्तःकरणं स्मृतम् ॥ ३३॥ अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागतां गताः ॥ ३४॥ एतादृशं महारूपं ददृशुः सुरपुङ्गवाः । ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ ३५॥ दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ ३६॥ सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ ३७॥ भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ ३८॥ विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ ३९॥ अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ ४०॥ अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ ४१॥ बाष्पगद्गदया वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः । अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ ४२॥ कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ ४३॥ स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ ४४॥ नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके । सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ ४५॥ यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ ४६॥ यस्माच्च देवाः सम्भूताः साध्याः पक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ ४७॥ प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ ४८॥ सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ ४९॥ यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ ५०॥ यस्माद्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ ५१॥ नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ ५२॥ उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ ५३॥ व्यास उवाच । इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ ५४॥ पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ ५५॥ दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तचित्ताः प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ ५६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे श्रीदेवीविराड्रूपदर्शनसहितं देवकृततत्स्तववर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ७.३३॥

७.३४ चतुस्त्रिंशोऽध्यायः । देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनम् ।

श्री देव्युवाच । क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १॥ न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २॥ प्रकृतं श‍ृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३॥ क्रियाः करोति विविधा धर्माधर्मैकहेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४॥ पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा । नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५॥ घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६॥ तस्मादज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७॥ पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८॥ न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे । प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९॥ अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १०॥ तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११॥ ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः । सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२॥ इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् । ज्ञानाधृद्ग्रन्थिभेदः स्याद्धृद्ग्रन्थौ कर्मसम्भवः ॥ १३॥ यौगपद्यं न सम्भाव्यं विरोधात्तु ततस्तयोः । तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ १४॥ तस्मात् सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५॥ शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः । तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६॥ तदन्ते चैव संन्यस्य संश्रयेद् गुरुमात्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७॥ वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः । तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८॥ तत्त्वमस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९॥ पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत्पदस्य च वाक्यार्थो गिरेऽहं परिकीर्तितः ॥ २०॥ त्वं पदस्य च वाच्यार्थो जीव एव न संशयः । उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१॥ वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह । लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२॥ चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३॥ देवदत्तः स एवायमितिवल्लक्षणा स्मृता । स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ २४॥ पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५॥ मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः । सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६॥ ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७॥ अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः । द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८॥ अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः । देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९॥ उपाधिविलये जाते केवलात्मावशिष्यते । देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ ३०॥ पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते । नेतिनेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१॥ न जायते म्रियते तत्कदाचि- न्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ ३२॥ हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ३३॥ अणोरणीयान्महतो महीया- नात्मास्य जन्तोर्निहितो गुहायाम् । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमस्य ॥ ३४॥ आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६॥ यस्त्वविद्वान्भवति चामनस्कश्च सदाशुचिः । न तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ३८॥ विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९॥ इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना । भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ ४०॥ योगवृत्तेः पुरा स्वस्मिन्भावयेदक्षरत्रयम् । देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ ४१॥ हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारोऽहं तुरीयकम् ॥ ४२॥ एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३॥ समाधिकालात्पूर्वं तु भावयित्वैवमादृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४॥ प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ ४५॥ भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६॥ रकारं तैजसं देवमीकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ ४७॥ वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८॥ इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ ४९॥ योगयुक्त्यानया दृष्ट्वा मामात्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ज्ञानस्य मोक्षहेतुत्ववर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ७.३४॥

