मुद्गलपुराणं खण्डः ४ गजाननचरितम्

मुद्गलपुराणं खण्डः ४ गजाननचरितम्

॥ मुद्गलपुराणं खण्डः ४॥ ॥ अथ श्रीमुद्गलपुराणे चतुर्थः खण्डः प्रारभ्यते ॥ (Page खं. ४ अ. १ पान १)

४.१ चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । त्वया सूत महाप्राज्ञ महोदरचरित्रकम् । कथितं शान्तिदं मोहनाशकं संश्रुतं मया ॥ १॥ तथा तृप्तिं न याम्येव पायं पायं सुधामिव । नानेन सदृशं किञ्चिच्छान्तिदं विद्यते द्विज ॥ २॥ अतो गजाननस्यापि चरित्रं वद विस्तरात् । सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः ॥ ३॥ मुद्गलस्य च दक्षस्य संवादं वद मानद । किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना ॥ ४॥ सूत उवाच । श‍ृणु भार्गव विप्रेन्द्र महाज्ञानकरं प्रभो । गजाननस्य माहात्म्यं कथयामि यथा श्रुतम् ॥ ५॥ श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् । मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने ॥ ६॥ मुद्गलं पुनरप्याह योगीन्द्रं वेदपारगम् । विनयेन समायुक्तो गणेशज्ञानलालसः ॥ ७॥ दक्ष उवाच । महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः । तेनाऽऽनन्दसमायुक्तः कृतोऽहं योगिना त्वया ॥ ८॥ अधुना वद विप्रेश गजाननचरित्रकम् । कीदृशोऽवतरद्देवः कीदृशं ब्रह्म तत्र च ॥ ९॥ किमर्थं देहधारी स बभूव मुनिसत्तम । किं कर्मा किं गुणज्ञश्च वद सर्वं महामते ॥ १०॥ पूर्वपुण्यप्रभावेण सङ्गतिस्ते प्रजायते । धन्योऽहं सर्वभावेन श‍ृणोमि च कथां शुभाम् ॥ ११॥ सूत उवाच । दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना । तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः ॥ १२॥ मुद्गल उवाच । श‍ृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः । कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम् ॥ १३॥ तव भावेन सन्तुष्टो वदामि सकलं प्रभो । गजाननस्य माहात्म्यं योगशान्तिपदप्रदम् ॥ १४॥ साङ्ख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम् । तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते ॥ १५॥ बिन्दुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम् । तयोरभेदको बोधो बभावेव स देहवान् ॥ १६॥ त्रिविधेषु स्थितो देवो तथापि तद्विवर्जितः । विदेहो गजवक्त्रश्च शोभत साङ्ख्यधारकः ॥ १७॥ बोधत्यागे महाभाग कः सङ्ख्यां कुरुते वद । ब्रह्मणां तेन साङ्ख्यं तद्ब्रह्म वेदे प्रकाशितम् ॥ १८॥ लोभासुरविनाशाय प्रकटोऽभूद्गजाननः । देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः ॥ १९॥ चतुर्थ्यां मध्यगे भानौ देहधारी समागतः । सा तिथिः परमा तस्य प्रीतिदा सम्बभूव वै ॥ २०॥ सूत उवाच । इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने । जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये ॥ २१॥ दक्ष उवाच । का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो । गणनाथप्रियाऽत्यन्तं बभूव कथमेव सा ॥ २२॥ पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम् । अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम् ॥ २३॥ दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः । मुद्गलस्तमथोवाच चतुर्थीसम्भवां कथाम् ॥ २४॥ (Page खं. ४ अ. १ पान २) मुद्गल उवाच । सङ्क्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम् । गणनाथप्रियं पूर्णं ज्ञास्यसि त्वं प्रजापते ॥ २५॥ पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः । स्थितानां तत्र जन्तूनां कालार्थं स दधे मनः ॥ २६॥ नानाकार्यप्रसिद्ध्यर्थं सञ्चिन्त्य गणपं हृदि । अभवद्ध्यानमास्थाय संस्थितश्चिन्तयान्वितः ॥ २७॥ ततस्तस्य शरीराद्वै निःसृता प्रकृतिः परा । महामाया तिथीनां सा जननी कामरूपिणी ॥ २८॥ चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम् । चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः ॥ २९॥ ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम् । नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना ॥ ३०॥ प्रकृतिरुवाच । तवाङ्गनिःसृतां मां त्वं विद्धि ब्रह्माण्डनायक । आज्ञां कुरु पितर्मां च कुर्वेऽहं भावयन्त्रिता ॥ ३१॥ स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो । मह्यं देव दयासिन्धो नमस्ते परमेश्वर ॥ ३२॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः । सृष्टिं गणेशं सञ्चिन्त्य विचित्रां कुरु मानदे ॥ ३३॥ स तस्यै गणनाथस्य ददौ मन्त्रं षडक्षरम् । सविधिं सा नमस्कृत्य ययौ तं वनमादरात् ॥ ३४॥ तताप तप उग्रं सा नासाग्रनयना सती । गणेशं हृदि सन्ध्याय जजाप मन्त्रमुत्तमम् ॥ ३५॥ प्रजापते गते वर्षसहस्रे तु गजाननः । आययौ तां महाभागामगदद्भक्तवत्सलः ॥ ३६॥ गणेश उवाच । वरान् वृणु महाभागे बहून् मनसि वाञ्छितान् । निराहारेण सन्तुष्टो ददामि तपसा च ते ॥ ३७॥ तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम् । गजाननं प्रसम्पूज्य तुष्टाव च कृताञ्जलिः ॥ ३८॥ प्रकृतिरुवाच । नमस्ते विघ्ननाथाय गणेशाय परात्मने । अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ ३९॥ नमो मूषकवाहाय मूषकध्वजिने नमः । स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ ४०॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ ४१॥ सर्वादये सदा सर्वपूज्याय भक्तपालका । ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥ ४२॥ ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः । सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥ ४३॥ चतुर्भुजाय हेरम्ब परशोर्धारकाय ते । अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः ॥ ४४॥ रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते । तामसाय महाहन्त्रे गुणेशाय नमो नमः ॥ ४५॥ स्थावराय चरायैव चराचरमयाय ते । चराचरविहीनाय बोधाय च नमो नमः ॥ ४६॥ चतुर्विधस्वरूपाय चतुर्विधसुखप्रद । चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥ ४७॥ विनायकाय सर्वेषां नायकाय नमो नमः । गजाननाय देवाय देवदेवेश ते नमः ॥ ४८॥ किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् । यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥ ४९॥ तवदर्शनबोधेन तथापि संस्तुतो मया । तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥ ५०॥ इति स्तुत्वा गणेशानं दण्डवत् प्रणनाम तम् । तामुत्थाप्य गणाधीश उवाच व्रतमातरम् ॥ ५१॥ (Page खं. ४ अ. २ पान ३) गणेश उवाच । वरं वृणु महाभागे यं यमिच्छसि शोभने । तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥ ५२॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥ ५३॥ एककालं द्विकालं वा त्रिकालं लभते सदा । अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥ ५४॥ ब्रुवन्तं गणनाथं सोवाच गम्भीरनिःस्वना । देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥ ५५॥ देव्युवाच । वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् । भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥ ५६॥ सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते । सदा तव प्रियत्वं मे वियोगो न च ते भवेत् ॥ ५७॥ ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः । चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥ ५८॥ तिथीनां मातृभावेन चतुर्थी संज्ञिता भव । वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥ ५९॥ मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः । सदा तव व्रते संस्थान् पालयामि विशेषतः ॥ ६०॥ मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि । व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते ॥ ६१॥ एवमुक्त्वा गणेशानोंऽतर्धानं प्रचकार ह । व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः ॥ ४.१

४.२ शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे । ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः ॥ १॥ वामभागं कृष्णवर्णं दक्षिणाङ्गं तथा बभौ । शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥ २॥ पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे । ततस्तस्या मुखाम्भोजात् प्रतिपन्निःसृता तिथिः ॥ ३॥ नासिकायां द्वितीया वै वक्षसश्च तृतीयिका । अङ्गुलीभ्यस्तथा दक्ष पञ्चमी चाभवत्तिथिः ॥ ४॥ उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ । अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः ॥ ५॥ नवमी तिथिरुत्पन्ना उदराच्च प्रजापते । दशमी कर्णदेशाद्वै कण्ठाच्चैकादशी मता ॥ ६॥ द्वादशी पादयोस्तस्याः समुत्पन्ना तथा विभो । स्तनात् त्रयोदशी तस्या अहङ्काराच्चतुर्दशी ॥ ७॥ मनसः पूर्णिमा जाता अमावास्या तथाऽभवत् । जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥ ८॥ कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः । तिथयोः दशपञ्चाख्या ज्ञातव्या विबुधैः किल ॥ ९॥ शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः । तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः ॥ १०॥ दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः । स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥ ११॥ (Page खं. ४ अ. २ पान ४) तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता । गणेशमभजन्नित्यं मन्त्रध्यानपरायणा ॥ १२॥ वर्षेणैकेन विघ्नेशस्तां ययौ भक्तवत्सलः । शुक्लां मध्याह्नसमये कृष्णां चन्द्रोदये तथा ॥ १३॥ वरं ब्रूहि गणेशानस्तामुवाच विशेषतः । प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगाद सा ॥ १४॥ चतुर्थ्युवाच । त्वदेकनिलयां देव मां कुरुष्व गजानन । नान्यं याचे वरं स्वामिन् भक्तिमिच्छामि शाश्वतीम् ॥ १५॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया ॥ १६॥ अतो मध्याह्नकालेऽन्ये मां भजन्ते शिवादयः । चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः ॥ १७॥ मदीयव्रतमुख्यत्वे भव त्वं सर्वभावतः । निराहारेण मां तत्र त्वद्युक्तं पर्युपासते ॥ १८॥ चतुर्विधं प्रदास्यामि नानाभावनियन्त्रितम् । सञ्चितं नास्ति चेद्देवि तथाप्यत्र न संशयः ॥ १९॥ सञ्चितं चास्ति चेद्वापि ददासि त्वं महामते । अतस्ते नाम विख्यातं वरदेति भविष्यति ॥ २०॥ त्वां पूजयन्ति ये नैव मद्युक्तां व्रतभावतः । तेषां व्रतानि सर्वाणि निष्फलानि भवन्तु वै ॥ २१॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो देवनायकः । तदादि सा तिथिः ख्याता वरदा च प्रजापते ॥ २२॥ गणेशस्य प्रियाऽत्यन्तमिति जन्मतिथिः स्मृता । तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः ॥ २३॥ पञ्चम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम् । चतुर्विधं फलं तैश्च सम्प्राप्तं नात्र संशयः ॥ २४॥ यद्यदिच्छति तत्तत् स लभते व्रतकारकः । अन्ते स्वानन्दगो भूत्वा सायुज्यं ब्रह्मणस्तथा ॥ २५॥ तत्र व्रते नराः पापा अन्नं भक्षन्ति चेत् प्रियम् । नारकास्ते भविष्यन्ति हीना अन्नैः पुनर्जनौ ॥ २६॥ एवं वरं चतुर्थ्यै स ददौ विघ्नविदारणः । सा तिथिः सर्वमान्या च बभूव व्रतमूलगा ॥ २७॥ ततः कृष्णां चतुर्थीं स जगाद गणनायकः । वरं वृणु महाभागे दास्यामि मनसीप्सितम् ॥ २८॥ श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम् । स्तुत्वा जगाद वाक्यं वै हर्षेण महता युता ॥ २९॥ कृष्णचतुर्थ्युवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा भक्तिं दृढां देहि त्वदीयां मे महोदर ॥ ३०॥ त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे । सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः ॥ ३१॥ तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः । सदा मम प्रियाऽत्यन्तं भविष्यसि महातिथे ॥ ३२॥ चन्द्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके । तत् काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम् ॥ ३३॥ न वियोगो भवेद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ ३४॥ प्रहरान् पञ्च मद्भक्ताः प्रियेऽन्नजलवर्जिताः । उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ ३५॥ चतुर्विधं स्वसङ्कष्टं जन्म मृत्युश्च कर्मजम् । व्रतिनां तत्फलं कर्म विद्यते न कदाचन ॥ ३६॥ इत्यादि विविधं देवि विशेषेण चतुर्विधम् । (Page खं. ४ अ. २ पान ५) सङ्कष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥ ३७॥ न सङ्कष्टं कदाचिद्वै व्रतकारि नरस्य च । भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्तसेविनः ॥ ३८॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् । सङ्कष्टहरणी नाम भवेत्तव चतुर्थिके ॥ ३९॥ न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः । निष्फलं सकलं तस्य भजनं वै भविष्यति ॥ ४०॥ त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते । व्रतादिकं निष्फलकं तेषां सर्वं भविष्यति ॥ ४१॥ वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् । तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥ ४२॥ यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् । सङ्कष्टहरणं देवि स्वानन्दार्थं न संशयः ॥ ४३॥ अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् । रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥ ४४॥ श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम् । निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥ ४५॥ मार्गशीर्षे जलाहारः पौषे गोमूत्रभक्षणम् । माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥ ४६॥ पञ्चगव्यं मधौ मासे वैशाखे पद्मबीजकम् । ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥ ४७॥ यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् । अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम् ॥ ४८॥ याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् । प्रातःकृत्यं सुसङ्क्षेपात् कर्तव्यं तन्नरेण वै ॥ ४९॥ तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च । चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥ ५०॥ एवं कर्मादिकं कृत्वा मां सम्पूज्याल्पमन्त्रतः । प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥ ५१॥ चन्द्रोदयस्य पर्यन्तं शमीमूले जपं जपेत् । मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत् ॥ ५२॥ सायाह्नकालजं कर्म तत्र कुर्यान्नरोत्तमः । विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥ ५३॥ आदौ तेऽर्ध्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् । ततः सप्तार्घ्यदानं व्रती चन्द्राय समाचरेत् ॥ ५४॥ ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम् । मोदकापूपलड्डूकपायसादिभिरादरात् ॥ ५५॥ रात्रौ जागरणं कुर्यान् मदीयकथयान्वितः । पञ्चम्यामुपचारैः सम्पूजयन् मां प्रयत्नतः ॥ ५६॥ एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् । भविष्यत्यमरैर्मान्योंऽते ब्रह्मणि लयं व्रजेत् ॥ ५७॥ यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः । तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥ ५८॥ शुक्लां कृष्णां चतुर्थीं ये करिष्यन्त्यमरादयः । सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥ ५९॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥ ४.२

४.३ प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति । उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥ १॥ श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम् । पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥ २॥ प्रतिपदाद्या उचुः । यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन । किं कर्तव्यं दयासिन्धो अस्माभिर्वद साम्प्रतम् ॥ ३॥ स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम् । भक्तिं त्वदीयपादाब्जे सर्वं मान्यं त्वया प्रभो ॥ ४॥ तासां वचनमाकर्ण्य जगाद गणनायकः । ताः श‍ृणु त्वं प्रजानाथ सर्वेषां हितकारकम् ॥ ५॥ गणेश उवाच । मदीया भक्तिरत्यन्तं भविष्यति न संशयः । भवतीनां महाभागास्तिथयः पुण्यभागिकाः ॥ ६॥ मत्कलांशसमुद्भूता देवास्तान् प्रीणयन्तु वै । भवतीभिर्युता देवा नराणां प्रीतिदाऽस्तु च ॥ ७॥ सदा वह्निं प्रतिपदि पूजयिष्यन्ति ये नराः । हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥ ८॥ उपोषणं करिष्यन्ति तैश्च देवाः सहेश्वराः । तोषितास्ते सदा तेभ्यो दास्यन्ति मनसीप्सितम् ॥ ९॥ ते मृताः सङ्गमिष्यन्त्यग्निलोके भोगकारकाः । अग्नितुल्यप्रकाशेन विमानेन विहायसा ॥ १०॥ चरिष्यन्ति न सन्देहः प्रतिपद्व्रतकारकाः । ब्रह्मार्पणस्वभावेन गमिष्यन्ति मदात्मनि ॥ ११॥ द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ । पत्राहारसमायुक्तो रूपवान् जायते किल ॥ १२॥ इह भुक्त्वाऽखिलान् भोगानन्ते तल्लोकमाप्नुयात् । द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥ १३॥ ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत् । स स्वानन्दे मदीये वै लीनश्चैव भविष्यति ॥ १४॥ तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः । सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहारवर्जितः ॥ १५॥ स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति । ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥ १६॥ पञ्चम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः । पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥ १७॥ स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति । निष्कामेन मदीये वै लोकेंऽते आगमिष्यति ॥ १८॥ षष्ठ्यां स्कन्दं फलाहारः पूजयेद्भक्तिसंयुतः । स्कन्दलोके चरेत् सोऽपि महाभोगपरायणः ॥ १९॥ निष्कामभावयुक्तश्चेत् स्वानन्देंऽते गमिष्यति । शुक्लगत्याः क्रमेणैव सर्वभावनियन्त्रितः ॥ २०॥ सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः । स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥ २१॥ निष्कामव्रतकारी चेन् महालयसमुत्थिते । स्वानन्दे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥ २२॥ अष्टम्यां मातृकानां यः पूजको भावसंयुतः । बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥ २३॥ मदर्पणस्वभावेन सदा व्रतपरायणः । अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते ॥ २४॥ नवम्यामेव दुर्गायाः पूजनं यः समाचरेत् । पिष्टाशी भोगसंयुक्तोंऽते तल्लोकमवाप्नुयात् ॥ २५॥ (Page खं. ४ अ. ३ पान ७) ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति । शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥ २६॥ दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः । दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥ २७॥ इह भुक्त्वाऽखिलात् भोगानन्ते तल्लोकमाप्नुयात् । निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥ २८॥ एकादश्यां नरो भक्षेद्वह्निपक्वविवर्जितम् । धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा ॥ २९॥ स वै तस्य वसेल्लोके नानाभोगकरः सदा । ब्रह्मार्पणतया तद्वद्व्रतं कृत्वा सुखी भवेत् ॥ ३०॥ विष्णुं सम्पूजयेद्यो वै द्वादश्यां घृतभोजनः । स विकुण्ठे वसेन्नित्यं नानाभोगपरायणः ॥ ३१॥ ब्रह्मार्पणविधानेन व्रतं कुर्याद्यदा नरः । महालये मदीये स लोके ब्रह्ममयो भवेत् ॥ ३२॥ धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः । स धर्मलोकगो भूत्वा भुञ्जीत विविधं सुखम् ॥ ३३॥ ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी । स स्वानन्दे समागम्य ब्रह्मभूतो भविष्यति ॥ ३४॥ चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः । उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥ ३५॥ करिष्यति च कैलासे वासस्तस्य भविष्यति । निष्कामश्चेत्तदन्ते स मल्लोके मन्मयो भवेत् ॥ ३६॥ पूर्णिमायां देवगणान् देवांश्चद्रमसं तथा । पूजयेद्भक्तिभावेन चन्द्रलोकं स आप्नुयात् ॥ ३७॥ इह भुक्त्वाऽखिलान् भोगानन्ते देवान् गमिष्यति । निष्कामनो मदीये स लोके ब्रह्ममयो भवेत् ॥ ३८॥ उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति । चन्द्राय निशिभुग् वाऽपि सर्वदेवपरायणः ॥ ३९॥ सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता । चान्द्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥ ४०॥ अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः । उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ४१॥ अन्ते पितृमये लोके वसतिस्तस्य सम्भवेत् । आगमिष्यति निष्कामश्चेत् स्वानन्दे स तल्लये ॥ ४२॥ कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा । एवं भावयुतेनैव स सर्वार्थमवाप्नुयात् ॥ ४३॥ मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः । मत्कलांशयुतैर्देवैः संयुक्ताः प्रभवेत वै ॥ ४४॥ चतुर्थीं ये न कुर्वन्ति तेषां सर्वं निरर्थकम् । भवदीयव्रते संस्थं भविष्यति न संशयः ॥ ४५॥ अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः । तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥ ४६॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः । तथा जातं प्रजानाथ तिथियुक्तव्रतं सदा ॥ ४७॥ चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः । श‍ृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥ ४.३ (Page खं. ४ अ. ४ पान ८)

४.४ दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना श‍ृणु दक्ष त्वं संवादं तं पुरातनम् । दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥ १॥ येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे । महिम्नि निपुणोऽत्यन्तं सम्भवेर्ब्रह्मपुत्रक ॥ २॥ महायशा दशरथो वन्ध्यदोषभयार्दितः । वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥ ३॥ दशरथ उवाच । पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने । शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥ ४॥ ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् । कुलदेवं गणेशं ते भजस्व व्रतसंयुतः ॥ ५॥ वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह । पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥ ६॥ कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः । कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥ ७॥ कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने । वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥ ८॥ वसिष्ठ उवाच । चतुर्थी गणनाथस्य प्रियाऽत्यन्तं नृपोत्तम । शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥ ९॥ चन्द्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका । सा सङ्कष्टहरा प्रोक्ता चतुर्विधफलप्रदा ॥ १०॥ चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज । सङ्कष्टं तत् समाख्यातं बन्धनेन विशेषतः ॥ ११॥ इह भुक्त्वाऽखिलान् भोगान् सङ्कष्टीकरणान्नृप । सर्वसङ्कटहीनः स स्वानन्दे प्रगमिष्यति ॥ १२॥ यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते । प्रदोषव्यापिनी ग्राह्या सर्वसङ्कटमुक्तये ॥ १३॥ उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी । तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी ॥ १४॥ तृतीयायां प्रदोषाच्च चन्द्रस्योदयगा भवेत् । तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥ १५॥ शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः । सञ्चिताऽसञ्चितानां वै व्रतकारिजनाय च ॥ १६॥ धर्मार्थकाममोक्षाद्याश्चत्वारो ये पदार्थकाः । तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥ १७॥ मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका । उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥ १८॥ उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा । तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः ॥ १९॥ प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता । तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥ २०॥ चतुर्थीव्रतहीनस्य फलहीनानि भूमिप । व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥ २१॥ एतद्व्रतं महाभाग ब्रह्मणाऽऽचरितं पुरा । व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥ २२॥ विष्णुना शङ्करेणैव कृतं व्रतमनुत्तमम् । पालने हरणे देवौ समर्थौ तौ बभूवतुः ॥ २३॥ योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः । मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥ २४॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः । नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥ २५॥ अन्यैर्नानाविधैरेतत् कृतं वर्णाश्रमस्थितैः । (Page खं. ४ अ. ५ पान ९) ते सर्वे ब्रह्मभूता वै ययुः स्वानन्दके पुरे ॥ २६॥ एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः । भविताऽसि सपुत्रश्च तथा स्वानन्दगो भवेः ॥ २७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥ ४.४

४.५ चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् । गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात् ॥ १॥ दक्ष उवाच । वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् । श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥ २॥ दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः । जगाद तं विशेषज्ञो मुद्गलः श‍ृणु शौनक ॥ ३॥ वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च । जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥ ४॥ वसिष्ठ उवाच । कदाचित् प्रलये वृत्ते नष्टं स्थावरजङ्गमम् । पञ्चभूतमयं सर्वं व्यवस्थासंयुतं पुरा ॥ ५॥ शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ । योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥ ६॥ पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः । गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥ ७॥ त्रिगुणेभ्यः समुत्पन्ना देवाः पञ्च नृपेश्वर । ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥ ८॥ तैस्तपश्चरितं घोरमेकाक्षरविधानतः । तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह ॥ ९॥ हृदये दर्शयामास स्वात्मानं सर्वदं परम् । तेन ज्ञानयुता जाता देवाः पञ्च नरेश्वर ॥ १०॥ तैश्च सम्प्रार्थितो योगी भृशुण्डी सर्वपारगः । तेन सम्प्रेषिता देवा आययुर्नगरे निजे ॥ ११॥ कर्मभूमौ गणेशस्य क्षेत्रं स्वानन्दवाचकम् । वेदैः सन्दर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥ १२॥ यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् । तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥ १३॥ मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह । तत आराधितस्तैः स गणराजो विशेषतः ॥ १४॥ माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम । प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥ १५॥ वरप्रसादेन तस्य निर्मितं सकलं जगत् । देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥ १६॥ ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका । आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥ १७॥ ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा । तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी ॥ १८॥ अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका । चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा ॥ १९॥ तत्र भाद्रपदे मासे चतुर्थी या महामते । शुक्ला साऽत्यन्तभावेन मुख्या जाताऽद्य भावतः ॥ २०॥ (Page खं. ४ अ. ५ पान १०) चतुर्थी समभावेन न किञ्चिद्वर्तते व्रतम् । अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥ २१॥ भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत् । स द्वादशचतुर्थीसम्भवं पुण्यं समाप्नुयात् ॥ २२॥ अङ्गारकयुता भूप सा नरेण कृता भवेत् । चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः ॥ २३॥ नरेण धीमता सा चेद्यदि चन्द्रयुता कृता । चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥ २४॥ यदि स्वातियुता भूप चन्द्रवारेण चेत्कृता । प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥ २५॥ माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः । अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥ २६॥ अङ्गारकयुता चेद्वै साधिता सा नरेण च । द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम् ॥ २७॥ ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः । चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥ २८॥ अङ्गारकयुता चेद् द्वादशभिः समतां व्रजेत् । नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥ २९॥ अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता । धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु सम्मतम् ॥ ३०॥ तत्र श्रावणमासे या चतुर्थी वरदा मता । द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे ॥ ३१॥ चतुर्थ्या महिमाऽनन्तोऽशक्यो वर्णयितुं भवेत् । चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥ ३२॥ अधुना श‍ृणु राजेन्द्र कृष्णपक्षे समागताम् । चतुर्थीं सर्वदां पुण्यां सङ्कष्टहरिणीं शुभाम् ॥ ३३॥ चतुर्विधं च सङ्कष्टं प्राप्तं सर्वैर्नराधिप । जन्ममृत्युव्यवस्थाख्यं चतुर्थं कर्मजं फलम् ॥ ३४॥ इत्यादिबहवो भेदाः कथनं नैव शक्यते । चतुर्विधं जगत् सर्वं पञ्चमं ब्रह्म उच्यते ॥ ३५॥ चतुर्विधं सुसङ्कष्टं व्रतमात्रेण हन्ति या । सङ्कष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥ ३६॥ तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् । सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥ ३७॥ माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना । अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥ ३८॥ अङ्गारकयुता तत्र विंशत्या समतां व्रजेत् । साधिता व्रतभावेन चेन्नरेण नराधिप ॥ ३९॥ श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः ॥ ४०॥ ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका । आदौ देवमुनीन्द्रेभ्यः सर्वसङ्कष्टहारिणी ॥ ४१॥ भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा । चतुश्चतुर्थीतुल्या सा श‍ृणु कारणमत्र वै ॥ ४२॥ देवानां गणनाथश्च वरदः सम्बभूव ह । व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः ॥ ४३॥ अङ्गारकयुता कुत्र सम्प्राप्ता चेत् सुसिद्धिदा । द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे ॥ ४४॥ शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये । अन्यथा सिद्धिहीनानि प्रभवन्ति व्रतानि च ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः ॥ ४.५ (Page खं. ४ अ. ६ पान ११)

४.६ चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अङ्गारकयुता स्वामिन् कथं श्रेष्ठा बभूव सा । तन्मे ब्रूहि विशेषेण संशयोऽत्र महांश्च मे ॥ १॥ वसिष्ठ उवाच । भरद्वाजात् समुत्पन्नः पृथ्व्यां भौमो महामतिः । गणानां त्वेतिमन्त्रेण पूजयामास विघ्नपम् ॥ २॥ तताप स तपो रम्यं ध्यात्वा देवं गजाननम् । पारिनेराच्च नगरात् पश्चिमे वनसंस्थितः ॥ ३॥ शतवर्षैर्गणाध्यक्षः प्रसन्नस्तं ययौ नृप । वरं ब्रूहि महाभाग भूमिपुत्रेति सोऽब्रवीत् ॥ ४॥ ततो भौमो गणाधीशं पूजयन् भक्तिभावतः । स्तुत्वा तं स जगादेति वरं सर्वसुखप्रदम् ॥ ५॥ नरदेहेन युक्तोऽहं तथापि गणनायक । इच्छामि चामृतं पातुं ग्रहं मां कुरु मानद ॥ ६॥ तव भक्त्येकनिलयं नाम्ना मङ्गलसंज्ञकम् । ऋणहर्तारमेवं मां प्रभो कुरु धनप्रदम् ॥ ७॥ माघकृष्णचतुर्थ्यां यद्दर्शनं ते मया कृतम् । मया युक्ता ततो देवी महापुण्यप्रदाऽस्तु सा ॥ ८॥ तथेति गणनाथेन कृतं सर्वं नराधिप । अतोंऽगारयुता पुण्या चतुर्थी मुख्यतां गता ॥ ९॥ अधुना चेतिहासं ते कथयामि विशेषतः । भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यो निशाकरः ॥ १०॥ तत्र ते कारणं सर्वं कथयामि सविस्तरम् । येन दोषविहीनस्त्वं गणेशं भजसे नृप ॥ ११॥ एकदा देवसंयुक्तैर्मुनिभिश्चैव निश्चितम् । गणेशांशसमुद्भूताः पञ्च देवा न संशयः ॥ १२॥ ते गणेशस्वरूपाद्वै कदा भिन्ना भवन्ति न । तेषां स्मरणमात्रेण सन्तुष्टो गणनायकः ॥ १३॥ भविष्यति न सन्देहस्तस्मादादौ मुनीश्वराः । शिवादीन् पूजयत च तेन सिद्धिमवाप्स्यथ ॥ १४॥ एवं ज्ञानबलेनाज्ञैः कृतं देवैः सहर्षिभिः । पञ्चभिर्विष्णुमुख्यैस्तत्तथेति प्रतिपादितम् ॥ १५॥ ततः सर्वे मुनिगणाश्चक्रुस्ते तादृशीं क्रियाम् । तया सिद्धिविहीनास्ते भ्रान्ताः सर्वे बभूविरे ॥ १६॥ समागता देवगणैः ब्रह्माणं तुष्टुवुर्नृप । वृत्तान्तं कथयामासुः सोऽपि चिन्तातुरोऽभवत् ॥ १७॥ सस्मार शिवमुख्यांश्च ब्रह्माणं ते समाययुः । विष्णुः शिवोऽर्यमा शक्तिस्तेऽपि श्रुत्वा सुविस्मिताः ॥ १८॥ एतस्मिन्नन्तरे तत्र शब्दः सर्वभयङ्करः । बभूव तीव्रघोषेण युक्तः प्रलयसूचकः ॥ १९॥ शब्दं श्रुत्वा भयोद्विग्ना बभूवुः शम्भुमुख्यकाः । ततोऽकस्मान् महाभीमः पुरुषः प्रकटोऽभवत् ॥ २०॥ विकरालं च तं दृष्ट्वा मुमूर्च्छुः शङ्करादयः । मुनयो देवताः केऽपि पलायन्त च मूर्च्छिताः ॥ २१॥ मुहूर्तमात्रकाले वै गते ब्रह्मादयः सुराः । सावधाना बभूवुस्तं ददृशुः पुरतः स्थितम् ॥ २२॥ ततोऽतिभयसंयुक्तास्तुष्टुवुर्गणनायकम् । ध्यात्वा हृदि महद्रूपं गजवक्त्रादिचिह्नितम् ॥ २३॥ ब्रह्माद्या ऊचुः । नमस्ते गणनाथाय विघ्नानां पतये नमः । अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ २४॥ भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे । अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ २५॥ गजाननाय देवाय शूर्पकर्णाय ते नमः । महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६॥ (Page खं. ४ अ. ६ पान १२) सर्वादये महादात्रे सर्वपूज्याय वै नमः । सर्वभावस्थितायैव ढुण्ढिराजाय ते नमः ॥ २७॥ स्वानन्दवासिने तुभ्यं योगशान्तिमयाय च । योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥ २८॥ सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः । गणेशाय गुणानां वै चालकाय नमो नमः ॥ २९॥ आत्मनेऽनात्मने चैव कारणानां प्रकाशिने । ब्रह्मेशाय सदानाथ देवपालकरूपिणे ॥ ३०॥ निवारय महाविघ्नं सहसा समुपस्थितम् । ग्रसिष्यति न चेदण्डमस्मान् वै नात्र संशयः ॥ ३१॥ त्वदीयपादपद्मस्य वयं दासा गजानन । मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥ ३२॥ अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् । क्षमा गच्छन्ति नः प्राणा रक्ष विघ्नेश रक्ष भोः ॥ ३३॥ एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् । गणेशाकाररूपेण बभूव नृपसत्तम ॥ ३४॥ ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् । मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥ ३५॥ सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम् । योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका ॥ ३६॥ सञ्जीवनीं ददौ तस्मै भानुः सर्वप्रियङ्करः । एवं सम्पूज्य विघ्नेशं प्रणतास्ते महीपते ॥ ३७॥ उवाच तान् स उत्थाप्य विघ्नेशो भक्तिभावतः । विष्णुमुख्यान महेशांश्च मेघगम्भीरनिःस्वनः ॥ ३८॥ श्रीगणेश उवाच । शम्भुमुख्याः श‍ृणुत च देवेन्द्रा मुनिमुख्यकाः । मदीयांशा भवन्तोऽपि गर्वं मा कुरुत प्रियाः ॥ ३९॥ चराचरं मदीयांशं मद्रहितं न किञ्चन । तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम् ॥ ४०॥ यदि ज्ञानेन मां त्यक्त्वा पूजयेत् तृणरूपकम् । तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः ॥ ४१॥ तत्रांशो वर्तते किञ्चिन् मदीयस्तत् समा च मे । तृप्तिर्जाता न सन्देहः पूर्णस्तृप्तो भवामि न ॥ ४२॥ भवन्तोऽपि तथा विप्रैः कलांशाः पूजिता यदि । कलांशरूपा मे तृप्तिस्तेन जाता गुणात्मिका ॥ ४३॥ ब्रह्माण्डे पूजिते पूर्णे न तृप्तोऽहं भवामि च । अनन्तानि मदीयेषु ब्रह्माण्डानि स्वलोमसु ॥ ४४॥ गजवक्त्रादिचिह्नेन चिह्नितोऽहं महेश्वरः । जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशान्तिदः ॥ ४५॥ तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम् । अहं तयोश्च योगे वै पूर्णः सम्पूजितो मतः ॥ ४६॥ मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः । भवतां पूजनं चक्रुः सर्वादौ विघ्नसंयुताः ॥ ४७॥ तत्रापि मदसंयुक्ता भवन्तस्तादृशात्मकाः । सिद्धिहीनास्ततो जाताः पुनर्मा कुरुत त्विदम् ॥ ४८॥ पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्तिसंयुतैः । अतःसहामि देवेशा दत्तं वो दर्शनं मया ॥ ४९॥ कलांशमात्रेण यदि सन्तुष्टोऽहं भवामि चेत् । तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः ॥ ५०॥ एवमुक्त्वा गणाधीशो विरराम महीपते । तेऽपि प्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन् ॥ ५१॥ एतस्मिन्नन्तरे तत्र चन्द्रः शङ्करभालगः । जहास विवृतैर्दन्तैर्गणेशं रूपगर्वितः ॥ ५२॥ उवाच मोहितोऽत्यन्तं प्रणम्य गणनायकम् । (Page खं. ४ अ. ६ पान १३) गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥ ५३॥ पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः । ततस्तं कुपितो देवः शशाप शशलाञ्छनम् ॥ ५४॥ ये त्वां विलोकयन्ते वै चन्द्र ते पापिनः सदा । भवन्तु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः ॥ ५५॥ एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः । भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥ ५६॥ अहङ्कारविहीनास्ते जाताः शम्भ्वादयः सुराः । तदारभ्य महाभाग गाणपत्या विशेषतः ॥ ५७॥ वेदज्ञाऽहङ्कृतिः पूर्णा ब्रह्मणो हृदि संस्थिता । तया मदयुतो ब्रह्मा भवत्येवं पुनः पुनः ॥ ५८॥ सरस्वती सा दत्ता वै गणेशाय महात्मने । तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः ॥ ५९॥ हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् । सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥ ६०॥ सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता । तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥ ६१॥ तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम् । तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥ ६२॥ सोऽपि तं भजते नित्यं गाणपत्यविचारवित् । हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥ ६३॥ योगेन मोहहीनत्वं सदा शम्भोर्हृदि प्रभो । तेनाहङ्कारभावेन मन्यते किं न शङ्करः ॥ ६४॥ तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः । गणेशस्तु तया युक्तो रेमे शम्भोर्हृदि स्थितः ॥ ६५॥ गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते । सदा गाणेशको भूत्वा भजते गणनायकम् ॥ ६६॥ वृष्ट्या दानप्रदाने वै करोति स दिवाकरः । सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥ ६७॥ तदेव हृदये तस्य वर्ततेऽहंस्वभावतः । तां सञ्जीवनिकां सूर्यो ददौ विघ्नेश्वराय च ॥ ६८॥ तया युक्तो गणाधीशः सदा हृदि स खेलति । भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥ ६९॥ शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् । ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥ ७०॥ तया युक्तो गणेशानस्तस्या हृदि विशेषतः । तेन खेलति सा देवी भजते गणनायकम् ॥ ७१॥ इत्यहङ्कारनिर्मुक्ता देवेन्द्रास्ते बभूविरे । गाणपत्यप्रिया जाता भजन्ते विघ्ननायकम् ॥ ७२॥ चित्ते चिन्तामणिः स्थित्वा प्रकृत्या खेलति प्रभुः । मिथ्याहङ्कारभावेन बन्धनं प्रतिपद्यते ॥ ७३॥ कर्ता कारयिता देवो गणेशो नात्र संशयः । हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥ ७४॥ मुद्गल उवाच । श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् । चन्द्रस्य का गतिर्जाता तां मे वद महामुने ॥ ७५॥ वसिष्ठ उवाच । गणेशशापसंयुक्तश्चन्द्रः स स्वगृहे गतः । एकान्ते दुःखसंयुक्तो विचारमकरोद्धृदि ॥ ७६॥ सम्प्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः । असम्प्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥ ७७॥ तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् । देहधारी स्वयं साक्षाद्बभूवात्र न संशयः ॥ ७८॥ (Page खं. ४ अ. ६ पान १४) वेदेषु कथितं ते यद्रूपं परमयोगदम् । तन्न ज्ञातं मया देव मोहेनैव गजानन ॥ ७९॥ अपराधं दयासिन्धो क्षम त्वं चित्तगं प्रभो । एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥ ८०॥ गङ्गातीरे समागम्य तताप तप उत्तमम् । अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥ ८१॥ चन्द्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह । सूर्यस्य तेजसा दग्धं रसहीनं चराचरम् ॥ ८२॥ ततो देवगणैः सर्वैर्भयभीतैः समन्ततः । शम्भुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥ ८३॥ षडक्षरविधानेन ध्यात्वा हृदि गजाननम् । भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥ ८४॥ वर्षाणां शतके तत्र गते चन्द्रं गणाधिपः । आययौ वरदानार्थं तपो बद्धो नृपोत्तम ॥ ८५॥ वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः । समकाले च देवेशाश्चन्द्रस्तं तुष्टुवुर्विभुम् ॥ ८६॥ अथर्वशिरसा ढुण्ढिं तोषयामासुरादरात् । सन्तुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥ ८७॥ श्रीगणेश उवाच । वरं वृणुत देवेशाः सन्तुष्टोऽहं ददामि तम् । यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥ ८८॥ गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते । कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥ ८९॥ देवा ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा चन्द्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥ ९०॥ स तानुवाच सर्वात्मा भक्त्या सन्तोषितः प्रभुः । भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः ॥ ९१॥ हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः । दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥ ९२॥ ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते । ययुश्चन्द्रं तु सन्द्रष्टुं गणेशेंऽतर्हिते नृप ॥ ९३॥ चन्द्रो गणपतिं दृष्ट्वा ननाम दण्डवत् क्षितौ । पूजयामास तं देवं तुष्टाव स कृताञ्जलिः ॥ ९४॥ चन्द्र उवाच । नमस्ते विघ्नपालाय गणेशाय परात्मने । ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५॥ अनामयाय सर्वादिपूज्याय तु नमो नमः । शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६॥ ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे । शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । सर्वेशाय परेशाय परात्परतराय ते ॥ ९८॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक । हेरम्बाय महेशानां महेशाय नमो नमः ॥ ९९॥ स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे । सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥ १००॥ क्षमापराधं देवेश त्वन्मायामोहधारिणः । शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥ १०१॥ मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः । अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥ १०२॥ अतो मां नैव पश्यन्ति पापिनां पापरूपिणम् । निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥ १०३॥ सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण । तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः ॥ १०४॥ ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ । रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम् ॥ १०५॥ श्रीगणेश उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । अपराधाननन्तांश्च सहे तेऽनेन निश्चितम् ॥ १०६॥ सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः । पठतां श‍ृण्वतां चैव नानासुखकारकं भवेत् ॥ १०७॥ यथापूर्वं स्थितश्चन्द्र तादृशो भव नित्यदा । यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥ १०८॥ ललाटे भूषणं मे त्वं भव सेवापरायणः । चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत् ॥ १०९॥ मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति । तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥ ११०॥ द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् । अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥ १११॥ द्वितीयायां प्रयत्नेन त्वां नमस्यन्ति मानवाः । मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥ ११२॥ एवमुक्त्वांऽतर्दधेऽसौ गणेशश्चन्द्रपूजितः । तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥ ११३॥ मानयामास सम्पूज्य चन्द्रस्तांस्तैः समन्वितः । गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम् ॥ ११४॥ गणेशभालसंस्थानं प्राप्तं चन्द्रेण यत्र वै । भालचन्द्रं गणेशानं वदन्ति तत्र संस्थितम् ॥ ११५॥ देवैः सम्पूजितस्तत्र ब्राह्मणैर्गणनायकः । प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥ ११६॥ चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप । पूर्णरूपेण विघ्नेशं सेवते नित्यमादरात् ॥ ११७॥ गङ्गातीरे निवासं स चकारात्रिसमुद्भवः । विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः ॥ ११८॥ अथ कस्मिंश्च समये देवैः सम्प्रार्थितो हरिः । यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥ ११९॥ अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप । भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥ १२०॥ अन्तर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः । तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥ १२१॥ सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै । तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम् ॥ १२२॥ सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमन्तकः । सत्राजिते स तद्रत्नं गले भक्त्या बबन्ध ह ॥ १२३॥ नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः । सूर्यतेजःसमानश्चाऽशोभयद्यदुनन्दनम् ॥ १२४॥ द्वारकायां स्थितं तं स सूर्यभक्तिपरायणम् । शुचिभावेन रत्नं सोऽपूजयत्तान्नरन्तरम् ॥ १२५॥ ततो बहुगते काले कृष्णो दोषयुतोऽभवत् । तस्य बुद्धिः समुत्पन्ना मणेः सङ्ग्रहणे नृप ॥ १२६॥ सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् । आगतं तमुवाचाऽसौ विनयेन समन्वितः ॥ १२७॥ श्रीकृष्ण उवाच । उग्रसेनश्च सर्वेषां यादवानां महामते । राजाऽस्माभिः कृतस्तं ते यादवाः पूजयन्ति भोः ॥ १२८॥ अस्माभिर्दिग्जये प्राप्तमुग्रसेनाय यादव । दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमन्तकम् ॥ १२९॥ सुवर्णं मणिसम्भूतं गृहाण त्वं तु नित्यदा । (Page खं. ४ अ. ६ पान १६) शोभार्थं कण्ठगं तात मणिं कुरु नृपस्य तम् ॥ १३०॥ एवमुक्तः स सत्राजित्तमुवाच समन्युना । प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥ १३१॥ एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् । प्रसेनाय स्ववृत्तान्तं कथयामास विस्तरात् ॥ १३२॥ ततः कदाचित् कृष्णेन सहिता यदुनन्दनाः । मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥ १३३॥ तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् । बबन्ध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥ १३४॥ अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम् । साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥ १३५॥ ततस्तं जाम्बवान् हत्वा गृह्य सिंहं मणिं ययौ । स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥ १३६॥ तव भर्ता सुते यो वै भविष्यति मणिं परम् । तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः ॥ १३७॥ सायाह्ने यादवाः सर्वे आगताः स्वस्वमन्दिरे । प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे ॥ १३८॥ अहो कृष्णेन मे भ्राता संहतो नात्र संशयः । मणिलोभवशेनाऽपि पापिना पापचेतसा ॥ १३९॥ ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते । उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥ १४०॥ ततः कृष्णश्च दुःखार्तः स ध्यानेनावलोकयन् । नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥ १४१॥ ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः । चकारान्तरजं ज्ञानं क्व गतं मम साम्प्रतम् ॥ १४२॥ नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै । देहत्यागं करिष्यामि वृथा लाञ्छनकारणात् ॥ १४३॥ ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् । वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥ १४४॥ पादमार्गं प्रसेनस्य ते सङ्गृह्य महावने । गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥ १४५॥ सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः । पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः ॥ १४६॥ ततो महावने सिंहमृक्षेण प्रहतं पुनः । ददृशुर्न मणिं तत्र लेभिरे भयसङ्कुलाः ॥ १४७॥ ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः । महावने बिले घोरे गतमृक्षमलोकयन् ॥ १४८॥ ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरञ्जयः । बिले सम्प्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥ १४९॥ बिले योजनमात्रं स गत्वा तत्र ददर्श ह । प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम् ॥ १५०॥ दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च । तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः ॥ १५१॥ ततोऽकस्माज्जाम्बवतो बहिः पुत्री समाययौ । अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसङ्कुला ॥ १५२॥ ततो जाम्बवता राजन् श्रुतं पुत्र्याः प्ररोदनम् । आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥ १५३॥ गतास्तयोरेकविंशतिघस्रास्तु प्रयुध्यतोः । यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥ १५४॥ द्वारकायां स्ववृत्तान्तं कथयन्ति स्म विह्वलाः । दिवसाः सप्त तत्रैव किलास्माकं गता बहिः ॥ १५५॥ (Page खं. ४ अ. ६ पान १७) तथापि विवरात् कृष्णो न बहिश्च समागतः । मृतो वा जीवितो वा स ज्ञायते किं न यादवः ॥ १५६॥ वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः । उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥ १५७॥ परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो । जरासन्धादयश्चान्ये किं भविष्यति यादवाः ॥ १५८॥ हीनाः कृष्णेन सञ्जाता अधुना नात्र संशयः । द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकाः ॥ १५९॥ ततो रामेण ते सर्वे सान्त्विता बहुलोक्तिभिः । निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥ १६०॥ सत्राजितं निनिन्दुस्ते व्यर्थलाञ्छनदं तदा । सोऽपि दुःखसमायुक्तो बभूव भयसङ्कुलः ॥ १६१॥ अथ तं जाम्बवान् कृष्णमुवाच घननिःस्वनः । कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥ १६२॥ ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम् । यदुवंशभवं कृष्णं मां जानीहि महामते ॥ १६३॥ श्रुत्वा खेदसमायुक्तो जाम्बवांस्तं ननाम वै । रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥ १६४॥ अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे । अज्ञानाच्छक्तिगर्वेणापराधं युद्धजं च मे ॥ १६५॥ स्तुतः सम्पूजितस्तेन कृष्णो वृत्तान्तमादरात् । अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ ॥ १६६॥ गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः । आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥ १६७॥ यादवैश्च ततः कृष्णः समानाय्य महामणिम् । सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥ १६८॥ सत्राजिन् मनसाऽत्यन्तं निन्दयामास तां तनुम् । भयभीतः स कृष्णस्य विरोधेन महायशाः ॥ १६९॥ सत्यभामां ददौ तस्मै मणियुक्तां महात्मने । कृष्णाय स उवाचेदं श्वशुरो विनयान्वितः ॥ १७०॥ सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते । दौहित्रास्ते भविष्यन्ति ग्रहीष्यन्ति मणिं च ते ॥ १७१॥ तथेति यादवेनैव कृतं सत्राजिता नृप । एतस्मिन्नन्तरे तत्र वृत्तान्तो यादवैः श्रुतः ॥ १७२॥ लाक्षागृहेषु सन्दग्धाः कुन्त्या युक्ताश्च पाण्डवाः । पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥ १७३॥ रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह । धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसङ्कुलः ॥ १७४॥ शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः । मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात् ॥ १७५॥ सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा । अस्मान् सन्त्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम् ॥ १७६॥ कृष्णः पाण्डवशोकार्तोऽभवत् तत्रैव संस्थितः । स रामो निश्यतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥ १७७॥ हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः । एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥ १७८॥ सत्राजितं स हत्वा वै मणिं जग्राह दारुणः । संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययो ततः ॥ १७९॥ श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् । कृष्णं ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥ १८०॥ (Page खं. ४ अ. ६ पान १८) अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥ १८१॥ मणिं तत्रैव निक्षिप्य पपाल भयसङ्कुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥ १८२॥ पलायमानं विज्ञाय कृष्णः सङ्कर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥ १८३॥ योजनानां शतं गत्वा ममार ह पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥ १८४॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥ १८५॥ ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह । शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥ १८६॥ ततः शोकसमायुक्तो बलभद्रमुवाच ह । शतधन्वा हतो हीनो मणिना तत्र मानद ॥ १८७॥ उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः । मणिस्त्वया सुसङ्गुप्तो मिथ्या वाक् त्वं महाखल ॥ १८८॥ अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् । कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥ १८९॥ ततस्तं विनयेनैव सान्त्वयामास केशवः । द्विजदेवगवां ते मे शपथो न कृतं मया ॥ १९०॥ तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह । विदर्भ राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥ १९१॥ ततोऽतिदुःखसंयुक्तः कृष्णः परमदारुणम् । रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥ १९२॥ ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते । ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥ १९३॥ अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः । नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥ १९४॥ रथसंस्थः समायातो द्वारकायां महायशाः । लोकवृत्तान्तमुग्रं स कथयामास विस्तरात् ॥ १९५॥ ततो यादवमुख्यैः स भर्त्सितोऽतिविशेषतः । कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥ १९६॥ देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः । निनिन्दुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥ १९७॥ समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः । मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥ १९८॥ द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे । त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥ १९९॥ अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् । नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥ २००॥ तं प्रणम्य महात्मानं कृष्णः परमदुःखितः । उवाच भावभक्त्या वै कृताञ्जलिपुटः शनैः ॥ २०१॥ श्रीकृष्ण उवाच । सर्वैः सन्त्याजितो दुःखी गृहे नित्यं वसाम्यहम् । तत्र ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥ २०२॥ ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद । एवं पृष्टः पुनः प्राह वृत्तान्तं सर्वमञ्जसा ॥ २०३॥ श्रुत्वा वृत्तान्तमुग्रं वै ध्यानेनालोक्य नारदः । देहत्यागे समुद्योगं कुर्वन्तं तमुवाच ह ॥ २०४॥ नारद उवाच । भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः । शप्तोऽसौ विघ्नराजेन तेन सन्दुःखितो भवान् ॥ २०५॥ (Page खं. ४ अ. ६ पान १९) देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः । गणेशं भज भावेन सङ्कष्टीव्रतसंयुतम् ॥ २०६॥ मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा । सज्ञानश्च समर्थेशस्तस्मात् तं शरणं व्रज ॥ २०७॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । गणेशगानसंयुक्तो वीणावादनलालसः ॥ २०८॥ ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् । अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥ २०९॥ एकाक्षरेण मन्त्रेणापूजयन्नित्यमेव तम् । व्रतं चकार स ततः सङ्कष्टीसंज्ञमुत्तमम् ॥ २१०॥ रात्रावेकान्तसंस्थं तं ध्याननिष्ठं जनार्दनम् । निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥ २११॥ बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः । तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥ २१२॥ पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः । स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह ॥ २१३॥ सरोमाञ्चं गणेशानः कृष्णं दृष्ट्वा जगाद ह । वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥ २१४॥ गणेशवचनं श्रुत्वा तं जगाद महायशाः । कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुतः ॥ २१५॥ श्रीकृष्ण उवाच । यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः । तदा ते भक्तिमुग्रां मे देहि ह्यव्यभिचारिणीम् ॥ २१६॥ भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यति विघ्नप । ते शापदुःखहीना वै भवन्तु कृपया च ते ॥ २१७॥ अहं चासन्नमरणजनवज्ज्ञानवर्जितः । प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥ २१८॥ जगाद गणनाथः स ततस्तं भक्तिमोहितः । मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥ २१९॥ स्यमन्तकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् । वरदानं मदीयं च यः श‍ृणोति जनार्दन ॥ २२०॥ पठेत्तु भावयुक्तश्चेन् मां धृत्वा हृदये हरे । स एव दोषसंहीनो भवत्वत्र न संशयः ॥ २२१॥ एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् । अन्तर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥ २२२॥ सम्पूर्णं जागरं कृत्वा पञ्चम्यां नियतः प्रभुः । पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥ २२३॥ गणेशकृपया तस्यांऽतर्ज्ञानं सम्बभूव ह । ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥ २२४॥ सभायां स समागम्याक्रूरं तत्राजुहाव च । तं प्रणम्य महाभागमुवाच हास्यसंयुतः ॥ २२५॥ मणिश्च तात सन्त्यक्तो गेहे ते शतधन्वना । बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥ २२६॥ ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि । दृष्ट्वोग्रसेनमुख्यास्ते प्रशशंसुर्जनार्दनम् ॥ २२७॥ अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् । मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥ २२८॥ समागतं महावीरमनमत् केशवः पुनः । सर्वे हर्षयुता जाता द्वारकावासिनस्ततः ॥ २२९॥ निर्दोषं वासुदेवं ते मानयामासुरादरात् । राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥ २३०॥ (Page खं. ४ अ. ७ पान २०) सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः । तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥ २३१॥ अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन । चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥ २३२॥ तेन दोषविहीनश्च जायते नात्र संशयः । अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥ २३३॥ स्यमन्तकमणेश्चित्रं चरितं कथितं परम् । चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥ २३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रशुक्लचतुर्थी चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥ ४.६