७.३५ पञ्चत्रिंशोऽध्यायः । देवीगीतायां मन्त्रसिद्धिसाधनवर्णनम् ।

हिमालय उवाच । योगं वद महेशानि साङ्गं संवित्प्रदायकम् । कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १॥ श्रीदेव्युवाच । न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ २॥ तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ ३॥ योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततः परम् ॥ ४॥ प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ ५॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ६॥ तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ७॥ दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ ८॥ वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ ९॥ अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ १०॥ जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे । ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ११॥ सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत् ॥ १२॥ भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ १३॥ करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ १४॥ ऋजुकायो विशेद्योगी वीरासनमितीरितम् । इडयाऽऽकर्षयेद्वायुं बाह्यं षोडशमात्रया ॥ १५॥ धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया । सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ॥ १६॥ नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः ॥ १७॥ भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ १८॥ जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ १९॥ क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः । मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ॥ २०॥ उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ २१॥ बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते । अङ्गुष्ठगुल्फजानूरुमूलाधोलिङ्गनाभिषु ॥ २२॥ हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ २३॥ धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ २४॥ आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ २५॥ समाधिमाहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् । इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ २६॥ विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ २७॥ तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ २८॥ प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्ररूपिणी । इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ २९॥ शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा । दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ ३०॥ सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ ३१॥ मध्ये स्वयम्भूलिङ्गं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ ३२॥ तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ ३३॥ तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ ३४॥ तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ ३५॥ मूलमाधारषट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ ३६॥ तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ ३७॥ मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ ३८॥ विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् । तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ ३९॥ कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ४०॥ शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ ४१॥ आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम् ॥ ४२॥ स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ४३॥ विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वं तु आत्मनाधिष्ठितं परम् ॥ ४४॥ आज्ञासङ्क्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ ४५॥ कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ ४६॥ सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ ४७॥ आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ ४८॥ लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् । शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् ॥ ४९॥ तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिं मायाख्यां योगसिद्धिदाम् ॥ ५०॥ षड्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ ५१॥ एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् । पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ ५२॥ जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् । ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ ५३॥ ते गुणाः साधकवरे भवन्त्येव न चान्यथा । इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ ५४॥ इदानीं धारणाख्यं तु श‍ृणुष्वावहितो मम । दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ ५५॥ तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न सिद्ध्यति ॥ ५६॥ तदावयवयोगेन योगी योगान्समभ्यसेत् । मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ ५७॥ चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ ५८॥ यावन्मनो लयं याति देव्यां संविदि पर्वत । तावदिष्टमनुं मन्त्री जपहोमैः समभ्यसेत् ॥ ५९॥ मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते । न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ ६०॥ द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् । तमः परिवृते गेहे घटो दीपेन दृश्यते ॥ ६१॥ एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ ६२॥ गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां मन्त्रसिद्धिसाधनवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ७.३५॥

७.३६ षट्त्रिंशोऽध्यायः । देवीगीतायां ब्रह्मविद्योपदेशवर्णनम् ।

देव्युवाच । इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १॥ आविः सन्निहितं गुहाचरं नाम महत्पदम् । अत्रैतत्सर्वमर्पितमेजत्प्राणमिषच्च यत् ॥ २॥ एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ ३॥ तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ ४॥ धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ५॥ प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ६॥ यस्मिन् द्यौश्च पृथिवी चान्तरिक्ष- मोतं मनः सह प्राणैश्च सर्वैः । तमेवैकं जानथात्मानं अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ ७॥ अरा इव रथनाभौ संहता यत्र नाड्यः । स एषोऽन्तश्चरते बहुधा जायमानः ॥ ८॥ ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ ९॥ मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ १०॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ११॥ हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ १३॥ ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ १४॥ एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ १५॥ द्वितीयाद्वै भयं राजंस्तदभावाद् बिभेति न । न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ १६॥ अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ १७॥ नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ १८॥ मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ १९॥ विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ २०॥ कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ २१॥ शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ २२॥ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ २३॥ यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ २४॥ पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ २५॥ तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ २६॥ तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ २७॥ अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ २८॥ अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ २९॥ पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप । लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ ३०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां ब्रह्मविद्योपदेशवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ७.३६॥

७.३७ सप्तत्रिंशोऽध्यायः । देवीगीतायां भक्तिमहिमावर्णनम् ।

हिमालय उवाच । स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि । जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ १॥ देव्युवाच । मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ २॥ त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा । सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ ३॥ गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । परपीडां समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ ४॥ मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी । परपीडादिरहितः स्वकल्याणार्थमेव च ॥ ५॥ नित्यं सकामो हृदयं यशोऽर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ ६॥ भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ ७॥ परमेशार्पणं कर्म पापसङ्क्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ ८॥ इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः । करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ ९॥ परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ १०॥ अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ ११॥ कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा ॥ १२॥ हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ १३॥ मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावात्तत्र मोक्षं न वाञ्छति ॥ १४॥ परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ १५॥ मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ १६॥ चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ १७॥ नमते यजते चैवाप्याचाण्डालान्तमीश्वर । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ १८॥ मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ १९॥ मायि प्रेमाकुलमती रोमाञ्चिततनुः सदा । प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ २०॥ अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ २१॥ व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ २२॥ मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा । जायते यस्य नियतं स्वभावादेव भूधर ॥ २३॥ उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ २४॥ प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ २५॥ इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ २६॥ इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ २७॥ भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ २८॥ भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ २९॥ तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ ३०॥ तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः ॥ ३१॥ मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ ३२॥ कण्ठचामीकरसममज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ ३३॥ विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथादर्शे तथात्मनि यथा जले तथा पितृलोके ॥ ३४॥ छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥ ३५॥ यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥ ३६॥ शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ ३७॥ अनेकजन्मभी राजंज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ ३८॥ नोचेन्महान् विनाशः स्याज्जन्मैतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा ॥ ३९॥ शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ ४०॥ तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ ४१॥ साधने सफलेऽप्येवं जायमानेऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ ४२॥ तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ ४३॥ घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ ४४॥ ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ ४५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां भक्तिमहिमावर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ७.३७॥

७.३८ अष्टत्रिंशोऽध्यायः । देवीगीतायां महोत्सवव्रतस्थानवर्णनम् ।

हिमालय उवाच । कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ १॥ व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ २॥ श्रीदेव्युवाच । सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३॥ तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते । श‍ृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४॥ कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५॥ तुलजापुरं तृतीयं स्यात्सप्तश‍ृङ्गं तथैव च । हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च ॥ ६॥ शाकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ ७॥ विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ ८॥ भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव ॥ ९॥ नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके । जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १०॥ गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदम्बरे ॥ ११॥ वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् । एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ १२॥ महालसा परं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ १३॥ वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ १४॥ श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ १५॥ नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ १६॥ तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ १७॥ तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ १८॥ गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् । अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ १९॥ नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी । पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ २०॥ चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी । भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ २१॥ चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता । जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ २२॥ शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे । केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ २३॥ भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता । स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले ॥ २४॥ कनखले भवेदुग्रा विश्वेशा विमलेश्वरे । अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ २५॥ भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः । भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ २६॥ अविमुक्ते विशालाक्षी महाभागा महालये । गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ २७॥ उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके । कमलालये तु कमला प्रचण्डा छगलण्डके ॥ २८॥ कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी । मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ २९॥ शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे । ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी ॥ ३०॥ प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च । तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ ३१॥ तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ ३२॥ अतस्तत्र वसेन्नित्यं देवीभक्तिपरायणः । तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ ३३॥ ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् । इमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ ३४॥ भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ ३५॥ मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् । अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ ३६॥ नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः । व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ ३७॥ आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतं च यत् । शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥ ३८॥ भौमवारव्रतं चैव प्रदोषव्रतमेव च । यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ ३९॥ नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे । तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम् ॥ ४०॥ प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ ४१॥ तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ ४२॥ एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ ४३॥ प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत दोलोत्सवसुखान्विभो ॥ ४४॥ शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ ४५॥ पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ ४६॥ मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ ४७॥ वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ ४८॥ स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् । नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ४९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां महोत्सवव्रतस्थानवर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ७.३८॥

७.३९ एकोनचत्वारिंशोऽध्यायः । देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनम् ।