४.७ भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर । चतुर्थ्योरुभयोः सारं माहात्म्येन समन्वितम् ॥ १॥ तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् । चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥ २॥ कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः । श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥ ३॥ मुद्गल उवाच । एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् । जगाद तं प्रजानाथ श‍ृणु तत् सुखदं परम् ॥ ४॥ वसिष्ठ उवाच । आदौ शम्भ्वादिभिश्चैतत् कृतं व्रतमनुत्तमम् । कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥ ५॥ ततः स्वायम्भुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् । ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजन्तुभिः ॥ ६॥ अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् । माहात्म्यं सर्वदं पुण्यं सङ्क्षेपेण श‍ृणुष्व तत् ॥ ७॥ पुरा दौष्यन्तिको नाम भरतः सम्बभूव ह । तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥ ८॥ जित्वा भूमण्डलं सर्वं सार्वभौमो बभूव ह । सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥ ९॥ तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा । बभूव सर्वलोकास्ते भयभीता बभूविरे ॥ १०॥ चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः । कण्वं मुनिवरं शान्तं ययौ शरणमादरात् ॥ ११॥ तं प्रणम्य महात्मानं पूजयामास भक्तितः । कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥ १२॥ तमुवाच महायोगी गाणपत्यप्रियः सदा । कण्वो वेदार्थसन्निष्ठो भरतं राजसत्तमम् ॥ १३॥ कण्व उवाच । किमर्थमागतो राजन् कुशलं ते महामते । अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥ १४॥ कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः । मुनिदत्ते विवेशासावासने स कृताञ्जलिः ॥ १५॥ उवाच तं महात्मानं कण्वं वेदविदां वरम् । भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥ १६॥ भरत उवाच । त्वत्प्रसादेन योगीन्द्र कुशलं मे प्रवर्तते । दैवयोगेन तदपि दुःखितोऽहं समागतः ॥ १७॥ (Page खं. ४ अ. ७ पान २१) नित्यं स्वधर्मयुक्तेन मया सम्पालिता मही । देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥ १८॥ वर्णाश्रमाचारयुता जनाः सर्वे भवन्ति च । तथापि पापजं दुःखं सम्प्राप्तं तन्न वेद्म्यहम् ॥ १९॥ अनावृष्टिश्च सम्भूता प्रभो सर्वत्र दुःखदा । चराचरं भयोद्विग्नं बभूव रसहीनतः ॥ २०॥ तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः । त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥ २१॥ अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् । येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥ २२॥ ततस्तं नृपशार्दूलमुवाच मुनिसत्तमः । कण्वः श्रुत्वा च वृत्तान्तं दयायुक्तः स्वभावतः ॥ २३॥ कण्व उवाच । श‍ृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् । तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥ २४॥ चतुःपदविहीनं ते राज्यं भवति निश्चितम् । जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥ २५॥ त्वं पापशीलभावेन वर्तसे जनवत्सल । धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥ २६॥ चतुर्थीसम्भवं तात व्रतं सर्वार्थसिद्धिदम् । कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥ २७॥ चतुर्विधं जगत्सर्वं स्थूलसूक्ष्मादिभेदतः । सङ्कष्टं यत्तदेव त्वं जानीहि नृपनायक ॥ २८॥ चतुर्विधं च सङ्कष्टं हरति व्रतकारिणः । सा सङ्कष्टचतुर्थी वै कृष्णा ते कथिता मया ॥ २९॥ चतुर्विधं या ददाति सा शुक्ला वरदा मता । सञ्चितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥ ३०॥ चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् । कण्वस्तद्भरतायैव स्वशिष्याय विशेषतः ॥ ३१॥ व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् । ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥ ३२॥ भरत उवाच । स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ ३३॥ कण्व उवाच । श‍ृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् । क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥ ३४॥ एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा । वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥ ३५॥ मदीयतपसा सर्वं व्याप्तमासीन्नराधिप । तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥ ३६॥ ततः प्रजापतिः साक्षादाश्रमे मे समागतः । क्रतुर्योगीन्द्रवन्द्यो यो गाणपत्यो महायशाः ॥ ३७॥ तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् । कृताञ्जलिं मामुवाच स तथा भक्तवत्सलः ॥ ३८॥ क्रतुरुवाच । वत्स तिष्ठस्व मे दत्त आसने किं महामते । इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥ ३९॥ तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप । आसने समुपावेश्यावदत्तं विनयान्वितः ॥ ४०॥ कण्व उवाच । तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् । तथापि शान्तिदं योगं वद पूर्णं दयानिधे ॥ ४१॥ क्रतुरुवाच । सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् । कथयामि महाभाग ब्रह्मणः संश्रुतं मया ॥ ४२॥ (Page खं. ४ अ. ७ पान २२) तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः । न शान्तिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥ ४३॥ ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् । वन्द्यं तं योगशान्त्यर्थमपृच्छं विनयान्वितः ॥ ४४॥ स्वामिन् शान्तिप्रदं ब्रह्म कीदृशं वद मे प्रभो । केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥ ४५॥ ब्रह्मोवाच । योगशान्तिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक । मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥ ४६॥ मनोवाणीविहीनं यदेव तत्तादृशं मतम् । गणेशोऽहं न भिन्नश्च ब्रह्मणां नायकः स्मृतः ॥ ४७॥ मनोवाणीमयः प्रोक्तो गकारो वेदवादतः । मनोवाणीविहीनश्च णकारः सर्वसम्मतः ॥ ४८॥ तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा । गकारस्य णकारस्य योगो वेदप्रमाणतः ॥ ४९॥ समाधिना लभ्यते यच्चित्तेन च महामते । गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥ ५०॥ चित्तेन यन्न लभ्येत णकारं विद्धि मानद । ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शान्तिमवाप्स्यसि ॥ ५१॥ एतदेव परं गुह्यं शान्तिदं कथितं मया । तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥ ५२॥ एकाक्षरं महामन्त्रं गृहाण त्वं महामते । ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥ ५३॥ एवमुक्त्वा महामन्त्रं ददौ मह्यं विधानतः । तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥ ५४॥ क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् । चित्तं चिन्तामणौ पुत्र क्षिप्तं तद्रूपभावतः ॥ ५५॥ ततो योगीन्द्रवन्द्योऽहं जातस्तदपि नित्यदा । गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥ ५६॥ ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया । स्तुतः सम्पूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥ ५७॥ तदादिगाणपत्योऽहं जातः सर्वैश्च वन्दितः । भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥ ५८॥ कण्व उवाच । एवमुक्त्वा महायोगी मह्यं मन्त्रं ददौ ततः । एकाक्षरं यथान्यायमन्तर्धानं चकार ह ॥ ५९॥ अहं तथा गणेशानं साधयित्वा विशेषतः । शान्तिं प्राप्तस्तं तथापि भजाम्यनन्यचेतसा ॥ ६०॥ अतस्त्वमपि राजेन्द्र भज विघ्नपतिं सदा । चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥ ६१॥ तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः । कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥ ६२॥ तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता । कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥ ६३॥ ततः सर्वत्र सङ्घोषः कृतस्तेन महीभृता । शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यन्ति नित्यदा ॥ ६४॥ ते दण्डैः पीडनीया वै ततः सर्वेऽभवन् जनाः । व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥ ६५॥ हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज । रोगादिदोषहीनास्ते भजंस्तं गणनायकम् ॥ ६६॥ भरतः स्म महाराजोऽभजत्सोऽनन्य चेतसा । गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥ ६७॥ स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् । (Page खं. ४ अ. ८ पान २३) अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ६८॥ क्रमेण भूमिसंस्था येऽभवन् स्वानन्दगा जनाः । चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥ ६९॥ स्पर्शेन भरतस्यैव जनाः कीटादिका नृप । पुण्यरूपा बभूवुस्तेऽथान्ते स्वानन्दगामिनः ॥ ७०॥ एतादृशेन भूपेन पुण्यशालिजनाः कृताः । यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥ ७१॥ भरतेन समो राजन् न कश्चित् प्रबभूव ह । ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥ ७२॥ भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया । चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥ ७३॥ भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः श‍ृणोति चेत् । पठेद्वा तस्य राजेन्द्र सर्वदं प्रभवेद् ध्रुवम् ॥ ७४॥ भाद्रशुक्लचतुर्थ्यां वै शङ्करस्य हृदि प्रभुः । प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥ ७५॥ तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी । गणेशस्य न सन्देहो ब्रह्मभूयपदप्रदा ॥ ७६॥ सृष्ट्यादौ पञ्च देवेशैः स्थापिता मूर्तिरुत्तमा । मयूरे गणनाथस्य मध्याह्ने भाद्रगे तिथौ ॥ ७७॥ मयूरेशावतारो भाद्रपदेयो बभूव सः । मध्याह्ने शङ्करगृहे चतुर्थ्यां शुक्लपक्षके ॥ ७८॥ तस्यां ये मृन्मयीं मूर्तिं पूजयन्ति नरादयः । देवाः शङ्करमुख्याश्च महोत्सवपरायणाः ॥ ७९॥ ते सर्वे विघ्नहीनाश्च भवन्ति सुखभोगिनः । अन्ते स्वानन्दगा भूप ब्रह्मभूता भवन्ति च ॥ ८०॥ मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः । उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥ ८१॥ पञ्चम्यां पारणं कृत्वा द्विजैः सह महामते । मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥ ८२॥ चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयन्ति चेत् । तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥ ८३॥ न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः । पतितास्ते मताः शास्त्रे नारकाश्च भवन्त्यतः ॥ ८४॥ इह विघ्नसमायुक्ता नानारोगप्रपीडिताः । दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥ ८५॥ चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः । मृन्मयो विघ्नहीनास्ते भवन्ति सफलक्रियाः ॥ ८६॥ इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी । तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥ ८७॥ अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् । तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥ ८८॥ द्राविडे नगरे राजंश्चाण्डालः कोऽपि पापकृत् । कुष्ठरोगयुतः पूर्णः परस्त्रीलम्पटोऽभवत् ॥ ८९॥ चतुर्थ्यां भाद्रमासे स ज्वरयुक्तो बभूव ह । ज्वरस्य पीडयाऽत्यन्तं पीडितो राजसत्तम ॥ ९०॥ अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः । पञ्चम्यां मरणे प्राप्ते विमानेन जगाम ह ॥ ९१॥ तस्याङ्गस्पर्शतो वायुर्यमलोके जगाम ह । तेन स्पृष्टा नरास्तत्र नरकस्थाः समन्ततः ॥ ९२॥ ते सर्वे यानगा भूत्वा गताः स्वानन्दके पुरे । दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥ ९३॥ व्रतमज्ञानतश्चैवं फलप्रदमिदं मतम् । (Page खं. ४ अ. ८ पान २४) यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥ ९४॥ चतुर्थ्या महिमाऽयं कथयितुं न प्रशक्यते । पुरुषार्थाश्च चत्वारः प्राप्यन्ते व्रतमात्रतः ॥ ९५॥ मुद्गल उवाच । वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् । श‍ृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥ ९६॥ दशरथ उवाच । चाण्डालो गणनाथस्य पुपूज स न मृन्मयीम् । मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥ ९७॥ वसिष्ठ उवाच । सम्यक् पृष्टं त्वया राजन् श‍ृणु संशयनाशनम् । ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारदम् ॥ ९८॥ चाण्डालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः । पूजनं च तथा तस्योल्लङ्घनं न ततोऽभवत् ॥ ९९॥ अतोऽयं दोषहीनश्च स्वानन्दस्थो बभूव ह । पूजनोल्लङ्घनाभ्यां स वर्जितो ज्ञानभावतः ॥ १००॥ एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् । अन्ते स्वानन्दगा राजन् बभूवुर्व्रतमात्रतः ॥ १०१॥ तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि । पूर्णं भवति माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ १०२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥ ४.७

४.८ व्रतवर्णनं नामाष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा । तां श‍ृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥ १॥ इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥ २॥ रैवतान्तरगो राजा कीर्तिमांश्च बभूव ह । मतो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥ ३॥ देवविप्रातिथिप्रेप्सुः पञ्चयज्ञपरायणः । नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥ ४॥ भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता । सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥ ५॥ गजानां च हयानां वै पदातीनां महीपतेः । रथानां नैव सङ्ख्याऽस्ति धानुष्काणां विशेषतः ॥ ६॥ सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः । देवादीनां च सङ्ग्रामे ह्यजेयः परवीरहा ॥ ७॥ तस्य वन्ध्यत्वदोषेण नृप पुत्रो बभूव नो । नानायत्नपरो राजा पुत्रार्थे प्रबभूव ह ॥ ८॥ तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः । अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥ ९॥ एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः । राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥ १०॥ तत्र भ्रमणयुक्तः स ददर्श ह महावनम् । सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥ ११॥ दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह । वने तत्र मुनिश्रेष्ठं सौभरिं सन्ददर्श च ॥ १२॥ तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः । कृताञ्जलिपुटो भूत्वा तस्थौ स नृपसम्मुखः ॥ १३॥ (Page खं. ४ अ. ८ पान २५) ततः सौभरिणा सोऽपि सत्कृतो वचनेन च । निषसादासने तत्र मुनिना दर्शिते नृपः ॥ १४॥ तमुवाच महाभागं राजानं मुनिसत्तमः । कोऽसि त्वं वन उग्रे मेऽत्र किमर्थं समागतः ॥ १५॥ इति पृष्टो महीपालस्तमुवाच सुहर्षितः । कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥ १६॥ कीर्तिमानुवाच । द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे । राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥ १७॥ अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम । पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥ १८॥ राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया । तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥ १९॥ तव दर्शनमात्रेण सफलो मे भवो भवेत् । मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥ २०॥ अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् । उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥ २१॥ इह जन्मनि भो विप्र न कृतं पापमुल्बणम् । मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥ २२॥ तथापि वन्ध्यजो दोषो मया प्राप्तो महामुने । पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥ २३॥ कथयस्व महोग्रं मे पापं सर्वविदां वर । योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मतनोर्धरः ॥ २४॥ वसिष्ठ उवाच । एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः । सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥ २५॥ सौभरिरुवाच । कृतं त्वया महत्पापं महाराज विशेषतः । पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥ २६॥ तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् । लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥ २७॥ चतुर्थीव्रतमाद्यं यन्मानवेन नराधम । न कृतं चेद्व्रतानीह निष्फलानि भवन्ति च ॥ २८॥ विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् । चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥ २९॥ चतुर्विधपदार्थानां दात्री सा वरदा मता । चतुर्विधं तु सङ्कष्टं हरन्ती सङ्कटी मता ॥ ३०॥ भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसम्मतम् । जनानां व्रतहीनानां पापभागी भवान् मतः ॥ ३१॥ अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः । तेन वन्ध्यत्वमापन्नो नराधम न बुद्ध्यसे ॥ ३२॥ सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह । विनयेन समायुक्तो भयभीतश्च पार्थिवः ॥ ३३॥ कीर्तिमानुवाच । अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना । कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥ ३४॥ पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते । येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥ ३५॥ सौभरिरुवाच । चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा । जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥ ३६॥ अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् । व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥ ३७॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥ ३८॥ कीर्तिमानुवाच । (Page खं. ४ अ. ८ पान २६) कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् । ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥ ३९॥ ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् । माहात्म्यं गणनाथस्य शान्तियोगपदप्रदम् ॥ ४०॥ सौभरिरुवाच । पुराऽहं तपसा युक्तो नानाछन्दपरायणः । अभवं तत्र देवा वै भयभीता बभूविरे ॥ ४१॥ अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः । किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्माभिरेव न ॥ ४२॥ प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः । तपोभङ्गार्थमेवं मे कामस्तत्र समागतः ॥ ४३॥ उर्वशीसहिताभिश्चाप्सरोभिर्मधुना तथा । आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥ ४४॥ अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया । मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥ ४५॥ ततो मे तपसोग्रेण दाहयुक्तो बभूव ह । कामः पलाय्य सर्वैस्तं मघवन्तं जगाद सः ॥ ४६॥ ततोऽहं योगमार्गेणांऽतर्निष्ठश्चाभवन्नृप । जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥ ४७॥ ततः शुको महायोगी गाणपत्यः समागतः । ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥ ४८॥ ततस्तं प्रणतो भूत्वा कृताञ्जलिः पुरः प्रभोः । स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥ ४९॥ मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः । शान्तिं वद महायोगिन् यया शान्तो भवाम्यहम् ॥ ५०॥ श्रीशुक उवाच । चित्तं पञ्चविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् । निरोधेनैव भूमीनां शान्तिं प्राप्स्यसि निश्चितम् ॥ ५१॥ चिन्तामणिं भजस्व त्वं मन्त्रेणैकाक्षरेण च । तेन चिन्तामणौ विप्र सञ्चित्तः सुभविष्यसि ॥ ५२॥ त्यक्त्वा जडादिकं मार्गं शमदमपरायणः । गणनाथं महाभाग भज यत्नेन नित्यदा ॥ ५३॥ एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः । गणेशनाम सङ्कीर्त्य जपंश्चैव विशेषतः ॥ ५४॥ अहं गणपतिं भक्त्याऽभजं सम्भक्तिसंयुतः । एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥ ५५॥ ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमादरात् । तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥ ५६॥ दशवर्षे गते काले विघ्नेशो मां समागतः । मया सम्पूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥ ५७॥ गाणपत्यपदं दत्त्वा गतः स्वानन्दके पुरे । तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥ ५८॥ एवमुक्त्वा स राजानं ददौ मन्त्रं विधानतः । षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥ ५९॥ स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः । तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥ ६०॥ जनैः सर्वैः समायुक्त उपोषणपरायणः । मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥ ६१॥ रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः । नरैः स्त्रीभिस्तद्व्रतं च कृतं सर्वैर्यथातथम् ॥ ६२॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः । ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः ॥ ६३॥ (Page खं. ४ अ. ९ पान २७) घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिमण्डले ॥ ६४॥ एवं भूमण्डले राज्यं कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥ ६५॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये स्थिता लोकाः सर्वे स्वानन्दगा बभुः ॥ ६६॥ एवमन्यं दशरथ श‍ृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥ ६७॥ भीमो नाम महाव्याधः पापकर्मपरायणः । मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥ ६८॥ एकदा वनमध्ये स ब्राह्मणं हन्तुमुद्यतः । पलायत द्विजस्तत्र वने भयसमाकुलः ॥ ६९॥ एतस्मिन्नन्तरे तत्राश्वगः शस्त्रधरः पुमान् । धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥ ७०॥ ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह । पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥ ७१॥ तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् । राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥ ७२॥ पञ्चम्यां तं जघानैव ततो व्याधं गजाननः । चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥ ७३॥ एवं नानाजना राजन् चतुर्थीव्रतयोगतः । स्वानन्दस्था भवन्तीह मया वक्तुं न शक्यते ॥ ७४॥ चतुर्थीजमिदं चित्रं चरितं कथितं मया । शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥ ७५॥ श‍ृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः । पुत्रपौत्रादिसंयुक्तः सुहृद्भिर्नृपसत्तम ॥ ७६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्लाऽऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः ॥ ४.८

४.९ कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा । तां श‍ृणुष्व महाभाग इतिहाससमन्विताम् ॥ १॥ सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः । शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥ २॥ धर्मशीलो वदान्यश्च सत्यवाक् साधुसम्मतः । देवविप्रातिथिप्राज्ञपञ्चयज्ञपरायणः ॥ ३॥ भार्या कलावती तस्य बभूवे रूपशालिनी । पतिव्रता महोदारा धर्मशीला विशेषतः ॥ ४॥ जित्वा भूमण्डलं सर्वं राजा तेजस्विनां वरः । पालयामास पृथ्वीं स नित्यं धर्मपरायणः ॥ ५॥ सामन्ता वशगा यस्य सैन्यं स्म गणनातिगम् । सम्पच्च धनदेनैव तुल्या सर्वत्र सम्बभौ ॥ ६॥ अर्धायुषा समायुक्तो बभूव नृपसत्तमः । अकस्मात् कुष्ठसंयुक्तः कीटैः सम्पीडितोऽभवत् ॥ ७॥ पूयशोणितघर्मौघैर्व्याप्तो दुर्गन्धिसंयुतः । न चाऽलभत् सुखं किञ्चिच्छूलप्रोतो यथा नरः ॥ ८॥ औषधानि विशेषेण सिषेवे यत्नसंयुतः । नानामन्त्रप्रयोगादि कारयामास मानवैः ॥ ९॥ अनुष्ठानं द्विजैः सोऽपि वेदमन्त्रैः सुखप्रदैः । अकारयत्तथा तेभ्यो न फलं चाऽभवत् कदा ॥ १०॥ ततस्तीर्थानि बभ्राम स्नानदानपरायणः । तथापि रोगसंयुक्तोऽधिकं राजा बभूव ह ॥ ११॥ ततो निवृत्तिमापन्नो जगाद सचिवान्नृपः । राज्यं मे परिपाल्यं वै यावदागमनं पुनः ॥ १२॥ सान्त्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान् । वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च ॥ १३॥ ततो गणपतिं राजा सस्मार दुःखसंयुतः । विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह ॥ १४॥ अकस्मान् मुनिशार्दूलः पुलस्त्यस्तत्र चाययौ । तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह ॥ १५॥ कृत्वा करपुटं राजोवाच तं मुनिनायकम् । किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने ॥ १६॥ धन्यं जन्म तथा ज्ञानं जनको जननी च मे । तपो धर्मादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ १७॥ एवं विवदमानं तं जगाद मुनिसत्तमः । किमर्थं राजनीतिज्ञ वने त्वं च समागतः ॥ १८॥ एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः । पुलस्त्य उपविश्याथ तमुपावेश्य सम्बभौ ॥ १९॥ ततो राज्ञा स्वकीयो वै वृत्तान्तः कथितोऽभवत् । जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः ॥ २०॥ सुधन्वोवाच । दयाकराश्च योगीन्द्राः पुराणेषु वदन्ति यत् । तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम् ॥ २१॥ दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम । साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः ॥ २२॥ सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद । धर्मयुक्ततया राज्यं करोमि स्म निरन्तरम् ॥ २३॥ पूर्वजन्मकृतं मे किं महापापं समागतम् । येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः ॥ २४॥ वसिष्ठ उवाच । सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः । अत्यन्तं पीडितं दृष्ट्वा करुणायुतचेतसा ॥ २५॥ पुलस्त्य उवाच । इहजन्मकृतं पापं बुद्ध्यसे न नराधम । तेन कुष्ठयुतो जातः श‍ृणु तत्ते वदाम्यहम् ॥ २६॥ तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत् । नष्टं चतुर्थीसंज्ञं यत् सर्वसिद्धिप्रदं परम् ॥ २७॥ चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् । तेन प्रोक्ता चतुर्थी सा वरदा सङ्कटा मता ॥ २८॥ सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम् । कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम् ॥ २९॥ वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति । तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम ॥ ३०॥ मरिष्यसि यदा राजंस्तदा ते नरके गतिः । भविष्यति न सन्देहश्चतुर्वर्गविहीनता ॥ ३१॥ पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः । उवाच तं महाप्राज्ञं कृताञ्जलिपुटोऽभवत् ॥ ३२॥ सुधन्वोवाच । भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः । तदेव सत्यरूपं वै मया ज्ञातं न संशयः ॥ ३३॥ (Page खं. ४ अ. ९ पान २९) अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् । कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥ ३४॥ कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो । प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥ ३५॥ एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुतः । तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥ ३६॥ पुलस्त्य उवाच । अज्ञानेन कृतं दोषं प्रायश्चित्तेन हन्ति तम् । नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥ ३७॥ तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि । अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥ ३८॥ इत्युक्त्वा तं ततो योगी जगाद व्रतसम्भवाम् । कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥ ३९॥ उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः । धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥ ४०॥ नानेन सदृशं किञ्चिन् मया ज्ञातं महामते । त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥ ४१॥ तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने । नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥ ४२॥ एवं पृष्टः स राजानं वचनं प्रजगाद ह । पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥ ४३॥ पुलस्त्य उवाच । सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् । ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥ ४४॥ पुराऽहं योगशान्त्यर्थं नानायोगपरायणः । असाधयञ्छमेनैव दमेन मनसो जयात् ॥ ४५॥ तथापि शान्तिहीनोऽहं शरणं शङ्करं गतः । तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥ ४६॥ ततस्तेन समाख्यातं तच्छृणुष्व नराधिप । येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥ ४७॥ श्रीशिव उवाच । योगशान्तिमयं विद्धि गणेशं भज भावतः । मनोवाणीविहीनं तं मनोवाणीमयं न च ॥ ४८॥ मनोवाणीमयं सर्वं सम्प्रज्ञातसमुद्भवम् । गकाराक्षरगं विद्धि पश्य वेदे महामते ॥ ४९॥ मनोवाणीविहीनं यदसम्प्रज्ञातगं मतम् । णकाराक्षरसम्भूतं नाम्नो गणपतेर्यदि ॥ ५०॥ तयोः स्वामी गणेशानः शान्त्या योगेन लभ्यते । चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥ ५१॥ एवमुक्त्वा महादेवो विरराम विशेषवित् । तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥ ५२॥ अष्टाक्षरेण मन्त्रेण ध्यात्वा गणपतिं नृप । अतोषयं विशेषेण चित्तनिग्रहभावतः ॥ ५३॥ ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमात्मनि । तथापि मन्त्रराजं तमजपं पूजने रतः ॥ ५४॥ एकविंशतिवर्षेषु गतेषु स विनायकः । आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥ ५५॥ तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि । स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥ ५६॥ गाणपत्यं स मां कृत्वा ययौ स्वानन्दके पुरे । तदारभ्याहमत्यन्तं भजामि गणनायकम् ॥ ५७॥ एवमुक्त्वा महीपालं तथा दशरथ स्वयम् । मन्त्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥ ५८॥ तेन स्तुतो महायोगी पुलस्त्योंऽतर्दधे प्रभुः । राजा स्वनगरे गत्वा कार्तिके हर्षितोऽभवत् ॥ ५९॥ जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम् । कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन् ॥ ६०॥ पञ्चम्यां पारणं चक्रे राजाऽसौ जनसंयुतः । ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत् ॥ ६१॥ ततः कुष्ठविहीनश्च बभूव स जनाधिपः । सुरूपः कामदेवेन समः शोभाधरो बभौ ॥ ६२॥ लोका वन्ध्यत्वदोषेण रोगादिभिः प्रपीडिताः । ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात् ॥ ६३॥ ततस्तेन नृपेणाऽथ सर्वत्र भूमिमण्डले । प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप ॥ ६४॥ ततः शुक्लां तथा कृष्णां चतुर्थीं चक्रिरे जनाः । तेनाऽऽनन्दसमायुक्ता बुभुजुर्विविधं सुखम् ॥ ६५॥ ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः । एकान्ते संस्थितो भूत्वाऽभजत्तं गणपं सदा ॥ ६६॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । तथा जनाश्च सर्वे ते स्वानन्दस्था बभूविरे ॥ ६७॥ एवं ते कथितं राजन्नथो श‍ृणु महामते । महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह ॥ ६८॥ माहिष्मत्यां च चाण्डालो वसन् कः पापकारकः । प्राप्य कार्तिकगां शुक्लां चतुर्थीं स वने गतः ॥ ६९॥ तत्र व्याघ्रेण सन्दृष्टः पलायन् वृक्षमारुहत् । व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन् ॥ ७०॥ तत्र रात्रिर्गता तस्य चाण्डालस्य प्रजागरः । सम्पूर्णश्चाभवद्भूप पुनश्चित्रं बभूव ह ॥ ७१॥ समागतो महासर्पो वनस्थो वृक्षमारुहत् । पपात भयभीतः स तं दृष्ट्वा कम्पवेगतः ॥ ७२॥ व्याघ्रेण सङ्गृहीतः स पञ्चम्यां भक्षितोऽभवत् । स विमानं समारुह्य ययौ स्वानन्दकं पुरम् ॥ ७३॥ अज्ञातव्रतजेनैव पुण्येन गणपं गतः । दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः ॥ ७४॥ एवं नृप अपारा वै चतुर्वर्गफलैर्युताः । ब्रह्मभूताश्च सञ्जाताश्चतुर्थीव्रतकारकाः ॥ ७५॥ कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया । कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः ॥ ७६॥ श‍ृणुयाद्यः पठेद्वाऽपि स वै सर्वार्थसिद्धिभाक् । पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः ॥ ७७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः ॥ ४.९ (Page खं. ४ अ. १० पान ३१)

४.१० मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते । मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः ॥ १॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप ॥ २॥ काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह । अजातशत्रुको नाम सर्वशास्त्रविशारदः ॥ ३॥ देवद्विजातिथिप्रेप्सुर्नानाधर्मपरायणः । प्रजानां पालने सक्तो यथाशास्त्रेण मानदः ॥ ४॥ तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः । तं प्रणम्य महात्मानं पूजयामास भक्तितः ॥ ५॥ स्वयं पादस्य संवाहं चकार नृपसत्तमः । उवाच तं प्रहर्षेण नारदं सर्वगं परम् ॥ ६॥ अजातशत्रुरुवाच । धन्यं मे जन्म पुत्रादि राज्यं निहतकण्टकम् । धन्यौ च जनकौ ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ ७॥ सर्वसारं वदस्व त्वं योगशान्तिप्रदायकम् । येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात् ॥ ८॥ ततस्तं नारदो योगी गाणपत्याग्रणीर्नृप । जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन् ॥ ९॥ नारद उवाच । सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम् । श‍ृणु ते कथयिष्यामि योगं शान्तिप्रदायकम् ॥ १०॥ ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः । न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो ॥ ११॥ ब्रह्मणस्पतिनामानं गणेशं भज भावतः । चित्तवृत्तिनिरोधेन चिन्तामणिर्भविष्यसि ॥ १२॥ गणेशोऽहं न सन्देहो मम तत्र कथं भवेत् । संयोगायोगकं राजन् तेन शान्तिमवाप्स्यसि ॥ १३॥ तस्य व्रतं महाभाग चतुर्थीसंज्ञकं महत् । राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि ॥ १४॥ धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम् । चतुर्थीसंज्ञकं राजन् वरदं सङ्कटं मतम् ॥ १५॥ नानाकर्माणि कुर्वन्ति नराः सर्वार्थसिद्धये । चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवन्ति ते ॥ १६॥ इत्युक्त्वा तं महायोगी नारदः करुणायुतः । माहात्म्यं कथयामास चतुर्थीसम्भवं नृप ॥ १७॥ ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः । पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः ॥ १८॥ अजातशत्रुरुवाच । ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते । तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः ॥ १९॥ नारद उवाच । एकाक्षरविधानेन भज ढुण्ढिं विनायकम् । तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति ॥ २०॥ तस्मै स विधिना सर्वं गणेशोपासनं ददौ । मन्त्रमेकाक्षरं साङ्गं ततश्चान्तर्हितोऽभवत् ॥ २१॥ तत्राऽऽदौ मार्गशीर्षस्था सम्प्राप्ता शुक्लगा नृप । चतुर्थी सा कृता तेनोपोषणेन यथाविधि ॥ २२॥ जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी । ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत् ॥ २३॥ शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः । स्त्रियश्चेत्ताडनीयास्ते महापापिन एव च ॥ २४॥ ढुण्ढिराजं नृपाध्यक्षो नित्यं सम्पूज्य यत्नतः । भक्त्याऽभजत् सम्बभूव योगीन्द्रो योगिसम्मतः ॥ २५॥ (Page खं. ४ अ. १० पान ३२) ततो बहुगते काले प्रत्यक्षः स गजाननः । बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत् ॥ २६॥ स्तुतः सम्पूजितस्तेन ढुण्ढिराजस्तुतोष ह । गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम् ॥ २७॥ ईप्सितं तं वरं दत्त्वा तत्रैवान्तरधीयत । ढुण्ढिराजं तमभजत् राजेन्द्रोऽनन्यचेतसा ॥ २८॥ अन्ते नागरसंयुक्तो जगाम गणपं नृपः । सर्वैर्बभूव च ब्रह्मभूतो वै योगिसम्मतः ॥ २९॥ एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत् । माहात्म्यं कथितं राजन् सङ्क्षेपेण न संशयः ॥ ३०॥ अन्यत् कथान्तरं भूप श‍ृणु सर्वभयापहम् । वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत् ॥ ३१॥ मिथिलायां कदाचित् का वेश्या नरविमोहिनी । आगता तां निरीक्ष्यैव मोहिताः सकला नराः ॥ ३२॥ राज्ञा सम्मानिताऽत्यन्तं तत्र वासमरोचयत् । कदाचित्तीर्थगा सा वै सन्दृष्टा रक्षसा पुरः ॥ ३३॥ तां सङ्गृह्य ययौ रक्षः स्ववासं हर्षसंयुतः । सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा ॥ ३४॥ रक्षसा सान्त्विता तत्र न शोकं साऽत्यजत् कदा । तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता ॥ ३५॥ अतिशोकतया राजन्न बभक्ष जलादिकम् । पञ्चम्यां सा मृता तत्र भययुक्तेन चेतसा ॥ ३६॥ ततो गणेशदूतेन नीता स्वानन्दके पुरे । ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः ॥ ३७॥ अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत् । ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः ॥ ३८॥ मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः । चतुर्थ्या लभते सोऽपि सर्वार्थं संश‍ृणोति यः ॥ ३९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः ॥ ४.१०

४.११ पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं यन् मार्गशुक्लस्थचतुर्थी संज्ञितं मया । व्रतं तेन महाभाग सन्तृप्तो गुरुसत्तम ॥ १॥ अधुना पौषमासे या चतुर्थी वरदायिनी । तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम ॥ २॥ वसिष्ठ उवाच । श‍ृणु राजंश्च माहात्म्यं सङ्क्षेपेण वदाम्यहम् । विस्तरेण तु को वक्तुं समर्थः प्रभवेद्भुवि ॥ ३॥ अवन्तीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः । सुदन्त इति विख्यातः सर्वशास्त्रविशारदः ॥ ४॥ राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः । धर्मशास्त्रानुसारेण राजानमप्यबोधयत् ॥ ५॥ राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत् । पालयामास भूमिं स नानाधर्मकरः परः ॥ ६॥ (Page खं. ४ अ. ११ पान ३३) सुदन्तस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी । बभूव कर्मदोषेण वन्ध्या सा वै पतिव्रता ॥ ७॥ अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् । तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥ ८॥ नाऽभवत्तस्य तदपि पुत्रः परमसौख्यदः । विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥ ९॥ बभ्राम भ्रान्तचित्तोऽसौ यत्र तत्र महामतिः । मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥ १०॥ तत्राऽऽजगाम योगीन्द्रो वामदेवः प्रतापवान् । यदृच्छाविचरंस्तेन दृष्टः सन्नमितोऽभवत् ॥ ११॥ पूजयित्वा महात्मानं वामदेवं कृताञ्जलिः । जगाद खेदसंयुक्तः सुदन्तो योगिसत्तमम् ॥ १२॥ सुदन्त उवाच । वामदेव च मे धन्यं दुःखितस्य तपो वयः । ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥ १३॥ वन्ध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति । मृतस्य स्वर्गहीनस्य वद योगीन्द्रसत्तम ॥ १४॥ वामदेव उवाच । शुणु द्विज महाभाग त्वं सदा धर्मसंयुतः । तथापि पापचारी त्वं येन जातः श‍ृणुष्व तत् ॥ १५॥ अवन्तीपुरपालस्य आदरात्त्वं पुरोहितः । राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥ १६॥ चतुर्थीव्रतलोपश्च बभूवे भूमिमण्डले । चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥ १७॥ धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया । निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥ १८॥ एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः । विस्मितस्तं सुदन्तोऽसौ जगाद विनयान्वितः ॥ १९॥ सुदन्त उवाच । कीदृशं तद्व्रतं तात वद मे हितकारकम् । चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥ २०॥ तेन हीनो नरो यस्तु स कथं फलहीनकः । कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥ २१॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तज्जगाद सविस्तरम् । माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥ २२॥ पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा । गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥ २३॥ सुदन्त उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥ २४॥ एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् । गणेशबोधदाने स कुशलः सर्वपारगः ॥ २५॥ वामदेव उवाच । सुदन्त श‍ृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् । गाणपत्यो येन भक्तिभावितो भविताऽसि भोः ॥ २६॥ अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुतः । तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥ २७॥ ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम । शमे दमे परेणान्तर्निष्ठेन मनसो जयात् ॥ २८॥ योगभूमिक्रमेणाऽहं कालेन महता द्विज । सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥ २९॥ सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् । दृष्ट्वा शान्त्यर्थमत्यन्तं तत् त्यक्तं च मया ततः ॥ ३०॥ सन्धृतं मनसि ब्रह्म मनोवाणीविवर्जितम् । कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते ॥ ३१॥ (Page खं. ४ अ. ११ पान ३४) अधुना किं मया कार्यं विचार्य शरणं गतः । शङ्करं योगिवन्द्यं तं शैवोऽहं प्रणतोऽभवम् ॥ ३२॥ शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः । शम्भुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥ ३३॥ किमर्थमागतस्तात वामदेव महामते । वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥ ३४॥ शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृताञ्जलिः । अवदं तं महादेवं भक्तवाञ्छासुरद्रुमम् ॥ ३५॥ सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो । तस्मात् परं न विद्येत तथापि नुद संशयम् ॥ ३६॥ ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् । स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥ ३७॥ अतः शान्त्यर्थमेव त्वामहं प्रष्टुं समागतः । योगशान्तिप्रदं पूर्णं वद मां करुणानिधे ॥ ३८॥ वसिष्ठ उवाच । वामदेववचः श्रुत्वा हर्षितः शङ्करोऽब्रवीत् । तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥ ३९॥ श्रीशिव उवाच । योगशान्तिप्रदं पूर्णं गणेशं विद्धि भो मुने । जानीहि न परं ब्रह्म सहजं योगसेवया ॥ ४०॥ स्वानन्दाद्यत् समुत्पन्नमसत्यं सत्यरूपकम् । समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥ ४१॥ चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः । अयोगे नैव संयोगः केषाञ्चिद्ब्रह्मणां भवेत् ॥ ४२॥ गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः । णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥ ४३॥ तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः । शान्त्याऽसौ लभ्यते विप्र शान्तिभ्यः शान्तिदायकः ॥ ४४॥ चित्तं पञ्चविधं विद्धि बुद्धिरूपं न संशयः । चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥ ४५॥ तयोर्बिबं गणेशश्च बिम्बिभावं त्यज प्रभो । अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥ ४६॥ एवमुक्त्वा महादेवस्तस्मै मन्त्रं ददौ पुनः । एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥ ४७॥ तं प्रणम्य महेशानं वने यातोऽहमादरात् । तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥ ४८॥ एकाक्षरविधानेन सन्तुष्टो गणनायकः । योगशान्तिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥ ४९॥ ततोऽहं योगिवन्द्यश्च जातः सर्वत्र सम्मतः । तथापि विघ्नदहनमभजं नित्यमादरात् ॥ ५०॥ गतेषु दशवर्षेषु गणाधीशः समाययौ । ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥ ५१॥ गणेश उवाच । वामदेव महाभाग वरं वृणु हृदीप्सितम् । तव दास्यामि भक्त्याऽहं सन्तुष्टो योगिसत्तम ॥ ५२॥ गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः । प्रणम्य तं गणेशं सम्पूज्य स्तोतुं प्रचक्रमे ॥ ५३॥ वामदेव उवाच । गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥ मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक । ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥ आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते । आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥ नानामायाधरायैव मायिभ्यो मोहदायिने । (Page खं. ४ अ. ११ पान ३५) मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ ५७॥ विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते । ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ ५८॥ सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते । महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ ५९॥ महोग्राय महेशाय विष्णवे प्रभविष्णवे । अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ ६०॥ पुरुषाय प्रकृतये गुणेशाय गुणात्मने । एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ ६१॥ भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः । योगाय योगनाथाय योगिनां पतये नमः ॥ ६२॥ स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् । मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ ६३॥ सहसैवं संस्तुवतस्तस्य भक्तिरसेन च । रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ ६४॥ उवाच वामदेवं स नृत्यन्तं विघ्ननायकः । वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ ६५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् । श‍ृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ ६६॥ भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् । धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ ६७॥ गणेशवचनं श्रुत्वा तं जगाद महामुनिः । वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥ ६८॥ भक्तिं देहि गणाधीश गाणपत्यां विशेषतः । नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥ ६९॥ तथेति तमुवाचैव गणेशोंऽतर्दधे स्वयम् । वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥ ७०॥ तदादि शान्तिमापन्नस्त्वहं विप्र महामते । अतस्त्वं गणराजं तं भज शान्तिमवाप्स्यसि ॥ ७१॥ एकाक्षरं महामन्त्रं सुदन्ताय ददौ ततः । सविधिं वामदेवः सोंऽतर्धानमकरोन् मुनिः ॥ ७२॥ सुदन्तो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् । राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥ ७३॥ बृहद्रथाय वृत्तान्तं कथयामास भो नृप । तदाज्ञया नृपः सद्यो घोषयामास तद्व्रतम् ॥ ७४॥ तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता । तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥ ७५॥ व्रताचरणमात्रेण गर्भयुक्ता बभूव ह । मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥ ७६॥ ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् । शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप ॥ ७७॥ सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः । धनधान्यादिभिर्युक्ता अन्ते स्वानन्दगा बभुः ॥ ७८॥ सुदन्तो योगिवन्द्यश्च बभूवे योगसेवया । राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥ ७९॥ पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् । राजन् सर्वार्थदं पूर्णं पुनस्त्वं श‍ृणु मानद ॥ ८०॥ वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः । तत्र चोरैः समायातैर्लुण्ठितं तैर्धनं महत् ॥ ८१॥ तेषां शस्त्राभिघातेन पपात धरणीतले । वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥ ८२॥ दैवयोगेन सा देवी चतुर्थी शुक्लगा गता । (Page खं. ४ अ. १२ पान ३६) पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥ ८३॥ रात्रौ जागरणं तस्य सञ्जातं पीडया तदा । पञ्चम्यां स मृतः पापी धनलुब्धो महामते ॥ ८४॥ अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते । स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ८५॥ एवं जना व्रतेनैव मुक्ताः संसारसागरात् । इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥ ८६॥ इदं पौषचतुर्थ्यास्तु माहात्म्यं यः श‍ृणोति चेत् । पठेद्वै तस्य भो राजन् सर्वदं प्रभविष्यति ॥ ८७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ४.११

४.१२ माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते । न तृप्यामि महायोगिन्नमृतादधिकं मतम् ॥ १॥ माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् । वद येन जनाः सर्वे भवन्ति सुखभोगिनः ॥ २॥ वसिष्ठ उवाच । माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः । कश्यपस्य गृहे साक्षादङ्गारकयुता नृप ॥ ३॥ मुद्गल उवाच । एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् । कथयामास भो दक्ष देवान्तकवधाश्रितम् ॥ ४॥ श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नन्दनः । पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात ॥ ५॥ तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह । हर्षेण महता युक्तो गाणपत्येन्द्रसत्तमः ॥ ६॥ वसिष्ठ उवाच । अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् । श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥ ७॥ कर्णाटे भानुपुर्यां च राजा परमधार्मिकः । देवविप्रातिथिप्रेप्सुर्नीत्या राज्यं चकार सः ॥ ८॥ शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् । जित्वा भूमण्डलं सर्वं चक्रे सौराज्यमुत्तमम् ॥ ९॥ भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता । धर्मशीला रता दाने बभूवे रूपशालिनी ॥ १०॥ तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् । अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥ ११॥ स तु शौनकनामानं मुनिं सर्वार्थकोविदम् । ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥ १२॥ महावनं समासाद्य तं ननाम महामुनिम् । साष्टाङ्गं च पुरस्तस्य कृताञ्जलिपुटोऽभवत् ॥ १३॥ उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः । धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥ १४॥ वदन्तमेवं राजानमुवाच शौनको मुनिः । सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥ १५॥ शौनक उवाच । पुरा राजन् महाभाग वद मां सकलं तव । चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥ १६॥ एवं पृष्टो मुनीन्द्रेण सोमस्तं प्रत्युवाच ह । हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥ १७॥ सोम उवाच । कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः । (Page खं. ४ अ. १२ पान ३७) अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने ॥ १८॥ धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम् । तथापि पापयोगेन दुःखं प्राप्तं जनैः सह ॥ १९॥ तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान् । राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः ॥ २०॥ श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम् । शौनको मुनिशार्दूलो विनयेन समन्वितम् ॥ २१॥ शौनक उवाच । श‍ृणु राजन् महत् पापं तव राज्ये बभूव ह । तेन रोगयुता लोका वन्ध्यतादोषसंयुताः ॥ २२॥ तत्रापि यन् महद् दुःखमनावृष्टिसमुद्भवम् । सम्प्राप्तं कारणं तत्र वदामि त्वां नृपाधम ॥ २३॥ चतुर्थीसंज्ञकं राजन् व्रतं नष्टं विशेषतः । शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना ॥ २४॥ नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा । अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद ॥ २५॥ इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् । नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत् ॥ २६॥ पुनः पप्रच्छ भावेन शौनकं मुनिसत्तमम् । वद ब्रह्मन् गणेशस्य स्वरूपं शान्तिदं परम् ॥ २७॥ शौनक उवाच । पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वाश्रमे । अन्तर्निष्ठस्वभावेन ब्रह्मचिन्तनतत्परः ॥ २८॥ ततोऽकस्मान् महायोगी भृगुरस्माकमेव सः । बीजभूतः समायात आश्रमेऽनुग्रहाय मे ॥ २९॥ तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम् । आसने समुपावेश्याऽपूजयं च स्वभक्तितः ॥ ३०॥ कृताञ्जलिपुटं नम्रं पुरस्तस्य महात्मनः । संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः ॥ ३१॥ भृगुरुवाच । तात किं योगनिष्ठस्त्वं शान्तिं प्राप्तो वदस्व माम् । किमिच्छसि महाभाग वद तेऽहं ददामि तत् ॥ ३२॥ अस्मत्कुले महाभाग भवान् साधुगुणान्वितः । तेनाऽहं तृप्तिमायातः पूरयिष्यामि वाञ्छितम् ॥ ३३॥ एवं ब्रुवन्तमाद्यं तं मुनिमानम्य शौनकः । जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम् ॥ ३४॥ शौनक उवाच । योगशान्तिप्रदं पूर्णं ब्रूहि योगं महामुने । तेनाऽहं तृप्तिमत्यन्तं यास्यामि त्वदनुग्रहात् ॥ ३५॥ भृगुरुवाच । योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन तेन शान्तो भविष्यसि ॥ ३६॥ चित्तं पञ्चविधं तात तत्र चिन्तामणिः स्थितः । तं ज्ञात्वा ब्रह्मभूताश्चाऽभवन् ब्रह्मादयः सुत ॥ ३७॥ चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते । मोहं चित्तं परित्यज्य भव चिन्तामणिः स्वयम् ॥ ३८॥ मनोवाणीमयं चित्तं मनोवाणीविवर्जितम् । चित्तं जानीहि पुत्र त्वं तत्त्यक्त्वा च सुखी भव ॥ ३९॥ एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ । शौनकाय महायोगी भृगुश्चान्तर्हितोऽभवत् ॥ ४०॥ शौनक उवाच । भृगुणैवमहं राजन् उपदिष्टोऽभजं परम् । गणेशं योगभावेन चित्तनिग्रहणे रतः ॥ ४१॥ क्रमेण योगिवन्द्योऽहं जातस्तस्य महात्मनः । कृपया गणराजस्य तथापि स्म भजामि तम् ॥ ४२॥ (Page खं. ४ अ. १२ पान ३८) ततो मे वरदो जातो गणेशो भक्तवत्सलः । गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम् ॥ ४३॥ एवमुक्त्वा स राजेन्द्रं गणानां त्वा मनुं ददौ । शौनको मुनिशार्दूलो विधियुक्तं विधानवित् ॥ ४४॥ शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः । आययौ स्वगृहे तत्र प्रधानैरभिनन्दितः ॥ ४५॥ नागरैः सह सोमश्च माघे शुक्लचतुर्थिका । सम्प्राप्ता साऽऽदिकाले स चकार व्रतमुत्तमम् ॥ ४६॥ ततस्तेन प्रविख्यातं कृतं भूमितले नृप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ४७॥ व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च । सर्वे हर्षयुता लोका गणेशभजने रताः ॥ ४८॥ गणेशभजनं सोमश्चकार प्रेमसंयुतः । गणेशप्रीतये तत्राऽकरोद्देवालयं तथा ॥ ४९॥ महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम् । गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात् ॥ ५०॥ पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम् । लोकाः सर्वे सुखे मग्ना रोगवन्ध्यत्ववर्जिताः ॥ ५१॥ स्वधर्मनिरता नित्यमभजन् गणनायकम् । न गणेशसमं किञ्चिद्धारयामासुरादरात् ॥ ५२॥ सोमश्चान्ते गणेशानं ययौ लोकसमन्वितः । स्वानन्दे तं प्रणम्याऽसौ ब्रह्मभूतो बभूव ह ॥ ५३॥ एतत्ते कथितं भूप तथाऽन्यच्छृणु सुन्दरम् । चरित्रं व्रतसम्भूतं सर्वपापप्रणाशनम् ॥ ५४॥ कोऽप्यन्त्यजो विदर्भे वै कौण्डिन्ये नगरेऽवसत् । भानुनामा महापापी दुष्टकर्मपरायणः ॥ ५५॥ परस्त्रीलम्पटोऽत्यन्तं मद्यद्यूतरतः सदा । मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः ॥ ५६॥ जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप । कार्यहीनतया पापी ब्राह्मणानां वधे रतः ॥ ५७॥ इत्यादिदोषबाहुल्ययुक्तः परमदारुणः । कदाचिद्दैवयोगेन वने बभ्राम सोंऽत्यजः ॥ ५८॥ तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका । तत्रान्नजलहीनोऽयं पर्वतान्तरगोऽभवत् ॥ ५९॥ न प्राप्तवान् वने किञ्चिद् दुष्टस्तेन सुदुःखितः । क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः ॥ ६०॥ प्रभाते विमले सद्यः समुत्थाय गृहागतः । तृषितः स जलं तत्र पपावत्यन्तमादरात् ॥ ६१॥ ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप । ममार तं गृहीत्वा ते गाणेशा गणपं ययुः ॥ ६२॥ गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः । सायुज्यं गणनाथस्य लेभे वै तत्प्रभावतः ॥ ६३॥ अज्ञानव्रतजेनैव पुण्येनान्त्यजजातिजः । ब्रह्मभूतो महापापी बभूवे सूर्यवंशज ॥ ६४॥ एतादृशी महापुण्या चतुर्थी शुक्लगा मता । माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत् ॥ ६५॥ एवं नाना जना भूप ब्रह्मभूता बभूविरे । कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् ॥ ६६॥ माघे शुक्लचतुर्थ्यां यो महिमानं श‍ृणोति चेत् । पठेद्वा तस्य भो राजन् सिद्धिदं सुभविष्यति ॥ ६७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ ४.१२ (Page खं. ४ अ. १३ पान ३९)

४.१३ फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम् । पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात् ॥ १॥ वसिष्ठ उवाच । फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत् । तस्या माहात्म्यमाद्यं ते सङ्क्षेपेण ब्रवीम्यहम् ॥ २॥ मालवे नगरं ख्यातं सर्वशोभासमन्वितम् । भारकं सर्वधर्मज्ञैर्लोकैस्तत् सङ्कुलं बभौ ॥ ३॥ तत्र हेमाङ्गदो राजा चकार राज्यमुत्तमम् । जित्वा भूमण्डलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः ॥ ४॥ प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसम्मतः । पुत्रैस्तेजोयुतैर्युक्तो द्विजदेवातिथिप्रियः ॥ ५॥ ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह । उदरे शस्त्रसम्पातैरिव युक्तो रुरोद ह ॥ ६॥ नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात् । मन्त्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम् ॥ ७॥ तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः । असेवत ततस्तस्य शूलमुग्रं बभूव वै ॥ ८॥ ततः शूलेन राजाऽतिपीडितो दारुणेन वै । विषादिभिर्मतिं चक्रे देहत्यागे विशेषतः ॥ ९॥ ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः । तस्य गेहे तं ननाम स राजा दुःखसंयुतः ॥ १०॥ ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः । उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः ॥ ११॥ हेमाङ्गद उवाच । धन्यं मे जन्म दानादि पिता माता कुलादिकम् । स्वधर्मपुत्रदारादि त्वदङ्घ्रियुगदर्शनात् ॥ १२॥ ततोऽतिपीडया युक्तः पपात धरणीतले । रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः ॥ १३॥ पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः । किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् ॥ १४॥ सचिवा ऊचुः । शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः । तीर्थमन्त्रप्रयोगैश्च नानायत्नैर्महामुने ॥ १५॥ श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः । ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह ॥ १६॥ पर्वत उवाच । श‍ृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम् । वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि साम्प्रतम् ॥ १७॥ चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः । तेन दोषसमूहेन सजनस्त्वं सुदुःखितः ॥ १८॥ पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत् । कृत्वा करपुटं भूप विनयावनतो वचः ॥ १९॥ हेमाङ्गद उवाच । कीदृशं तद्व्रतं स्वामिन् केन सञ्चरितं पुरा । कस्यैव पूजनं तत्र वद मे सर्वमञ्जसा ॥ २०॥ पर्वत उवाच । सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम् । चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् ॥ २१॥ ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात् । तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत् ॥ २२॥ कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥ २३॥ पर्वत उवाच । पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम् । तदेव कथयिष्यामि निदाघात् सर्वदं परम् ॥ २४॥ अहं तपसि सन्तिष्ठन्नानायत्नपरायणः । (Page खं. ४ अ. १३ पान ४०) संव्याप्तं तपसा सर्वं मदीयेन महामते ॥ २५॥ इन्द्रः प्रक्षुभितोऽत्यन्तं काममप्सरसा युतम् । प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥ २६॥ ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः । तपसस्तेजसा सत्यं पलायत स सैनिकः ॥ २७॥ ततोऽहं तपसा युक्तोंऽतर्निष्ठश्चाऽभवं नृप । तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥ २८॥ नानाभूमिपरो जातस्ततोऽतिभाग्य गौरवात् । निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥ २९॥ दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः । अपूजयं विधानेन ततस्तं स्म वदामि वै ॥ ३०॥ धन्यो मे जनको माता तपो धन्यं जनुस्तथा । ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥ ३१॥ अधुना वद मे नाथ योगं शान्तिप्रदायकम् । येनाऽहं योगिवन्द्यश्च भवेयं साधनान् मुने ॥ ३२॥ वसिष्ठ उवाच । इति पृष्टो महातेजा निदाघस्तमुवाच ह । पर्वतं तपसा शुद्धं प्रहृष्टेनान्तरात्मना ॥ ३३॥ निदाघ उवाच । श‍ृणु वृत्तं मदीयं ते कथयामि पुरातनम् । येन योगीन्द्र वन्द्यश्च जातोऽहं योगसेवया ॥ ३४॥ अहं योगार्थमत्यन्तं योगभूमिपरायणः । असाधयं महायोगं ब्रह्मभूयकरं परम् ॥ ३५॥ ततोंऽतेऽहं सदानन्दे समः स्वानन्दकेऽभवम् । संस्थितस्तत्र भो राजन् दृष्टमानन्दरूपकम् ॥ ३६॥ द्वन्द्वैः सर्वत्र संव्याप्तं द्वन्द्वे तद् योगरूपि च । तेन शान्तिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥ ३७॥ तं प्रणम्य महात्मानमवदं वद शान्तिदम् । योगं विष्णो महायोगिन् येन शान्तो भवाम्यहम् ॥ ३८॥ विष्णुरुवाच । योगशान्तिप्रदं तात गणेशं विद्धि मानद । तं ज्ञात्वा शान्तिमापन्ना वयं सर्वे च योगिनः ॥ ३९॥ मनोवाणीमयं विद्धि गकारं च तयोः परम् । मनोवाणीविहीनं तं णकारं योगिसम्मतम् ॥ ४०॥ तयोः स्वामी गणाधीशस्तं भजस्व विधानतः । ततः शान्तिं महाभाग लभसे नाऽत्र संशयः ॥ ४१॥ एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः । तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥ ४२॥ एकाक्षरस्य मन्त्रस्य सन्तुष्टोऽभूद्गजाननः । गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥ ४३॥ ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् । ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥ ४४॥ स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः । योगशान्तिं गणेशानो दत्त्वा मे प्रजगाम ह ॥ ४५॥ तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै । भजस्व गणराजं त्वमतस्तं शान्तिदं परम् ॥ ४६॥ एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततः सोंऽतर्हितोऽभवत् ॥ ४७॥ पर्वत उवाच । भजामि गणनाथं स्म ततोऽहं नित्यमादरात् । तेनोक्तविधिना राजन् शान्तिं प्राप्तो विशेषतः ॥ ४८॥ अपूजयं हि गणपं ततो नित्यं तपोन्वितः । ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥ ४९॥ स्तुतः सम्पूजितो मे स भक्तिं दत्त्वा महामते । स्वानन्दे स गतो राजन् भक्तानन्दविवर्धनः ॥ ५०॥ (Page खं. ४ अ. १३ पान ४१) एवमुक्त्वा पर्वतस्तं ददौ मन्त्रं दशाक्षरम् । गणेशस्य महाराज ततश्चान्तर्हितोऽभवत् ॥ ५१॥ राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः । फाल्गुने भूप शुक्लस्थचतुर्थीसंज्ञकं परम् ॥ ५२॥ ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप । शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः ॥ ५३॥ ततः शुलव्यथाहीनो बभूवे राजसत्तमः । दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः ॥ ५४॥ पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः । धनधान्यादिभिः सर्वे मुमुदुर्भूमिमण्डले ॥ ५५॥ ततो हेमाङ्गदो राजा भक्त्या विघ्नेशमुत्तमैः । उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात् ॥ ५६॥ पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शान्तिसंयुतः । गणेशं सर्वभावेनान्ते च तन्मयतामयात् ॥ ५७॥ क्रमेण भूमिसंस्था ये नराः स्वानन्दगा बभुः । भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः ॥ ५८॥ अधुना श‍ृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम् । भाकरे नगरे विप्रो वसद्वै जातिदूषणः ॥ ५९॥ बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम् । हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् ॥ ६०॥ परस्त्रीलम्पटो नित्यं यौवने सोऽतिदारुणः । पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह ॥ ६१॥ शस्त्रधारी वने गत्वा जन्तून् जघ्ने स नित्यशः । द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय ॥ ६२॥ एवं पापसमाचारो वने कस्मिन् दिने स्थितः । वैश्यं दृष्ट्वा च तं हन्तुमधावत् स वधप्रियः ॥ ६३॥ पलता वैश्यपुत्रेण नादस्तत्र कृतो महान् । तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषाऽऽययुः ॥ ६४॥ ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम् । राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः ॥ ६५॥ राज्ञाऽऽज्ञप्ताश्च तं तत्राताडयंस्ते द्विजाधमम् । नाविदन् ब्राह्मणं राजंश्चिक्षिपुर्निगडे द्विजम् ॥ ६६॥ ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता । बद्धस्तत्र निराहारो बभूवे स नराधमः ॥ ६७॥ पञ्चम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः । दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः ॥ ६८॥ स स्वानन्दपुरे नीतो गाणपत्यैर्नृपात्मज । तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ६९॥ एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे । तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते ॥ ७०॥ फाल्गुने वरदायास्तु चरित्रं यः श‍ृणोति चेत् । पठेद्वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि ॥ ७१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ ४.१३ (Page खं. ४ अ. १४ पान ४२)

४.१४ चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं चरित्रं मुख्यं यच्चतुर्थ्याः फाल्गुने मया । शुक्लायाः सर्वदं योगिन् न तृप्तोऽहं भवामि तु ॥ १॥ अतो मां चैत्रगाया यद्वरदायाश्चरित्रकम् । गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनाम् ॥ २॥ वसिष्ठ उवाच । बङ्गालं नगरं ख्यातं शोभाभद्राख्यमुत्तमम् । तत्र चन्द्रप्रियो राजा प्रचक्रे राज्यमुत्तमम् ॥ ३॥ शस्त्रास्त्रैः शत्रुसङ्घातान् जित्वा वीरश्रिया युतः । सागरान्तां धरित्रीं स चकार वशवर्तिनीम् ॥ ४॥ सामन्ता वशगाः सर्वे चक्रुः सेवादिकं नृपाः । तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः ॥ ५॥ स्वयं धर्मपरो राजा नीत्या वर्णाश्रमादिषु । संस्थितान् रक्षयंश्चैव सदा हीनानदण्डयत् ॥ ६॥ चौराणां न भयं तत्र स्वस्वव्यापारकारिणाम् । तथापि रोगसंयुक्ता नरा नार्योऽभवन् हि वै ॥ ७॥ वन्ध्यादिदोषसंयुक्ता जनाः सर्वे समाययुः । राजानं सर्वनीतिज्ञं पप्रच्छुश्चेष्टितं महत् ॥ ८॥ नागरादय ऊचुः । वयं राजन् स्वधर्मस्था त्वदाज्ञावशवर्तिनः । अपि त्वं धर्मसंयुक्तः प्रधानादिभिरादरात् ॥ ९॥ तथापि रोगदोषैश्च वन्ध्यदोषैर्विशेषतः । धनधान्यविहीनाश्च पीडिता वयमुत्कटम् ॥ १०॥ पृथिवी रसहीना वै फलहीना महीरुहाः । गावो दुग्धविहीनाश्च तव राज्ये महामते ॥ ११॥ धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः । विपरीतं महाराज त्वयि राज्यं प्रशासति ॥ १२॥ अतोऽस्मान् रक्ष भूपाल रोगादिभिः प्रपीडितान् । अस्माकं बलमत्यन्तं त्वमेव परमं मतम् ॥ १३॥ वसिष्ठ उवाच । चन्द्रप्रियो वचः श्रुत्वा तेषामेवं सुदुःखितः । प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ १४॥ वने गन्तुं मनश्चक्रे ततस्तत्राऽऽजगाम ह । अष्टावक्रो महायोगी तं दृष्ट्वा प्रणनाम सः ॥ १५॥ सम्पूज्य भोजयामास पादसंवाहने रतः । स्वयं स्थितो महाविप्रमूचेऽसौ दुःखसंयुतः ॥ १६॥ चन्द्रप्रिय उवाच । धन्यं मे जन्म कर्मादि पिता माता तपो यशः । दानं ज्ञानं तथा योगिन् त्वत्पादयुगदर्शनात् ॥ १७॥ ततः सर्वं स्ववृत्तान्तं कथयामास यत्नतः । अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम् ॥ १८॥ अष्टावक्र उवाच । राजन् राज्ये त्वदीये यत् महत्पापं प्रवर्तते । तेन दुःखयुता सर्वा प्रजा जाता न संशयः ॥ १९॥ चतुर्णां पुरुषार्थानां प्रापकं यन्महाव्रतम् । चतुर्थीसंज्ञकं नष्टं तव राज्ये नृपाधम ॥ २०॥ पुरुषार्थैर्नरास्तेन हीनाः सर्वेऽधुना परम् । अन्ते नरकगा राजन् भविष्यन्ति त्वया सह ॥ २१॥ अष्टावक्रवचः श्रुत्वा तं प्रणम्य महीपतिः । उवाच दुःखसंयुक्तो वचनं स्वहितप्रदम् ॥ २२॥ चन्द्रप्रिय उवाच । ब्रह्मन् दयानिधे स्वामिन् वद मे व्रतमुत्तमम् । कीदृशं कस्य देवस्य प्रियमित्यादिकं प्रभो ॥ २३॥ अष्टावक्र उवाच । कृष्णशुक्लचतुर्थीजं व्रतं गाणेश्वरं नृप । सर्वादौ तत् प्रकर्तव्यं धर्मकामार्थमुक्तये ॥ २४॥ इत्युक्त्वा कथयामास चरित्रं सकलं द्विजः । (Page खं. ४ अ. १४ पान ४३) चतुर्थीसम्भवं तात श्रुत्वा राजा सुविस्मितः ॥ २५॥ पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः । कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम् ॥ २६॥ वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः । व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् ॥ २७॥ अष्टावक्र उवाच । गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते । तथापि श‍ृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम् ॥ २८॥ पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः । सुरूपका अप्सरसो याताश्चलयितुं ततः ॥ २९॥ तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः । मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि ॥ ३०॥ इति मद्गिरमाकर्ण्य भयभीताः समन्ततः । ता मां प्रसादयामासुस्ततोऽहं दयया युतः ॥ ३१॥ अवदं तत्र विष्णुर्वै यादवेषु भविष्यति । तस्य पत्न्यो भविष्यन्त्योंऽते चौराणां भविष्यथ ॥ ३२॥ गता अप्सरसो राजंस्ततोऽहं तप आचरम् । प्रभावेणातितपसोंऽतर्ज्ञानं मेऽभवत् परम् ॥ ३३॥ ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम् । नानायोगविचारेण समाधिं साधयन्नृप ॥ ३४॥ एवमन्ते समानन्दे संस्थितोऽहं विशेषतः । तत्र मोहं समालोक्य समरूपे सुविस्मितः ॥ ३५॥ ततः शान्त्यर्थमत्यन्तं क्लिश्यामि स्म महामते । ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः ॥ ३६॥ वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः । प्रणम्याऽहं विशेषेणापूज्योवाचं महामुनिम् ॥ ३७॥ धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा । तव पादस्य योगेन कृतकृत्योऽस्मि साम्प्रतम् ॥ ३८॥ एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः । किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत् ॥ ३९॥ ततस्तं प्रणतो भूत्वा कृताञ्जलिपुटः पुनः । अवदं योगशान्तिं मे वद योगीन्द्रसत्तम ॥ ४०॥ ऋभुरुवाच । संयोगः पञ्चधा तात सदसत्समनेतितः । स्वसंवेद्यमयेनैव मुने योगेन लभ्यते ॥ ४१॥ अयोगः पञ्चभिर्हीनो निवृत्या लभ्यते जनैः । तयोर्योगे भवेद्योगो लभ्यते शान्तिमार्गतः ॥ ४२॥ तमेव गणराजं त्वं ज्ञात्वा भज महामते । तेन शान्तिभवं सौख्यं लभसे नान्यथा क्वचित् ॥ ४३॥ संयोगो हि गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणेशानः पश्य वेदे महामते ॥ ४४॥ अहं पुरा युतो भ्रान्त्या नानायोगपरायणः । अभवं तत्र भो विप्र सहजेन समाश्रितः ॥ ४५॥ स्वाधीनत्वमहो दृष्ट्वा तत्र तेन सुविस्मितः । शरणं शङ्करस्यैव गतोऽहं योगकाम्यया ॥ ४६॥ शङ्करेणोपदिष्टः स्म भजामि गणनायकम् । एकाक्षरविधानेन तेन शान्तिं गतोऽभवम् ॥ ४७॥ एवमुक्त्वा गणेशस्य मह्यं मन्त्रं ददौ ऋभुः । एकाक्षरस्य मन्त्रस्य जपैः शान्तिं गतोऽभवम् ॥ ४८॥ अष्टावक्रः प्रसन्नात्मा योगिवन्द्यो महायशाः । तस्मै नृपाय मन्त्रं स ददौ द्वादशवर्णकम् ॥ ४९॥ सविधिं मन्त्रराजं तं दत्त्वा चान्तर्हितोऽभवत् । (Page खं. ४ अ. १५ पान ४४) राजा विघ्नेश्वरस्यैव भजने तत्परोऽभवत् ॥ ५०॥ तत्रादौ चैत्रमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैः स्वजनैः पुरा ॥ ५१॥ ततः स घोषयामास व्रतं जनपदेषु तत् । शौक्लं कार्ष्णं विशेषेण चक्रुः सर्वे जनास्तथा ॥ ५२॥ ततो रोगादिभिर्हीना बभूवुः पुत्रसंयुताः । नानादोषविहीनास्ते विहारं चक्रुरादरात् ॥ ५३॥ चन्द्रप्रियो गणेशानमभजन्नान्यचेतसा । पुत्रे राज्यं निवेद्यैव सस्त्रीको वनगोऽभवत् ॥ ५४॥ ततः स्वल्पेन कालेन सस्त्रीको नृपसत्तमः । स्वानन्दे गणपं गत्वा ब्रह्मभूतो बभूव ह ॥ ५५॥ क्रमेण भूमिसंस्था ये व्रतपुण्यप्रभावतः । ब्रह्मभूता बभूवुस्ते दृष्ट्वा गणपतिं नृप ॥ ५६॥ अन्यत्त्वं श‍ृणु चैत्रे वै शुक्लपक्षे चतुर्थिका । तस्याश्चरित्रं पापघ्नं सर्वसिद्धिप्रदायकम् ॥ ५७॥ मालवे शूद्रजः पापी कोऽवसन् वनगोचरान् । जघान पथिकान् दुष्टो द्रव्यलोभी नराधमः ॥ ५८॥ तस्य पापस्य सङ्ख्यानं कर्तुं नैव भवाम्यहम् । समर्थो गणना त्यक्ता ग्रन्थबाहुल्यदोषतः ॥ ५९॥ तं कदाचिद्वने संस्थं वृक्षाग्रे शस्त्रधारकम् । वञ्चयित्वा जनान् घ्नन्तं तत्र सर्पो ददंश ह ॥ ६०॥ ततः सोऽपि भयोद्विग्नः स्वगृहं प्रत्यपद्यत । ततो विषेण राजेन्द्र पीडितो मूर्च्छितोऽभवत् ॥ ६१॥ दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप । चैत्रे प्राप्ता च शूद्रोऽभूत् पीडयाऽन्नविवर्जितः ॥ ६२॥ पञ्चम्यां स मृतः पापी गतः स्वानन्दके पुरे । व्रतपुण्यप्रभावेणाऽज्ञानेनाऽपि नृपात्मज ॥ ६३॥ एवं नानाविधा राजन् ब्रह्मभूता बभूविरे । तेषां चरित्रकं वक्तुं शक्यते न मया कदा ॥ ६४॥ इदं चैत्रचतुर्थ्यास्तु शुक्लायाः संश‍ृणोति चेत् । माहात्म्यं स लभेत् कामानीप्सितान् पठते यदा ॥ ६५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः ॥ ४.१४

४.१५ वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । अधुना शुक्लगायास्तु वैशाखे चरितं वद । चतुर्थ्याः शुभदं पूर्णं न तृप्यामि कथामृतात् ॥ १॥ वसिष्ठ उवाच । गुर्जरे सर्वशोभाढ्यं नगरं भद्रकं परम् । तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान् ॥ २॥ सर्वशास्त्रार्थसम्पन्नो यज्वा दानप्रियः सदा । देवद्विजातिथिप्रेप्सुः शस्त्रास्त्रे पारगोऽभवत् ॥ ३॥ सर्वान् राज्ञो वशे कृत्वा पृथिवीमण्डलाधिपः । बभूव बलसम्पन्नः सर्वमान्यो महामतिः ॥ ४॥ तस्य पत्नी मृता सद्यो रजो दर्शनमात्रतः । द्वितीया च कृता पत्नी समशीला नृपेण ह ॥ ५॥ साऽपि तद्वन् मृता राजन्नेवं पञ्च मृतास्ततः । पत्न्योऽभवन् सुदुःखार्तो राजा ब्रह्मप्रियोऽभवत् ॥ ६॥ (Page खं. ४ अ. १५ पान ४५) राज्यं निक्षिप्य राजर्षिः प्रधानेषु ययौ वनम् । स्वगुरुं श्वेतकेतुं स प्रणम्य पुरतः स्थितः ॥ ७॥ श्वेतकेतुः स्वशिष्यं तमासनादिषु मानदम् । संस्थाप्य कुशलत्वेन मानयामास हर्षितः ॥ ८॥ भोजयित्वा स राजानं महत् पप्रच्छ कारणम् । किमर्थं राजशार्दूल कृतमागमनं त्वया ॥ ९॥ वद तत् कारणं मुख्यं तत् करिष्येऽहमादरात् । (Page खं. ४ अ. १५ पान ४५) ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः ॥ १०॥ एवं पृष्टः स राजर्षिस्तं प्रणम्य कृताञ्जलिः । जगाद सर्वं वृत्तान्तं पत्नीनाशात्मकं स्वयम् ॥ ११॥ तच्छ्रुत्वा गाणपत्यश्च श्वेतकेतुर्महातपाः । ध्यानेनालोक्य तं भूपं जगाद क्रोधसंयुतः ॥ १२॥ श्वेतकेतुरुवाच । नृपाधम महापापिन् श‍ृणु मे वचनं हितम् । व्रतं मुख्यं चतुर्थ्यास्ते राज्ये नष्टं विशेषतः ॥ १३॥ चतुर्थीव्रतहीनस्य कर्म सर्वं सुनिष्फलम् । नारकी च भवत्यन्ते स नरो नात्र संशयः ॥ १४॥ चतुर्भिः पुरुषार्थैस्त्वं वर्जितो नितरां नृप । चतुःपदार्थदातृत्वाच्चतुर्थी कथिता बुधैः ॥ १५॥ श्वेतकेतुवचः श्रुत्वा कोपयुक्तं महीपतिः । प्रणम्य तमुवाचाऽथ लज्जितः खेदसंयुतः ॥ १६॥ ब्रह्मप्रिय उवाच । अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यत् । अनाचरणकं तेन क्षमस्व करुणानिधे ॥ १७॥ वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परम् । पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै ॥ १८॥ एवं पृष्टो महातेजाः श्वेतकेतुस्तमब्रवीत् । माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीत् ॥ १९॥ ब्रह्मप्रिय उवाच । कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुतम् । स्वरूपं वद मे तस्य भजिष्यामि तमादरात् ॥ २०॥ श्वेतकेतुरुवाच । श‍ृणु राजन् पुरावृत्तं कथयामि समासतः । मदीयं चेष्टितं तेन गणेशं ज्ञास्यसे परम् ॥ २१॥ अहं पुरा तपोनिष्ठो बभूवातितरां नृप । उद्दालकं प्रणम्यैव पितरं साधने रतः ॥ २२॥ ततोऽतितपसा युक्तं दृष्ट्वा मां जनको वचः । जगाद स्नेहसंयुक्तः शान्तिदाता महायशाः ॥ २३॥ उद्दालक उवाच । पुत्र शान्त्यर्थमेव त्वं तपस्त्यक्त्वा महामते । कुरु श्रमं विशेषेण ब्रह्माहमिति धारयन् ॥ २४॥ कोऽसि त्वं कुत आयातो कुत्र गच्छसि मां वद । चित्ते चिन्तामणिं तात पश्य पश्य विशेषतः ॥ २५॥ पितुर्वचनमाकर्ण्य तमहं पुनरब्रवम् । वद तात स्वपुत्राय ज्ञानं शान्तिप्रदं महत् ॥ २६॥ चित्तं च कीदृशं तात तत्र चिन्तामणिः कथम् । सोऽपि तिष्ठति विप्रेश कथं ज्ञेयो महात्मभिः ॥ २७॥ वसिष्ठ उवाच । एवं पृष्टो महायोगी तमारुणिरुवाच ह । हर्षेण महता युक्तो गाणपत्यस्वभाववान् ॥ २८॥ उद्दालक उवाच । श‍ृणु पुत्र महाभाग योगशान्तिप्रदायकम् । येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥ २९॥ चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते । विक्षिप्तं च तथैकाग्रं निरोधं भूमिसंज्ञितम् ॥ ३०॥ तत्र प्रकाशकर्ताऽसौ हृदि चिन्तामणिः स्थितः । साक्षाद्योगेन योगज्ञैर्लभ्यते भूमिनाशनात् ॥ ३१॥ (Page खं. ४ अ. १५ पान ४६) चित्तरूपा स्वयं बुद्धिश्चित्तभ्रान्तिकरी मता । सिद्धिर्माये गणेशस्य मायाखेलक उच्यते ॥ ३२॥ अतो गणेशमन्त्रेण गणेशं भज पुत्रक । तेन त्वं ब्रह्मभूतत्वं शान्त्या योगेन यास्यसि ॥ ३३॥ इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथाऽऽरुणिः । एकाक्षरं स्वपुत्राय नृप ध्यानादिसंयुतम् ॥ ३४॥ तेनाऽहं साधयामि स्म गणेशं सर्वसिद्धिदम् । क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवं ततः ॥ ३५॥ अतस्त्वमपि राजेन्द्र भजस्व गणनायकम् । तेनेहपरलोकस्थसुखं प्राप्स्यसि शाश्वतम् ॥ ३६॥ ब्रह्मणि ब्रह्मभूतस्त्वं भविष्यसि न संशयः । एवमुक्त्वा स द्वात्रिंशदक्षरस्थं ददौ मनुम् ॥ ३७॥ विधियुक्तं मनुं राजाऽऽगृह्य स्वगृहमाययो । श्वेतकेतुं प्रणम्यैव हर्षयुक्तेन चेतसा ॥ ३८॥ तत्राऽऽदौ शुक्लपक्षस्था वैशाखी च समागता । चतुर्थी तां चकाराऽसौ नागरैर्हर्षसंयुतः ॥ ३९॥ तेन सर्वत्र घोषश्च व्रतस्य प्रकृतो महान् । शौक्लं कार्ष्णं व्रतं चक्रुर्भूमिसंस्था जना नृप ॥ ४०॥ राजा स्वस्त्रीसमायुक्तोऽभजत्तं गणनायकम् । पुत्रं राज्ये समास्थाप्य निवृत्त्या संयुतोऽभवत् ॥ ४१॥ मन्त्रं जजाप विघ्नेशं ध्यात्वा पूजापरायणः । व्रतयुक्तस्तथांऽते स ब्रह्मभूतो बभूव ह ॥ ४२॥ ब्रह्मप्रियेति नामाऽभूत् तदेवं सार्थकं कृतम् । तेन राज्ञा महाभाग गाणपत्यस्वभावतः ॥ ४३॥ तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिप । क्रमेण ब्रह्मभूतास्तेऽभवन् स्वानन्दके पुरे ॥ ४४॥ उद्दालकश्वेतकेतू गाणपत्यस्वभावतः । अवधूतौ तु विख्यातौ बभूवाते महाप्रभू ॥ ४५॥ श्वेतकेतुद्विजेनाऽपि मर्यादा प्रकृता बलात् । सर्वेभ्यः सुखदाऽत्यन्तं तां श‍ृणुष्व विशेषतः ॥ ४६॥ कदाचिदारुणिस्तत्र सस्त्रीकः स्वाश्रमे स्थितः । आजगाम द्विजः कश्चित् सर्वशास्त्रविशारदः ॥ ४७॥ जगाद स्त्रियमेवं स आरुणेः कामविह्वलः । मैथुनाय समागच्छ मया सह सुरूपिणि ॥ ४८॥ तच्छ्रुत्वा श्वेतकेतुं तं क्रुद्धमारुणिरब्रवीत् । मा क्रोधं कुरु पुत्र त्वमवृतास्तु स्त्रियो मताः ॥ ४९॥ तच्छ्रुत्वा पितरं प्राह श्वेतकेतू रुषा युतः । एवं चेत् पतिमेकं वृणोति सा कामिनी कथम् ॥ ५०॥ अतो वै वेधसा स्वामिन्न कृतं कर्म शाश्वतम् । असमञ्जसकं मत्वा मर्यादां कारयाम्यहम् ॥ ५१॥ अद्यप्रभृति रागेण स्पृशेद्यश्च परस्त्रियम् । स्त्रीहत्यां लभतां तत्र पुरुषः स न संशयः ॥ ५२॥ अथवा पुरुषं कञ्चित् पतिं त्यक्त्वा च कामिनी । गच्छेन् मैथुनभावार्थं पतिहत्यां तु सा लभेत् ॥ ५३॥ यद्यहं गणराजस्य भक्तश्चेद्विघ्ननायक । तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः ॥ ५४॥ तदादि संवृता स्त्री सा सेवते भावतः पतिम् । विनायकप्रसादेन तेनेयं स्थापिताऽभवत् ॥ ५५॥ प्रसङ्गात्ते मया ख्यातमुद्दालकविचेष्टितम् । माहात्म्यमन्यदधुना चतुर्थीसम्भवं श‍ृणु ॥ ५६॥ महाराष्ट्रे द्विजः कश्चित् परस्त्रीलम्पटोऽभवत् । (Page खं. ४ अ. १६ पान ४७) तदर्थं तेन मद्यस्य कृतं पानं विशेषतः ॥ ५७॥ चौर्येण धनमादाय हिंसाकर्मपरायणः । नानापापरतो भूत्वा परस्त्रियमसेवत ॥ ५८॥ जगाम शूद्रगेहे स एकदा कामविह्वलः । धनं गृहीत्वा स्वं लब्धं धनं दत्त्वा रराम ह ॥ ५९॥ एवं किञ्चिद्गते काले शूद्रः स्वगृहमागतः । तेन शस्त्राभिघातेन हतोऽभूत्स द्विजाधमः ॥ ६०॥ तस्मिन् दिने समायाता चतुर्थी दैवयोगतः । तत्र शस्त्राभिघातस्य पीडया संयुतोऽभवत् ॥ ६१॥ अन्नादिभिर्विहीनश्च पञ्चम्यां स ममार ह । ततः स्वानन्दके लोके जगाम भृशपूजितः ॥ ६२॥ वैशाखशुक्लपक्षस्य चतुर्थीव्रतयोगतः । ब्रह्मभूतः स वै जातो महापापपरायणः ॥ ६३॥ अज्ञानव्रतजेनैव पुण्येनाऽसौ द्विजाऽधमः । ब्रह्मभूतश्च सञ्जातो ज्ञानिनां तत्र का कथा ॥ ६४॥ नाना जना व्रतं कृत्वा ज्ञानतोऽज्ञानतो नृप । बभूवुर्ब्रह्मभूताश्च मया वक्तुं न शक्यते ॥ ६५॥ एतद् वैशाखशुक्लायाश्चतुर्थ्याः श‍ृणुयात्तु यः । माहात्म्यं प्रपठेद्वाऽपि स लभेदीप्सितं फलम् ॥ ६६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ ४.१५