हिमालय उवाच । देवदेवि महेशानि करुणासागरेऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ १॥ श्रीदेव्युवाच । वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् । अत्यन्तश्रद्धया सार्धं श‍ृणु पर्वतपुङ्गव ॥ २॥ द्विविधा मम पूजा स्याद् बाह्या चाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ ३॥ वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ ४॥ तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ ५॥ करोति यो नरो मूढः स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ ६॥ यन्मे साक्षात्परं रूपं दृष्ट्वानसि भूधर । अनन्तशीर्षनयनमनन्तचरणं महत् ॥ ७॥ सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद् ध्यायेत्स्मरेदपि ॥ ८॥ इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग । शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ ९॥ तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ १०॥ अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ ११॥ इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ १२॥ प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ १३॥ प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ १४॥ श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ १५॥ सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ १६॥ स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ १७॥ क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ १८॥ अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ १९॥ तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ २०॥ सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ २१॥ मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ २२॥ अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ २३॥ ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत् ॥ २४॥ यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ २५॥ ब्राह्मणैर्न च सम्भाष्याः पङ्क्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ २६॥ श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः ॥ २७॥ शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ २८॥ दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ २९॥ शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ ३०॥ तत्र वेदाविरुद्धांशोऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ ३१॥ सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ ३२॥ तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ३३॥ सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ ३४॥ मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ ३५॥ उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् । तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ ३६॥ ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ ३७॥ स्वरूपमुक्तं सङ्क्षेपाद् द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ ३८॥ जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ ३९॥ सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमां तां सर्वावयवसुन्दरीम् ॥ ४०॥ श‍ृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ ४१॥ पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ ४२॥ यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ ४३॥ आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेव परं रूपमुपाधिरहितं मम ॥ ४४॥ अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ ४५॥ अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ ४६॥ अतः परं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा श‍ृणु पर्वतसत्तम ॥ ४७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां श्रीदेव्याः पूजाविधिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ७.३९॥ अध्याय एकोणचाळिसावा समाप्त

७.४० चत्वारिंशोऽध्यायः । देवीगीतायां बाह्यपूजाविधिवर्णनम् ।

श्री देव्युवाच । प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १॥ सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ २॥ प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणेऽप्यमृतायमानाम् । अन्तः पदव्यामनुसञ्चरन्ती- मानन्दरूपामबलां प्रपद्ये ॥ ३॥ ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ ४॥ अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ ५॥ भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ ६॥ मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ ७॥ तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ ८॥ ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ ९॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ १०॥ पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा ॥ ११॥ ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ १२॥ जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ १३॥ जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ १४॥ तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ १५॥ आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ १६॥ स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ १७॥ यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ १८॥ मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ १९॥ पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ २०॥ नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ २१॥ कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ २२॥ महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ २३॥ पुलकाङ्कितसर्वाङ्गैर्बाष्परुद्धाक्षिनिःस्वनः । नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ २४॥ वेदपारायणैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ २५॥ निजं सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ २६॥ बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ २७॥ सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत । हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ २८॥ हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता । तस्माद्धृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ २९॥ गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ ३०॥ न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ ३१॥ ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन् महादेव्याः प्रपूजनम् ॥ ३२॥ विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ ३३॥ इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ ३४॥ एतत्प्रकाशनं मातुरुद्घाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ ३५॥ देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ ३६॥ श्राद्धकाले पठेदेतद्ब्राह्मणानां समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ ३७॥ व्यास उवाच । इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ ३८॥ ततो हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ ३९॥ ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ ४०॥ तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ ४१॥ वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमोऽभवत् । इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ ४२॥ गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ ४३॥ गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ । पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ४४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां सप्तमस्कन्धे देवीगीतायां बाह्यपूजाविधिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ७.४०॥ ॥ इति श्रीमद्देवीभागवते महापुराणे सप्तमस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 07
% File name             : devIbhAgavatam07.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 07
% engtitle              : devIbhAgavatamahApurANam skandhaH 07
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org