४.१६ ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रुतं वैशाखमासे वै शुक्लायाः फलमुत्तमम् । चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो ॥ १॥ वसिष्ठ उवाच । आन्ध्रे शेषपुरे राजन् राजाऽभूत् कर्दमाभिधः । शस्त्रास्त्रनिपुणोऽत्यन्तं नानाधर्मपरायणः ॥ २॥ वशं भूमण्डलं यस्य समुद्रान्तं बभूव ह । तेजसा धर्मनीत्या वै ह्यतुलो यशसाऽभवत् ॥ ३॥ दैवयोगेन तस्याऽभूत् प्रमेहश्चाऽतिदारुणः । अग्निवद् दाहको देहे पापेन प्रेरितः परः ॥ ४॥ तेनातिपीडितो राजा मूत्रितुं न शशाक सः । रुरोद कर्दमो भूत्वा सदा दाहयुतो भृशम् ॥ ५॥ नानोपायाः कृतास्तेन शान्तो रोगो बभूव न । ततो राज्यं परित्यज्य सस्त्रीकः स ययौ वनम् ॥ ६॥ वनाद्वनान्तरं गत्वा महोग्रं भयवर्धनम् । सिंहव्याघ्रादियुक्तं च मरणाय रुरोद ह ॥ ७॥ तत्राऽऽजगाम विप्रेन्द्रो भरद्वाजो महायशाः । तं दृष्ट्वा सहसोत्थाय सस्त्रीकः प्रणनाम सः ॥ ८॥ स हि बध्वा करपुटं तत्पुरः संस्थितोऽभवत् । ततोऽतिदाहसंयुक्तः पपात च रुरोद सः ॥ ९॥ तादृशं नृपनाथं स दृष्ट्वा योगीन्द्रसत्तमः । ध्यानेनालोक्य राजानमुवाच दयया युतम् ॥ १०॥ भरद्वाज उवाच । श‍ृणु कर्दम राजेन्द्र वचनं मे हितावहम् । येन दुःखविहीनस्त्वं भविष्यसि महामते ॥ ११॥ (Page खं. ४ अ. १६ पान ४८) चतुर्थीव्रतमत्यन्तं नष्टं राज्ये त्वदीयके । तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः ॥ १२॥ अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते । पुण्येन तेन राजेन्द्र दुःखहीनो भविष्यसि ॥ १३॥ भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः । कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च ॥ १४॥ कर्दम उवाच । भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकम्पितः । व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम् ॥ १५॥ भरद्वाज उवाच । सङ्कष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके । व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम् ॥ १६॥ सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप । चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत् ॥ १७॥ अतो हीनश्चतुर्भिस्त्वं स जनो नरके नृप । पतिष्यसि न सन्देहस्तदर्थं यत्नमाचर ॥ १८॥ एवमुक्त्वा स माहात्म्यं चतुर्थीसम्भवं नृप । कथयामास भूपाय श्रुत्वा राजा ननन्द ह ॥ १९॥ पुनः पप्रच्छ तं विप्रं भरद्वाजं स कर्दमः । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ॥ २०॥ भरद्वाज उवाच । गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप । न समर्थास्तथाऽपि त्वं श‍ृणु सारं सुखप्रदम् ॥ २१॥ पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम् । सर्वं चराचरं राजन् मदधीनं बभूव ह ॥ २२॥ तथाऽपि तपसोग्रेणाऽसाधयं तु तपः पुनः । ततोंऽतर्ज्ञानभावे मे मतिर्जाता सुपुण्यतः ॥ २३॥ तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम् । जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात् ॥ २४॥ ततः क्रमेण भो राजन्नसत्स्वानन्दगोऽभवम् । तत्र सम्पूर्णयोगेन शान्तिं प्राप्तो विशेषतः ॥ २५॥ तस्माद्भेदादिकं सर्वमुत्पन्नं तु विशेषतः । तद् दृष्ट्वा क्षुभितोऽत्यन्तं शान्तिहीनो यथाऽभवम् ॥ २६॥ ततोऽकस्माद्रैवतो यो महायोगी समागतः । आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन् ॥ २७॥ स्वासने सुखमासीनमब्रवं तं महामुनिम् । अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै ॥ २८॥ वद मे योगशान्तिं त्वं योगीन्द्राणां गुरुर्भवान् । तिष्ठामि शान्तिगो भूत्वा ययाऽहं योगधारकः ॥ २९॥ रैवत उवाच । स्वानन्दः पञ्चधा प्रोक्तः सदसत्समनेतितः । चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः ॥ ३०॥ अयोगः स्वस्वरूपेण हीनः सर्वत्र सम्मतः । तयोर्योगो भरद्वाज योगशान्तिप्रदायकः ॥ ३१॥ स्वसंवेद्यो गकारश्च णकारो योग उच्यते । तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः ॥ ३२॥ तं भजस्व महाभाग ततः शान्तिमवाप्स्यसि । नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि ॥ ३३॥ एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा । तेनाऽहं शान्तिमापन्नो गाणपत्यश्चरामि वै ॥ ३४॥ एवमुक्त्वा ददौ तस्मै स्वमन्त्रं सिद्धिदायकम् । एकाक्षरं गणेशस्य सविधिं न्याससंयुतम् ॥ ३५॥ पूजितो रैवतस्तेन जगाम स्वेच्छया चरन् । भरद्वाजो गणेशानमभजन्नान्यचेतसा ॥ ३६॥ ततः शान्तिं समापन्नो तथापि भजने रतः । (Page खं. ४ अ. १६ पान ४९) गतेषु दशवर्षेषु विघ्नेशस्तं समाययौ ॥ ३७॥ तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् । स साम्नामष्टनामार्थस्तोत्रेण प्रणनाम ह ॥ ३८॥ ततो मां गाणपत्यं स कृत्वा स्वानन्दगोऽभवत् । गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः ॥ ३९॥ एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् । अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ ४०॥ ततश्चान्तर्हितो राजन् भरद्वाजो महामुनिः । कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम् ॥ ४१॥ तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता । चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः ॥ ४२॥ वरदं सङ्कटं शुक्ले चतुर्थीजं च कृष्णके । न करोति नरो यः स सन्ताड्यो नगराद्बहिः ॥ ४३॥ प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम् । कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम् ॥ ४४॥ प्रमेहदुःखनिर्मुक्तो बभूवे राजसत्तमः । कर्दमः स स्वकीयं वै राज्यं पुत्राय सन्ददौ ॥ ४५॥ वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा । गणेशं सर्वभावेन सोंऽते तन्मयतामयात् ॥ ४६॥ तस्य राज्ये जनाः सर्वे ते क्रमेण महामते । अभवन् ब्रह्मभूताश्च व्रतपुण्यप्रभावतः ॥ ४७॥ कथां रम्यां दशरथ अन्यां श‍ृणु सुसिद्धिदाम् । गौडदेशेंऽत्यजः कश्चिद्वभूवे पापकारकः ॥ ४८॥ वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा । योनिलम्पटभावेन दूषितामकरोत् स्त्रियम् ॥ ४९॥ वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा । धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः ॥ ५०॥ एवं नानास्वभावेन पापं चक्रे स नित्यशः । एकदा ब्राह्मणं कञ्चिद् दृष्ट्वा हन्तुं तमाययौ ॥ ५१॥ पलायत भयोद्विग्नो हाहाकारपरायणः । तस्य नादं समाकर्ण्य पुरुषाः पञ्च आययुः ॥ ५२॥ तैर्हतः शस्त्रघातेन पपात धरणीतले । तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका ॥ ५३॥ स उपोषणयुक्तश्च बभूवे दैवयोगतः । ममार पीडया युक्तः पञ्चम्यां पापरूपकः ॥ ५४॥ अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह । चाण्डालः किं पुनर्भूप ज्ञानिनां चित्रमेव च ॥ ५५॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः ॥ ५६॥ तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते । अपारमहिमा तस्मादानन्त्यं कथितं द्विजैः ॥ ५७॥ इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संश‍ृणोति सः । पठेद्वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम् ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ ४.१६ (Page खं. ४ अ. १७ पान ५०)

४.१७ आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मंश्च शुक्लाया आषाढे चरितं महत् । चतुर्थ्या नैव तृप्यामि कथां श्रुत्वा सुसिद्धिदाम् ॥ १॥ वसिष्ठ उवाच । मैथिले विषये राजन्नगरं गण्डकी महत् । तत्र राज्यं भद्रसेनश्चकारामिततेजसा ॥ २॥ शस्त्रास्त्रनिपुणोऽत्यन्तं परराष्ट्रावमर्दनः । जित्वा भूमण्डलं सर्वं समुद्रवलयाङ्कितम् ॥ ३॥ राज्यं चकार धर्मेण नीत्या दण्डेन भूमिप । यज्वा विनीतको मानी द्विजदेवातिथिप्रियः ॥ ४॥ वशगाः सर्वराजानः सेवन्ते स्म नराधिपम् । अपारसेनया युक्तं करदा इतरेऽभवन् ॥ ५॥ तस्य राज्ये शुका राजन् शलभा मूषकास्तथा । अपारा भक्षयन्ति स्म धान्यं वस्त्रादिकं बलात् ॥ ६॥ तेषां नाशार्थमत्यन्तं भद्रसेनः प्रतापवान् । अस्त्रैर्यत्नपरो भूत्वा मारयामास तान् बहून् ॥ ७॥ अग्न्यस्त्रेण समन्तात्तान् दग्धानपि च तादृशान् । ददर्श पुनरुत्पन्नांस्ततो राजाऽतिविस्मितः ॥ ८॥ यत्र तत्र गृहान्तेषु चेरुस्ते शलभादयः । अशक्तः स वने गत्वा बभूव ह सुदुःखितः ॥ ९॥ उपोषणपरो राजा तताप तप उत्तमम् । शिवं स्मृत्वा स तुष्टावापूज्य रौद्रेण भावतः ॥ १०॥ गते वर्षे महायोगी बकदाल्भ्यः समाययौ । तं देशं दैवयोगेन ददर्शाऽसौ भ्रमन्नृपम् ॥ ११॥ राजा तं पूजयामास सम्भोज्य नयसंयुतः । पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा ॥ १२॥ भद्रसेन स्वाच । स्वामिन् राज्ये मदीये वै मूषकाः शलभाः शुकाः । अत्यन्तं पीडयन्ति स्म जनान्मां भक्षणे रताः ॥ १३॥ तत्रोपायाः कृता विप्राऽभवन् सर्वे सुनिष्फलाः । राज्यं त्यक्त्वा वनेऽहं च संस्थितो दुःखकारणात् ॥ १४॥ शङ्करं सम्भजंस्तत्र दर्शनं ते महामते । प्राप्तस्तपः प्रभावेण तत्रोपायं वद प्रभो ॥ १५॥ वसिष्ठ उवाच । भद्रसेनवचः श्रुत्वा गाणपत्यो महायशाः । जगाद बकदाल्भ्यः स तं भूपं हर्षयन्निव ॥ १६॥ बकदाल्भ्य उवाच । शिवेन प्रेषितोऽत्राऽहं त्वदर्थं राजसत्तम । श‍ृणु मे परमं वाक्यं दुःखनाशकरं महत् ॥ १७॥ राज्ये ते भद्रसेनाऽद्य व्रतं नष्टं बभूव ह । चतुर्थी संज्ञकं तेन विघ्नयुक्तोऽसि साम्प्रतम् ॥ १८॥ प्रजाः सर्वा भयोद्विग्ना जाता दुष्टे नराधिपे । राज्यकर्तरि रे पापिन् नरके गच्छसि ह्यतः ॥ १९॥ सर्वादौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो । चतुर्णां पुरुषार्थानां दायकं विघ्नहारकम् ॥ २०॥ न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकम् । चतुःपदार्थहीनत्वाद्विचारय महामते ॥ २१॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं बकदाल्भ्यकः । कथयामास राज्ञे वै श्रुत्वा तं सोऽब्रवीद्वचः ॥ २२॥ भद्रसेन उवाच । कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् । ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः ॥ २३॥ बकदाल्भ्य उवाच । पुरावृत्तं मदीयं यच्चेष्टितं श‍ृणु भूमिप । तेन त्वं गणराजस्य ज्ञाने सुनिपुणो भवेः ॥ २४॥ पुराऽहं तपसा युक्तो वायुमात्राशनोऽभवम् । (Page खं. ४ अ. १७ पान ५१) चराचरं ततो मत्तेजसा व्याप्तं भयातुरम् ॥ २५॥ तथापि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम् । बभूव विश्वरूपस्य दर्शनं सर्वगं परम् ॥ २६॥ तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात् । तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः ॥ २७॥ शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम् । असाधयं सदाऽत्यन्तं मनोनिग्रहतत्परः ॥ २८॥ एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम् । ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा ॥ २९॥ ततो मयाऽतिमोहेन शून्यं स्वाधीनरूपकम् । दृष्टं तेनाऽभवं भ्रान्तो ब्रह्मणि त्वीदृशं कथम् ॥ ३०॥ ततोऽहं शरणं शम्भुं गत्वा तं स्तुतवान् स्तवैः । प्रसन्नं शङ्करं दृष्ट्वाऽवदं योगं वद प्रभो ॥ ३१॥ शिव उवाच । सत्यासत्यसमानानि सहजेन युतानि वै । निजात्मबोधतो विद्धि स्वानन्दादुद्भवानि च ॥ ३२॥ संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः । अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः ॥ ३३॥ संयोगश्च तथा योगस्तयोर्योगो महामते । योगशान्तिप्रदः प्रोक्तो योगिभिर्योगसेवया ॥ ३४॥ योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् । तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि ॥ ३५॥ संयोगश्च गकाराख्यो णकारो योगवाचकः । तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः ॥ ३६॥ एवमुक्त्वा महादेवो ददौ मन्त्रं द्विजाय मे । एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् ॥ ३७॥ प्रणम्य शङ्करं भूप गतोऽहं वनमेव च । अभजं गणराजं तं ध्यात्वा जपपरायणः ॥ ३८॥ ततस्तत्कृपया शान्तिर्मया प्राप्ता विशेषतः । तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा ॥ ३९॥ ततो मां दर्शयामास रूपं शुण्डाविराजितम् । दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः ॥ ४०॥ भक्तिं दत्त्वा गणाधीशो ह्यन्तर्धानं चकार मे । तदारभ्य महाभाग गाणपत्योऽहमादरात् ॥ ४१॥ एवमुक्त्वा ददौ तस्मै मन्त्रं पञ्चाक्षरं मुनिः । अन्तर्धानं गणेशस्य स चकार द्विजोत्तमः ॥ ४२॥ बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः । चकार स्वपुरे राज्यं पुनरागत्य धर्मतः ॥ ४३॥ ततः स नागरैः सार्धं चकार व्रतमुत्तमम् । आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः ॥ ४४॥ ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम् । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप ॥ ४५॥ शुकाश्च मूषकास्तत्र शलभा नाशमाययुः । धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः ॥ ४६॥ नानादुःखं परित्यज्यानन्देनैव समावृताः । अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ ४७॥ राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम् । तत्र तं गणराजं सोऽभजतानन्यभावतः ॥ ४८॥ अन्ते स्वानन्दगो भूत्वा सस्त्रीकोऽजसमुद्भव । ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह ॥ ४९॥ अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम् । आषाढे वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥ ५०॥ (Page खं. ४ अ. १७ पान ५२) बङ्गदेशे समुत्पन्नो वाणिजः पापकारकः । स्वधर्मं स परित्यज्य दृष्टकर्मरतोऽभवत् ॥ ५१॥ द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः । बलात् धृत्वाऽभुङ्क्त परस्त्रियं वशमनागताम् ॥ ५२॥ तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः । असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥ ५३॥ विषबाधासमायुक्तः स ममार ददाह तम् । ततो मातरमागम्य धनं जग्राह वै बलात् ॥ ५४॥ लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् । तस्य दुष्टस्य ते तत्र व्यथिताः सम्बभूविरे ॥ ५५॥ जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः । चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥ ५६॥ शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया । तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥ ५७॥ तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् । पञ्चम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥ ५८॥ अज्ञानव्रतपुण्येन स स्वानन्दगतोऽभवत् । महापापी व्रतस्यैव प्रभावेण महीपते ॥ ५९॥ स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह । एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥ ६०॥ तत्रैवं कति सङ्ख्यातुं शक्यते न कदाचन । वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥ ६१॥ यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् । वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥ ६२॥ इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् । श‍ृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥ ६३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥ ४.१७

४.१८ श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥ १॥ वसिष्ठ उवाच । अङ्गदेशे पुरं श्रीमच्छततारं बभूव ह । राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि ॥ २॥ धर्मेण नीतियुक्तेन नानादानपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥ ३॥ नानाव्रतपरो राजा यज्वा तेजस्विनां वरः । शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥ ४॥ सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः । राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥ ५॥ एवं राज्यं वशं कृत्वा भूतलं स चकार ह । ततोऽकस्माज्ज्वरस्तस्य समुत्पन्नोऽतिदाहकः ॥ ६॥ ज्वरेण पीडितोऽत्यन्तं निशि निद्रां न चाऽलभत् । नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥ ७॥ एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः । अत्यन्तदुःखितो राजा विललाप भृशातुरः ॥ ८॥ विषेण देहपातार्थमुद्यतोऽभून् महीपतिः । जगाम सहसा तत्र देवलो योगिसत्तमः ॥ ९॥ (Page खं. ४ अ. १८ पान ५३) तं दृष्ट्वा प्रणनामाथ पूजयामास बान्धवैः । भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित् ॥ १०॥ अश्वसेन उवाच । धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम् । अधुना सफलं दानं येन ते दर्शनं मुने ॥ ११॥ ज्वरेण पीडितोऽत्यन्तं विषपाने महामुने । तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम ॥ १२॥ मृतोऽहं विषपानेनात्महत्यां न लभे कदा । तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत् ॥ १३॥ एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः । उवाच भावगम्भीरः सर्वशास्त्रार्थतत्त्ववित् ॥ १४॥ देवल उवाच । राज्ये नष्टं त्वदीये यच्चतुर्थीसंज्ञितं व्रतम् । तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके ॥ १५॥ चतुःपदार्थदं पूर्णं सर्वादौ सम्मतं परम् । न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप ॥ १६॥ त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत् । चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम् ॥ १७॥ एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम् । कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत् ॥ १८॥ अश्वसेन उवाच । अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् । अधुना वद माहात्म्यं गणेशस्य महामुने ॥ १९॥ देवल उवाच । गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते । उपाधिना युतं राजन् वदिष्यामि स्वरूपकम् ॥ २०॥ असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् । सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम् ॥ २१॥ पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः । जैगीषव्यो महायोगी शैवः सहजगो बभौ ॥ २२॥ मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः । ममाश्रमे न किञ्चिन् माऽवदत् सोऽपि महायशाः ॥ २३॥ तस्य चिह्नं समालोक्य मनसा धारयाम्यहम् । अकर्मकारकश्च स्म देहरक्षणतत्परः ॥ २४॥ ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च । शान्तियोगेन हीनः स्म तथा योगिस्वरूपधृक् ॥ २५॥ ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले । मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ ॥ २६॥ अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः । तापसेन मयाऽऽकाशे गच्छता नावलोकितः ॥ २७॥ त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमण्डलम् । तत्रापि जैगीषव्यश्च मया दृष्टो महामते ॥ २८॥ एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम् । मया तेषु महायोगी दृष्टः सम्पूजितोऽमरैः ॥ २९॥ ततोऽकस्मान् महायोगी सोंऽतर्धानं चकार ह । तद् दृष्ट्वा सिद्धसङ्घांश्चापृच्छं तैः कथितं नृप ॥ ३०॥ ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत् । ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम् ॥ ३१॥ तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः । सम्पूज्य प्रणतो भूत्वाऽवदं योगपरायणः ॥ ३२॥ तारयस्व महायोगिन् संसारान् मां कुशिष्यकम् । छलनायां समायुक्तं दयया त्वं दयानिधे ॥ ३३॥ जैगीषव्य उवाच । हिंसात्मकं कुरुष्व त्वं कर्म मा यत्नधारकः । (Page खं. ४ अ. १८ पान ५४) ब्रह्माहमिति बोधेन शमी दमपरो भव ॥ ३४॥ यदाज्ञावशगं सर्वं वर्तते तं भजस्व च । तेन योगी त्वमेवेह भविष्यसि न संशयः ॥ ३५॥ जैगीषव्यश्चैवमुक्त्वा तत्रैवान्तरधीयत । अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम् ॥ ३६॥ ततः स्म पितरः सर्वे महत् कुर्वन्ति रोदनम् । अहो कर्म परित्यज्य देवलो न उपेक्षते ॥ ३७॥ अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः । देवलेन न सन्देहः क्षुधाविष्टास्तृषा युताः ॥ ३८॥ तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः । मया दृष्टा ओषधयो महत् कुर्वन्ति रोदनम् ॥ ३९॥ अस्मानहोऽभयं दत्वा देवलः क्रौर्यमाश्रितः । निर्लज्जः पुनरेवाऽसौ छेदयिष्यति दुर्मतिः ॥ ४०॥ ततोऽहं नितरां खिन्नो ह्युभयत्रैव सङ्कटात् । विचार्य स्वहिते सक्तः शमी दमपरोऽभवम् ॥ ४१॥ सर्वाभयस्वभावेन कर्मणा योगसेवया । क्रमेण सहजे योग्यऽहं ब्रह्मणि परोऽभवम् ॥ ४२॥ तत्र स्वाधीनतां दृष्ट्वा शान्तिहीनोऽभवं पुनः । अगमं पितरं तत्र योगीन्द्रैर्वन्दितं स्तुतम् ॥ ४३॥ तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम् । योगशान्तिप्रदं पूर्णं ततो मां सोऽब्रवीद्वचः ॥ ४४॥ असित उवाच । संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल । चतुर्विधं समुत्पन्नं तत्त्यजस्व समाधिदम् ॥ ४५॥ अयोगेन च संयोगो दृश्यते योगिभिः कदा । संयोगायोगयोर्योगो योगशान्तिप्रदो मतः ॥ ४६॥ भजस्व गणराजं त्वं तदर्थं नित्यमादरात् । सदा योगस्वरूपं तं शान्तिदं योगिनोऽब्रुवन् ॥ ४७॥ संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके । तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा ॥ ४८॥ एवमुक्त्वा ददौ मन्त्रं मह्यमेकाक्षरं परम् । गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन् ॥ ४९॥ ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप । गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम् ॥ ५०॥ ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च । योगिवन्द्योऽभवं राजंस्तथापि गणपं भजे ॥ ५१॥ गते वर्षे समायातो गणेशो भक्तवत्सलः । स्तुतः सम्पूजितस्तत्र मया हृष्टेन चेतसा ॥ ५२॥ ततो मां गाणपत्यं स पितृतुल्यं महोदरः । कृत्वा स्वानन्दके धाम्नि गतो ब्रह्मपतिः प्रभुः ॥ ५३॥ उक्त्वा दशाक्षरं मन्त्रं ददावेवं नृपाय च । अन्तर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत् ॥ ५४॥ ततः स राजशार्दूलो गणेशभजने रतः । तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका ॥ ५५॥ तां चकार जनैः सर्वैः पुरवासिभिरादरात् । उपोषणसमायुक्तः पञ्चम्यां पारणे रतः ॥ ५६॥ ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह । जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम् ॥ ५७॥ ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम् । शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले ॥ ५८॥ आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः । व्रतस्य पुण्ययोगेन पुत्रपौत्रधनान्विताः ॥ ५९॥ (Page खं. ४ अ. १९ पान ५५) पुत्रे राज्यं परित्यज्य राजा शान्तिपरायणः । सस्त्रीक एकान्ते सोऽभूदभजद्गणनायकम् ॥ ६०॥ अन्ते स्वानन्दगो राजा ब्रह्मभूतो बभूव ह । क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे ॥ ६१॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महाराज पुनः श‍ृणु कथानकम् ॥ ६२॥ गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत् । बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः ॥ ६३॥ स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा । वधे रतो गुरुं चैव मारयामास मन्दधीः ॥ ६४॥ गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह । एवं नानाविधं पापं चकार नित्यमादरात् ॥ ६५॥ एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः । अत्यन्तं व्याकुलो जातो देहशुद्धिं न चास्मरत् ॥ ६६॥ दैवयोगेन शुक्ला सा श्रावणे सुसमागता । चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च ॥ ६७॥ पञ्चम्यां तेन किञ्चिद्वै भक्षितं त्वन्नमादरात् । रोगहीनो बभूवाऽपि पुनः पापं समाचरत् ॥ ६८॥ कालेन निधनं प्राप्तं तं नेतुं च समागताः । दुष्टं सङ्गृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे ॥ ६९॥ अज्ञानव्रतजेनैव पुण्येन क्षत्रियो ययौ । स्वानन्दं किं पुनर्ज्ञानिनां कथा का नृपात्मज ॥ ७०॥ एवं नाना जनाद्याश्च चतुर्थीव्रतपुण्यतः । ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे ॥ ७१॥ इदं श्रावणगायाश्च वरदायाः पठेन्नरः । माहात्म्यं श‍ृणुयाच्चेद्वा स सर्वं संल्लभेत् फलम् ॥ ७२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः ॥ ४.१८

४.१९ मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वद ब्रह्मन् मले मासे चतुर्थी या समागता । वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम् ॥ १॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् ॥ २॥ आन्ध्रे राजा सुषेणश्च चकार राज्यमुत्तमम् । नगरे चम्पके भूप शस्त्रास्त्रे पारगो मतः ॥ ३॥ नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत् । देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः ॥ ४॥ जित्वा भूमण्डलं सर्वं राज्यं चकार धर्मतः । राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः ॥ ५॥ तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा । यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः ॥ ६॥ जनैः कुत्र महीपाल प्रगन्तुं नैव शक्यते । तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च ॥ ७॥ राजा तथैव दुःखार्तो महाभयपरायणः । (Page खं. ४ अ. १९ पान ५६) नागानां शान्तये सर्वैः पञ्चमी साधिताऽभवत् ॥ ८॥ तथा स्म न शमं यान्ति नागाः परमदारुणाः । नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः ॥ ९॥ तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु । राजेन्द्रः खगुरुं तत्र जैमिनिं शरणं ययौ ॥ १०॥ तं प्रणम्य पुरस्तस्य संस्थितः स कृताञ्जलिः । तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः ॥ ११॥ पप्रच्छ विनयेनैव युक्तं किमर्थमागतः । सुषेणः स तथोवाच निःश्वस्य मुनिपुङ्गवम् ॥ १२॥ सुषेण उवाच । स्वामिन् सर्पा अपाराश्च धर्षन्तश्च सदा जनान् । न स्थातुं शक्यते तत्र भयसङ्कुलितैर्मुने ॥ १३॥ नानोपायाः कृतास्तत्र न शान्तिं लेभिरे ततः । तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः ॥ १४॥ वद सर्पगणानां च शान्तये किं करोम्यहम् । विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै ॥ १५॥ वसिष्ठ उवाच । एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह । स्वशिष्यं निन्दयन् राजंस्तच्छृणुष्व समाहितः ॥ १६॥ जैमिनिरुवाच । चतुर्थीजं महापापिन्नष्टं राज्ये तव व्रतम् । तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि ॥ १७॥ चतुर्णां पुरुषार्थानां दातृत्वाद्वरदा मता । तथा सङ्कटनाशित्वात् सङ्कष्टी सा प्रकीर्तिता ॥ १८॥ यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम् । कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो ॥ १९॥ एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः । कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत् ॥ २०॥ सुषेण उवाच । कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम् । वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् ॥ २१॥ जैमिनिरुवाच । न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम् । उपाधिना युतं दुण्ढिं वदामि श‍ृणु तत्त्वतः ॥ २२॥ अहं पुरा सुशान्त्यर्थं व्यासं च शरणं गतः । मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ २३॥ तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम् । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ २४॥ देहदेहिमयं सर्वं गकाराक्षरवाचकम् । णकारवाचकं ब्रह्म संयोगायोगरूपकम् ॥ २५॥ तयोः स्वामी गणेशस्तु पश्य वेदे महामते । चित्ते निवासकत्वाच्चिन्तामणिर्वै स कथ्यते ॥ २६॥ चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते । सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ २७॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् । सुषेणाय यथान्यायं विधियुक्तं विशेषतः ॥ २८॥ ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह । तत्राऽऽदौ मलमासश्च सम्प्राप्तस्तेन भूमिप ॥ २९॥ मलमासे गणेशस्य वरदाख्यं समागतम् । सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः ॥ ३०॥ नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः । तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम् ॥ ३१॥ ततस्तेन सुषेणेन प्रशस्तं भूमिमण्डले । कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः ॥ ३२॥ अभवन् व्रतपुण्येन सर्पा अन्तर्हिता बभुः । लोका रोगादिभिः सर्वे वर्जिता हर्षसंयुताः ॥ ३३॥ (Page खं. ४ अ. २० पान ५७) पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः । नानासुखेषु संसक्ता अभवंस्तत्र ते ततः ॥ ३४॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । षडक्षरेण मन्त्रेण विधियुक्तेन पूजयन् ॥ ३५॥ पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेशमेवं सोऽपूजयञ्जपतत्परः ॥ ३६॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे ॥ ३७॥ स्वान्ते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे । व्रतस्यैव प्रभावेण न किञ्चिद् दुर्लभं भवेत् ॥ ३८॥ अन्यच्छृणु महीपाल चरितं मलमासगम् । पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत् ॥ ३९॥ हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः । बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह ॥ ४०॥ द्रव्यलोभार्थमेवं स्वजनकं स जघान ह । परस्त्रीलालसः पूर्णश्चौरकर्मपरोऽभवत् ॥ ४१॥ एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा । वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः ॥ ४२॥ एतस्मिन्नन्तरे तत्र सर्पेणैव महीपते । दष्टः सोऽपि भयोद्विग्नो गृहे गन्तुं मनो दधे ॥ ४३॥ ततो विषेण संव्याप्तो देहस्तेन पपात ह । दैवयोगेन तत्राऽसौ जलान्नरहितोऽभवत् ॥ ४४॥ शुक्लपक्षे मले मासे चतुर्थी सा तिथिस्तदा । तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम् ॥ ४५॥ पञ्चम्यां स मृतस्तत्र वने घोरे महाखलः । स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ४६॥ नाना जना व्रतेनैव ब्रह्मभूता बभूविरे । इह भुक्त्वाऽखिलान् भोगानन्ते वक्तुं न शक्यते ॥ ४७॥ इदं चतुर्थीमाहात्म्यं मलमासे श‍ृणोति चेत् । शुक्लपक्षे लभेत् सोऽपि पठेद्वा सर्वमञ्जसा ॥ ४८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ॥ ४.१९

४.२० माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम् । अत्यन्तं कृतकृत्योऽहं जातो नास्त्यत्र संशयः ॥ १॥ नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदं परम् । धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः ॥ २॥ अधुना सङ्कटायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः ॥ ३॥ मुद्गल उवाच । एवं पृष्टो महायोगी वसिष्ठस्तमुवाच ह । तच्छृणुष्व प्रजानाथ श्रवणानन्ददायकम् ॥ ४॥ वसिष्ठ उवाच । तव भावं विदित्वाऽहं सन्तुष्टो नृपसत्तम । पुण्यवानसि येन त्वं गणेशे भक्तिमानसि ॥ ५॥ न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः । कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः ॥ ६॥ कथां श‍ृणु महाभाग चतुर्थीसंश्रितां पराम् । कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् ॥ ७॥ (Page खं. ४ अ. २० पान ५८) अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । महापुण्यप्रदः पूर्णश्रवणात् पठनाद्भवेत् ॥ ८॥ सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः । सभायां गानसंयुक्तो बभूवे भूपसेवितः ॥ ९॥ तत्राऽकस्माद्विमानं वै पतितं ज्वलनप्रभम् । तद् दृष्ट्वा परमाश्चर्यं ज्ञातुं दूतानचोदयत् ॥ १०॥ दूतैः संज्ञापितो राजा विमानं द्रष्टुमुत्सुकः । स ययौ नगरप्रान्ते पुरवासिभिरावृतः ॥ ११॥ तत्रेन्द्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः । प्रणनाम पदा गत्वा दण्डवत् पृथिवीतले ॥ १२॥ पुनरुत्थाय राजाऽसौ कृत्वा करपुटं शनैः । हर्षयुक्त उवाचेदं वचनं भक्तिसंयुतः ॥ १३॥ शूरसेन उवाच । धन्यं जन्म वयो दानं पितरौ नगरादिकम् । कृतकृत्योऽस्मि देवेन्द्र दर्शनात्ते सहानुगः ॥ १४॥ वद कुत्र विभो गन्तुं कुतो व्रजसि वा स्थलात् । लालसस्ते विमानं च कथं निपतितं भुवि ॥ १५॥ न जाने केन पुण्येन सर्वेषां दर्शनं च ते । जातं देवसमूहेन वदाज्ञां किं करोम्यहम् ॥ १६॥ विमानचलने यत्नं कुरु त्वं देवनायक । केन पापेन ते यानं पतितं तद्वदस्व मे ॥ १७॥ एवं पृष्टो महातेजा महेन्द्रस्तमुवाच ह । विनीतं भक्तिसंयुक्तं राजेन्द्र हर्षसंयुतः ॥ १८॥ इन्द्र उवाच । कैवर्तको महापापी नामा विघ्नेशमाभजत् । मुद्गलेनोपदिष्टश्च नाममन्त्रपरायणः ॥ १९॥ सहस्रे तद्वरेणाऽसौ वर्षेषु ब्राह्मणोत्तमः । भ्रूमध्यान्निःसृता शुण्डा भृशुण्डी चाऽभवन् मुनिः ॥ २०॥ तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते । दर्शनार्थं गतोऽहं तु सम्पूज्येह समागमम् ॥ २१॥ अत्रापि पापरूपस्य दृशा वैश्यस्य कुष्ठिनः । विमानं पतितं भूमौ तव दूतस्य मानद ॥ २२॥ यदि सङ्कष्टिका राजंश्चतुर्थी कृष्णपक्षगा । साधिता व्रत भावन तस्याः पुण्यं प्रदीयताम् ॥ २३॥ तदा विमानमेवेदं चलेदत्र न संशयः । नान्यथा पुरुषार्थश्च विमानचलनं भवेत् ॥ २४॥ एतस्मिन्नन्तरे तत्र विमानं च द्वितीयकम् । समागतं गणेशस्य दूतयुक्तं महाद्भतम् ॥ २५॥ तत्रैव नगरे भूप चाण्डाली पापकारिणी । अन्धा कुष्ठयुताऽत्यन्तं कृमिभारसमाकुला ॥ २६॥ पूयशोणितदिग्धाङ्गा दुर्गधेन समावृता । बभूव भिक्षया सा वैरता जठरपोषणे ॥ २७॥ पौषकृष्णतृतीयायां निशा किञ्चावशेषिता । मद्यपानं तया तत्र कृतं सुष्वाप निर्भया ॥ २८॥ मद्यपानबलेनैव निद्रां लेभे तथांऽत्यजा । चतुर्थ्यामुदिते चन्द्रे जाते जागरिताऽभवत् ॥ २९॥ ततोऽपि क्षुधयाऽऽविष्टा रात्री भिक्षार्थमेव च । बभ्राम तत्र केनाऽपि दत्तान्नं बुभुजे च सा ॥ ३०॥ पञ्चम्यां सा मृता तत्र नृप सङ्गृह्य गाणपाः । विमानेन ययुस्ते वै स्वानन्दे व्रतकारिणीम् ॥ ३१॥ गच्छन्ती वायुना स्पृष्टा विमानेन्त्यजजा नृप । स वायुः सहसा गत्या स्पृशदिन्द्रविमानकम् ॥ ३२॥ व्रतकारिशरीरस्य स्पृष्टो वायुः सुपुण्यवान् । विमानं चालयामास देवेन्द्रस्य महाद्भुतम् ॥ ३३॥ (Page खं. ४ अ. २० पान ५९) तद् दृष्ट्वा विस्मिताः सर्वे देवा मुनिगणादयः । ज्ञानदृष्टया च तज्ज्ञात्वा शशंसू राजसत्तमम् ॥ ३४॥ इन्द्रे स्वर्ग गते देवै राजा स्वनगरं ययौ । विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयत् ॥ ३५॥ मया विधियुतं तस्योपदिष्टं मुख्यकं व्रतम् । चकार स यथान्यायमङ्गारकयुतं पुरा ॥ ३६॥ माघे कृष्णचतुथ्यों स कृत्वा व्रतमनुत्तमम् । पुनः सम्पूज्य पञ्चम्यां गणेशं संस्थितोऽभवत् ॥ ३७॥ एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् । गणेशदूतसंयुक्तं शूरसेनपुरे महत् ॥ ३८॥ विमानाद्गण नाथस्य दूता उत्तीर्य तं नृपम् । जगुर्वतप्रभावेण चल राजन् गणेश्वरम् ॥ ३९॥ दूतानां वचनं श्रुत्वा राजा विस्मितमानसः । प्रणिपत्य प्रपूज्यैव तानुवाच सुहर्षितः ॥ ४०॥ शूरसेन उवाच । आरभ्य जन्मतो देवा अद्यावधि मया हठात् । यत्किचिन्नागरैः सार्धं सदा भुक्तं शुभाशुभम् ॥ ४१॥ अधुना तान् परित्यज्य कथं यामि गजाननम् । ततस्तं गणराजस्य दूता ऊचुः श‍ृणुष्व तत् ॥ ४२॥ गाणपत्या ऊचुः । नागरैः सह राजेन्द्र चल त्वं विघ्ननायकम् । यथाविधि व्रतस्यैव प्रभावेण महामते ॥ ४३॥ यथाशास्त्रं व्रतस्यास्य महिमा केन गम्यते । अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः ॥ ४४॥ ततोऽतिहर्षितो राजा चतुर्वर्णजनैः सह । नगरस्थैर्विमानं स समारुह्य स्थितोऽभवत् ॥ ४५॥ ततो गाणेशकैस्तत्र विमानं चालितं नृप । न चचाल जडीभूतं ध्यानयुक्ता बभूविरे ॥ ४६॥ ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः । तान् प्रणम्य जगादाऽसौ राजेन्द्रो रोदनाकुलः ॥ ४७॥ महापापी च वैश्योऽयं यस्य दृष्टया पपात ह । विमानं सुरनाथस्य तथापि श‍ृणुत प्रियाः ॥ ४८॥ किमनेन कृतं पापं मां ततो वदत ह्यहम् । प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः ॥ ४९॥ ततस्तं गणनाथस्य दूता ऊचुः प्रहर्षिताः । श‍ृणु राजन्नयं वैश्यः पूर्वजन्मनि वाडवः ॥ ५०॥ बुधनामा महापापी बाल्यात् प्रारभ्य सर्वदा । माता पतिव्रता चास्य शाकिनी परिकीर्तिता ॥ ५१॥ दूर्वो नाम पिता चास्य तपस्वी वेदपारगः । पत्नी पतिव्रता प्रोक्ता सावित्री कुलजाऽभवत् ॥ ५२॥ यौवनस्थः स्त्रियं त्यक्त्वा परस्त्रीलालसोऽभवत् । कदाचिद्गौडपुर्यां का वेश्या रूपवती ययौ ॥ २३॥ तां दृष्ट्वा विस्मितोऽत्यन्तं तया रेमे निरन्तरम् । हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषतः ॥ ५४॥ पात्रभूषण कायं वै हृत्वा परगृहस्थितम् । चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मतिः ॥ ५५॥ कदाचित् स निशायां वै नागतः स्वगृहे नृप । तदर्थं मुनिमुख्योऽसौ दूर्वो बभ्राम तत्पुरे ॥ ५६॥ जनाः केऽपि न विप्रं त्वकथयस्तं विशेषतः । पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभीतितः ॥ ५७॥ गृहे गृहे स्वपुत्रं स नालभच्च ततो ययौ । निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः ॥ ५८॥ (Page खं. ४ अ. २० पान ६०) सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो । एकपुत्रलेहवशात् पुनस्तं सो गवेषयत् ॥ ५९॥ निशीथे निद्रित लोके जनान् पप्रच्छ मार्गगान् । वुधः कुत्र प्रदृष्टो मामेकं वदत पुत्रकम् ॥ ६०॥ एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् । ततो भीमोऽत्यजो वृद्धो मिलितस्तं जगाद सः ॥ ६१॥ तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः । मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥ ६२॥ तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुङ्गवः । वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥ ६३॥ किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक । अधुना देहमुत्सृज्य व्रजस्व यममन्दिरे ॥ ६४॥ पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः । नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥ ६५॥ एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः । लत्तया ताडयामास पितरं च पुनः पुनः ॥ ६६॥ वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः । ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥ ६७॥ प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः । जननी लेहसंयुक्ता पप्रच्छ क स्थितं त्वया ॥ ६८॥ गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह । तमानय महाभाग ततः स्नानं समाचर ॥ ६९॥ मातुर्वचनमेवं स बुधः श्रुत्वा पुनः पुनः । क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥ ७०॥ मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी । बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥ ७१॥ अदहंस्तौ जनाः सन्तो ब्राह्मणी ब्राह्मणं तथा । पितृगौरवभावेन राजा तं न शशास ह ॥ ७२॥ पुनर्गृहागतं सा तं सावित्री दुःखसंयुता । उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥ ७३॥ वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो । सर्वावयवसम्पूर्णा सुन्दरी धर्मपालिनीम् ॥ ७४॥ चतुरा करजेष्वेव नरदेहः सुदुर्लभः । ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥ ७२॥ ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः । निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥ ७६॥ तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् । कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥ ७७॥ एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टितः । काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥ ७८॥ एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोहे । अयभद्गुरुपत्नीमेकाकिनी तां सुदुर्मतिः ॥ ७९॥ दारुणानि च पापानि एवं नानाविधानि सः । चकारान्ते गृहे याम्ये यातनां बुभुजे ततः ॥ ८०॥ भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः । पापाचरणमत्रापि कुरुते दारुणं महत् ॥ ८१॥ द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् । हन्ति नित्यं सतीनां च स वने दूषकोऽभवत् ॥ ८२॥ शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् । अस्य स्पर्शन राजेन्द्र सचैलं स्नानमापतेत् ॥ ८३॥ दूतानां वचनं श्रुत्वा कम्पितो राजसत्तमः । (Page खं. ४ अ. २१ पान ६१) जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥ ८४॥ शूरसेन उवाच । पापानां गणना नास्ति प्रायश्चित्तं न विद्यते । अधुना तादृशं चात्र मया किं क्रियते गणाः ॥ ८५॥ कृपया सर्वपापानां प्रायश्चित्तं महाद्भतम् । कथ्यतां तत् करिष्यामि देहपातावधिं किल ॥ ८६॥ ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः । गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥ ८७॥ चतुर्वेदसमुद्भूतं सारं ब्रह्ममुखोद्गतम् । चतुर्मुखैश्च सङ्गीतं सुयोगन गजाननम् ॥ ८८॥ तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः । गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥ ८९॥ श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनुर्यथा । कुष्ठहीनः स शोभाभियुक्तो वै हर्षितोऽभवत् ॥ ९०॥ ततः सर्वैः समायुक्तो नगरस्थैविशेषतः । चतुराकरजै राजा ययौ विघ्नेश मादरात् ॥ ९१॥ स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूताश्च जन्तवः । बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥ ९२॥ ब्रह्मभूतः स राजेन्द्रो व्रतपुण्यप्रभावतः । जन्तुभिः सहितश्चातः कोऽओ वर्णयितुं व्रतम् ॥ ९३॥ चतुर्विधं जगत् सर्व सङ्कष्टं सम्मतं नृप । तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥ ९४॥ इदं माघचतुर्थ्यास्तु सङ्कष्टयाः संश‍ृणोति यः । माहात्म्यं वापि पठति सर्वार्थ लभते परम् ॥ ९५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥ ४.२०

४.२१ फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । ब्रह्मन् श्रुत्वा च वै माघी सङ्कष्टीजं सुविस्मितः । माहात्म्यं सर्वदं पुण्यं सर्वसङ्कटहारकम् ॥ १॥ फाल्गुने कृष्णपक्षे या चतुर्थी सङ्कटी मता । तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥ २॥ वसिष्ठ उवाच । पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् । वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥ ३॥ प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः । एकान्ते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥ ४॥ वेदोपनिषदि प्रोक्तं ब्रह्म वेदान्तपारगम् । ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥ ५॥ एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् । तदा खेदसमायुक्तः सोऽतिष्ठच्छङ्करं स्मरन् ॥ ६॥ ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः । तं दृष्ट्वा नारदं रक्षः प्रणनाम कृतांऽजलिः ॥ ७॥ पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् । स्वामिन् ज्ञानप्रदं किञ्चिद्वदस्व करुणायुतः ॥ ८॥ ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् । न लेभे तन् महत् ज्ञानं किं करोमि महामुने ॥ ९॥ (Page खं. ४ अ. २१ पान ६२) नारद उवाच । शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम । श‍ृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥ १०॥ चतुर्विधं जगद्ब्रह्म सङ्कष्टं सम्मतं बुधैः । तन्नाशार्थं व्रतं मुख्यं सङ्कष्टीसंज्ञकं कुरु ॥ ११॥ एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् । तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥ १२॥ रावण उवाच । कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो । यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥ १३॥ न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः । सर्वादौ सम्मतं विप्र सर्वसिद्धिप्रदायकम् ॥ १४॥ एवं पृष्टो महायोगी नारदस्तमुवाच ह । हर्षेण महता युक्तो रावणं लोकरावणम् ॥ १५॥ नारद उवाच । महज्ज्ञानं कथयितुं गणेशस्य न शक्यते । उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥ १६॥ गणः समूहरूपश्च समूहा ब्रह्मवाचकाः । बाह्यान्तरादियोगेऽयं समूहो जायते यतः ॥ १७॥ देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् । संयोगायोगरूपं यण्णकाराक्षरगं मतम् ॥ १८॥ तयोर्योगे गणेशश्च स्वामी सर्वत्र सम्मतः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ १९॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् । रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥ २०॥ यदि त्यजसि दैत्येन्द्र तदा भ्रंशमवाप्स्यसि । अतो गणेशमन्त्रो न त्याज्यो रक्षः कदाचन ॥ २१॥ एवमुक्त्वा महातेजा नारदोंऽतर्दधे स्वयम् । रावणस्य तदा प्राप्ता सङ्कष्टी फाल्गुनी नृप ॥ २२॥ सा कृता तेन हर्षेण विधियुक्तेन कर्मणा । व्रतपुण्यप्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥ २३॥ चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः । जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥ २४॥ ततो ज्ञानं समालब्धं रावणेन महात्मना । ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥ २५॥ दुष्टसङ्गतियोगेन क्रमेण ज्ञानमुत्तमम् । नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥ २६॥ अहं गणेशरूपश्च नाऽन्यो जगति वर्तते । न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥ २७॥ ततो ज्ञानमदेनैव त्यक्तो मन्त्रः सुखप्रदः । व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥ २८॥ नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् । धर्मलोपे रतोऽत्यन्तं चकार कर्मखण्डनम् ॥ २९॥ तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् । राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥ ३०॥ दशरथ उवाच । अहं वन्ध्यश्च विप्रेश रावणश्च प्रवर्तते । किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥ ३१॥ वसिष्ठ उवाच । कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः । जघान रावणं वीरो गाणपत्यबलान्वितः ॥ ३२॥ अन्यच्छृणु चरित्रं त्वं फाल्गुने सङ्कटीभवम् । सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥ ३३॥ महाराष्ट्रे द्विजः कश्चित् पापकर्मा बभूव ह । ब्राह्मणत्वं परित्यज्य चाण्डाल्यां निरतोऽभवत् ॥ ३४॥ (Page खं. ४ अ. २२ पान ६३) चाण्डालैर्योनिसम्बन्धं पुत्रपुत्रीसमुद्भवम् । चकार मन्दधीः सोऽपि मद्यमांसपरायणः ॥ ३५॥ स कदाचिद्वने संस्थो जनान् हन्तुं समुद्यतः । द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥ ३६॥ तत्र फाल्गुनमासे सा चतुर्थी कृष्णगाऽऽगता । संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥ ३७॥ तत्र कश्चिन्नृपः सैन्यैश्चतुरङ्गैः समागतः । तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥ ३८॥ महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् । किञ्चिद्दिवसशेषे तत् सम्पूर्णगतमाभवत् ॥ ३९॥ ततः सोऽपि बहिर्वीक्ष्य निःसृतो भयवर्जितः । जगाम स्वगृहं चन्द्रोदये दुष्टः क्षुधातुरः ॥ ४०॥ बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये । तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥ ४१॥ ततो गणेशदूतैः स नीतः स्वानन्दके पुरे । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ ४२॥ अज्ञानव्रतपुण्येन विधिहीनेन भो नृप । मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥ ४३॥ एतादृशा महाभागा विधियुक्ता विधिं विना । व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥ ४४॥ तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि । भवामि नृप माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ ४५॥ इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता । तस्याः श‍ृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥ ४.२१

४.२२ चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । चैत्रकृष्णचतुर्थी या तां मे वद महामुने । न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥ १॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥ २॥ कलिङ्गे नृपवर्यश्चोग्रसेनो धर्मतत्परः । यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥ ३॥ शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः । जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥ ४॥ तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् । अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥ ६॥ उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः । तथा स्म न शमं यान्ति व्याघ्रा दैवोद्भवा यथा ॥ ६॥ लोकाः सम्पीडिता व्याघ्रैर्निनिन्दुस्तं नृपं तदा । पापकर्मा नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥ ७॥ धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः । किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥ ८॥ स राजर्षिर्दूतमुखाच्छ्रुत्वा दुःखसमन्वितः । ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥ ९॥ तत्र गत्वा स एकान्ते तताप तप उत्तमम् । (Page खं. ४ अ. २२ पान ६४) सूर्यं ध्यात्वा च सौरैस्तं तोषयामास नित्यदा ॥ १०॥ निराहारपरो राजा गते वर्षे बभूव ह । अस्थिचर्मावशेषः स तथाऽपि तप आचरत् ॥ ११॥ ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह । राजा प्रणम्य तं विप्रं फलैरापूजयत्ततः ॥ १२॥ फलानि भक्षयित्वा स उवाच राजसत्तमम् । तपः किमर्थं राजन् ते देहं शोषयसे वद ॥ १३॥ उग्रसेनस्ततो विप्रं तमुवाच कृताञ्जलिः । दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः ॥ १४॥ उग्रसेन उवाच । करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा । तत्र व्याघ्रगणाः क्रूरा नरान् सम्भक्षयन्ति भोः ॥ १५॥ शान्तयेऽत्र मया तेषां नानोपायाः कृता मुने । अपरास्ते भवन्तीह तदर्थं तप आचरम् ॥ १६॥ राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत् । निन्दयन् सर्वभावेन साक्षाद्भानुः प्रतापवान् ॥ १७॥ द्विज उवाच । महापापी त्वमेवासि कर्मदूषणतो नृप । चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते ॥ १८॥ सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धिप्रदायकम् । तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा ॥ १९॥ चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम् । व्याघ्रास्तद्दोषभावेन पीडयन्ति च मानवान् ॥ २०॥ एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः । श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः ॥ २१॥ जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम् । कृताञ्जलिः प्रणम्याऽसौ वचनं स्वहितप्रदम् ॥ २२॥ उग्रसेन उवाच । किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा । आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात् ॥ २३॥ अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम् । ज्ञात्वा तं देवदेवशं भजिष्यामि विशेषतः ॥ २४॥ द्विज उवाच । श‍ृणु राजन् गणेशस्य स्वरूपं योगदं परम् । भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ २५॥ चित्ते चिन्तामणिः साक्षात् पञ्चचित्तप्रचालकः । पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ २६॥ असम्प्रज्ञातसंस्थश्च गजशब्दो महामते । तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ २७॥ भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता । भ्रान्तिधारकरूपा च बुद्धिः सा दक्षिणाङ्गके ॥ २८॥ तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा । तं भजस्व विधानेन तदा शं लभसे नृप ॥ २९॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् । विधियुक्तं ततः सूर्योंऽतर्धानं प्रचकार ह ॥ ३०॥ राजा स्वनगरे गत्वा प्रधानैरनुमोदितः । कथयामास वृत्तान्तं सर्वेभ्यः सुखदायकम् ॥ ३१॥ तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता । तां चकार विधानेन गणेशे भक्तिसंयुतः ॥ ३२॥ समीपे नागराः संस्था नरा ग्रामान्तरे स्थिताः । चक्रुस्ते हर्षसंयुक्ताः सङ्कष्टीं कष्टहारिणीम् ॥ ३३॥ तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह । भयाद्धठेन चक्रुस्ते जना भूमिस्थिताः परे ॥ ३४॥ ततो व्याघ्रा महोग्राः स्म सर्वेंऽतर्धानमाययुः । रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता जनाः ॥ ३५॥ (Page खं. ४ अ. २३ पान ६५) राजा गणपतिं नित्यमभजन्नान्यचेतसा । गुरुरूपेण भानुं स पूजयामास नित्यदा ॥ ३६॥ गते काले ततः पुत्रं स संस्थाप्य महामतिः । राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥ ३७॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥ ३८॥ एवं व्रतस्य माहात्म्यं लेशतः कथितं मया । अन्यच्छृणु महाभाग पापनाशकरं परम् ॥ ३९॥ द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः । भिल्लैः संस्कारहीनश्च सम्बन्धं स चकार ह ॥ ४०॥ एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् । कञ्चित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥ ४१॥ पपाल सोऽपि दूरं वै नरो भयसमन्वितः । ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥ ४२॥ तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप । ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥ ४३॥ भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः । निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥ ४४॥ दैवयोगेन सा देवी चैत्री सङ्कष्टहारिणी । तद्दिने तेन सम्प्राप्ता चतुर्थी कृष्णपक्षगा ॥ ४५॥ जलान्नसंविहीनोऽयं बभूवे पापकारकः । चन्द्रोदये फलं तत्र पपात नृप वृक्षतः ॥ ४६॥ दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् । पञ्चम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥ ४७॥ एवं नाना जना राजन् व्रतस्यैव प्रभावतः । इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्म प्रलेभिरे ॥ ४८॥ तत्र ते कति शक्यं न वक्तुं वर्षायुतैरपि । नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदायकम् ॥ ४९॥ अज्ञानेन कृतं दुष्टैर्व्रतं गाणेश्वरं महत् । ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥ ५०॥ इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः । श‍ृणोति चेच्च कृष्णायाः स सर्वं प्रलभेद् ध्रुवम् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ ४.२२

४.२३ वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद साम्प्रतम् । माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥ १॥ वसिष्ठ उवाच । अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः । न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥ २॥ ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् । वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥ ३॥ ज्ञात्वा माहात्म्यमुग्रं स नित्यं मन्त्रपरायणः । शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥ ४॥ दशरथ उवाच । तपस्तेजोयुतः साक्षादगस्त्यः सर्वशास्त्रवित् । व्रतहीनः कथं सोऽपि कुण्ठितश्च महाद्युतिः ॥ ५॥ वसिष्ठ उवाच । श‍ृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण । (Page खं. ४ अ. २३ पान ६६) अधुना तस्य माहात्म्यं कथयामि समासतः ॥ ६॥ अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः । न समस्तेन राजेन्द्र ब्राह्मणेषु तपस्विषु ॥ ७॥ न व्रतं तेन तदपि कृतमज्ञानभावतः । ब्रवीमि कारणं तत्र श‍ृणु संशयनाशनम् ॥ ८॥ वेदशास्त्रपुराणेषु कर्म नानाविधं नृप । कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते ॥ ९॥ स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः । तत्र मार्गं प्रवक्ष्यामि श‍ृणुष्व सुसमाहितः ॥ १०॥ नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः । तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते ॥ ११॥ अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः । तपस्सु तत्परो नान्यदजानात् स तपोधनः ॥ १२॥ अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम । न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते ॥ १३॥ गणेशभजनं मुख्यं सर्वेषां नात्र संशयः । सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः ॥ १४॥ राजशार्दूल तदपि नराः संस्कारहीनकाः । नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम् ॥ १५॥ तपसा दग्धपापश्च पुण्यराशिः प्रजायते । तदा रुचिर्भवेत्तत्र गणेशे भक्तिसंयुता ॥ १६॥ अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः । जातः पात्रं विजानीहि ज्ञाने गाणेशसंज्ञिते ॥ १७॥ अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम् । समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः ॥ १८॥ तत्राऽतिकुण्ठितो जातस्तदर्थं विस्मितः स्वयम् । गत्वा ब्रह्माणमानम्य वचनं स जगाद ह ॥ १९॥ अगस्त्य उवाच । तपसा जलधिं ब्रह्मन् शोषयामि न संशयः । तत्र मे तपसः शक्तिः कुण्ठिताऽभूत् कथं वद ॥ २०॥ ब्रह्मोवाच । श‍ृणु पुत्र महाभाग कारणं कथयामि ते । नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः ॥ २१॥ गणेशस्मरणं वत्स पूजनं नित्यमादरात् । करोषि तेन भवति कर्म ते सफलं मुने ॥ २२॥ तथापि नित्यवत्तात चतुर्थी व्रतमुत्तमम् । कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः ॥ २३॥ चतुर्णां पुरुषार्थानां दायकं शास्त्रसम्मतम् । तेन हीनस्त्वमद्यैव कुण्ठितो नात्र संशयः ॥ २४॥ अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः । नित्यवत्तन् महाभाग समाचर विशेषतः ॥ २५॥ तदा सङ्कटहीनस्त्वं चतुष्पदसमन्वितः । पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि ॥ २६॥ ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत् । पुरुषार्थसमायुक्तस्तेनैव स बभूव ह ॥ २७॥ समुद्रं शोषयामास व्रतपुण्यप्रभावतः । अचलां गणनाथस्य भक्तिं चकार नित्यदा ॥ २८॥ ततस्तेन मुनीन्द्रेषु विख्यातं तत् कृतं व्रतम् । नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये ॥ २९॥ अन्यच्च श‍ृणु माहात्म्यं पुण्यदं श्रवणान्नृणाम् । अवन्तीनगरे वैश्यो बभूवे पापकारकः ॥ ३०॥ बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम् । मरणावधि राजेन्द्र वक्तुं तन्न प्रशक्यते ॥ ३१॥ (Page खं. ४ अ. २३ पान ६७) मातृहा द्रव्यलोभार्थं पितृहा सम्बभूव ह । गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत् ॥ ३२॥ ततो लोकैः समाज्ञप्तो राजा तं निरवासयत् । ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत् ॥ ३३॥ जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा । तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ॥ ३४॥ ततो बहुधनो जातश्चौराः सम्मिलिताः परे । सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम् ॥ ३५॥ पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः । चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः ॥ ३६॥ तेषां राजा बभूवाऽसौ भार्या तत्र महीपते । समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता ॥ ३७॥ यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः । चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा ॥ ३८॥ मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽयभत् । काश्चित्तत्र मृता राजन् स्त्रियः सत्यो महाभयात् ॥ ३९॥ सोऽवन्तीपालको लोकै राजेन्द्रो बोधितस्ततः । मार्गरोधभयाच्चौरं तं हन्तुं प्रोद्यतोऽभवत् ॥ ४०॥ सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः । राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम् ॥ ४१॥ ततस्ते सन्धृतं चौरं पुत्रश्चौरैः समन्वितम् । राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम् ॥ ४२॥ राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप । तं वैश्यं बन्धने क्षिप्त्वा ताडयन्नित्यदा खलम् ॥ ४३॥ ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता । कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् ॥ ४४॥ नित्यताडनभावेन दुःखितोऽतितरां खलः । क्षुधया पीडितोऽत्यन्तं पापी स निशि चैककः ॥ ४५॥ ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम् । किञ्चिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः ॥ ४६॥ पञ्चम्यां स मृतस्तत्र बन्धने ताडितो भृशम् । गाणेशैर्ब्रह्मभूतः स कृतः स्वानन्दके पुरे ॥ ४७॥ एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः । ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः ॥ ४८॥ एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे । तेऽत्र वक्तुं न शक्या वै भवन्ति नृपसत्तम ॥ ४९॥ इदं वैशाखमासे वै चतुर्थ्याः संश‍ृणोति चेत् । कृष्णाया वाऽपि पठति माहात्म्यं लभते परम् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः ॥ ४.२३

४.२४ ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् । सङ्कष्टीसम्भवं मुख्यं न तृप्तस्तदपि प्रभो ॥ १॥ अतो ज्येष्ठे चतुर्थी या सङ्कष्टी मुनिसत्तम । तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥ २॥ वसिष्ठ उवाच । निषधेषु महाभागो नलो नामाऽभवन्नृपः । तेजस्वी शस्त्रसम्पन्नः शास्त्रज्ञश्च बभूव ह ॥ ३॥ रूपवान् धनसम्पन्नश्चतुरङ्गबलान्वितः । शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥ ४॥ सामन्ता वशगा यस्य करदा इतरे नृपाः । सार्वभौमो महाराजः शशास पृथिवीमिमाम् ॥ ५॥ धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः । यशसा पूरयामास त्रैलोक्यं स चराचरम् ॥ ६॥ इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे । यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः ॥ ७॥ त्रिलोकीगमने सक्तः साधुदर्शनतत्परः । देवविप्रातिथिप्रेप्सुर्दीनान्धादीनपालयत् ॥ ८॥ दमयन्ती महाभागा रूपेणाऽप्रतिमा भुवि । भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ ॥ ९॥ गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः । पुण्यश्लोकः स वै राजा कलिं जिग्ये महायशाः ॥ १०॥ कदाचिद्वनगेनैव भ्रात्रा कलिवशेन सः । जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह ॥ ११॥ तत्राऽपि कलिना मत्स्यमिषेणैव महासती । प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनान्तरे ॥ १२॥ अर्धवस्त्रधरा साऽपि दमयन्ती पितुर्गृहे । नानादुःखसमायुक्ता जगाम नलवर्जिता ॥ १३॥ गृप्तरूपेण वर्षाणि त्रीणि क्रमणलालसः । नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः ॥ १४॥ धर्मशीलं स राजानं कलिना पीडितं परम् । दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह ॥ १५॥ तं दृष्ट्वा लज्जितो राजा प्रणनाम कृताञ्जलिः । लज्जितं तं समाज्ञाय नारदः स उवाच ह ॥ १६॥ नारद उवाच । मा लज्जां कुरु राजेन्द्र कर्मणां गतिरीदृशी । सावधानमना भूत्वा श‍ृणु मे परमं वचः ॥ १७॥ तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम् । चतुर्थीसंज्ञितं तेन राज्यभ्रष्टोऽसि साम्प्रतम् ॥ १८॥ सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । न कृतं चेन् महाराज कर्म सर्वं निरर्थकम् ॥ १९॥ चतुःफलविहीनस्त्वं भवस्यत्र न संशयः । अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम् ॥ २०॥ एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम् । माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शान्तिकारकम् ॥ २१॥ तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह । गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे ॥ २२॥ नारद उवाच । गणेश्वरस्य माहात्म्यं शान्तियोगफलप्रदम् । वक्तुं न शक्यते राजंस्तथापि श‍ृणु मे वचः ॥ २३॥ ब्रह्मा विष्णुश्च शम्भुश्च शक्तिः सूर्योऽमरास्तथा । शेषादिनागमुख्यास्तं भजन्ति कुलदैवतम् ॥ २४॥ अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम । भजन्ति तं विशेषेण कुलदेवं सनातनम् ॥ २५॥ (Page खं. ४ अ. २४ पान ६९) महावाक्यादिभिर्वेदास्तं भजन्ति सुयोगदम् । महावाक्यानि राजेन्द्र भजन्ति ब्रह्मनायकम् ॥ २६॥ सर्वसिद्धिप्रदा यस्य वामाङ्गे प्रकृतिः परा । पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता ॥ २७॥ स्वानन्दे वसतिर्यस्य सर्वपूज्योऽयमुच्यते । सर्वादिर्गणनाथश्च विप्रैः सोंऽतेषु तिष्ठति ॥ २८॥ गणाः समूहरूपाश्चान्तरबाह्यादियोगतः । तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः ॥ २९॥ एवमुक्त्वा ददौ तस्मै नृप मन्त्रं षडक्षरम् । विधियुक्तं ततः सोंऽतर्दधे गाणेशको मुनिः ॥ ३०॥ ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम् । मन्त्रं जजाप भावेन स्वात्मानं निन्दयन् भृशम् ॥ ३१॥ ततः कर्कोटकेनैव दष्टस्तेन बभूव ह । विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम् ॥ ३२॥ तेन संहर्षितो भूप ऋतुपर्णं जगाम ह । तेनैव मानितोऽत्यन्तं विरूपो गुणसंयुतः ॥ ३३॥ पितुर्गृहे गता नारी दमयन्ती महासती । तद्व्रतं कारयामास गत्वा तामपि नारदः ॥ ३४॥ नलेन दमयन्त्या तज्ज्येष्ठमासे समागतम् । प्रथमं तद्व्रतं मुख्यं सङ्कष्टीसंज्ञकं कृतम् ॥ ३५॥ त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः । नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत् ॥ ३६॥ ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः । स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह ॥ ३७॥ दमयन्त्या युतः सोऽपि श्वशुरेण च सेनया । ऋतुपर्णेन राजेन्द्रो गतः स्वनगरे ततः ॥ ३८॥ भ्रात्रा सम्मानितोऽत्यन्तं चकार राज्यमुत्तमम् । विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः ॥ ३९॥ ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः । सपत्नीको वने गत्वाऽभजत्तं गणनायकम् ॥ ४०॥ अन्ते जगाम राजाऽसौ स्वानन्दे गणपं नृप । तत्रैव ब्रह्मभूतः स बभूव नलनामकः ॥ ४१॥ नलेन सम्प्रदिष्टा ये जना भूमितले ततः । शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप ॥ ४२॥ ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम् । पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप ॥ ४३॥ अन्ते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे । एवं कृष्णे ज्येष्ठमासे माहात्म्यं सङ्कटीभवम् ॥ ४४॥ कथितं ते नृपश्रेष्ठ पुनस्त्वं श‍ृणु सिद्धिदम् । ज्येष्ठकृष्णचतुर्थीजं सर्वसङ्कटहारकम् ॥ ४५॥ मालवेन्त्यजजः कश्चित् पापकर्मा बभूव ह । वनं गत्वा द्विजादीन् स जघान द्रव्यलोलुपः ॥ ४६॥ एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः । सती परनरस्पर्शहीना तत्याज सा तनुम् ॥ ४७॥ एवं नानाविधं पापं चकार जातिदूषणः । न तच्छक्यं कथयितुं पापभोगभयान् मया ॥ ४८॥ एकदा वनसंस्थश्च चाण्डालः शस्त्रधारकः । कञ्चित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम् ॥ ४९॥ पलायनपरः सोऽपि जगाम भयसङ्कुलः । हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत् ॥ ५०॥ एतस्मिन्नन्तरे तत्र पुरुषाः शस्त्रधारकाः । राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः ॥ ५१॥ (Page खं. ४ अ. २५ पान ७०) ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः । बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बन्धने ॥ ५२॥ तत्रैव दैवयोगेन प्राप्ता ज्येष्ठचतुर्थिका । कृता तेनान्नहीनोऽयं बभूवे बन्धनाकुलः ॥ ५३॥ चन्द्रोदये दयायुक्तै रक्षकैस्तैर्महामते । अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥ ५४॥ राजाज्ञया च तं दुष्टं पञ्चम्यां जघ्नुरादरात् । स मृतोन्त्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥ ५५॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥ ५६॥ अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते । तथाऽपि कथितं भूप माहात्म्यं सङ्कटीभवम् ॥ ५७॥ इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संश‍ृणोति यः । माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ४.२४

४.२५ आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । आषाढे सङ्कटी प्रोक्ता चतुर्थी चरितं शुभम् । तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥ १॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । सर्वसिद्धिकरं पूर्णं सेवितं चेन्नृपात्मज ॥ २॥ वृत्रेण पीडितोऽत्यन्तं महेन्द्रश्चिन्तयान्वितः । वने वसत्तु सन्त्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥ ३॥ मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समन्ततः । अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥ ४॥ कर्मखण्डनभावेन देवाः परमविह्वलाः । उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥ ५॥ गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुङ्गवम् । विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥ ६॥ तं दृष्ट्वा दण्डवत् सर्वे प्रणेमुश्चेन्द्रमुख्यकाः । पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥ ७॥ इन्द्र उवाच । दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् । यज्ञो ज्ञानादिकं मे वै त्वदङ्घ्रेर्दर्शनात् प्रभो ॥ ८॥ तव दर्शनमात्रेण कल्याणं नो भविष्यति । साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥ ९॥ वृत्रासुरेण दुष्टेन निर्जिता वयमेव च । राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥ १०॥ अत्रातिकर्मनाशेनोपोषणेन समन्विताः । मरिष्यामो न सन्देहस्तत्र किं दर्शनं भवेत् ॥ ११॥ तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् । वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥ १२॥ जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं सदा । (Page खं. ४ अ. २५ पान ७१) किं पश्यसि सुसंहारे प्राप्ते योगीन्द्रसत्तम ॥ १३॥ वसिष्ठ उवाच । एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः । विश्वरक्षणभावार्थं दुष्टनाशकरं वचः ॥ १४॥ गृत्समद उवाच । राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका । व्रतभ्रष्टोऽसि देवेन्द्र अधुना तद्व्रतं कुरु ॥ १५॥ ज्ञानमदेन विघ्नेशमन्त्रस्त्यक्तस्तथा त्वया । किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥ १६॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । कथयामास तस्मै तत् पुनर्मन्त्रं ददौ स्वयम् ॥ १७॥ यदृच्छया गते राजन् मुनाविन्द्रेण तत्ततः । व्रतं कृतं द्विजैर्देवैर्गणेशं सम्प्रपूज्य च ॥ १८॥ तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः । प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका ॥ १९॥ गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत् । वज्रं धृत्वा ययौ देवैर्वृत्रं युद्धपरायणः ॥ २०॥ चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम् । कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम् ॥ २१॥ हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः । स्वस्थोऽभूदमरावत्या मुमुदे स्वजनैर्नृप ॥ २२॥ ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः । शुक्लकृष्णभवं चक्रुश्चतुर्थीसंज्ञितं व्रतम् ॥ २३॥ पृथिव्यां सर्वलोकास्तद्व्रतं चक्रुविशेषतः । इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत् ॥ २४॥ मन्वन्तरे गते देवैरिन्द्रः स्वानन्दगोऽभवत् । दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ २५॥ भूमिसंस्था नराः सर्वे क्रमेण प्रययुर्नृप । गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः ॥ २६॥ एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसम्भवम् । पुनरन्यच्छृणुष्व त्वं पापकञ्चुकनाशनम् ॥ २७॥ गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः । परयोनिषु संसक्तो जीवघातं चकार ह ॥ २८॥ एकदा भगिनी यब्धा तेन दुष्टेन चाऽभवत् । मद्यमांसपरेणाऽपि चरता वनगह्वरे ॥ २९॥ द्रव्यलोभी जघानाऽसो द्विजादींश्च विशेषतः । पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः ॥ ३०॥ नित्यं चकार स खलो यवनैः सह भोजनम् । न शक्यं तन्मया तस्य पापं वर्णयितुं परम् ॥ ३१॥ एकदा वनमध्यस्थो बभूवे जातिदूषकः । आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः ॥ ३२॥ दैवयोगेन तेनैव न प्राप्तं वनगह्वरे । किञ्चित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते ॥ ३३॥ तथाऽपि नालभत् किञ्चित् ततो दुःखपरायणः । अपराह्णे पुनः सोऽपि स्वगृहं गन्तुमुत्सुकः ॥ ३४॥ न ददर्श स तत्राऽपि जलान्नं दैवयोगतः । आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः ॥ ३५॥ यवनजां समालिङ्ग्य निशि चन्द्रोदये नृप । बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम् ॥ ३६॥ ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः । राजन् यवनजातेन न स्पृष्टा पापकारिणी ॥ ३७॥ पञ्चम्यां स मृतस्तत्र भृशं दुःखेन पीडितः । गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ ३८॥ एतादृशा महापापा उद्धरन्ति व्रतेन वै । (Page खं. ४ अ. २६ पान ७२) अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥ ३९॥ विधियुक्तं व्रतं भूप ये कुर्वन्ति नरोत्तमाः । दर्शनेन जनानां ते तारकाः सम्भवन्ति हि ॥ ४०॥ एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे । अनन्ताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥ ४१॥ इदमाषाढसङ्कष्ट्याश्चरितं यः श‍ृणोति चेत् । पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ४.२५

४.२६ श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे कृष्णपक्षे या चतुर्थी सङ्कटी भवेत् । माहात्म्यं वद तस्या मे सर्वेभ्यः सुखदायकम् ॥ १॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि श्रावणे सङ्कटीभवम् । श्रवणात् सुखदः पूर्णो भवते पठनात्तथा ॥ २॥ चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान् । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ ३॥ साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः । पाण्डुपुत्रो महातेजाः प्रजापालनतत्परः ॥ ४॥ द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसम्मतः । कुन्त्या मात्रा महाभागो विख्यातः सर्वमण्डले ॥ ५॥ कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः । साक्षान्नारायणः श्रीमान् भूभारहरणे रतः ॥ ६॥ एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः । राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः ॥ ७॥ धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम् । आजगाम स तं दृष्ट्वा मानयामास कुन्तिजः ॥ ८॥ भोजितं परमान्नेन विदुरं सदसि स्थितम् । तमुवाच महाभागो हर्षितः स युधिष्ठिरः ॥ ९॥ धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् । वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो ॥ १०॥ कुशलं स्वजनानां ते किमर्थं त्वं समागतः । वद मे सकलं पूर्णं वृत्तान्तं धृतराष्ट्रगम् ॥ ११॥ विदुर उवाच । सर्वत्र कुशलं वत्स स्वजनेषु महामते । धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं श‍ृणु ॥ १२॥ पुत्रवत्सलभावेन दुर्योधनसमाश्रितः । तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः ॥ १३॥ इच्छति त्वां विजेतुं स प्रभो द्यूतेन मन्दधीः । दुर्योधनो महापापी कुलक्लेशविवर्धनः ॥ १४॥ कर्णेन प्रेरितोऽत्यन्तं शकुनिना विशेषतः । सक्तस्ते राज्यहरणे दुःशासनसमन्वितः ॥ १५॥ धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम् । स त्वामाह्वयते लोभी मया चैव युधिष्ठिर ॥ १६॥ मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम् । धृतराष्ट्रं च कुन्त्या त्वं सस्त्रीको भ्रातृभिः कदा ॥ १७॥ वसिष्ठ उवाच । विदुरस्य वचः श्रुत्वा युधिष्ठिरो महायशाः । (Page खं. ४ अ. २६ पान ७३) उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥ १८॥ युधिष्ठिर उवाच । श‍ृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत् । राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥ १९॥ तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल । अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥ २०॥ धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः । न किञ्चिदुक्तवांस्तत्र तं निःश्वस्य महायशाः ॥ २१॥ विदुरेण युताः सर्वे सस्त्रीकाः पाण्डवा नृप । समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम् ॥ २२॥ तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः । चिक्रीडुर्द्यूतमुग्रं वै दुर्योधनमुखैः पुरा ॥ २३॥ शकुनिना महोग्रेण तपसा साधितं पुरा । द्यूतं तदेव राजेन्द्र तदधीनं बभूव ह ॥ २४॥ क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः । वनवासे पाण्डवान् स स्थापयामास दुर्मतिः ॥ २५॥ द्रौपदी तेन दुष्टेन सभायां सर्वसन्निधौ । समानीता स तां प्राह पत्नी मे भव सुन्दरि ॥ २६॥ पतयः पञ्च कुत्राऽपि न दृश्यन्ते स्त्रियाः क्वचित् । अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले ॥ २७॥ भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः । भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः ॥ २८॥ पाण्डवा धर्मरक्षार्थमसहंस्तस्य कर्म तत् । द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ ॥ २९॥ मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः । चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः ॥ ३०॥ द्रौपदी पाण्डवैः सार्धं ययौ मुक्ता वने तदा । तत्र कृष्णः समायातो बलेन क्रोधसंयुतः ॥ ३१॥ उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान् । कृष्ण उवाच । हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम् ॥ ३२॥ त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च । ततस्तं धर्मराजस्तु जगाद वचनं हितम् ॥ ३३॥ क्रोधं त्यज महाबाहो धर्मं रक्ष जनार्दन । धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव ॥ ३४॥ एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह । कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं स्त्रिया ॥ ३५॥ सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः । स्वानन्दवासकर्ताऽसावस्माकं कुलदैवतम् ॥ ३६॥ एवमुक्त्वा ददौ तस्मै प्रभुर्मन्त्रं दशाक्षरम् । स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम् ॥ ३७॥ माहात्म्यं व्रतजं तत्र श्रावयामास केशवः । युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रान्तिनाशनम् ॥ ३८॥ चतुर्विधप्रदं पूर्णं सर्वादौ सम्मतं व्रतम् । कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो ॥ ३९॥ तव राज्ये व्रतं मुख्यं नष्टं तेन महामते । राज्यभ्रष्टश्च सञ्जातश्चतुःपदविवर्जितः ॥ ४०॥ श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः । गणेशं मनसि ध्यात्वा चकार विधिसंयुतः ॥ ४१॥ तत्रादौ श्रावणे मासे प्राप्ता सङ्कटनाशिनी । चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः ॥ ४२॥ शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पाण्डवाः । (Page खं. ४ अ. २६ पान ७४) सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥ ४३॥ पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् । हत्वा सर्वनृपैर्युक्तं कृष्णेन हर्षसंयुतः ॥ ४४॥ पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् । शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥ ४५॥ इह भुक्त्वाऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते । पाण्डवा ज्ञानसंयुक्ता बभुः स्वांशेषु सङ्गताः ॥ ४६॥ अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम् । दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे ॥ ४७॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग महापुण्यप्रदं परम् ॥ ४८॥ कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत् । वनेषु शस्त्रधारी जनान् जघान स नित्यदा ॥ ४९॥ परस्त्रियं तत्र दृष्ट्वैकाकिनीं स तथा दरात् । अयभद्धठसंयुक्तो बलेन स महाखलः ॥ ५०॥ गोवधादिकमेवं स ब्राह्मणानां च हिंसनम् । चकार दुष्टभावेन द्रव्यार्थं मांसकारणात् ॥ ५१॥ एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः । चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः ॥ ५२॥ कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत् । जनान् हन्तुं महाचोरस्ततो वृष्टिर्बभूव ह ॥ ५३॥ अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः । यत्र तत्र जलं पूर्णं गन्तुं मार्गो न विद्यते ॥ ५४॥ तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप । दैवयोगेन सा देवी चतुर्थी तिथिराबभौ ॥ ५५॥ श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम् । कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः ॥ ५६॥ चन्द्रोदये समुत्पन्ने जलेनागतमादरात् । फलं च नारिकेलं यत्तद्बभञ्ज बभक्ष सः ॥ ५७॥ निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ । व्याघ्रः सङ्गृह्य तं हत्वा बभक्ष क्षुधितो भृशम् ॥ ५८॥ गाणपास्तं सम्प्रगृह्य ययुः स्वानन्दके पुरे । चक्रुर्व्रतप्रभावेण तत्र ब्रह्ममयं ततः ॥ ५९॥ महापापी व्रतेनैवाज्ञानजेन नृपात्मज । ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम् ॥ ६०॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ययुः स्वानन्दके वर्णयितुं तत्र न शक्यते ॥ ६१॥ इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत् । माहात्म्यं श‍ृणुयाद्यो वै भुक्तिं मुक्तिं स विन्दति ॥ ६२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ ४.२६ (Page खं. ४ अ. २७ पान ७५)

४.२७ भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने । न तृप्यामि कथां श‍ृण्वन् सर्वसिद्धिप्रदायिनीम् ॥ १॥ वसिष्ठ उवाच । द्राविडे राजशार्दूलो बभूव परमद्युतिः । वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥ २॥ नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् । सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥ ३॥ धर्मशीलः सदानन्दं चाददाद्भक्तिसंयुतः । क्षुधितं न नरं नारीमसहत् सुखकारकः ॥ ४॥ पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः । अपुत्रो दैवयोगेन बभूव परवीरहा ॥ ६॥ पुत्रार्थं यत्नमत्यन्तं जपहोमादिभिः सदा । चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥ ६॥ एवं बहौ गते काले पुत्रो नासीन् महीपते । ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥ ७॥ सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह । ततो महावनं गत्वा पपात क्षुधयान्वितः ॥ ८॥ सुमन्तुस्तत्र विप्रर्षिः समिदर्थं समाययौ । नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥ ९॥ वेदवेदाङ्गवित् साक्षात् सर्वशास्त्रप्रवर्तकः । पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥ १०॥ तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् । वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥ ११॥ करसम्पुटमुत्थाय पुरः कृत्वा महामुनेः । तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥ १२॥ वीरसेन उवाच । धन्यं मे कर्म जन्मादि पिता माता कुलं यशः । विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ १३॥ राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् । तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥ १४॥ नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल । त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥ १५॥ वसिष्ठ उवाच । एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् । सन्तुष्टस्तं जगादेदं सुमन्तुर्मुनिसत्तमः ॥ १६॥ सुमन्तुरुवाच । मा चिन्तां कुरु राजेन्द्र पुत्रस्ते कुलतारकः । भविष्यति न सन्देहः श‍ृणु मे वचनं हितम् ॥ १७॥ राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् । तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥ १८॥ सर्वादौ तद्व्रतं मुख्यं कर्तव्यं सर्वसिद्धिदम् । चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥ १९॥ त्वया कर्म कृतं नानापुण्यदं सर्वसम्मतम् । चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥ २०॥ एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् । श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥ २१॥ वीरसेन उवाच । वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् । व्रतं सर्वादिसम्मान्यं तं भजिष्यामि नित्यदा ॥ २२॥ सुमन्तुरुवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः । उपाधिसंयुतं ज्ञानं श‍ृणु राजेन्द्र सर्वदम् ॥ २३॥ अहं तपःप्रभावेण पुरा जातो विशेषतः । शापानुग्रहणे राजन् समर्थः सर्वमण्डले ॥ २४॥ ततोऽतितपसा युक्तोऽभवं तेन महामते । अन्तर्ज्ञानं समुत्पन्नं स दृष्ट्वा विस्मितो ह्यहम् ॥ २५॥ (Page खं. ४ अ. २७ पान ७६) ततो जडादिका नाना भूमिकाः साधयंस्ततः । नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥ २६॥ एवं क्रमेण राजेन्द्र आसं स्वानन्दगोऽभवम् । तत्र शान्तिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥ २७॥ तस्माद्भेदमयं द्वन्द्वं दृष्ट्वा शान्तो महामुनिम् । व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥ २८॥ ब्रह्मभूतस्वरूपां मे वद शान्तिं महामुने । शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥ २९॥ इति पृष्टो महायोगी मामुवाच प्रहर्षितः । तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥ ३०॥ व्यास उवाच । श‍ृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् । शान्तीनां शान्तिरूपं तं ज्ञातव्यं योगसेवया ॥ ३१॥ स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा । तयोरभेदभावे च ह्यसत् स्वानन्द उच्यते ॥ ३२॥ तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् । तयोरभेदभावे चानन्दः स्वानन्द उच्यते ॥ ३३॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते । चतुर्णामेव संयोगे स्वानन्दो ब्रह्म उच्यते ॥ ३४॥ पञ्चभिर्गतिहीनं यन्मतं चायोगवाचकम् । न तत्र कस्यचिद्योगस्ततः कुत्राऽपि पुत्रक ॥ ३५॥ संयोगायोगयोर्योगे योगः शान्तिप्रदायकः । स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥ ३६॥ गणाः समूहरूपाश्चान्तरबाह्यादियोगतः । अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥ ३७॥ तेषां स्वामी गणेशानस्तं भजस्व विधानतः । तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥ ३८॥ चित्तं पञ्चविधं प्रोक्तं तदेव बुद्धिवाचकम् । चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदन्ति च ॥ ३९॥ तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः । पञ्चचित्तनिरोधेन लभ्यते चित्तधारकः ॥ ४०॥ अतश्चिन्तामणिः प्रोक्तो पश्य वेदेषु पुत्रक । चित्तं त्यक्त्वा समोहं त्वं भव चिन्तामणिस्ततः ॥ ४१॥ एवमुक्त्वा ददौ मह्यं मन्त्रमेकाक्षरं प्रभुः । सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥ ४२॥ ध्यात्वा गणपतिं राजन् मन्त्रे जपपरोऽभवम् । ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च ॥ ४३॥ तथाऽपि गणराजं त्वपूजयन्तं विशेषतः । ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥ ४४॥ समागतं गणेशानं दृष्ट्वा विस्मितमानसः । अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥ ४५॥ अथर्वोपनिषद्भिः स संस्तुतो गणनायकः । भक्तिं दत्त्वा स्वकीयां मेंऽतर्धानं प्रचकार ह ॥ ४६॥ तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् । तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥ ४७॥ एवमुक्त्वा ददौ तस्मै स मन्त्रं षोडशाक्षरम् । सविधिं मुनिमुख्यः सोंऽतर्धानमगमत्ततः ॥ ४८॥ राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् । स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥ ४९॥ तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका । कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥ ५०॥ विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं कृतम् । (Page खं. ४ अ. २७ पान ७७) शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥ ५१॥ व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः । बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥ ५२॥ पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः । सपत्नीको गणेशानमभजन्नित्यमादरात् ॥ ५३॥ अन्ते गणेशलोके स गत्वा ब्रह्ममयोऽभवत् । क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥ ५४॥ एतत्ते कथितं भूप माहात्म्यं सङ्कटीभवम् । अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥ ५५॥ आन्ध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः । बाल्यात् प्रभृति सोऽत्यन्तं पापकर्मपरायणः ॥ ५६॥ वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः । लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥ ५७॥ वने गत्वा महापापी मार्गस्थान् प्रजघान वै । ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥ ५८॥ न तस्य कर्म वक्तुं वै शक्यते पापभीतितः । ग्रन्थबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥ ५९॥ भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा । व्रते प्राप्ते महापापी निराहारो बभूव ह ॥ ६०॥ अकस्मात् तत्र सम्प्राप्तो जनसङ्घो महान्नृप । भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥ ६१॥ किञ्चिद्दिनावशेषे स जनसङ्घो गतोऽभवत् । तदा बहिर्विनिःसृत्य गृहे गन्तुं मनो दधे ॥ ६२॥ न प्राप्तं तेन दुष्टेन किञ्चित्तदपि दारुणः । स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥ ६३॥ रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम । चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥ ६४॥ पञ्चम्यां सर्पदंशेन मृतः पापेन निश्चयः । गणराजस्य तदपि दूता नेतुं समागमन् ॥ ६५॥ गृहीत्वा धीवरं तेऽयुर्गणाः स्वानन्दके पुरे । गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ६६॥ व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप । ब्रह्मभूतो धीवरश्च सम्बभूव वदामि किम् ॥ ६७॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥ ६८॥ इदं भाद्रपदे कृष्णचतुर्थीजं श‍ृणोति यः । माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥ ६९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ ४.२७ (Page खं. ४ अ. २८ पान ७८)

४.२८ आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् । चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥ १॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । अत्र तेन महाराज श‍ृणु तृप्तो भविष्यसि ॥ २॥ पार्वतीशङ्कराभ्यां च तपसाऽऽराधितोऽभवत् । दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥ ३॥ कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः । न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥ ४॥ कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् । विवाहो मे पुरा पश्चात्तवापि स्म भविष्यति ॥ ५॥ एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ । विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥ ६॥ अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः । क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥ ७॥ साक्षात् पुत्रं समुत्पन्नं स्कन्दं सन्त्यज्य विघ्नपम् । ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥ ८॥ त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते । अतः कपटरूपेण कर्तव्यं कार्यमुत्तमम् ॥ ९॥ ततः शिवो गणेशानं स्कन्दं चैवाऽब्रवीद्वचः । धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥ १०॥ पूर्वं विवाहकं तस्य करिष्यामि न संशयः । ततस्तं गणनाथस्तु जगाद वचनं हितम् ॥ ११॥ ज्येष्ठं मां किं परित्यज्य प्रभो वदसि शङ्कर । वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥ १२॥ स्थूलदेहधरोऽहं मे वाहनं मूषको मतः । पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिव ॥ १३॥ एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् । जगाम स्कन्द आरुह्य मयूरं हर्षसंयुतः ॥ १४॥ पृथ्वीप्रदक्षिणायां स रतः स्कन्दः स वेगवान् । चकार मायया तत्र गणेशः कौतुकं महत् ॥ १५॥ सम्पूज्य पार्वतीं शङ्करं चकार प्रदक्षिणाम् । उवाच शङ्करं तत्र विवाहो मे विधीयताम् ॥ १६॥ प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव । पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥ १७॥ श्रुत्वा गणपतेर्वाक्यं कम्पितः शङ्करोऽब्रवीत् । करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥ १८॥ तत एकान्तगं शम्भुं पार्वती प्रेमविह्वला । उवाच कार्तिकेयं किं त्यक्त्वा ढुण्ढिः स मानितः ॥ १९॥ ततस्तां शङ्करो वाक्यं जगाद श‍ृणु पार्वति । अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥ २०॥ अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् । नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥ २१॥ एवमुक्त्वा सतीं शम्भुविवाहमकरोत्ततः । गणेशस्य विधानेन हृदयेनाविदूयता ॥ २२॥ सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः । तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥ २३॥ नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह । विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥ २४॥ त्वां वञ्चयित्वा सेनानीः कृतं कर्म जुगुप्सितम् । नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥ २५॥ एवमुक्त्वा गतो विप्रो नारदः कलहप्रियः । (Page खं. ४ अ. २८ पान ७९) स्कन्दो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥ २६॥ ज्ञात्वा पुत्रस्य वृत्तान्तं पार्वतीशङ्कराविमम् । शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥ २७॥ क्रौञ्चे स्कन्दं स्थितं ज्ञात्वा पार्वतीशङ्करौ नृप । शोकसंविग्नचित्तौ तौ विलापं चक्रतुः पुरा ॥ २८॥ तत्राऽऽजगाम विप्रेन्द्रो मुद्गलः सर्वमुद्गलः । तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥ २९॥ सुखासीनं महाभाग उवाच शोकसङ्कुलः । भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥ ३०॥ स्कन्दसंयोगदं पूर्णमुपायं तं करोम्यहम् । रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत् ॥ ३१॥ मुद्गल उवाच । शम्भो श‍ृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः । विद्यारूपेयमाद्या सा शक्तिः सर्वार्थदायिनी ॥ ३२॥ तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ । द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते ॥ ३३॥ योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव । पुत्रः समाधिजः प्रोक्तस्ततश्चिन्तामणिः स्मृतः ॥ ३४॥ देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे । ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः ॥ ३५॥ अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः । ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः ॥ ३६॥ भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः । भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कन्द एव च ॥ ३७॥ देहसौख्यकरः प्रोक्तः स्कन्दः सर्वत्र सम्मतः । शान्तिसौख्यकरश्चैव गणेशः पुत्रभावतः ॥ ३८॥ तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः । स्कन्दं स्नेहेन शम्भो त्वमधिकं मन्यसे सदा ॥ ३९॥ न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना । तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम् ॥ ४०॥ ब्रह्मणि स्नेहभावेन विषयान्निन्दयन् स्थितः । तदा विषयतापास्ते स्वयं वश्या भवन्ति वै ॥ ४१॥ विघ्नेश्वरमनादृत्य स्कन्दं विवाहसंयुतम् । आदौ पश्यामि शक्त्या वै सन्धृतं मानसे त्वया ॥ ४२॥ तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते । वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज ॥ ४३॥ एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन् । शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत् ॥ ४४॥ त्यक्त्वा स्कन्दभवं स्नेहं विघ्नेशमभजत् सदा । तत्रादौ सङ्कटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः ॥ ४५॥ मायां भ्रान्तिकरीं सर्वां भिन्नभावप्रमोहतः । त्यक्त्वा शिवश्च शक्तिश्च शान्तिस्थौ तौ बभूवतुः ॥ ४६॥ कस्य पुत्रश्च का माता पिता को भ्रमदायकम् । कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ ॥ ४७॥ ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात् । बुद्धिभेदः कृतस्तत्र स्कन्दस्य नृप तच् श‍ृणु ॥ ४८॥ त्यक्तौ मयाऽतिमूढेन पार्वतीशङ्करावहो । ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम् ॥ ४९॥ शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत् । सोऽयं पुत्रस्वरूपेण बभूव वरदानतः ॥ ५०॥ स्वानन्दवासकारी स सिद्धिबुद्धिपतिः स्वयम् । (Page खं. ४ अ. २९ पान ८०) योगशान्तिस्वरूपोऽयं न जानामि सुमूर्खवत् ॥ ५१॥ एवं विचार्य स्कन्दः स ययौ कैलासमादरात् । आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः ॥ ५२॥ अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम् । उमां सम्पूज्य तुष्टाव प्रणनामाऽथ दण्डवत् ॥ ५३॥ सम्मानितः स तैः स्कन्दोऽतिष्ठत्तद्भक्तिसंयुतः । तदाज्ञावशगो भूत्वा शान्तियोगपरोऽभवत् ॥ ५४॥ विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह । स्त्रियं बन्धकरीं नाथ नेच्छामि गणपे रतः ॥ ५५॥ अत्याग्रहयुतः स्कन्दोऽभजत्तं गणनायकम् । मायासुखं परित्यज्य तन्निष्ठः स बभूव ह ॥ ५६॥ एवं सङ्कटहारिण्या चतुर्थ्या महिमाद्भुतः । कथितः शान्तिदः सर्वसम्मेलनकरोऽभवत् ॥ ५७॥ अन्यच्छृणु महाभाग चरित्रं पापनाशनम् । वङ्गदेशे द्विजः कश्चित् पापकर्मा बभूव ह ॥ ५८॥ त्यक्त्वा ब्राह्मणमार्गं स मद्यपानरतोऽभवत् । यवनीं स समादाय यवनोऽभून् महाबलः ॥ ५९॥ वक्तुं न शक्यते तस्य कर्म पापमयं महत् । कथने परदोषाणां दोषी भवति मानवः ॥ ६०॥ कदाचिज्ज्वरसंयुक्तो बभूवे जातिदूषणः । तत्राश्विनभवा प्राप्ता नृप कृष्णा चतुर्थिका ॥ ६१॥ तत्र तेन जलान्नं च भक्षितं न भयान्नृप । सुपक्वानां तन्दुलानां पीतं चन्द्रोदये जलम् ॥ ६२॥ ततो बहौ गते काले ममार यवनो द्विजः । सङ्गृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप ॥ ६३॥ एतादृशा महापापा व्रतपुण्यप्रभावतः । ब्रह्मभूता बभूवुश्च का कथा विधिकारिणाम् ॥ ६४॥ एवं नाना जना राजन् भुक्त्वा भोगान् यथेप्सितान् । ब्रह्मण्यं ते गतास्तत्तु मया वक्तुं न शक्यते ॥ ६५॥ इदमाश्विनजायास्तु माहात्म्यं यः श‍ृणोति वा । पठेत् स कृष्णसङ्कष्ट्याः सर्वार्थं लभते नरः ॥ ६६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः ॥ ४.२८

४.२९ कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । कार्तिके कृष्णपक्षे या चतुर्थी सङ्कटी मता । माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परम् ॥ १॥ वसिष्ठ उवाच । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । महाराष्ट्रे महातेजा राजाऽभूत् कर्दमाभिधः ॥ २॥ वेदवेदार्थतत्त्वज्ञः स्वधर्मनिरतोऽभवत् । लोकान् सङ्गृह्य षष्ठांशं पालयन् पुत्रकान् यथा ॥ ३॥ अपारसेनया युक्तश्चतुरङ्गप्रमोदया । पूर्णकोशः कुबेराभो बभौ शस्त्रास्त्रपारगः ॥ ४॥ स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः । चकार वशगां पृथ्वीं समुद्रान्तां विशेषतः ॥ ५॥ (Page खं. ४ अ. २९ पान ८१) करदा इतरे सर्वे राजानः सेवका इव । सामन्ताश्च महाराज तस्याज्ञावशवर्तिनः ॥ ६॥ पुण्यवान् धर्मशीलश्च नानादानपरायणः । देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥ ७॥ यज्वा विनीतकस्तीर्थकारकः परवीरहा । नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥ ८॥ स एव यक्ष्मणाऽत्यन्तं पीडितः पापरूपिणा । शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह ॥ ९॥ नानोपायाः कृतास्तस्य शान्तये न च सोऽभवत् । शान्तस्ततो महाराजस्तीर्थयात्रापरोऽभवत् ॥ १०॥ नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो । पीडया नैव मुक्तोऽभूत्ततो दुःखितमानसः ॥ ११॥ देवार्चनरता विप्राः कृतास्तेन महात्मना । तथापि रोगसंयुक्तोऽधिको राजा बभूव ह ॥ १२॥ ततः शान्तिधरो राजा वैराग्ये निदधे मनः । राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ ॥ १३॥ बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः । ततो मङ्कणकं विप्रमदर्शद्योगिसत्तमम् ॥ १४॥ तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः । ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः ॥ १५॥ मङ्कणक उवाच । श‍ृणु राजन् महाभाग येन त्वं रोगपीडितः । अभवस्तदघं सर्वं कथयामि नृपाधम ॥ १६॥ मुख्यं नष्टं च राज्ये ते चतुर्थीसंज्ञितं व्रतम् । तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम् ॥ १७॥ सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम । सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम् ॥ १८॥ तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः । चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम ॥ १९॥ एवमुक्त्वा च माहात्म्यं चतुर्थीसम्भवं मुनिः । श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत् ॥ २०॥ कर्दम उवाच । धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् । व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः ॥ २१॥ दयानिधे गणेशस्य स्वरूपं वद विस्तरात् । सर्वदेवाधिदेवं तं भजिष्यामि निरन्तरम् ॥ २२॥ मङ्कणक उवाच । गणेशस्य स्वरूपं कथयितुं शक्यते न तत् । तथाप्युपाधिसंयुक्तं वदामि श‍ृणु कर्दम ॥ २३॥ पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम् । बहुकाले गते हस्तो विद्धो मे कण्टकेन च ॥ २४॥ तदा पत्ररसस्तस्मादस्रवत् किञ्चिदप्यहो । दृष्ट्वा विस्मितचित्तोऽहं नृत्यं चाकरवं तदा ॥ २५॥ अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम् । पत्रभक्षणभावेन रसः स्रवति हस्ततः ॥ २६॥ ततो नृत्यस्य वेगेन कम्पितं स चराचरम् । मदीयतपसा युक्तं देवाः शङ्करमाययुः ॥ २७॥ शङ्करः सर्वदेवैश्चागत्य मामब्रवीद्वचः । किं नृत्यसि महाभाग पश्य मे कौतुकं महत् ॥ २८॥ इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे । भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः ॥ २९॥ त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात् । अन्तर्धाय स्वमात्मानं शङ्करः स गतोऽभवत् ॥ ३०॥ (Page खं. ४ अ. २९ पान ८२) मया मनसि राजेन्द्र सन्धृतं शङ्करात् परम् । विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥ ३१॥ दर्शयित्वा तपोरूपमतो भस्म कृतं महत् । रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥ ३२॥ त्यक्त्वा विष्णुं महेशस्य भजने निरतोऽभवम् । क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥ ३३॥ जडादिका मया योगभूमयः क्रमितास्ततः । क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः ॥ ३४॥ यत्र तत्र महीदेशे भ्रान्तोऽहं योगधारकः । सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः ॥ ३५॥ स्वाधीनं सहजं ब्रह्म न योग्यं शान्तिदे परे । तेनाऽहं ब्रह्मणि भ्रान्तः सूर्यं च शरणं गतः ॥ ३६॥ प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया । प्रसन्नो माऽवदत्तत्र वरं वरय चेप्सितम् ॥ ३७॥ ततोऽहमवदं सूर्यं वद शान्तिप्रदं प्रभो । सहजं मोहहीनत्वात् स्वाधीनं नैव शान्तिदम् ॥ ३८॥ ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियन्त्रितः । गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ॥ ३९॥ असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने । सहजः शङ्करः प्रोक्तस्तेषां योगे गणेश्वरः ॥ ४०॥ चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः । अयोगः पञ्चभिर्हीनस्तत्र निर्मायिको बभौ ॥ ४१॥ संयोगे मायया युक्तो योगे मायाविवर्जितः । तयोर्योगे शान्तिदः स गणेशो ब्रह्मनायकः ॥ ४२॥ चित्तरूपा महाबुद्धिः पञ्चधा परिकीर्तिता । चित्तमोहप्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः ॥ ४३॥ चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शान्तिदम् । चिन्तामणिं भजस्व त्वं योगिवन्द्यो भविष्यसि ॥ ४४॥ एवमुक्त्वा ददौ मन्त्रं प्रभुर्मह्यं षडक्षरम् । स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम् ॥ ४५॥ तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात् । ततः स्वल्पेन शान्तिस्थोऽभवं योगस्य सेवया ॥ ४६॥ तथापि गणराजं सम्पूज्य मन्त्रपरायणः । अभजं तेन सन्तुष्टः प्रत्यक्षं प्रययौ स्वयम् ॥ ४७॥ मया सम्पूजितो भक्त्या स्तुतो नानाविधैः स्तवैः । मह्यं दत्त्वा दृढां भक्तिमन्तर्धानं चकार ह ॥ ४८॥ तदारभ्य महीपाल गाणपत्योऽहमादरात् । भजामि तं गणेशानं स्वच्छन्देन महामते ॥ ४९॥ एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम् । मन्त्रं विधियुतं विप्रो गणेशकृपया युतः ॥ ५०॥ अन्तर्धानं चकारापि महान् मङ्कणको मुनिः । राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ ५१॥ तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका । तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप ॥ ५२॥ ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम् । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ५३॥ रोगहीनः स राजर्षिरभजद्गणनायकम् । जना वन्ध्यत्वहीनाश्चाऽभजंस्ते भावसंयुताः ॥ ५४॥ पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ । तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा ॥ ५५॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह । (Page खं. ४ अ. ३० पान ८३) क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ ५६॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यत्त्वं श‍ृणु भावेन परं कार्तिकसम्भवम् ॥ ५७॥ चाण्डालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् । जघान ब्राह्मणानन्यान् जन्तून् वनसमाश्रितान् ॥ ५८॥ परस्त्रियं वने दृष्ट्वाऽयभत्तां हठसंयुतः । एवं नानाविधं पापं चकार दुर्मतिः सदा ॥ ५९॥ कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः । कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥ ६०॥ ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत । तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥ ६१॥ तथापि विषबाधा च न जहौ तं सुदुर्मतिम् । ततश्चन्द्रोदये किञ्चित् सावधानो बभूव ह ॥ ६२॥ तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च । व्याकुलः पतितस्तत्र गतचेष्टोंऽत्यजोऽभवत् ॥ ६३॥ पञ्चम्यां स मृतः पापी ब्रह्मभूतो बभूव ह । व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥ ६४॥ एवं नानाविधा राजन् व्रतपुण्यप्रभावतः । बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥ ६५॥ एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप । सङ्कष्ट्या यस्तु पठति श‍ृणोतीप्सितमालभेत् ॥ ६६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ ४.२९

४.३० मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद । माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् ॥ १॥ वसिष्ठ उवाच । इतिहासं पुरावृत्तं कथयामि सविस्तरम् । राजा बभूव तेजस्वी हरिश्चन्द्रः प्रतापवान् ॥ २॥ अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः । सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥ ३॥ यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः । तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥ ४॥ ततश्छलयितुं योगी विश्वामित्रः समाययौ । सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः ॥ ५॥ राज्यभ्रष्टं नृपं कृत्वा परप्रान्ते गतं पुनः । नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥ ६॥ ततः सोऽपि नृपोऽत्यन्तं धर्मयुक्तो बभूव ह । न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥ ७॥ तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता । कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥ ८॥ छलितो मुनिनाऽत्यन्तं ततश्चन्द्रोदयोऽभवत् । तत्रान्नं भक्षयामास राजेन्द्रो दैवयोगतः ॥ ९॥ पञ्चम्यां बुद्धिसम्भेदो विश्वामित्रस्य चाऽभवत् । तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥ १०॥ (Page खं. ४ अ. ३० पान ८४) ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् । प्रत्यक्षं वरदो भूत्वा हरिश्चन्द्रमुवाच ह ॥ ११॥ कुरु राज्यं महाबुद्धे श‍ृणु मे परमं वचः । तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥ १२॥ तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम । अहं सङ्क्षुभितो वाऽपि तदर्थं नात्र संशयः ॥ १३॥ सर्वादौ तद्व्रतं कार्यं चतुःपादप्रदं नृप । नित्यवन्नात्र सन्देहः सर्वसिद्धिप्रदायकम् ॥ १४॥ त्वया नानाविधं पुण्यं कृतं विधियुतं महत् । तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥ १५॥ जनैः सर्वैर्महाराज नरके त्वं पतिष्यसि । त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत् ॥ १६॥ तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम । तत् कुरुष्व महीपाल जनैः सौख्यमवाप्स्यसि ॥ १७॥ एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः । सविधिं गणनाथस्य सोऽपि तं पुनरब्रवीत् ॥ १८॥ हरिश्चन्द्र उवाच । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः । व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने ॥ १९॥ विश्वामित्र उवाच । गणेश्वरस्य माहात्म्यं श‍ृणु सङ्क्षेपतो नृप । एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः ॥ २०॥ मनोवाणीमयं विश्वं तदेव गणवाचकम् । नानाभावसमायुक्तं मया वक्तुं न शक्यते ॥ २१॥ मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम् । गणरूपं तु विज्ञेयं वेदे पश्य महीपते ॥ २२॥ सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा नृप । ताभ्यां क्रीडति विघ्नेशश्चित्ते चिन्तामणिः स्थितः ॥ २३॥ तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि । राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि ॥ २४॥ चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा । समोऽहं चित्तमुत्सृज्य चिन्तामणिर्भविष्यसि ॥ २५॥ एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुङ्गवः । श्रावयामास तस्मै तत्ततश्चान्तर्हितोऽभवत् ॥ २६॥ विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः । अयोध्यायां ययौ वेगात् प्रधानैरनुमोदितः ॥ २७॥ नागरैः सह राजाऽपि चकार व्रतमुत्तमम् । शुक्लकृष्णचतुर्थीजं गणेशभजने रतः ॥ २८॥ सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः । भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः ॥ २९॥ नानेन सदृशं किञ्चित् सर्वदं व्रतमुत्तमम् । ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः ॥ ३०॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । पुत्रे राज्यं विनिक्षिप्य सस्त्रीकश्च ययौ वनम् ॥ ३१॥ तत्रैव गणराजं सोऽभजत् सुतपसा युतः । शान्तिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः ॥ ३२॥ अन्ते स्वानन्दगो भूत्वा गणेशे लीनतां गतः । एवं व्रतस्य माहात्म्यं कथितं तेऽजनन्दन ॥ ३३॥ जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे । चतुर्थीव्रतजेनैव पुण्येन परमेण ते ॥ ३४॥ अन्यच्छृणु महीपाल मालवे नगरं महत् । कर्णा नाम च तत्राऽऽसीद्वेश्या नरविमोहिनी ॥ ३५॥ लोकान् सा हावभावेन मोहयामास तत्क्षणात् । नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः ॥ ३६॥ (Page खं. ४ अ. ३१ पान ८५) स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे । मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥ ३७॥ ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः । चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥ ३८॥ कथने परदोषाणां दोषी भवति मानवः । एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥ ३९॥ नानाजनैर्युता राजन्नरके कृतनिश्चया । न विरामं चकाराऽपि नराणां मोहने कदा ॥ ४०॥ एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च । चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥ ४१॥ पञ्चम्यां सा मृता तत्र ब्रह्मभूता बभूव ह । व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥ ४२॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । तत्र ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥ ४३॥ मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् । पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ४.३०

४.३१ पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो । न तृप्यामि कथां श‍ृण्वन् सर्वसिद्धिकरीं पराम् ॥ १॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं महान् । राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥ २॥ बलवान्नीतियुक्तश्चाभवच्छस्त्रास्त्रपारगः । धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥ ३॥ नानादानरतश्चापि वान्ध्यदोषयुतोऽभवत् । तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥ ४॥ ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् । नैव लेभे स तदपि पुत्रं वंशविवर्धनम् ॥ ५॥ तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् । स्वयं पूजापरो भूत्वा न लेभे सन्ततिं ततः ॥ ६॥ ततोऽतिदुःखितो राजा त्यक्त्वा राज्यं वने ययौ । सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥ ७॥ महावनान्तरं गत्वा दुःखशोकसमन्वितः । सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥ ८॥ तत्राऽऽजगाम योगीन्द्रस्त्रितो नाम महामुनिः । तं दृष्ट्वा प्रणनामाऽऽदौ कृताञ्जलिपुटः स्थितः ॥ ९॥ तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः । रुरोद तं महायोगी जगाद करुणायुतः ॥ १०॥ त्रित उवाच । राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् । नष्टं चतुर्थीजं पूर्णं तेन वन्ध्योऽसि निश्चितम् ॥ ११॥ सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥ १२॥ नानाधर्मपरस्त्वं वै जनास्तथैव मानद । (Page खं. ४ अ. ३१ पान ८६) फलहीनप्रभावेण पतिष्यन्ति च रौरवे ॥ १३॥ एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः । श्रावयामास सम्पूर्णं ततस्तं त्वब्रवीन्नृपः ॥ १४॥ वीरसह उवाच । गणेश्वरस्य माहात्म्यं वद मे करुणानिधे । एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ १५॥ त्रित उवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् । उपाधियुक्तं भावेन कथयामि श‍ृणुष्व तत् ॥ १६॥ अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः । एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ ॥ १७॥ ताभ्यां यज्ञार्थमेवाहं गतो राज्ञो महात्मनः । अभवं कारयित्वा तं स्वगृहे गन्तुमुत्सुकः ॥ १८॥ दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम् । भ्रातरौ लोकसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः ॥ १९॥ जलहीने हि कूपेऽहं पतितः खेदसंयुतः । तत्र मानसिकं यज्ञं प्रचकार हितावहम् ॥ २०॥ आजग्मुस्तत्र देवाद्या हविर्भागार्थमादरात् । मया सम्पूजिताः सर्वे तृप्ताः संहर्षिता बभुः ॥ २१॥ अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप । ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे ॥ २२॥ ततोऽहं याचयित्वाऽन्यं नृपं गोभिः समन्वितः । हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ॥ २३॥ ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः । तपस्त्यक्त्वा च योगेन प्राभवं भूमिसाधकः ॥ २४॥ जडोन्मत्तपिशाचाद्या भूमयः साधिता मया । अन्ते ब्रह्मगतोऽतिष्ठं समात्माऽहं स्वशान्तिदे ॥ २५॥ स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ २६॥ योगीन्द्रैर्वन्दितो नित्यं तं दृष्ट्वा प्रणतोऽभवम् । पूजयित्वा सुविश्रान्तं तमपृच्छं कृताञ्जलिः । शान्तियोगं वद स्वामिन् शान्तिभ्यः शान्तिदायकम् ॥ २७॥ मुद्गल उवाच । असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शङ्करस्तेषां संयोगे गणपोऽभवत् ॥ २८॥ संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भव ते मुनिसत्तम ॥ २९॥ संयोगायोगयोर्योगे योगो गाणेशसंज्ञकः । शान्तिभ्यः शान्तिदः प्रोक्तो भज तं भक्तिसंयुतः ॥ ३०॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः । एकाक्षरं विधियुतं ततः सोंऽतर्हितोऽभवत् ॥ ३१॥ ततोऽहं गणराजं तमभजं सर्वभावतः । तेन शान्तिसमायुक्तश्चरामि ह्यकुतोभयः ॥ ३२॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात् परम् ॥ ३३॥ न गणेशात् परो योगो भक्तिर्न गणपात् परा । तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥ ३४॥ गणेशानं परित्यज्य कर्म ज्ञानादिकं चरेत् । तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥ ३५॥ सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्यचेतसा । सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते ॥ ३६॥ एवमुक्त्वा त्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् । विधियुक्तं ततः साक्षादन्तर्धानं चकार ह ॥ ३७॥ (Page खं. ४ अ. ३१ पान ८७) राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ । प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥ ३८॥ तत्रादौ पौषगां कृष्णां चतुर्थीं तां समागताम् । चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥ ३९॥ प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ४०॥ ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुतम् । लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥ ४१॥ रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् । यत्र तत्र चतुर्थीजं माहात्म्यमवदन् जनाः ॥ ४२॥ पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः । सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥ ४३॥ अन्ते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ ४४॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग पापनाशकरं महत् ॥ ४५॥ गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह । द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः ॥ ४६॥ मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा । वणिजो विषयोगेन मारयामास नित्यदा ॥ ४७॥ एवं बहुधनो जातः परस्त्रीलालसोऽभवत् । मद्यमांसपरो दुष्टो सतीसङ्गेषु लालसः ॥ ४८॥ नानामिषेण दुष्टः स्म सतीर्यभति वेगतः । परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥ ४९॥ निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि । दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥ ५०॥ तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः । चन्द्रोदये रक्षकैर्यद्दत्तमन्नमभक्षयत् ॥ ५१॥ पञ्चम्यां राजदूतैः स शूलप्रोतो ममार ह । ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥ ५२॥ एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे । ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥ ५३॥ तत्रैव कति ते राजन् कथयामि विशेषतः । न वक्तुं शक्यते तस्मादुक्तं सङ्क्षेपतो मया ॥ ५४॥ इदं पौषस्य सङ्कष्ट्या माहात्म्यं संश‍ृणोति यः । पठेद्वा तस्य शुभदं भविष्यति निरन्तरम् ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ४.३१ (Page खं. ४ अ. ३२ पान ८८)

४.३२ माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मलमासे च सङ्कष्ट्याश्चतुर्थ्या वद मानद । माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं कृपानिधे ॥ १॥ वसिष्ठ उवाच । आन्ध्रदेशे महाराजो बभूवे रैवतान्तरे । धर्मदत्त इति ख्यातो नानाधर्मपरायणः ॥ २॥ यज्वा विनीतकोऽत्यन्तं नीतिज्ञोऽखिलतोषकृत् । षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः ॥ ३॥ जलोदरयुतोऽकस्मादभवन् मानदायकः । सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित् ॥ ४॥ नानोपायाः कृतास्तस्य शान्तये नृपसत्तम । तथाऽपि रोगनिर्मुक्तो न बभूव महीपतिः ॥ ५॥ तुलादानादिकान्येव महादानानि पीडितः । चकार रोगयुक्तस्तदप्यत्यन्तमजायत ॥ ६॥ परिभ्रमन् स तीर्थानि चकार विधिसंयुतः । देवताऽऽराधनं राजा नाऽभवद्रोगवर्जितः ॥ ७॥ ततोऽतिदुःखितो राजा जलेनैवात्मघातनम् । विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः ॥ ८॥ ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ । तद्गृहे तं नमस्कृत्य पूजयामास बान्धवैः ॥ ९॥ भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः । धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत् ॥ १०॥ धर्मदत्त उवाच । धन्योऽस्म्यनुगृहीतोऽस्मि सफलो मे भवोऽभवत् । तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु ॥ ११॥ आत्मघातेऽहमुद्युक्तस्तत्र ते दर्शनं महत् । प्राप्तं पुण्यसमूहेन नरको न भविष्यति ॥ १२॥ वसिष्ठ उवाच । एवं वदन्तमानन्दयुक्तो योगीन्द्रसत्तमः । उवाच तं महाराजं दयया करुणानिधिः ॥ १३॥ अष्टावक्र उवाच । किमर्थं देहघाते त्वमुद्यतोऽसि महामते । रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः ॥ १४॥ तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम् । नष्टं तेन महोग्रेण पापेन संयुतो भवान् ॥ १५॥ राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत् । त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम ॥ १६॥ सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल ॥ १७॥ त्वया धर्मयुतं कर्म कृतं नानाविधं तथा । चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम् ॥ १८॥ सर्वैः सह जनै राजन्नरके त्वं पतिष्यसि । तदर्थं व्रतराजं तत् कुरु सर्वसमन्वितः ॥ १९॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । श्रावयामास तस्मै स करुणायुतचेतसा ॥ २०॥ श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः । उवाच तं हि योगीन्द्रं हर्षयुक्तेन चेतसा ॥ २१॥ धर्मदत्त उवाच । पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते । मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम् ॥ २२॥ अधुना विघ्नराजस्य स्वरूपं मे दयानिधे । कथयस्व सदा देवं भजिष्यामि महाप्रभुम् ॥ २३॥ न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ २४॥ अष्टावक्र उवाच । धर्मदत्त महाभाग श‍ृणु त्वं गणपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ २५॥ (Page खं. ४ अ. ३२ पान ८९) निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च । तस्य देहः सगुणकं ब्रह्म योगे गजाननः ॥ २६॥ सिद्धिर्भ्रान्तिस्वरूपा सा बुद्धिर्भ्रान्तिधराऽभवत् । ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥ २७॥ स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् । तेन स्वानन्दवासी स कथ्यते योगिभिः प्रभुः ॥ २८॥ संयोगेऽयं गकारः सो योगेऽयं च णकारकः । तयोः स्वामी गणेशानः शान्तियोगेन लभ्यते ॥ २९॥ पञ्चधा चित्तवृत्तिर्या तस्यां मोहस्तु पञ्चधा । समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥ ३०॥ तेनाऽयं गणनाथस्तु चिन्तामणिरिति स्मृतः । तं भजस्व महाभाग तदा शान्तो भविष्यसि ॥ ३१॥ एवमुक्त्वा ददौ तस्मै मन्त्रं मालात्मकं प्रभुः । सविधिं धर्मदत्ताय ततः सोंऽतर्हितोऽभवत् ॥ ३२॥ राजाऽपि हर्षसंयुक्तो बभूवातितरां ततः । धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥ ३३॥ तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा । समागता जनै राजा तां चकार विधानतः ॥ ३४॥ ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् । ततो जना व्रतं चक्रुर्भूमिस्था यत्र तत्र ते ॥ ३५॥ ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह । जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥ ३६॥ नित्यं गणपतिं राजाऽभजच्चानन्यमानसः । गणेशप्रीतये नानादानानि स ददौ सदा ॥ ३७॥ ततो राज्ये स्वपुत्रं स संस्थाप्यैकान्तसंस्थितः । सस्त्रीको गणनाथं तमभजद्ध्यानमार्गतः ॥ ३८॥ अन्ते जगाम विघ्नेशं तल्लीनः स बभूव ह । जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥ ३९॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महीपाल श‍ृण्वन्यत्त्वं कथानकम् ॥ ४०॥ गान्धारदेशवासीयः क्षत्रियः पापकारकः । बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥ ४१॥ द्यूतमद्यरतो नित्यं परस्त्रीलम्पटोऽभवत् । गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः ॥ ४२॥ नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै । चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥ ४३॥ ततो राज्ञा महापापी वने निष्कासितो बलात् । जघान मार्गगांस्तत्र जन्तून्नानाविधान् खलः ॥ ४४॥ द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः । एवं नानाविधं पापं नित्यमेव चकार सः ॥ ४५॥ ततो द्रव्ययुतोऽत्यन्तं बुभुजे भोगमुत्तमम् । हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥ ४६॥ कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः । चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः ॥ ४७॥ ततो मानवमेकं तु मार्गस्थं स ददर्श ह । निःसृत्याधावदत्यन्तं शस्त्रहस्तो वधाय वै ॥ ४८॥ पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः । क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥ ४९॥ पतितं तं समाज्ञाय नरः क्रोधसमन्वितः । पाषाणेन महादुष्टं मारयामास मस्तके ॥ ५०॥ मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप । तेन स व्याकुलोऽत्यन्तं गतचेष्टो बभूव ह ॥ ५१॥ (Page खं. ४ अ. ३३ पान ९०) रात्रौ चन्द्रोदये किञ्चित् सावधानोऽभवत् कुधीः । पायसं भक्षयामास स्वल्पं दुःखसमन्वितः ॥ ५२॥ ततो ममार पञ्चम्यां गतः स्वानन्दके पुरे । तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह ॥ ५३॥ एवं व्रतप्रभावेण पापकर्मा स क्षत्रियः । ब्रह्मभूतो बभूवाऽपि किं पुनर्ज्ञानतः कृतम् ॥ ५४॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् । ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते ॥ ५५॥ इदं कृष्णचतुर्थ्या यन् माहात्म्यं मलमासके । श‍ृणोति यस्तु पठति स ईप्सितमवाप्नुयात् ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते मलमासकृष्णपक्षचतुर्थी- माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ४.३२

४.३३ शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम । सङ्कष्ट्यां तस्य माहात्म्यं वद मे करुणानिधे ॥ १॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम् ॥ २॥ पाञ्चाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह ॥ ३॥ नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः । कीटकैः सर्वतो व्याप्तो ह्यन्धः कुब्जोऽभवन्नृप ॥ ४॥ तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः । अत्रिं जगाम शरणं तं पप्रच्छ प्रणम्य सः ॥ ५॥ तेनापि कथितं राजन् शमीमूले स्थितो भवेत् । चतुर्थीं सङ्कटीं कुर्यात्तदा पापात् प्रमुच्यते ॥ ६॥ ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते । समानाय्य बबन्धैव दाम्ना सर्वार्थसाधकः ॥ ७॥ सूर्योदयात् समारभ्य यावच्चन्द्रोदयोऽभवत् । तावत्तत्र महारोगी सोऽतिष्ठद्बन्धनाकुलः ॥ ८॥ ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात् । नेत्रयुक्तो बभूवाऽथ रोगादिभिर्विवर्जितः ॥ ९॥ कुब्जताहीनरूपं तं संस्थितं विगतज्वरम् । तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे ॥ १०॥ ततः सोऽपि गणेशानमभजन्नित्यमादरात् । चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति ॥ ११॥ अन्ते शान्तिसमायुक्तो ब्रह्मभूतो बभूव ह । एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम् ॥ १२॥ अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम् । चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत् ॥ १३॥ स्फोटयित्वा गृहं किञ्चित्तेन तत्र प्रविश्य सः । धनं गृहीत्वा निर्यातो नरैर्दृष्टः पपाल सः ॥ १४॥ जनैः कोलाहलस्तत्र कृतः परमदारुणः । श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः ॥ १५॥ (Page खं. ४ अ. ३३ पान ९१) ज्ञात्वा वृत्तान्तमुग्रं ते धाविताः क्रोधसंयुताः । वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः ॥ १६॥ छिन्नाङ्गं पतितं चौरं दूताः सङ्गृह्य दारुणम् । तं बबन्धुः शमीवृक्षे ततो राजानमाययुः ॥ १७॥ समागता चतुर्थी सा तत्राऽकस्मान् महीपते । कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत् ॥ १८॥ पञ्चम्यां क्षतहीनाङ्गं चौरं सर्वत्र शोभनम् । सञ्जातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन् ॥ १९॥ राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः । एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ॥ २०॥ तं तत्रागृह्य निक्षिप्य गणान् शुण्डाविराजितान् । तान् प्रणम्य स पप्रच्छ राजर्षिर्गन्तुमुत्सुकान् ॥ २१॥ महासेन उवाच । भो भो गणपतेर्दूताः किमनेन कृतं महत् । वदेत करुणायुक्तास्तद्वयं करवामहै ॥ २२॥ गाणेशा ऊचुः । कृष्णपक्षे चतुर्थ्यां यः शमीमूले जपेन्मनुम् । तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत् ॥ २३॥ निराहारः स विघ्नेशं पूजयेत् व्रतकारकः । पश्चाद्विप्रांश्च सम्भोज्य स्वयं भुञ्जीत वाग्यतः ॥ २४॥ रात्रौ जागरणं कुर्यात् पञ्चम्यां पूजनं पुनः । प्रकुर्यात् गणराजस्य स ईप्सितमवाप्नुयात् ॥ २५॥ फलयुक्तः सद्य एव भवत्यत्र न संशयः । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतः स जायते ॥ २६॥ एवमुक्त्वा गता दूताश्चौरेण सहिता नृप । चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ २७॥ ततो राजा महाभागो गणेशभजने रतः । स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः ॥ २८॥ ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः । ब्रह्मादीनां सभायां स गत्वाऽतिष्ठत् स्वयेच्छया ॥ २९॥ पुनः स्वनगरे राजा चम्पावत्यां जगाम ह । एवं सर्वत्रगो भूत्वा रराजे राजमण्डले ॥ ३०॥ अन्ते सर्वजनै राजा नगरस्थैर्महामते । जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह ॥ ३१॥ इदं ते मुख्यमाहात्म्यं शमीमूलस्थितेर्महत् । चतुर्थ्यां कथितं राजन् सङ्कष्ट्यां सर्वसिद्धिदम् ॥ ३२॥ श‍ृणुयाद्यः पठेद्वा स सद्य एव फलं लभेत् । ईप्सितं गणराजस्य प्रसादान्नात्र संशयः ॥ ३३॥ एवं नाना जना राजन्नान्ध्यदोषादिवर्जिताः । बभूवुश्चरितं तेषां मया वक्तुं न शक्यते ॥ ३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ४.३३ (Page खं. ४ अ. ३४ पान ९२)

४.३४ वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति । तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम् ॥ १॥ वसिष्ठ उवाच । मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः । राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥ २॥ बभक्ष श्रावणे कृष्णसङ्कष्ट्यां पञ्चखाद्यजान् । लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥ ३॥ दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह । आश्विने निर्जलं तद्वच्चकार व्रतमद्भुतम् ॥ ४॥ कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः । मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम् ॥ ५॥ पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् । माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात् ॥ ६॥ फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् । चैत्रे तद्वत् पञ्चगव्यं पूजयित्वा विनायकम् ॥ ७॥ वैशाखे पद्मबीजं स बभक्ष व्रतधारकः । ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥ ८॥ आषाढे मधुमात्रं स बभक्ष नियमे रतः । चन्द्रोदये गणेशानं पूजयित्वा विधानतः ॥ ९॥ ततस्तस्य व्रतस्यैव प्रभावेण महामते । सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठोऽभवन्नृप ॥ १०॥ ततो मुनिभिराद्यं तं राजानं स चकार ह । मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥ ११॥ एवं त्वसाध्यकं राजन्निच्छेद्वै यदि मानवः । धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥ १२॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । लब्ध्वांऽते ब्रह्मभूताश्च बभूवुर्भूमिमण्डले ॥ १३॥ अतस्त्वं राजशार्दूल पापरूपोऽसि साम्प्रतम् । तव राज्ये व्रतं नष्टं नृपाधम न बुद्ध्यसे ॥ १४॥ जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि । पुत्रयुक्तश्च विघ्नेशमन्ते गच्छसि निश्चितम् ॥ १५॥ मुद्गल उवाच । प्रणम्य तं दशरथो महाराजो जगाम ह । स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥ १६॥ ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम् । चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥ १७॥ व्रतपुण्यप्रभावेण विष्णुः साक्षाद्बभूव ह । चतुर्धाऽऽत्मानमाभज्य पुत्रस्तस्य महात्मनः ॥ १८॥ रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः । पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः ॥ १९॥ अन्ते जगाम विघ्नेशं दशरथः प्रतापवान् । लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥ २०॥ वसिष्ठर्षेर्दशरथस्येमं विप्रस्य धीमतः । संवादं व्रतहेतुं तु यः श‍ृणोति पठेन्नरः ॥ २१॥ तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम् । पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥ २२॥ नानारोगविहीनत्वमैश्वर्यादियुतं महत् । अन्ते गणपतौ लीनं करोत्यत्र न संशयः ॥ २३॥ चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते । श्रोतुमिच्छा पुनः किं ते वर्तते वद साम्प्रतम् ॥ २४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ४.३४ (Page खं. ४ अ. ३५ पान ९३)

४.३५ चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम । येन साङ्गं फलं सर्वं लभते व्रतकारकः ॥ १॥ मुद्गल उवाच । उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः । अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥ २॥ अथवा भाद्रमासे वै शुक्लायां च प्रजापते । उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥ ३॥ महामण्डपकं कुर्यात् कदलीस्तम्भमण्डितम् । नानाशोभासमायुक्तं विभवे सति मानद ॥ ४॥ वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् । छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥ ५॥ मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः । यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥ ६॥ मध्याह्नसमये तस्याः शुक्लायाः कथितं प्रभो । चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥ ७॥ गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् । तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्गुरुणा स्वयम् ॥ ८॥ तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा । रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥ ९॥ तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः । वस्त्रं ततो गणेशस्य यन्त्रं कुर्याद्विचक्षणः ॥ १०॥ तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता । सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥ ११॥ द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि । ब्राह्मणान् वरयेच्छुद्धानेकविंशतिसङ्ख्यकान् ॥ १२॥ गणानां त्वेति मन्त्रस्य जपं कुर्याद्विशेषतः । ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥ १३॥ अष्टोत्तरशतं वाऽपि तथा जपदशांशकम् । गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥ १४॥ नानाशास्त्रप्रवादांश्च कुर्वन्तु ब्राह्मणास्ततः । यत्र तत्र गणेशस्य कथाः सङ्कथयन्तु ते ॥ १५॥ ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् । बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥ १६॥ एकविंशतिपक्वान्नैरेकविंशतिसङ्ख्यकैः । नैवेद्यैर्ब्राह्मणान् सम्भोज्यार्थयेत्तान् विशेषतः ॥ १७॥ दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् । योषिद्भ्यः कञ्चुकीर्दद्याद्भूषणानि महामतिः ॥ १८॥ कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् । शुक्लायां तत्तथा दक्ष चरेच्चन्द्रार्घ्यवर्जितम् ॥ १९॥ आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै । ततश्चन्द्राय तन् मन्त्रैरर्घ्यं मन्त्रसमन्वितम् ॥ २०॥ तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि । गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥ २१॥ गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने । गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥ २२॥ अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन । गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥ २३॥ कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् । शुक्लपक्षे च पञ्चम्यां ब्राह्मणादींस्तु भोजयेत् ॥ २४॥ चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः । पञ्चम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥ २५॥ दीनान्धकृपणेभ्यश्च दद्यादन्नादिकं तथा । (Page खं. ४ अ. ३६ पान ९४) ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥ २६॥ सर्वान् सम्भोज्य दानेन तोषयेद्देवसन्निधौ । गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात् ॥ २७॥ ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् । एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः ॥ २८॥ सन्तोष्योदारधीः सर्वान् स भावेन क्षमापयेत् । ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥ २९॥ एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः । स सम्पूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ ३०॥ वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम् । सोद्यापनं विशेषेण कथितं ते यथामति ॥ ३१॥ इदं चतुर्थीजं दक्ष चरितं संश‍ृणोति चेत् । पठेद्वा तस्य विघ्नेशो मानसेप्सितदो भवेत् ॥ ३२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥ ४.३५

४.३६ लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । माहात्म्यं यच्छ्रुतं मुख्यं चतुर्थीसम्भवं महत् । कृतकृत्यश्च तेनाऽहं सञ्जातो मुनिसत्तम ॥ १॥ अधुना वद माहात्म्यं लोभासुरनिबर्हणे । गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥ २॥ मुद्गल उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं प्रभो । सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥ ३॥ एकदा शैलवर्ये तु कैलासे शङ्करः स्थितः । पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः ॥ ४॥ तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः । प्रणम्य गिरिजायुक्तं शङ्करं पुरतः स्थितः ॥ ५॥ समीपे शङ्करस्यैव गत्वा चामरसंयुतः । असेवत महात्मानं भक्तियुक्तेन चेतसा ॥ ६॥ अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनन्दिनीम् । रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥ ७॥ साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह । कामबाणाभिभूतः सन्नपश्यत्तां सुविह्वलः ॥ ८॥ सकामदृष्टिसंयुक्तं पश्यन्तं तं धनाधिपम् । दृष्ट्वा कोपसमायुक्ता बभूवे शङ्करप्रिया ॥ ५॥ क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् । कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥ १०॥ अतिविह्वलगात्रत्वात् प्रास्कन्दद् वीर्यमुत्तमम् । धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥ ११॥ ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् । नियम्यात्मानमानिन्द्य तुष्टाव विविधैः स्तवैः ॥ १२॥ ततः सा शङ्करेणैव सान्त्विता जगदम्बिका । पिङ्गाक्षं तं चकाराऽपि पुत्रभावप्रदर्शिनी ॥ १३॥ जगदम्बा लोभनार्थं कुबेरोऽभूत् समुद्यतः । मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥ १४॥ (Page खं. ४ अ. ३६ पान ९५) लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः । सङ्गृह्य तं गृहं देवो धनदः प्रजगाम ह ॥ १५॥ कुबेरभवने संस्थं लोभं तं नारदो मुनिः । ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥ १६॥ तारं पातालसंस्थं तं दानवानां हितैषिणम् । इन्द्रेण निर्जितं ज्ञात्वा नारदः प्रययौ मुनिः ॥ १७॥ तारः समुत्थितो विप्रं प्रणनाम मुदा युतः । पप्रच्छाऽऽपूज्य वृत्तान्तं दानवानां हितावहम् ॥ १८॥ तार उवाच । इन्द्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् । अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥ १९॥ नारद उवाच । अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपाततः । लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥ २०॥ तं पालय महाभाग तेन ते वाञ्छितं महत् । भविष्यति न सन्देहो मम तस्माद्वचः कुरु ॥ २१॥ एवमुक्त्वा महायोगी नारदोंऽतर्हितोऽभवत् । तारः स्म हर्षितोऽत्यन्तं मेने स कृतकृत्यताम् ॥ २२॥ मायया दानवाधीशस्त्वलकायां जगाम ह । गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमत् ॥ २३॥ लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः । न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥ २४॥ तारः पुत्रं समानीय पालयामास हर्षतः । बालक्रीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥ २५॥ उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् । तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥ २६॥ एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः । हर्षयुक्ता बभूवुस्ते मेनिरे कृतकृत्यताम् ॥ २७॥ ततः पञ्चमवर्षे स चकार व्रतबन्धनम् । वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥ २८॥ स आसुरीं महामायां सर्वदेवविमोहिनीम् । विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥ २९॥ ततः प्रणम्य विपेन्द्रं शुक्रं सर्वविदांवरम् । पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥ ३०॥ ततः पञ्चाक्षरीं विद्यां ददौ तस्मै महामुनिः । शैवीं विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥ ३१॥ तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः । जपं चकार भावेन निराहारपरायणः ॥ ३२॥ भस्माङ्गलेपसंयुक्तः शैवमार्गपरायणः । तोषयामास यत्नेन शङ्करं सर्वदं परम् ॥ ३३॥ एवं तपसि लोभः स संस्थितो बहुवासरम् । ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥ ३४॥ दिव्यवर्षसहस्रेण प्रसन्नः शङ्करः प्रभुः । आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥ ३५॥ समागतं महेशानं न बुबोध स दानवः । ततस्तं जलमासिच्य शम्भुः शक्तं चकार ह ॥ ३६॥ ततः शम्भुं समालोक्य हर्षयुक्तेन चेतसा । जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥ ३७॥ लोभासुर उवाच । धन्यं मेऽद्य तपो मन्त्रो धन्यौ मे जनकौ प्रभो । जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥ ३८॥ किं स्तौमि त्वां महेशान साक्षाद्ब्रह्म सनातनम् । तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥ ३९॥ नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः । (Page खं. ४ अ. ३७ पान ९६) शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४०॥ त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१॥ अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज । स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२॥ अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः । सदा मोहविहीनाय मृडाय सततं नमः ॥ ४३॥ स्वाधीनाय परेशाय सहजे खेलकारिणे । शूलहस्ताय देवानां पतये ते नमो नमः ॥ ४४॥ कैलासवासिने तुभ्यं भस्मलेपकराय वै । दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ ४५॥ एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः । लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ ४६॥ तमुवाच महादेवो वरं वृणु हृदीप्सितम् । दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ ४७॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४८॥ यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः । श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ ४९॥ श्रुत्वा शङ्करवाक्यं स तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥ ५०॥ लोभासुर उवाच । वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् । देहि राज्यं महादेव ब्रह्माण्डस्य विशेषतः ॥ ५१॥ नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् । मनसीप्सितमेवं मे सिद्ध्यतु त्वदनुग्रहात् ॥ ५२॥ मनोवाणीमयं यच्च तस्मान् मृत्युर्न मे भवेत् । सदानन्दसमायुक्तं मां कुरुष्व कृपानिधे ॥ ५३॥ लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः । शङ्करस्तपसा बद्धस्तथेति तमुवाच ह ॥ ५४॥ अन्तर्धाय स्वमात्मानं कैलासस्थो बभूव ह । लोभासुरः प्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ४.३६

४.३७ लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लोभासुरः समागत्य पितरं मातरं ततः । प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार ह ॥ १॥ महिषासुरपुत्रीं स उवाह रूपशालिनीम् । तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥ २॥ एवं नाना विभोगेन सुहृदानन्दकारकः । बभूव बलसंयुक्तो मदेन भृशमोहितः ॥ ३॥ मह्यां समागतः सोऽपि दानवैः परिवारितः । नगरं निर्ममे तत्र सदा विषयवर्धनम् ॥ ४॥ चकार नाम तस्यापि सुखदं दानवेरितः । ततो दिग्भ्यः समायाता नाना दैत्यगणाः पुरे ॥ ५॥ (Page खं. ४ अ. ३७ पान ९७) ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् । शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥ ६॥ शुक्रेण प्रेरिता दैत्या गतास्तत्र महापुरे । देवान्तकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥ ७॥ नरान्तकः प्रहेतिश्च हेतिर्विप्रचितिस्तथा । इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ॥ ८॥ ब्राह्मणैः कारयामास ततः शुक्रोऽभिषेचनम् । दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः ॥ ९॥ सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः । ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥ १०॥ ततो बहौ गते कालेऽसुरो लोभः प्रतापवान् । आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥ ११॥ आज्ञामात्रेण तस्यैव समाजग्मुर्बलान्विताः । असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥ १२॥ लोभासुरोऽसुरान् सर्वान् सम्प्रपूज्य यथाविधि । उवाच तान् महावाक्यं हर्षयन् दानवोत्तमः ॥ १३॥ लोभासुर उवाच । विप्रचित्त्यादिकाः सर्वे श‍ृणुध्वं मे वचो हितम् । भवतां पुण्ययोगेन जेष्यामि सकलं जगत् ॥ १४॥ यदीच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव सङ्गताः । तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः ॥ १५॥ एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः । जगुस्तं भावगम्भीरं साधु साधु त्वयेरितम् ॥ १६॥ जेष्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् । पराक्रमतुला तेन विद्यते जगति प्रभो ॥ १७॥ ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् । तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥ १८॥ गजासुरो विप्रचित्तिर्देवान्तकनरान्तकौ । प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव च ॥ १९॥ बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा । स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥ २०॥ पदातयोऽप्यसङ्ख्याता अश्वारोहास्तथाऽपरे । पशुसंस्थाः खगाराहा अपाराश्च समाययुः ॥ २१॥ गजारोहा रथारूढा नानावाहनसंस्थिताः । महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥ २२॥ तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् । पृथिवीजयनार्थाय कालकम्पनकारकः ॥ २३॥ एतादृशा महावीरा यत्रातिष्ठन् सुन्दशिताः । तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥ २४॥ नृपाः केचिन् मृतास्तत्र सङ्ग्रामे दारुणे प्रभो । केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥ २५॥ एवं सप्तसमुद्रान्तां पृथ्वीं जित्वा महाबलाः । असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥ २६॥ ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः । पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥ २७॥ शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः । वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ ॥ २८॥ वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् । साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥ २९॥ ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् । लोभासुरेण संयुक्ता महामाया महाबलाः ॥ ३०॥ इन्द्रः सुरगणैः सार्धं दंशितो वज्रधारकः । (Page खं. ४ अ. ३८ पान ९८) बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥ ३१॥ इन्द्र उवाच । लोभासुरः समायातो दानवैर्बलवत्तरैः । तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥ ३२॥ इन्द्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुङ्गवः । जगाद तं महेन्द्रं बृहस्पतिः स प्रतापवान् ॥ ३३॥ गुरुरुवाच । शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः । नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥ ३४॥ अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर । गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥ ३५॥ गुरोर्वचनमाकर्ण्य सुरेन्द्रः शोकसंयुतः । सुरेन्द्रैः सहितः सोऽपि विकुण्ठमगमत्तदा ॥ ३६॥ देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः । दैत्या हर्षयुताः सर्वे प्रवेशं चक्रुरञ्जसा ॥ ३७॥ दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः । गत्वाऽऽसने महेन्द्रस्य समारूढो बभौ स्वयम् ॥ ३८॥ सर्वान् सम्मान्य दैत्येन्द्रो ददौ नानापदानि सः । दैत्येन्द्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥ ३९॥ गन्धर्वास्तं महादैत्यमप्सरोभिः समन्विताः । सिषेविरे प्रजापाल विद्याध्राद्याः समादृताः ॥ ४०॥ देवोद्यानेषु दैत्येन्द्रा बभ्रमुर्हर्षसंयुताः । यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥ ४१॥ लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः । अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॥ ४२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ४.३७

४.३८ विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इन्द्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः । वैकुण्ठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः ॥ १॥ ततस्तुष्टो हरिः प्राह महेन्द्रं मान्यभावतः । स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥ २॥ त्यक्त्वाऽमरावतीं तात किमर्थं चागतो भवान् । स्त्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥ ३॥ इन्द्र उवाच । किं वदामि जगत्पाल सर्वज्ञं त्वां महामते । तथापि श‍ृणु वृत्तान्तं शोकदं दैवकारितम् ॥ ४॥ लोभासुरश्च शैवेन वरेण बलदर्पितः । दानवेन्द्रैर्महाबाहुर्यो त्वं स ह्यागतोऽधुना ॥ ५॥ गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन । त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥ ६॥ दैत्योऽमरावतीसंस्थो देवस्थानानि माधव । प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥ ७॥ त्वं पालकः श्रुतौ प्रोक्तस्तस्माच्छरणमागतान् । रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥ ८॥ तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः । (Page खं. ४ अ. ३८ पान ९९) जगाद देवराजं तं महाबाहुर्विचक्षणः ॥ ९॥ श्रीहरिरुवाच । हनिष्यामि महादैत्यं लोभं दानवसंयुतम् । मा कुरुष्व वृथा चिन्तां कुरु राज्यं मयार्पितम् ॥ १०॥ एवमुक्त्वा महेन्द्रं स देवेन्द्रैः सह माधवः । वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥ ११॥ समागतं महाविष्णुं महासैन्यसमाकुलम् । ज्ञात्वा दूतमुखात् सर्वे दानवाः सज्जका ययुः ॥ १२॥ लोभः क्रोधसमाविष्ट आययौ योद्धुमादृतः । रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥ १३॥ लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समन्ततः । महाकायं महावीर्यं कालकालं प्रदुद्रुवुः ॥ १४॥ पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् । तेन सार्धं ययुः सर्वे महेन्द्राद्याश्च दंशिताः ॥ १५॥ समागतं रमानाथं रणभूमौ प्रतापवान् । लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥ १६॥ ततो युद्धं समभवद्देवानां दानवैः सह । तुमुलं शस्त्रसङ्घातैर्मारयन्तः परस्परम् ॥ १७॥ अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः । इच्छन्तो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥ १८॥ रक्तौघैः सम्प्रवृत्ता स्म नदी परमभीतिदा । विश्रामं निशि चक्रुर्न क्रोधावेशैः परस्परम् ॥ १९॥ दिनत्रयं महाघोरं युद्धं दारुणरूपकम् । तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥ २०॥ गणा विष्णोश्च सङ्क्रुद्धास्तथा देवेन्द्रमुख्यकाः । नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥ २१॥ ततो हाहारवं कृत्वा दानवा भयसंयुताः । न लेभिरे यशो दैत्याः पलायन्त समन्ततः ॥ २२॥ ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् । जय विष्णो महाभाग वदन्ति स्म परस्परम् ॥ २३॥ ततोऽतिक्रोधसंयुक्ता दानवेन्द्राः समाययुः । विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे ॥ २४॥ तेषां बाणैः सुराः सर्वे छिन्नाङ्गाः पतिता मृधे । तद् दृष्ट्वा क्रोधयुक्ताश्च देवेन्द्रास्तान् प्रदुद्रुवुः ॥ २५॥ अभवत् द्वन्द्वयुद्धं च नियतं रोमहर्षणम् । तेषां मध्येऽथ किञ्चित्त्वां कथयामि समासतः ॥ २६॥ इन्द्रेण युयुधे तत्र गजासुरः प्रतापवान् । अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥ २७॥ वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः । कुबेरेण प्रहेतिश्च मदनेन च हेतिकः ॥ २८॥ सूर्येण युयुधे क्रोधात् स प्रतापी नरान्तकः । देवान्तको विष्णुना स क्रोधयुक्तः समाययौ ॥ २९॥ जृम्भः सोमेन दैत्येशो युयुधे बलसंयुतः । यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥ ३०॥ नानाद्वन्द्वभवं युद्धं चक्रुर्देवेन्द्रकैः सह । दैत्येन्द्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥ ३१॥ अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे । नानाशस्त्रास्त्रवर्षेण ववृषुस्ते परस्परम् ॥ ३२॥ दिवसास्तत्र पञ्चैव गतास्तेषां प्रयुध्यताम् । नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥ ३३॥ ततोऽतिकोपसंयुक्तः स प्रतापी गजासुरः । इन्द्रं सङ्गृह्य चिक्षेप महापर्वतमस्तके ॥ ३४॥ मूर्च्छितो देवराजः स ततो देवाः पलायिताः । (Page खं. ४ अ. ३८ पान १००) एवं द्वन्द्वरतैर्दैत्यैर्देवेन्द्रा मूर्च्छिताः कृताः ॥ ३५॥ हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश । पपाल तन् महाश्चर्यं दृष्ट्वा विष्णुश्चुकोप ह ॥ ३६॥ चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् । दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥ ३७॥ केषाञ्चिन्मस्तकेष्वेतदपतद्दारुणं महत् । चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥ ३८॥ ततो दैत्येन्द्रकाः सर्वे आययुस्ते जनार्दनम् । शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥ ३९॥ नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् । गजासुरं स विव्याध बाणैर्दशभिरावृतम् ॥ ४०॥ तं मूर्च्छितं चकाराऽसौ ततो देवान्तकं हरिः । सप्तभिस्ताडयामास पातयामास भूतले ॥ ४१॥ एवं सर्वान् महाविष्णुः दानवेन्द्रान् सुदारुणान् । विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समन्ततः ॥ ४२॥ ततो हाहारवं कृत्वाऽपलत्तत् सैन्यमुल्बणम् । दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥ ४३॥ ततो लोभः समायातः क्रोधयुक्तो जनार्दनम् । जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥ ४४॥ लोभ उवाच । सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः । अधुना त्वां न मुञ्चामि जीवयुक्तं कदाचन ॥ ४५॥ नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् । ज्ञात्वा किमर्थमायातो ज्ञानहीनो यथा नरः ॥ ४६॥ गदां गृहीत्वैवमुक्त्वा ताडयामास केशवम् । पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत् ॥ ४७॥ मुहूर्तमात्रकालेन सावधानो बभूव ह । पपाल देवराजैः स त्यक्त्वा सङ्ग्राममण्डलम् ॥ ४८॥ प्रहस्य दानवान् सर्वान् सावधानानथाऽकरोत् । लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥ ४९॥ स्तुतो बन्दिजनैस्तेभ्यो दत्त्वा दानानि हर्षितः । इन्द्रासने समासीनो रेजे दानवसत्तमः ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥ ४.३८

४.३९ लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततोऽतिदुःखितो विष्णुर्देवेन्द्रैश्च समन्वितः । त्यक्त्वा विकुण्ठमेवं स ययौ शम्भुं शरण्यकम् ॥ १॥ गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः । स्तुत्वा वृत्तान्तमेवं स कथयामास विस्तरात् ॥ २॥ श्रुत्वा महेश्वरो विष्णुं स देवं स्वपुरागतम् । सान्त्वयामास युक्तैश्च नानादृष्टान्तदर्शनैः ॥ ३॥ शिव उवाच । मा चिन्तां कुरु विष्णो त्वं सर्वज्ञ जगदीश्वर । तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥ ४॥ तपः कृतं च लोभेन फलं तस्य जनार्दन । भुक्त्वा मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥ ५॥ (Page खं. ४ अ. ३९ पान १०१) देवैः सह महाविष्णो मत्समीपे स्थिरो भव । मदीयभक्तियुक्तो ह्यागमिष्यत्यत्र नैव सः ॥ ६॥ एवमुक्त्वा वचो विष्णुं शङ्करः शोकसंयुतः । देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥ ७॥ अथ लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् । इन्द्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥ ८॥ विप्रचित्त्याद्या ऊचुः । लोभ लोभ महाभाग श‍ृणु नो वचनं हितम् । विष्णुर्देवगणैः सर्वैः कैलासे शङ्करं ययौ ॥ ९॥ अस्माकं शङ्करः सोऽपीष्टदेवः पूज्य आदरात् । शत्रून् रक्षति नः शम्भुर्भविष्यति विपक्षगः ॥ १०॥ अधुना शङ्करस्यास्य भावार्थं प्रेष्यतां महान् । दूतः सर्वार्थसूज्ञः कस्ततः क्षेमं भविष्यति ॥ ११॥ शिवो यदि स देवानां पक्षगो भवति प्रभो । तदा शम्भुं प्रजेष्यामस्तपोबलसमन्विताः ॥ १२॥ न ते शम्भुर्वरस्यैव दाता जानीहि मानद । कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥ १३॥ कर्माधीनं जगत् सर्वं सदेवासुरमानुषम् । कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥ १४॥ देवाः कर्मफलं लोभाद्ददते न विशेषतः । तदैश्वर्यविहीनास्ते पतन्ति स्वपदात् किल ॥ १५॥ अतस्त्यक्त्वा स्वसन्देहं त्यज शम्भुं विपक्षगम् । कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥ १६॥ इत्युक्त्वा दानवेन्द्रास्ते विरामं चक्रुरञ्जसा । लोभासुरस्ततस्तेषां वचने निरतोऽभवत् ॥ १७॥ गजासुरं महावीर्यं प्रेषयामास सत्वरम् । कैलासे शङ्करस्यैव भावार्थं भावधारकः ॥ १८॥ गत्वा शम्भुं महादैत्यः प्रणम्य प्रत्युवाच सः । वचनं लोभदैत्येन प्रेषितं सामपूर्वकम् ॥ १९॥ गजासुर उवाच । महादेव नमस्तुभ्यं श‍ृणु मे वचनं हितम् । लोभासुरेण देवेश प्रेषितोऽहं विशेषतः ॥ २०॥ तेन सङ्कथितं वाक्यं तच्छृणुष्व सुखप्रदम् । त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरन्तरम् ॥ २१॥ विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ । अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥ २२॥ वयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते । मित्रं शत्रुस्तथा शम्भो पालयस्वादराद्धि नः ॥ २३॥ नो चेत् सङ्ग्रामभावेन जेष्यामस्त्वां न संशयः । कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् ॥ २४॥ कर्मणा लोभकः शम्भो सर्वैश्वर्ययुतोऽधुना । तस्मादस्मान् महाभाग रक्ष ते भक्तिसंयुतान् ॥ २५॥ तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शङ्करः । गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥ २६॥ शिव उवाच । गजासुर महालोभं वद मे वचनं हितम् । गत्वा तं दानवेन्द्रं त्वं सर्वासुरसमन्वितम् ॥ २७॥ कैलासं विष्णुना त्यक्त्वा सहितोऽहं स्वदेवपैः । गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥ २८॥ कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् । सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥ २९॥ एवमुक्त्वा सुदुर्बुद्धिं शङ्करः सुरनायकैः । जगाम पर्वतोद्देशे त्यक्त्वा कैलासमात्मनः ॥ ३०॥ (Page खं. ४ अ. ४० पान १०२) महावने महेशानः पर्वतद्रोणिमाश्रितः । देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥ ३१॥ गजासुरः सभां गत्वा जगाद सकलैर्युतम् । लोभासुरं स वृत्तान्तं श्रुत्वा संहर्षितोऽभवत् ॥ ३२॥ ततः स सत्यलोके च विकुण्ठे शङ्करालये । दानवान् स्थापयामास नानादेवपदेषु वै ॥ ३३॥ इन्द्रासनं परित्यज्य ययौ भूम्यां महासुरः । स्वपुरे दानवेन्द्रैश्चावसद्भोगपरायणः ॥ ३४॥ न ममर्श निजात्मानं गर्वितः केवलं स तु । स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत् सुदुर्मतिः ॥ ३५॥ धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् । ब्रह्माण्डं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥ ३६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥ ४.३९

४.४० गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दानवा बलदर्पिताः । जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः ॥ १॥ दानवेन्द्रा ऊचुः । देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः । सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥ २॥ शस्त्रास्त्रैर्देवसङ्घास्ते न मरिष्यन्ति कर्हिचित् । अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥ ३॥ कर्मान्ना देवताः स्वामिन् क्षते कर्मणि तत्क्षणात् । मरिष्यन्ति महाभाग तदर्थं यत्नमाचर ॥ ४॥ जित्वा ब्रह्माण्डगोलं किं संस्थितोऽसि महासुर । न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुषु ॥ ५॥ हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् । राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥ ६॥ ततो देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो । तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥ ७॥ अतस्त्वं दैत्यराजेन्द्र हितं कुरु विशेषतः । तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥ ८॥ तेषां वचनमाकर्ण्य लोभासुरः सुमन्दधीः । आज्ञापयत्ततो दैत्यो दैत्येन्द्रान् कर्मखण्डने ॥ ९॥ ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः । यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः ॥ १०॥ यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते । जघ्नुर्बभञ्जुरत्यन्तं कर्मखण्डनकारणात् ॥ ११॥ बभञ्जुः क्रोधसंयुक्ता देवताऽऽयतनानि ते । स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥ १२॥ सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः । जनैः पूज्याः कृता दक्ष तदाधारं बभूव ह ॥ १३॥ न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा । न वषट्कारगं कर्म त्रासितं भूमिमण्डलम् ॥ १४॥ लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् । ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥ १५॥ ब्राह्मणा वनगा भूत्वा केचिन् मरणनिश्चयाः । (Page खं. ४ अ. ४० पान १०३) चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥ १६॥ एवं बहौ गते काले देवाः परमदुःखिताः । उपवासपराः सर्वे बभूवुस्ते प्रजापते ॥ १७॥ ततोऽतियत्नसंयुक्ता विचारं चक्रुरञ्जसा । लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥ १८॥ ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः । सन्तस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥ १९॥ तत्राऽऽजगाम योगीन्द्रो रैभ्यः सर्वप्रियङ्करः । अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥ २०॥ तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् । उपायं दीनभावेन सास्थिचर्मावशेषिताः ॥ २१॥ ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः । जगाद तान् सुरेन्द्रान् स दीनान् दृष्ट्वा विशेषतः ॥ २२॥ रैभ्य उवाच । श‍ृणुध्वं विष्णुशम्भ्वाद्या मुनयस्तत्त्वभाविताः । लोभासुरो महापापी दुर्जयो नात्र संशयः ॥ २३॥ विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः । तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥ २४॥ स्वयं साक्षाद् बुद्धिपतिर्बुद्धिं सञ्चालयिष्यति । गजाननस्य मन्त्रं वै जपध्वं विधिपूर्वकम् ॥ २५॥ एवमुक्त्वा महायोगी रैभ्यः स्वच्छन्दगोऽभवत् । शिवादयो महाभागा हर्षिताः सम्बभूविरे ॥ २६॥ गजाननस्य मन्त्रं ते जेपुस्तपःपरायणाः । सविधिं ध्यानसंयुक्तास्तोषयामासुरन्वहम् ॥ २७॥ निराहारप्रभावेण सन्तुष्टो भक्तिभावितः । शतवर्षेषु देवेशानाययौ स गजाननः ॥ २८॥ दृष्ट्वा गजाननं ते तु हर्षिता देवनायकाः । देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥ २९॥ कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् । पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥ ३०॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ ३१॥ अनन्तायैकदन्ताय हेरम्बाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ ३२॥ सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ ३३॥ अगुणाय गुणेशाय गुणरूपाय गौणिने । मायामयाय मायायाश्चालकाय परात्मने ॥ ३४॥ सर्वादये महोदार पराक्रमपराय ते । स्वानन्दवासिने तेऽस्तु नमः स्वानन्ददायिने ॥ ३५॥ योगाकाराय योगानां स्वामिने शान्तिदायिने । ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥ ३६॥ अनाधाराय सर्वेषामाधाराय नमो नमः । आदिमध्यान्तहीनायादिमध्यान्ताय ते नमः ॥ ३७॥ परश्वङ्कुशहस्ताय त्रिनेत्राय महोदर । नमो मूषकवाहाय मूषकध्वजिने नमः ॥ ३८॥ नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे । जगत् सुस्रष्ट्रे सकलस्य हन्त्रे गुणैर्विहीनाय गणाधिपाय ॥ ३९॥ विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय । सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥ ४०॥ बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् । गजचिह्नेन योगीन्द्राः पश्यन्ति त्वां गजाननम् ॥ ४१॥ (Page खं. ४ अ. ४० पान १०४) यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः । तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥ ४२॥ विदेहं गजरूपं यत्तेन ते मुखमुच्यते । गणेशस्य प्राप्तिकरं गजानन नमोस्तु ते ॥ ४३॥ किं स्तवाम गणाधीश यत्र वेदादिकास्तथा । योगिनः शान्तिमापन्नास्तं वयं शरणं गताः ॥ ४४॥ स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः । तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥ ४५॥ गजानन उवाच । स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे । सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरम् ॥ ४६॥ यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रितः । पठनाच्छ्रवणादस्य सन्तुष्टोऽहं विशेषतः ॥ ४७॥ वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् । तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥ ४८॥ गजाननवचः श्रुत्वा हर्षिता देवतर्षयः । प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥ ४९॥ देवर्षय ऊचुः । लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् । वयं कर्मविहीनत्वादुपोषणयुताः कृताः ॥ ५०॥ अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन । तव भक्तिं दृढां देहि लोभहीनां विशेषतः ॥ ५१॥ तेषां वचनमाकर्ण्य गजानन उवाच तान् । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ ५२॥ लोभहीना मदीया या भक्तिर्वश्च भविष्यति । अधुना दानवेन्द्रं तं जेष्यामि च न संशयः ॥ ५३॥ मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव संस्थितः । सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥ ४.४०

४.४१ शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दूतं गजाननस्तत्र प्रेषयामास शङ्करम् । स गत्वा दैत्यपं दक्ष जगाद श‍ृणु तद्वचः ॥ १॥ शिव उवाच । श‍ृणु लोभासुर त्वं मे वचनं हितकारकम् । करिष्यसि यदा साम्ना भविष्यसि तदा सुखी ॥ २॥ गजाननः स्वयं साक्षाद्ब्रह्मणां नायकः स्मृतः । स आगतः सुरैः सर्वैर्देवेन्द्रैर्मुनिभिर्वृतः ॥ ३॥ नगरप्रान्तभागे ते दशयोजनदूरतः । संस्थितेन च दैत्येश प्रेषितोऽहं विशेषतः ॥ ४॥ मदीयवरदानेन निर्भयोऽसि हि मानद । अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः ॥ ५॥ ब्रह्माण्डं वशमानीय त्वं सर्वेशोऽसि साम्प्रतम् । देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरन्तरम् ॥ ६॥ अधुना वैरमुत्सृज्य स्नेहं कुरु महामते । देवाः स्वपदगाः सन्तु ब्राह्मणाः कर्मकारिणः ॥ ७॥ गजाननस्य वर्तस्व मित्रभावेन दानव । भुङ्क्ष्व भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥ ८॥ (Page खं. ४ अ. ४१ पान १०५) शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं तिरस्कृत्य महादेवं मदान्वितः ॥ ९॥ लोभासुर उवाच । कोऽसौ गजाननः शम्भो त्वं भेदकर एव च । मोहयस्यधुना मां किं देवानां पक्षगः पुरः ॥ १०॥ अधुना त्वां महादेव हन्मि क्रोधसमन्वितः । किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥ ११॥ वद वाक्यं मदीयं त्वं हनिष्यामि सदेवकम् । गजाननं न सन्देहः पश्य मे पौरुषं महत् ॥ १२॥ एवं निर्भर्त्सितः शम्भुः क्रोधारुणविलोचनः । जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥ १३॥ शिव उवाच । मृत्युयोगेन पापिष्ठ त्वं युतोऽसि न संशयः । गजाननं तेन लोभ निन्दसि ब्रह्मनायकम् ॥ १४॥ शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् । गजाननं प्रणम्यादौ वृत्तान्तं सञ्जगौ पुनः ॥ १५॥ तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् । क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥ १६॥ अनन्तादित्यसङ्काशः परशुः कालभीतिदः । आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥ १७॥ तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् । भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥ १८॥ दानवेन्द्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः । जगुर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् ॥ १९॥ नागरा ऊचुः । किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् । अस्त्रं समागतं क्रूरं दाहयामास दानवान् ॥ २०॥ तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः । जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥ २१॥ लोभासुर उवाच । गजाननोऽमरैः सार्धं समायातो न संशयः । समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥ २२॥ तस्य तद्वचनं श्रुत्वा दानवेन्द्रा महाबलाः । ऊचुः प्राञ्जलयः सर्वे मा भयं कुरु सत्तम ॥ २३॥ गजाननं हनिष्यामः पश्यति त्वयि मानद । एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमादृताः ॥ २४॥ ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् । अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥ २५॥ ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा । हाहाकाररवाः सर्वे पपलुर्भयविह्वलाः ॥ २६॥ दानवेन्द्रैस्ततो दक्ष मेघास्त्रं मोचितं महत् । जलौघैः सर्वतो मेघा ववृषुर्दारुणं परम् ॥ २७॥ जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् । मेघस्थं ते ततो मेघा निस्तेजस्का बभूविरे ॥ २८॥ दैत्येन्द्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा । ददाह च ततो भीता पपलुर्यत्र तत्र ते ॥ २९॥ तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ । रथारूढो महातेजास्तन्निवृत्त्यर्थमादृतः ॥ ३०॥ पश्यतो दैत्यराजस्य ज्वालाऽकस्मात् समागता । रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥ ३१॥ ततः पपाल दैत्येन्द्रः कविं लोभासुरो ययौ । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ ३२॥ लोभासुर उवाच । स्वामिन् गजाननो देव आगतः स महाबलः । (Page खं. ४ अ. ४१ पान १०६) दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥ ३३॥ तन्निवृत्त्यर्थमेवाहं न पश्यामीह किञ्चन । अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष मां मुने ॥ ३४॥ मनोवाणीमयं सर्वं तस्मान् मृत्युर्न मे भवेत् । नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥ ३५॥ यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु साम्प्रतम् । देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥ ३६॥ अतो वद महाभाग उपायं हितदायकम् । त्वदाधारं च योगीन्द्र जीवनं मे प्रवर्तते ॥ ३७॥ इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः । लोभासुरं भयोद्विग्नं तं जगाद प्रहर्षयन् ॥ ३८॥ शुक्र उवाच । मा कुरुष्व भयं वत्स श‍ृणु मे वचनं हितम् । तत् समाचार दैत्येन्द्र ततः क्षेमं भविष्यति ॥ ३९॥ गजाननः प्रसन्नात्मा यदिच्छति महासुर । तदेव सत्यरूपं वै भविष्यति न संशयः ॥ ४०॥ ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः । नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥ ४१॥ एवं तस्य वचः श्रुत्वा लोभस्तं पुनरब्रवीत् । निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥ ४२॥ मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् । न लज्जा तेन मे स्वामिन् संशयं छिन्धि हृत्स्थितम् ॥ ४३॥ शुक्र उवाच । देहरूपं महद्ब्रह्म देह्यात्मा वेदभाषितम् । तयोर्योगे महादैत्य बोधोऽसि पदवाचकः ॥ ४४॥ बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् । सुसिद्धिदं तदेव त्वं विजानीहि गजाननम् ॥ ४५॥ सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते । तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥ ४६॥ गजचिह्नेन गच्छन्ति योगिनो हि गजाननम् । तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ ४७॥ यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः । गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥ ४८॥ तेनैव स्थापितं विश्वं बोधरूपं महामते । स्वस्वधर्मयुतं पूर्णं तत्राऽयं संस्थितोऽभवत् ॥ ४९॥ पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् । पृथिव्यां मानवानां वै त्रिविधं रचितं पुरा ॥ ५०॥ यदा देवा महाभाग लोभयुक्ता मदान्विताः । पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥ ५१॥ तदाऽयं देहधारी च दैत्येभ्यो वरदोऽभवत् । देवानां विघ्नसन्दाता गणेशः सर्वभाववित् ॥ ५२॥ ततो दैत्यगणाः सर्वे बलयुक्ता सुरेन्द्रकान् । जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥ ५३॥ यदा दैत्या महालोभ लोभयुक्ता विशेषतः । देवानां जीवनाशार्थमभवन् कर्मखण्डनात् ॥ ५४॥ तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् । हत्वा स्वस्थानगान् देवानकरोद्धर्मपालकः ॥ ५५॥ सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा । तदाऽयं ब्रह्मरूपः संश्चित्ते चिन्तामणिर्बभौ ॥ ५६॥ चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महामते । सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥ ५७॥ स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः । (Page खं. ४ अ. ४२ पान १०७) तेनाऽयं गणपः स्वानन्दवासी कथ्यते बुधैः ॥ ५८॥ अतस्तस्यैव दैत्येन्द्र शरणं सुखदं भवेत् । अन्यथा सकलं हत्वा मरिष्यसि न संशयः ॥ ५९॥ गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः । तस्मै कुरु नमो भक्त्या शान्तरूपं भविष्यति ॥ ६०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४.४१

४.४२ लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः

श्रीगणेशाय नमः ॥ मुद्गल उवाच । शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् । तथेति प्रतिपाद्यैव सकविः शरणं ययौ ॥ १॥ नगरप्रान्तभागे तच्छस्त्रं गजाननस्य च । समीपसंस्थान् जज्वाल दानवादीन् समास्थितम् ॥ २॥ तं प्रणम्य महादैत्यो लोभः परशुमुत्तमम् । कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥ ४॥ प्रलयानलसङ्काशं स्वरूपं धरते नमः । अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६॥ साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् । तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७॥ शरणागतपालाय सदा स्वानन्दसंस्थितः । रक्ष मां भयभीतं भोः परशो ते नमो नमः ॥ ८॥ एवं लोभासुरं संस्तुवन्तं तं तु महाबलम् । काव्येन शस्त्रराजं तच्छान्तिरूपधरं बभौ ॥ ९॥ गत्वा गजाननस्यैव हस्तगं तद्बभूव ह । लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥ १०॥ समागतं महादैत्यं दृष्ट्वा देवर्षयोऽभवन् । विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥ ११॥ गजाननं प्रणम्यैव लोभासुरः प्रतापवान् । काव्येन पूजयामास भक्तियुक्तो विशेषतः ॥ १२॥ प्रणम्य तं पुनर्दैत्यः कृत्वा करपुटं प्रभुम् । गजाननं भावसंयुक्तस्तुष्टाव प्रहर्षितः ॥ १३॥ लोभासुर उवाच । नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने । बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४॥ हेरम्बाय सदा स्वानन्दवासिने महात्मने । परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५॥ सुरासुरप्रियकर सुरासुरमयाय ते । लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६॥ देवानां पालकायैव दैत्यानां रक्षकाय ते । सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७॥ लम्बोदराय देवेश दैत्येश मूषकध्वज । अनादये च सर्वेषामादिरूपाय ते नमः ॥ १८॥ आदिमध्यान्त हीनायादिमध्यान्तस्वरूपिणे । ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९॥ ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते । (Page खं. ४ अ. ४२ पान १०८) शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २०॥ एकदन्ताय सर्वेश वक्रतुण्डाय ते नमः । महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१॥ सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२॥ बीजरूपं गणाधीश जगतां ब्रह्मणां गजम् । चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥ २३॥ बोधहीनाय रूपाय सदा साङ्ख्यमयाय च । विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४॥ यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः । तं किं स्तौमि गणाधीश नमस्ते वरदो भव ॥ २५॥ त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो । तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६॥ एवं स्तुत्वा महालोभः प्रणनाम गजाननम् । तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७॥ गजानन उवाच । वरं वृणु महालोभ ददामि मनसीप्सितम् । प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥ २८॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतः श‍ृण्वतश्चैव लोभ तं नैव पीडय ॥ २९॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् । अन्ते स्वानन्दलोके स ब्रह्मभूतो भविष्यति ॥ ३०॥ यः स्तौति मामनेनैव स मे मान्यो न संशयः । सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥ ३१॥ त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं तु दानवोत्तम हन्मि न ॥ ३२॥ गजाननवचः श्रुत्वा लोभो हर्षसमन्वितः । उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥ ३३॥ लोभासुर उवाच । गजानन वरं मे त्वं देहि सम्पूर्णदायक । तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥ ३४॥ स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् । कार्यं कथय सर्वेश करिष्यामि गजानन ॥ ३५॥ गजानन उवाच । मदीया भक्तिराद्या ते भविष्यति महामते । गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा ॥ ३६॥ स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुतः । यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥ ३७॥ आदौ कर्मादिषु प्राज्ञ तत् समाहर नित्यदा । यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥ ३८॥ मम भक्ताश्च ये दैत्य तान् रक्षस्व विशेषतः । मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥ ३९॥ एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् । काव्येन सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥ ४०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४.४२ (Page खं. ४ अ. ४३ पान १०९)

४.४३ देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः

श्रीगणेशाय नमः ॥ मुद्गल उवाच । शान्तिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥ १॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥ २॥ विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वमुखप्रदं तम् । अमेयसाङ्ख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥ ३॥ मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् । विकालहीनं सकलान्तगं वै गजाननं भक्तियुता भजामः ॥ ४॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् । अनादिमध्यान्तमपाररूपं गजाननं भक्तियुता भजामः ॥ ५॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥ ६॥ न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरणस्थम् । न खे गतं पञ्चविभूतिहीनं गजाननं भक्तियुता भजामः ॥ ७॥ न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं न । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥ ८॥ गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढिम् । संयोगहीनाः प्रवदन्ति तत्स्थं गजाननं भक्तियुता भजामः ॥ ९॥ अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥ १०॥ यदि त्वया नाथ कृतं न किञ्चित्तदा कथं सर्वमिदं विभाति । अतो महात्मानमचिन्त्यमेव गजाननं भक्तियुता भजामः ॥ ११॥ सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् । अकामिकानां भवबन्धहारं गजाननं भक्तियुता भजामः ॥ १२॥ सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् । अनन्तवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥ १३॥ सदा सुखानन्दमये जले च समुद्रजे चेक्षुरसे निवासम् । द्वन्द्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥ १४॥ चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥ १५॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥ १६॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥ १७॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् । अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥ १८॥ शिवादिदेवैश्च खगैः सुवन्द्यं नरैर्लतावृक्षपशुप्रभूभिः । चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥ १९॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥ २०॥ वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव । (Page खं. ४ अ. ४३ पान ११०) गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥ २१॥ गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । गच्छन्ति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥ २२॥ पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे वै । विकुण्ठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥ २३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २४॥ गजानन उवाच । वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् । स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥ २५॥ गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ २६॥ देवर्षय ऊचुः । गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः । तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २७॥ लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा । तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २८॥ अधुना देवदेवेश कर्मयुक्ता द्विजादयः । भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २९॥ स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया । अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ ३०॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ ३१॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ ३२॥ गजानन उवाच । यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा । भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३३॥ भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ ३४॥ पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् । सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३५॥ मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३६॥ सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ ३७॥ कारागृहगतस्यैव बन्धनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३८॥ एकविंशतिवारं चैकविंशति दिनावधिम् । प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ ३९॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ ४०॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत । देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥ ४१॥ गजाननस्य मूर्तिस्तैः स्थापिता सिद्धिदा ततः । नैरृते कोणभागे स्म दर्शनेन सुखप्रदा ॥ ४२॥ तत्रैव संस्थिता देवा मुनयो भक्तिसंयुताः । अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥ ४३॥ ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि । यथायोग्यं जगत् सर्वं बभूवे हर्षितं विधे ॥ ४४॥ (Page खं. ४ अ. ४४ पान १११) एतद्गजाननस्यैव चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥ ४५॥ यः पठेत् पाठयेद्वापि श‍ृणुते श्रद्धयान्वितः । स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४.४३

४.४४ सिन्दूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः

श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं मुद्गल स्वामिंस्त्वत्सङ्गान्नात्र संशयः । लोभशान्तिकरं चित्रं श्रुतं भक्त्या चरित्रकम् ॥ १॥ न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो । वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥ २॥ गजाननस्य भक्त्यर्थमवतारान् धृतान् वद । सङ्क्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥ ३॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुतः । जगाद तं महाभागं महाभागो दयान्वितः ॥ ४॥ मुद्गल उवाच । अवतारा अनन्ताश्च गजाननस्य मानद । भक्तानां कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥ ५॥ तथापि श‍ृणु दक्ष त्वमवतारचरित्रकम् । गजाननस्य कथयामि समासेन सर्वदम् ॥ ६॥ पार्वत्या शङ्करेणैवाऽऽराधितो गणनायकः । दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥ ७॥ ताभ्यां सम्पूजितो देवः स्तुतः संयाचितोऽभवत् । त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥ ८॥ तथेति प्रतिपाद्याऽसौ गणेशोंऽतर्दधे स्वयम् । पुत्रः सिन्धुवधायाभून् मयूरेश इति स्मृतः ॥ ९॥ हत्वा सिन्धुं महावीर्यं गतः स्वानन्दके पुरे । एवं नानाऽवतारान् स दधार शिवयोर्गृहे ॥ १०॥ अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः । शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥ ११॥ केचिच्छिवात् सुमुद्भूताः केचिच्छक्तेर्महात्मनः । उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥ १२॥ यादृशं सङ्कटं प्राप्तं तदर्थं संस्मृतो विभुः । तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥ १३॥ कृत्वा कार्यस्य संसिद्धिं पुनः स्वानन्दगोऽभवत् । तद्वियोगेन सन्तप्तौ शिवौ किल बभूवतुः ॥ १४॥ अन्ये नानाऽवताराश्च कश्यपादिगृहेंऽशतः । धृता गजाननेनैव वक्तुं नैव प्रशक्यते ॥ १५॥ इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । गजाननावतारेण युक्तं श‍ृणु प्रजापते ॥ १६॥ एकदा निद्रितं शम्भुर्ब्रह्माणं प्रययौ प्रभुः । किञ्चित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥ १७॥ स उत्थितो महाजृम्भां चकार क्रोधसंयुतः । तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥ १८॥ सुवासबहुलेनैव युक्तः काम इवापरः । तं दृष्ट्वा विस्मितो ब्रह्मा जगाद स महाबलम् ॥ १९॥ ब्रह्मोवाच । कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद । एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥ २०॥ पुमानुवाच । जृम्भायास्ते समुत्पन्नः पुत्रोऽहं देवनायक । स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥ २१॥ ततोऽतिहर्षितो ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् । ददौ तस्मै विशेषेण वरांस्ताञ् श‍ृणु मानद ॥ २२॥ सुवासबहुलं रक्तं वपुस्ते तेन सिन्दुर । नाम नानाविधान् भोगान् भुङ्क्ष्व सर्वत्रगः स्वयम् ॥ २३॥ न बलेन समस्ते वै भविष्यति चराचरे । ब्रह्माण्डजयसंयुक्तो भव पुत्र ममाज्ञया ॥ २४॥ यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति । क्रोधादालिङ्गसे यं त्वं भस्मसात्तं करिष्यसि ॥ २५॥ एवं नानावरान् दत्त्वा संस्थितं प्रपितामहम् । तं प्रणम्य स सिन्दूरो जगामास्तुत्य भूतले ॥ २६॥ शौनक उवाच । तपोहीनाय दाताऽसौ ददौ सन्दुर्लभान् वरान् । किं कारणं वद प्राज्ञ संशयो मे महान् हृदि ॥ २७॥ सूत उवाच । इच्छासङ्कल्पसिद्ध्यर्थं तपस्तपति यो नरः । विपुले सोऽपि तपसि मृतो यदि भवेन् मुने ॥ २८॥ अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते । स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितम् ॥ २९॥ एतत्ते कथितं सर्वं संशयच्छेदनं वचः । अधुना श‍ृणु संवादं प्रकृतं यं पुरा भवम् ॥ ३०॥ विचारं मार्गमध्ये स गत्वा सिन्दूर आकरोत् । तपोहीनायाऽपि देवो मे ददाति वरं कथम् ॥ ३१॥ अतोऽहं वञ्चितो नूनं विधिना नात्र संशयः । लिङ्गयित्वा मृतं कुर्वे तं सत्यत्वदिदृक्षया ॥ ३२॥ निःसंशयं भवेदेवं विचार्य सिन्दुरासुरः । आययौ ब्रह्मणः सोऽपि समीपे क्रोधसंयुतः ॥ ३३॥ गर्जयित्वा विधातारमालिङ्गितुं प्रचक्रमे । तद् दृष्ट्वा परमाश्चर्यं ब्रह्मोवाच सुदारुणम् ॥ ३४॥ ब्रह्मोवाच । मद्वरस्य प्रभावेन मां हन्तुं समुपागतः । अतो दैत्योऽसि दुष्ट त्वमभाग्यान्नात्र संशयः ॥ ३५॥ पुत्रस्नेहेन रे दुष्ट वरा दत्ताः सुदुर्लभाः । अतो गजाननस्त्वां वै हनिष्यति कुलाधम ॥ ३६॥ एवमुक्त्वा पपालाऽसौ विकुण्ठे शरणं ययौ । नारायणं च सिन्दूरस्तमनु प्रययौ खलः ॥ ३७॥ नारायणाय वृत्तान्तं कथयामास विस्तरात् । सोऽपि श्रुत्वा विनिःश्वस्याऽभवत् सम्पूज्य संस्थितः ॥ ३८॥ एतस्मिन्नन्तरे तत्र सिन्दूरश्च समागमत् । जगाद विष्णुमव्यक्तं वचः क्रोधसमन्वितः ॥ ३९॥ सिन्दूर उवाच । विष्णो रक्ष विधातारं मां शप्त्वा प्रसमागतम् । हनिष्यामि त्वया सार्धं पश्य मे पौरुषं परम् ॥ ४०॥ विष्णुरुवाच । अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः । आवां हत्वा महादैत्य न यशस्ते भविष्यति ॥ ४१॥ त्वदधीनौ च सिन्दूर आवां जानीहि मानद । शङ्करः सर्वसंहर्ता स यशस्ते हरिष्यति ॥ ४२॥ विष्णोर्वचनमाकर्ण्य त्यक्त्वा विष्णुं चतुर्मुखम् । जगाम शङ्करं सद्यः कैलासे युद्धलालसः ॥ ४३॥ ध्यानस्थं शङ्करं दृष्ट्वा विचारमकरोद्धृदि । अमुं नग्नं तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥ ४४॥ (Page खं. ४ अ. ४५ पान ११३) वामाङ्गे संस्थितां नारीं रूपेणाप्रतिमां पराम् । तां गृहीत्वा गमिष्यामि स्वेच्छया क्रीडानोत्सुकः ॥ ४५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४.४४

४.४५ शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं निश्चितसङ्कल्पः सिन्दूरो गिरिजां ततः । गृह्योड्डीय ययौ सद्यो मूर्च्छितां भयविह्वलाम् ॥ १॥ तस्य श्वसनवेगेन पतिता नन्दिमुख्यकाः । गणाः पुनः समुत्थाय हाहाकारं प्रचक्रिरे ॥ २॥ हस्तगा पार्वती तत्र सावधाना बभूव ह । सस्मार गणपं देवं दैत्यपाशनियन्त्रिता ॥ ३॥ गौर्युवाच । गजानन ज्ञानविहारकारिन् न मां च जानासि परावमर्शाम् । गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ ४॥ विघ्नस्य शत्रोऽसुरसङ्घहन्तर्विघ्नेश हेरम्ब महोदरप्रिय । मां रक्ष दैत्यात्त्वयि भक्तियुक्तां लम्बोदर प्रेमविवर्धनाच्युत ॥ ५॥ किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि । किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ६॥ किं भक्तसङ्गेन च देवदेव नानोपचारैश्च सुयन्त्रितोऽसि । किं मोदकाद्यैर्गणपाऽऽवृतोऽसि नानाविहारेषु च वक्रतुण्ड ॥ ७॥ स्वानन्दभोगेषु परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव । अनन्तलीलासु सलालसोऽसि किं भक्तरक्षार्थसुसङ्कटस्थ ॥ ८॥ अहो गणेशामृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि । तदर्थनानाविधिसंयुतोऽसि विसृज्य दासीं त्वमनन्यभावाम् ॥ ९॥ रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् । प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥ १०॥ भक्ताभिमानीति च नाम मुख्यं वेदे बभूवात्र न किं महात्मन् । आगत्य हत्वा दितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ११॥ अहो न दूरं बत किञ्चिदेव कथं न बुद्धीश समागतोऽसि । सञ्चिन्त्य देहं प्रजहामि ते हि यशः करिष्ये विपरीतमेव ॥ १२॥ रक्ष रक्ष दयासिन्धोऽपराधान् मे क्षमस्व च । क्षणे क्षणे वयं दास्यो रक्षितव्या विशेषतः ॥ १३॥ स्तुवन्त्यामेव पार्वत्यां शङ्करो बोधसंयुतः । बभूव गणपानां वै श्रुत्वा हाहारवं विधे ॥ १४॥ गणेशं मनसा स्मृत्वा वृषारूढः समाययौ । क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा त्वहन् ॥ १५॥ ततः सोऽपि शिवं वीक्ष्याऽऽलिङ्गितुं धावितोऽभवत् । शिवस्य शूलकादीनि शस्त्राण्याकुण्ठितानि वै ॥ १६॥ (Page खं. ४ अ. ४५ पान ११४) तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः । सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १७॥ पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ । ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥ १८॥ गणेशेन कृतं तत्र कौतुकं परमाद्भुतम् । पपात गुप्तरूपश्च परशुर्दैत्यवक्षसि ॥ १९॥ तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्नपः । ततस्तं ब्राह्मणः प्राह श‍ृणु दैत्य वचो हितम् ॥ २०॥ जगज्जनिमिमां शक्तिं मुञ्च नो चेच्छिवः स्वयम् । गुप्तरूपेण सद्यस्त्वां मारयिष्यति निश्चितम् ॥ २१॥ अहं शम्भुं करिष्यामि त्वदाज्ञावशवर्तिनम् । भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥ २२॥ तथेति सिन्दुरेणैव कृतं सोऽपि शिवं वचः । जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥ २३॥ ब्रह्मलब्धवरं दैत्यं न जेतुं तं क्षमो भवान् । महेशशक्तिं सङ्गृह्य कालस्य क्रमणं कुरु ॥ २४॥ तथेति शङ्करेणोक्तं ददौ शक्तिं शिवाय सः । दैत्यः कैलासगो भूत्वा ननन्द विजयी ततः ॥ २५॥ ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत् । दैत्यस्त्रिभुवनं जित्वा जगदीशो बभूव ह ॥ २६॥ अन्तर्धानं चकाराऽसौ गणेशो द्विजरूपधृक् । तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥ २७॥ अहो ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः । मोचयित्वा स मां शम्भो त्वां संरक्ष्य ययौ पुनः ॥ २८॥ ततस्तौ पार्वतीशम्भू परलीवनगौ प्रभू । बभूवतुश्च विघ्नेशं तपसा हृदि चिन्तकौ ॥ २९॥ तताप तप उग्रं स सस्त्रीकः शङ्करस्ततः । गते वर्षशते पूर्णे तं गजानन आययौ ॥ ३०॥ गणेश उवाच । वरं वृणु महादेव यत्ते चित्ते प्रवर्तते । दास्यामि तपसा तुष्टो वाञ्छितं प्राह शङ्करम् ॥ ३१॥ ततस्तं शङ्करो नत्वा स्तुत्वा नानाविधैः स्तवैः । पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥ ३२॥ शिव उवाच । वरदोऽसि गणाधीश तदा मे त्वं सुतो भव । यावज्जीवनपर्यन्तं तिष्ठ नाथ नमोऽस्तु ते ॥ ३३॥ त्वया नानाऽवताराश्च धृता मदीयवेश्मनि । ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥ ३४॥ तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे । तत्राऽहं त्वां भजिष्यामि पुत्रभावेन विघ्नप ॥ ३५॥ संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम् । हृदये योगयुक्तोऽहं भजिष्यामि गजानन ॥ ३६॥ तथेति गणनाथस्तं जगादान्तर्दधे पुनः । कैलासमागतः शम्भुः शोकयुक्तो विशेषतः ॥ ३७॥ ततः किञ्चिद्गते काले पार्वती स्नानमाचरत् । नग्ना तत्र महेशानः सहसा समुपागतः ॥ ३८॥ लज्जिता तं निरीक्ष्यैव जगदम्बा स्वकेशतः । देहं सञ्छादयामास शङ्करो गृहगोऽभवत् ॥ ३९॥ ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत् । उवाच तां सखी तत्र जया च विजया परा ॥ ४०॥ जयाविजये ऊचतुः । गणा नन्दिमुखाः सर्वेऽस्मदीया नात्र संशयः । शिवं यदि निरुद्ध्यैव तिष्ठामश्चेच्छिवात्मकाः ॥ ४१॥ (Page खं. ४ अ. ४६ पान ११५) अतः कं च महादेवि स्वकीयं वशगं गणम् । कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते ॥ ४२॥ स्वाङ्गान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् । पुनः सञ्जीवयामास पार्वती तं जगाद ह ॥ ४३॥ द्वारे तिष्ठ महाबाहो मदाज्ञावशगः सदा । मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥ ४४॥ अहं स्नानार्थमत्रैव संस्थिता कालपर्यये । पतिर्मे तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥ ४५॥ केनापि कथितं तत्राऽतो मा कुरु च तादृशम् । स्वामिनं शङ्करं पुत्र निषेधस्व मदाज्ञया ॥ ४६॥ तथेति तां प्रणम्याऽऽदौ द्वारसंस्थो बभूव सः । पुरुषः सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ ४७॥ एतस्मिन्नन्तरे तत्र गणयुक्तः शिवो ययौ । तं न्यषेधत् स्ववेगेन बोधितोऽपि प्रजापते ॥ ४८॥ ततोऽतिकोपसंयुक्तः शङ्करः प्रबभूव ह । तज्ज्ञात्वा सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ ४९॥ ततोऽतिक्रोधसंयुक्तो गणान्नन्दिमुखान् शिवः । आज्ञापयच्च युद्धाय हन्तव्योऽयं न संशयः ॥ ५०॥ ततस्ते शस्त्रसङ्घातैर्जघ्नुस्तं क्रोधसंयुताः । पार्वत्या तेज उग्रं यन्निक्षिप्तं पुरुषे तदा ॥ ५१॥ तेजसा शस्त्रसङ्घाता मोघा जाता विशेषतः । मुसलेन जघानाऽसौ गणान् सर्वान् महाबलः ॥ ५२॥ ततः पलायनं चक्रुर्गणाः सर्वे भयान्विताः । ततः स्कन्दं शिवः क्रुद्धः प्रेषयामास दारुणम् ॥ ५३॥ कुण्ठितास्त्रो भयोद्विग्नः सेनानीस्ताडितो भृशम् । पपाल च ततः शम्भुः सस्माराऽमरमुख्यकान् ॥ ५४॥ ब्रह्मा विष्णुश्च देवेन्द्रो यमाद्याः सर्व आगताः । प्रणिपत्य महेशानं संस्थिताश्चाऽभवन् पुरः ॥ ५५॥ तान् शिवः कथयामास वृत्तान्तं ते ततो ययुः । इन्द्रादयः सगन्धर्वा युयुधुः पुरुषेण च ॥ ५६॥ पलायनं तेऽपि चक्रुः कुण्ठितास्त्रा भयातुराः । ताडिता मुसलेनैव शङ्करः क्षोभितोऽभवत् ॥ ५७॥ ततस्तत्र विचारं ते चक्रुः सर्वे सुरेन्द्रकाः । विष्णुमुख्याः शिवेनैव मुनिभिश्च प्रजापते ॥ ५८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४.४५

४.४६ शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः

श्रीगणेशाय नमः ॥ मुद्गल उवाच । विचार्य देवपैः सर्वैः प्रेषयामास शङ्करः । ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोऽपि तं ययौ ॥ १॥ तं दृष्ट्वा गृह्य पुरुषो मुसलं सोऽपि दारुणम् । आययौ तं निरीक्ष्यैव पपाल स पितामहः ॥ २॥ वयं सर्वे द्विजाः पुत्र शस्त्रहीनाः समागताः । श‍ृणु वाक्यं विचारज्ञ पलन्तस्ते तमब्रुवन् ॥ ३॥ तथापि न बुबोधैव पुरुषस्तं विलोक्य सः । ब्रह्मा जगाम शम्भुं तं वृत्तान्तमवदत्ततः ॥ ४॥ ततो विष्णुयुतः शम्भुः क्रोधानलविलोचनः । सङ्ग्रामाय ययौ तत्र मुसलं सोऽपि चाददे ॥ ५॥ (Page खं. ४ अ. ४६ पान ११६) आगत्यैव न्यहञ्छम्भुं हृदये यमसन्निभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥ ६॥ ततस्तं गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शङ्करः ॥ ७॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥ ८॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥ ९॥ शङ्करेण द्विजास्तत्र प्रेषिता नारदादयः । अन्तरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥ १०॥ रक्ष रक्ष जगत्सर्वं जगदम्ब त्वदुद्भवम् । तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥ ११॥ पार्वत्युवाच । मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः । सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥ १२॥ तथेति प्रतिपाद्यैव गतास्ते शङ्करं पुनः । शक्तयस्तम्भिताः सर्वाः शिवः सर्वैः समाययौ ॥ १३॥ युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः । जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥ १४॥ शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया । तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥ १५॥ ततो गजासुरः प्राप्तः सहसा नारदेरितः । हन्तुं देवगणान् सर्वान् महाबलपराक्रमः ॥ १६॥ ततश्च क्षोभिताः सर्वे पलायन्त दिशो दश । शूलघातेन शम्भुस्तं मारयामास तत्क्षणात् ॥ १७॥ तस्य मस्तकयोगेन पुरुषं ते दिवौकसः । योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥ १८॥ सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः । जीवयामास तं तत्र सजीवो न बभूव ह ॥ १९॥ ततो विष्णुः स्वयं तत्र जीवयामास विद्यया । सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥ २०॥ ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् । सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥ २१॥ ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये । अथर्वशिरसा दक्ष शङ्कराद्याः सुरेश्वराः ॥ २२॥ प्रार्थयामासुरत्यन्तं निर्विघ्नं कुरु विघ्नप । अधुना विश्वमेवेदमकाले लयमेष्यति ॥ २३॥ गणेशस्मरणेन स्म बुद्धिःप्राप्ता दिवौकसाम् । वेदमन्त्रेण देवास्ते तारमावाहयन्ति च ॥ २४॥ ओङ्कारस्तत्र मन्त्रेणाऽऽकर्षितः सहसाऽऽगतः । शवं प्रविश्य सन्तस्थौ ततः सोऽभवदुत्थितः ॥ २५॥ ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः । तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥ २६॥ तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते । पुपूजुस्तं च सार्वादौ पूज्यं चक्रुः स्वमूलकम् ॥ २७॥ दक्ष उवाच । साक्षादोङ्काररूपश्च गणेशोऽयं न संशयः । स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥ २८॥ एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् । श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥ २९॥ मुद्गल उवाच । सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् । हिमाचले स्वयं शम्भुस्तताप तप उत्तमम् ॥ ३०॥ तत्र सा पार्वती देवी शुश्रूषायां प्रजापते । (Page खं. ४ अ. ४७ पान ११७) निरता तां निरीक्ष्यैव शम्भुः सस्मार पूर्वगाम् ॥ ३१॥ ममाज्ञावशगा देवी नेयं दक्षगृहे गता । अतोऽहं न वृणोम्येतां पुनः शैलसुतां कदा ॥ ३२॥ तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः । स ययौ शङ्करस्थानं मोहितुं मदसंयुतः ॥ ३३॥ तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ । अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥ ३४॥ मनसि ज्ञानमार्गेण ज्ञात्वा शम्भुविचेष्टितम् । तपसा संयुता भूत्वा वनगा शिवमार्चयत् ॥ ३५॥ गते वर्षशते शम्भुः प्रसन्नो न बभूव ह । ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥ ३६॥ वर्षेणैकेन हेरम्बः प्रसन्नश्च बभूव ह । शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः ॥ ३७॥ ततो दयायुतः शम्भुस्तां ययौ द्विजरूपधृक् । शङ्करं निन्दयामास नानावाक्यैः समीपगः ॥ ३८॥ तच्छ्रुत्वा कम्पिता देवी बोधयामास शाम्भवैः । चेष्टितैस्तं ततः सोऽपि पुनर्निन्दां चकार ह ॥ ३९॥ स्थानं त्यक्त्वा ततो देवी तं जगाम द्विजं पुनः । तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥ ४०॥ ततः सा तं प्रणम्यैव तुष्टाव विविधैः स्तवैः । गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥ ४१॥ ततः प्रसन्नभावेन शङ्करः प्रददौ वरम् । विस्मितस्तां निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥ ४२॥ शिव उवाच । वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे । तपसा भक्तिभावेन न वियोगो भविष्यति ॥ ४३॥ धूलिधूसरितं तेंऽगं शिरोभूच्च जटान्वितम् । अतो मलस्तवाङ्गस्य सर्वपूज्यो भविष्यति ॥ ४४॥ इत्युक्त्वा शङ्करस्तत्रान्तर्धानं प्रचकार सः । पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥ ४५॥ स्वभक्तस्य शिवस्यैव रक्षणार्थं वचो महत् । गौरीमलाङ्गसम्भूतो बभूव ह गजाननः ॥ ४६॥ गणेशान्न परः कोऽपि सर्वपूज्यो महामते । गणेशवरदानेन सत्यवाक्याः शिवादयः ॥ ४७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४.४६

४.४७ गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः

श्रीगणेशाय नमः ॥ मुद्गल उवाच । अन्यच्छृणु चरित्रं तु गजमस्तकधारणे । महेश इति विख्यातो राजा धर्मयुतोऽभवत् ॥ १॥ तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः । राज्ञा सम्मानितः सोऽपि नृपाय च ददौ वरम् ॥ २॥ बृहस्पतिरुवाच । प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति । सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥ ३॥ ततः कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् । अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥ ४॥ नारद उवाच । मदेन राजशार्दूल मामनादृत्य गच्छसि । (Page खं. ४ अ. ४७ पान ११८) अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥ ५॥ काले सोऽपि ममाराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो नरकुञ्जरवेषभृत् ॥ ६॥ गजासुरेण शम्भोस्तपः कृतं च विशेषतः । मन्त्रं जजाप शैवेनातोषयन्नियमे रतः ॥ ७॥ सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥ ८॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं सर्वातिगं शम्भो आरोग्यं सर्वपूज्यताम् ॥ ९॥ अन्ते मोक्षं च मे देहि तथेति शङ्करोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥ १०॥ अतो गजासुरस्यैव मस्तकं गणपेन तत् । धृतं वचो रक्षणार्थं शङ्करस्य बृहस्पतेः ॥ ११॥ अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् । कदाचिच्छङ्करेणैव पूजितो गणनायकः ॥ १२॥ ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः । स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥ १३॥ श्रीगणेश उवाच । एकनिष्ठतया शम्भो भक्त्याऽहं पूजितस्त्वया । प्रसन्नोऽहं स्वमूर्तिस्थः श‍ृणु मे वचनं हितम् ॥ १४॥ निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव । येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥ १५॥ सर्वपूज्यः स वै भावी सर्वातिगयशोधरः । ततः सोंऽतर्दधे ढुण्ढिः शिवो जागरितोऽभवत् ॥ १६॥ हस्ते पुष्पं समालोक्य विस्मितः शङ्करोऽभवत् । विचारं स चकारैव किमिदं देवभाषितम् ॥ १७॥ सर्वपूज्यो गणाधीशो नान्यो ब्रह्माण्डमण्डले । अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥ १८॥ ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके । पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥ १९॥ ततोऽत्रिसम्भवस्तत्र दुर्वासाः सहसाऽऽययौ । दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥ २०॥ शिवो विचारमकरोदयं योगी सयोगवित् । वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥ २१॥ अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः । निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥ २२॥ तं प्रणम्य महायोगी दुर्वासाः प्रययो प्रभुम् । यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥ २३॥ विचारं मनसा योगी चकार स्वहितावहम् । सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥ २४॥ वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः । अतो निर्माल्ययोग्योऽहं नैव शङ्करवत् कदा ॥ २५॥ अयं देवपतिः साक्षादिन्द्रः सत्त्वगुणान्वितः । योग्योऽयं नैव सन्देहस्तं ययौ मुनिसत्तमः ॥ २६॥ तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः । आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥ २७॥ ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः । निर्माल्यं गणनाथस्य माहात्म्यं प्रोच्य सादरः ॥ २८॥ इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके । निर्माल्यमिन्द्रः संस्थाप्य ययौ मार्गमवस्थितः ॥ २९॥ निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः । गता सत्त्वमयी लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥ ३०॥ (Page खं. ४ अ. ४७ पान ११९) तिरस्कृत्य महेन्द्रं तं गजो हत्वा सुरान् परान् । ययौ वने प्रजानाथ स्वच्छन्दश्च बभूव सः ॥ ३१॥ ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् । दैत्यराजा बुभुजिरे सङ्गृह्य स्वर्गमागताः ॥ ३२॥ ततो बहौ गते काले गुरुणा बोधितः सुरः । देवैः सह गणेशानं तोषयामास नित्यदा ॥ ३३॥ गते वर्षसहस्रे तु गणेशस्तं ययौ तदा । पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ ३४॥ श्रीगणेश उवाच । मा कुरुष्व महेन्द्र त्वं मम निर्माल्यदूषणम् । भक्त्यधीनः स्वभावेन प्रसन्नोऽहं कृतस्त्वया ॥ ३५॥ समुद्रतनया लक्ष्मीर्भविष्यति सुसिद्धिदा । तां प्राप्य पूर्ववद्देवाः श्रिया युक्ता भविष्यथ ॥ ३६॥ पूजाकृतफलं यच्च निर्माल्ये संस्थितं भवेत् । तस्य वन्दनमात्रेण सफलो जायते नरः ॥ ३७॥ भावेनाऽऽगृह्य निर्माल्यं मस्तके धारितं यदि । पुनस्तच्छुद्धभूमौ वै स्थापयेद्वा जले सुर ॥ ३८॥ गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै भवेत् । तदा फलयुतः सोऽपि मद्रूपो जायते नरः ॥ ३९॥ सदा दुःखयुतं त्वाऽहं पुरा कर्तुं समुद्यतः । गुरुणा बोधितं मत्वाऽपराधं ते सहाम्यहम् ॥ ४०॥ मामेव शरणं देवमागतं संविचिन्त्य वै । बहुकालेन देवेश क्रोधहीनोऽहमागतः ॥ ४१॥ एवमुक्त्वा गणाधीशो गतः स्वानन्दके पुरे । इन्द्रो राज्यश्रिया युक्तो बभूवे स प्रजापते ॥ ४२॥ सदा निर्माल्यभावज्ञो गणेशभजने रतः । निर्विघ्नेन महेन्द्रश्चाऽऽमरणं राज्यमाकरोत् ॥ ४३॥ अधुना श‍ृणु वृत्तान्तमैरावतगजस्य च । इन्द्रं त्यक्त्वा वने गत्वा चचार स्वेच्छयेरितः ॥ ४४॥ हस्तिनीभिः सदा मोहयुक्तः परमदुर्जयः । बुभुजे विविधान् भोगान् मदेनैव समन्वितः ॥ ४५॥ ततः स्वल्पेन कालेन गणेशो जठरे गतः । पार्वत्या वरदानेन तस्य दैत्यः शिरोऽहरत् ॥ ४६॥ मस्तकेन विहीनश्च बभूव गणनायकः । तादृशोऽवातरत्तत्र विष्णुः शोकपरोऽभवत् ॥ ४७॥ जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौ वने । ऐरावतशिरश्छित्वा योजयामास तत्क्षणात् ॥ ४८॥ तत्रोङ्कारं समावाह्य मन्त्रेण जीवसंयुतम् । चकार विघ्नराजं स देवास्ते हर्षिता बभुः ॥ ४९॥ दैत्येन तच्छिरस्त्यक्तं नर्मदायां प्रजापते । तत्र कुण्डं समुत्पन्नं गणेशमहिमान्वितम् ॥ ५०॥ तत्र या दृषदो रक्ता नर्मदायां समास्थिताः । यत्र तत्र गणेशास्ते बभूवुः सर्वसिद्धिदाः ॥ ५१॥ दक्ष उवाच । कथं रेवाजले संस्था दृषदो मुनिसत्तम । गणेशास्तन्ममाऽऽचक्ष्व धन्या सा सरितां वरा ॥ ५२॥ मुद्गल उवाच । ब्रह्मकमण्डलूत्पन्नाश्चतस्रो नद्य एव च । गङ्गा च यमुना दक्ष नर्मदा तु सरस्वती ॥ ५३॥ गङ्गाया महिमानं तं सर्वत्रातुलमुत्तमम् । ज्ञात्वा सा नर्मदा देवी सन्तप्ता चेतसाऽभवत् ॥ ५४॥ ततस्तया तपस्तप्तं शङ्करस्य महात्मनः । शतवर्षे गते शम्भुः प्रसन्नो वरदोऽभवत् ॥ ५५॥ तया सम्पूजितः शम्भुः स्तुतो ज्ञात्वा मनेप्सितम् । (Page खं. ४ अ. ४८ पान १२०) तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥ ५६॥ ततो गङ्गासमं तेजो बभूव सरितः प्रभोः । नर्मदायास्तथा सापि न सन्तोषयुताऽभवत् ॥ ५७॥ पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता । गतेषु वै सहस्रेषु वर्षेषु वरदोऽभवत् ॥ ५८॥ स्तुतः सम्पूजितः सोऽपि हृदीप्सितवरं ददौ । रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥ ५९॥ ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा । दर्शनेन जनानां वै गङ्गास्नानफलप्रदा ॥ ६०॥ यस्यास्तीरे जले संस्था दृषदः शङ्करात्मिकाः । रक्ता गणेशरूपास्तत् साम्यगा का भवेन्नदी ॥ ६१॥ महिमानं वर्णयितुं रेवायाः कः क्षमो भवेत् । गणेशशिवसंयुक्ता यत्र तत्र महानदी ॥ ६२॥ एतत्ते कथितं सर्वं विस्तराद्गणपस्य वै । चेष्टितं सर्वपापघ्नं सर्वसंशयनाशनम् ॥ ६३॥ आदौ दक्ष गणेशस्य दैत्यमस्तकधारणम् । ऐरावतस्य तद्वद्वै भक्तमाहात्म्यरक्षणात् ॥ ६४॥ शिरश्छेदादिकं तस्य चरित्रं तद् बृहस्पतेः । निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितम् ॥ ६५॥ भक्तवचः समाबद्धो गणेशः किं प्रजापते । न करोति महाभाग भक्ताधीनस्ततः स्मृतः ॥ ६६॥ येन स्वशिरसश्छेदः कृतो भक्तस्य कारणात् । मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः ॥ ६७॥ एतत्ते कथितं सर्वं चेष्टितं परमाद्भुतम् । प्रकृतं श‍ृणु दक्ष त्वं गजाननचरित्रकम् ॥ ६८॥ पार्वती प्रेमसंयुक्ता पूजयामास तं सुतम् । देवा हर्षयुताः सर्वे जग्मुः स्वं स्वं निवेशनम् ॥ ६९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४.४७

४.४८ सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा नारदो योगी सिन्दूरासुरमागमत् । पूजितस्तेन तं विप्रो हर्षयुक्तो जगाद ह ॥ १॥ नारद उवाच । कैलासे शङ्करस्यैव बभूवे पुत्र उत्तमः । गणेशस्तपसा तुष्टः सिद्धिबुद्धिपतिः स्वयम् ॥ २॥ देवैः सम्प्रार्थितः सोऽपि त्वां हनिष्यति निश्चितम् । अतो यत्नपरो दैत्य भव गच्छामि मानद ॥ ३॥ एवमुक्त्वा महायोगी नारदः स्वेच्छया चरन् । गतः सोऽपि भयोद्विग्नो बभूवासुरनायकः ॥ ४॥ एतस्मिन्नन्तरे तत्र प्रधानं सहसाऽऽगतम् । विचार्य तेन दैत्येन्द्रो ययौ हन्तुं सुरान् पुरा ॥ ५॥ समागतं विलोक्यैव पलायन्तेन्द्रमुख्यकाः । ब्रह्माणं शरणं सर्वे भयभीता दिवौकसः ॥ ६॥ सिन्दूरः कोपसंयुक्त आययौ तत्र मानद । ब्रह्मा हंसं समारुह्य देवैः पपाल तत्क्षणात् ॥ ७॥ विकुण्ठे स गतो विष्णुं दैत्यस्तत्र समागतः । (Page खं. ४ अ. ४८ पान १२१) ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥ ८॥ तत्राऽपि स ययौ दैत्यः शम्भुर्देवैर्गणेश्वरम् । तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥ ९॥ सिन्दूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥ १०॥ तं दृष्ट्वा योद्धुमायान्तं सिन्दूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥ ११॥ सिन्दूर उवाच । किमर्थं रणभूमौ त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि सुरेरितः ॥ १२॥ मच्छ्वासेन चलन्ति स्म मेरुमन्दरकादयः । तलप्रहारवेगेन ब्रह्माण्डं शतधा भवेत् ॥ १३॥ शिवादयः सुरेशाश्च भयभीताः समागताः । तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥ १४॥ बालभावेन संयातं न त्वां हन्मि गजानन । त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥ १५॥ क्रोधेनाहं च यं कञ्चिदालिङ्गामि गजानन । स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥ १६॥ एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् । स उवाच प्रहस्याऽथ सिन्दूरं लोकपीडकम् ॥ १७॥ श्रीगजानन उवाच । दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् । स्वानन्दवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥ १८॥ एवमुक्त्वा विराड्रूपं दधार स गजाननः । हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥ १९॥ ब्रह्मणो रक्षणार्थं स वचः सिन्दूरधारकः । गजाननो बभूवापि भक्तेशो भक्तिभावितः ॥ २०॥ सिन्दूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः । तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकन्धराः ॥ २१॥ देवा ऊचुः । गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥ अमेयाय च हेरम्बाय ते परशुधारक । मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥ अनन्तविभवायैव परेषां पररूपिणे । गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥ पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५॥ स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६॥ योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७॥ सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८॥ लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥ २९॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप । योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३०॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन । वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१॥ शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२॥ गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३॥ (Page खं. ४ अ. ४९ पान १२२) श्रीगजानन उवाच । भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते श‍ृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४॥ वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः । दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥ ३५॥ शिवादय ऊचुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा तिष्ठ गृहे शम्भोः सर्वदा विघ्ननाशनः ॥ ३६॥ त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरन्तरम् । प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥ ३७॥ मुद्गल उवाच । गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान् । स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥ ३८॥ दशयोजनसाहस्रविस्तारस्तस्य मानद । गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥ ३९॥ तिष्ठति स्वर्गलोकेषु तदादि गणनायकः । गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥ ४०॥ सकामास्तं समागम्य पतन्ति पृथिवीतले । निष्कामास्तस्य देहे ते अन्ते लीना भवन्ति हि ॥ ४१॥ एतत्ते कथितं सारं गजाननचरित्रकम् । शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥ ४२॥ यः श‍ृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् । भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥ ४.४८

४.४९ गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम् । विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥ १॥ मुद्गल उवाच । पराशरगृहे देवो बभूव ह गजाननः । पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥ २॥ पराशरेणैव तत्र स्थापिता मूर्तिरादरात् । गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥ ३॥ नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः । रात्रौ गजाननं ते सम्पूजयन्ति सुसिद्धिदम् ॥ ४॥ गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः । स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननाम्बुजाः ॥ ५॥ कदाचित् तत्र राजर्षिर्मृगयासक्त आययो । सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥ ६॥ स आगत्य गणेशानं पूजयन् भक्तिसंयुतः । तत्रैव निशि संस्थोऽभूद्गाणपत्यो महायशाः ॥ ७॥ उषःकाले समागत्य स पुपूज गजाननम् । पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥ ८॥ सुवासबहुलान्येव मन्दाराद्यानि भूमिपः । विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥ ९॥ देवालयं पिधायाऽसौ भूपःसंस्थाप्य रक्षकान् । सैन्ययुक्तो जजागार देवदर्शनलालसः ॥ १०॥ (Page खं. ४ अ. ४९ पान १२३) ततो देवेन्द्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥ ११॥ पूजयित्वा गताः सर्वे राजा तत्र समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥ १२॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शनकाङ्क्षी कृताञ्जलिः स विशेषतः ॥ १३॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायान्ति तान् द्रष्टुमिच्छामि वद कारणम् ॥ १४॥ शिवशर्मोवाच । निर्माल्यसम्भवानि त्वं पुष्पाणि यत्र तत्र च । आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥ १५॥ तथेति वीरभद्रेण कृतं देवालये पुनः । देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥ १६॥ निर्माल्यस्पर्शमात्रेण पुण्यहीना बभूविरे । पूजां कृत्वा पुनर्गन्तुमिच्छां चक्रुः सुरेश्वराः ॥ १७॥ ततोऽतिवेगहीनैश्च देवैर्देवेन्द्रसत्तमैः । विचारेण समाज्ञातं कारणं गतिखण्डने ॥ १८॥ पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च । अतो गतिविहीनैश्च किं कर्तव्यं विशेषतः ॥ १९॥ ततो राजा समायातः पूजार्थं देवसन्निधौ । निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥ २०॥ तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः । प्रसन्नास्ते च राजानमूचुः शम्भ्वादयः सुराः ॥ २१॥ शिवादय ऊचुः । राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् । देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥ २२॥ ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् । पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥ २३॥ गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् । गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥ २४॥ अगाधपुण्ययोगेन देवा गतियुताः कृताः । विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥ २५॥ अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसम्मतम् । अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥ २६॥ ततो राजा च ब्रह्माद्यानुवाच स कृताञ्जलिः । गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥ २७॥ ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् । ददुर्भक्तिं गणेशाने ब्रह्मभूतपदप्रदाम् ॥ २८॥ गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः । राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥ २९॥ नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा । अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ ३०॥ एवं निर्माल्यमाहात्म्यं सङ्क्षेपेण निरूपितम् । पठनाच्छ्रवणान्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥ ३१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४.४९ (Page खं. ४ अ. ५० पान १२४)

४.५० विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥ १॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः सम्पूजितस्तेन नानास्तोत्रैः प्रजापते ॥ २॥ ताभ्यां पुत्रो भव स्वामिन् वृतस्त्वन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥ ३॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययो । पूजितः सुरनाथेन जगाद वचनं हितम् ॥ ४॥ नारद उवाच । हिमवत्यां हिमप्रान्ते राजा मदसमन्वितः । अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥ ५॥ ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः । यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥ ६॥ नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः । तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥ ७॥ अद्य श्वो वा करिष्यन्ति यज्ञं भयसमन्विताः । ब्राह्मणा नात्र सन्देहो यथेच्छसि तथा कुरु ॥ ८॥ एवमुक्त्वा महायोगी नारदः प्रययौ ततः । विकुण्ठे स महाविष्णुं ततः स्वच्छन्दगोऽभवत् ॥ ९॥ इन्द्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् । भगवन्तं महाकायमिन्द्रं स प्रययौ प्रभुः ॥ १०॥ तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् । वृत्तान्तं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥ ११॥ कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् । धारयामास मनसि कालः कलयतां प्रभुः ॥ १२॥ कालाधीनं जगत् सर्वं सदा कालेन भुज्यते । कालं योगबलेनैव जयन्त्यत्र हि योगिनः ॥ १३॥ तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवन्ति च । अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥ १४॥ कर्महीना नराः सर्वे मलिनाः सम्भवन्ति च । नेच्छन्ति योगमाद्यं ते भविष्यन्ति मदात्मकाः ॥ १५॥ जन्ममृत्युयुताः सर्वे मदधीना न संशयः । इन्द्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥ १६॥ विचार्य काल इति स आसुरं रूपमादधे । विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥ १७॥ यज्ञं बभञ्ज वेगेन ब्राह्मणांस्ताडयन् पुरा । ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥ १८॥ कर्मखण्डनभावेन चचार बलमोहितः । सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥ १९॥ ततः सोऽपि महावेगो जनान् कालेन मोहयन् । भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥ २०॥ प्रातःकालं चकाराऽसौ निशीथं सायमादरात् । मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥ २१॥ चकार रात्रिरूपं स दिवसं कर्मखण्डकः । रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥ २२॥ लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः । चन्द्रमाच्छाद्य कालस्तु सूर्यं नक्षत्रकादिकान् ॥ २३॥ ततोऽतिभयसंयुक्ता देवा भ्रान्ता बभूविरे । कर्महीनप्रभावेण चोपोषणपरायणाः ॥ २४॥ न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् । कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥ २५॥ ततो वसिष्ठमुख्याश्च ब्रह्माणं शरणं ययुः । (Page खं. ४ अ. ५० पान १२५) तेन सार्धं च वैकुण्ठं जग्मुः कालभयान्विताः ॥ २६॥ विष्णुना शङ्करं जग्मुर्ब्राह्मणा भयसङ्कुलाः । स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥ २७॥ शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् । तपसा ध्यानयुक्तेन तोषयामासुरादरात् ॥ २८॥ गते वर्षशते काले परमात्मा गजाननः । वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥ २९॥ ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने । तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥ ३०॥ दीपवत्सलया युक्तः पार्श्वः परमयोगवित् । पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥ ३१॥ प्रगतेषु स वर्षेषु सहस्रे गणनायकः । प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥ ३२॥ स वव्रे मे भव स्वामिन् पुत्रः परमतारकः । संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥ ३३॥ मूर्तौ देवस्वभावेन हृदये योगमार्गतः । भजिष्यामि त्रिधा ढुण्ढे त्वां सर्वत्र विशेषतः ॥ ३४॥ नानाकर्मपरोऽहं वै तव देव गजानन । पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥ ३५॥ तथेति विघ्नराजस्तमुवाचांऽतर्दधे प्रभुः । विघ्नासुरविनाशाय बभूवे देहधारकः ॥ ३६॥ दीपवत्सलिकायाः स जठरे सङ्गतो विभुः । स्तनपानादिकं सर्वं स चकारातितोषितः ॥ ३७॥ पञ्चवर्षात्मको बालो बभूव मुनिवेश्मनि । तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥ ३८॥ शम्भ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् । पार्श्वः सम्भ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥ ३९॥ उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च । येन देवगणाः सर्वे मुनयो गृहमागताः ॥ ४०॥ आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः । करिष्यामि न सन्देहो भवत्स्मृतिबलेन वै ॥ ४१॥ देवर्षय ऊचुः । तव भाग्यबलेनैव सुतः स्वानन्दगोऽभवत् । गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥ ४२॥ विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने । तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥ ४३॥ श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतोऽभवत् । एतस्मिन्नन्तरे तत्र स गजानन आययौ ॥ ४४॥ तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः । मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥ ४५॥ तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः । मूषकोपरि संस्थो यो ययौ हन्तुं महासुरम् ॥ ४६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः ॥ ४.५० (Page खं. ४ अ. ५१ पान १२६)

४.५१ विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा । कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥ १॥ गुप्तरूपधरं विघ्नमङ्कुशेन समानयत् । तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥ २॥ ततस्तं स महाकालः प्रावमत्य गजाननम् । अन्तर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥ ३॥ त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् । विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥ ४॥ ततः कालः स्वयं दक्षाऽभवदाकाशतत्त्वगः । वायुस्थं गणनाथं स कर्षयामास दारुणः ॥ ५॥ आकाशस्थं महाकालं ज्ञात्वाऽहङ्कारधारकः । गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥ ६॥ ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् । ताडयामास सङ्क्रुद्धः कालः कलयतां प्रभुः ॥ ७॥ ततो गजाननः क्रुद्धः प्रधानरूपधारकः । महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥ ८॥ ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः । प्रधानं हन्तुमारेभे कालः परमदुर्जयः ॥ ९॥ ततो गजाननः साक्षाद्बिन्दुब्रह्मस्थितोऽभवत् । चतुष्पादमयीं शक्तिं हन्तुं चिक्षेप सोंऽतकम् ॥ १०॥ गुणेशान्न परः कालस्ततः खण्डितविक्रमः । कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥ ११॥ शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् । शरणं गणराजं स ययौ कालः प्रजापते ॥ १२॥ समागतं महाविघ्नं देवा मुनिगणास्ततः । विस्मिताश्चाऽभवन् सर्वे जयेति गणपं जगुः ॥ १३॥ विघ्नासुरः प्रणम्यादौ पुपूज ह गजाननम् । तद् दर्शनजबोधेन तुष्टाव स कृताञ्जलिः ॥ १४॥ विघ्नासुर उवाच । नमस्ते गणनाथाय गजाननस्वरूपिणे । योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५॥ अनाकाराय साकाररूपाय ते नमो नमः । नानाभेदविहीनाय भेदानां पतये नमः ॥ १६॥ विघ्नेशाय परेशाय कालभीतिहराय ते । हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७॥ अनादये ह्यनाथाय सर्वेषामादिमूर्तये । भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः ॥ १८॥ स्वानन्दवासिने तुभ्यं मूषकध्वजिने नमः । मूषकोपरिसंस्थाय ढुण्ढिराजाय ते नमः ॥ १९॥ आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे । गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥ २०॥ सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च । सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥ २१॥ अमेयमायातिगमूर्तयेऽपि ते सदा सुशान्तिप्रदपूर्णमूर्तये । मनोवचोहीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥ २२॥ अज्ञानदोषेण कृतोऽपराधो हेरम्ब तं क्षन्तुमिहार्हसि त्वम् । रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥ २३॥ अधुना हि मया बुद्धं स्वरूपं ते गजानन । योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥ २४॥ त्वां विना का समर्थः स्यात् कालं कलयतां प्रभुम् । जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥ २५॥ (Page खं. ४ अ. ५१ पान १२७) एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥ २६॥ श्रीगजानन उवाच । त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां श‍ृण्वतां सदा ॥ २७॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥ २८॥ हन्तुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥ २९॥ महाकाल उवाच । भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन । दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥ ३०॥ ब्रह्मेश कार्यं कथय तत् करिष्यामि यन्त्रितः । स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥ ३१॥ मन्नामपूर्वकं नाम कुरु त्वं ते गजानन । सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥ ३२॥ जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् । निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥ ३३॥ श्रीगजानन उवाच । मदीया भक्तिरचला भविष्यति तवाऽनघ । यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥ ३४॥ मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः । महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥ ३५॥ विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥ ३६॥ यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा । तत् सर्वं भुक्ष्व विघ्न त्वं भ्रंशयित्वा सुरेन्द्रकान् ॥ ३७॥ शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः । शेषाद्या नागराजास्ते नानाजन्तव एव च ॥ ३८॥ अहङ्कारेण संयुक्ता भवन्ति यदि तेऽसुर । तदा तान् भ्रंशयित्वा त्वं भुङ्क्ष्व भोगान् यथेप्सितान् ॥ ३९॥ मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः । तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥ ४०॥ एवमुक्त्वान्तर्दधेऽसौ गजाननः प्रतापवान् । विघ्नो विघ्नैः समायुक्तः शान्तरूपो बभूव ह ॥ ४१॥ देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः । सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥ ४२॥ तयोर्हृदि गणाधीशः प्रकटोऽभूद्वचोऽब्रवीत् । मां चिन्तामणिरूपं ते पश्य तात हृदि स्थितम् ॥ ४३॥ मूर्तौ पूजनमात्रेण हृदि ध्यानेन मानदौ । सन्तुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥ ४४॥ यदा मे स्मरणं तातौ महाकार्ये करिष्यथः । द्रक्ष्यथो मां न सन्देहो योगशान्तौ भविष्यथः ॥ ४५॥ एवमुक्त्वांर्तदधे सोऽपि गणेशो हृदि रूपधृक् । तौ स्वस्थौ मूर्तिमास्थाप्य निरन्तरमपूजताम् ॥ ४६॥ इति ते गणराजस्य कथितं चरितं महत् । अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥ ४७॥ वरेण्यपुत्रभावेन बभूव ह गजाननः । कस्मिन् काले वधार्थाय सिन्दूरस्य न संशयः ॥ ४८॥ कल्पभेदानुसारेण नानारूपधरः प्रभुः । गजाननो ह्यभूद्वर्णयितुं वापि न शक्यते ॥ ४९॥ (Page खं. ४ अ. ५२ पान १२८) इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः । तांश्च ज्ञातुं कोर्हति वर्णयितुं वा प्रजापते ॥ ५०॥ सङ्क्षेपेण मया तुभ्यं कथितं पापनाशनम् । चरितं विघ्नराजस्य भुक्तिमुक्तिफलप्रदम् ॥ ५१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः ॥ ४.५१

४.५२ चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् । माहात्म्यं तस्य विप्रेश सङ्क्षेपेण सुसिद्धिदम् ॥ १॥ मुद्गल उवाच । दिशान्ते नैरृते कोणे देवैर्मुनिभिरादरात् । स्थापितो गणनाथश्च गजवक्त्रावतारधृक् ॥ २॥ द्वीपेषु स्वस्वखण्डेषु विभुर्नैरृतकोणगः । पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥ ३॥ भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः । मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥ ४॥ तस्यां यात्रां प्रकुर्वन्ति जना भक्तिपरायणाः । त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥ ५॥ दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः । मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥ ६॥ सिद्धिस्तस्याऽपि वामाङ्गे दक्षिणाङ्गे च बुद्धिका ॥ अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥ ७॥ अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः । दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥ ८॥ शिवविष्णुमुखा देवा वामाङ्गे संस्थिता विभोः । काश्यादिमुख्यक्षेत्राणि गङ्गाद्याश्च तथोत्तरे ॥ ९॥ मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः । भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवन्ति तम् ॥ १०॥ त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः । अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥ ११॥ तीर्थेषु स्नानकर्तारः समुद्रे भक्तिसंयुताः । स्वस्वनाम्नाङ्कितेष्वेव स्वल्पदेहधरा अपि ॥ १२॥ परस्परं बोधयन्तो गजाननचरित्रकम् । नृत्यन्ति ते हसन्त्येव देवचेष्टापरायणाः ॥ १३॥ गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् । तत्र स्नानं प्रकुर्वन्ति ये नरास्ते प्रजापते ॥ १४॥ कृतकृत्या न सन्देहो मनेप्सितफलप्रदे । तत्र यात्रां प्रकुर्वन्ति चतुर्विधफलप्रदाम् ॥ १५॥ धन्यास्ते पुरुषा लोके कृतकृत्या भवन्ति वै । वसन्ति ये यत्र कुत्र गजाननपरायणाः ॥ १६॥ ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः । अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् ॥ १७॥ ते तस्य लोकमासाद्य भोगान् भुञ्जन्ति शाश्वतान् । तदन्ते गणनाथं वै गच्छन्ति ब्रह्मसिद्धये ॥ १८॥ तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे । तेषां चरित्रकं पूर्णं मया वक्तुं न शक्यते ॥ १९॥ (Page खं. ४ अ. ५२ पान १२९) यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् । मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥ २०॥ सङ्क्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् । माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥ २१॥ इदं गजाननस्यापि चरितं सर्वसिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ २२॥ नानाख्यानसमायुक्तं कथितं ते प्रजापते । यः श‍ृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ २३॥ नानेन सदृशं किञ्चित् पावनं ब्रह्मदायकम् । विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥ २४॥ स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् । तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥ २५॥ गोदानानि नरो यस्तु ददाति भक्तिसंयुतः । नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥ २६॥ नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि । तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥ २७॥ अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ २८॥ नानायज्ञादिकं कर्म कुरुते मानवः सदा । नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥ २९॥ जन्ममृत्युप्रदान्येव कर्माणि सकलानि च । इदं सर्वप्रदं प्रोक्तमन्ते ब्रह्मप्रदायकम् ॥ ३०॥ सङ्क्षेपेण प्रजानाथ कथितं सुखदं परम् । गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥ ३१॥ सूत उवाच । एवमुक्त्वा महायोगी मुद्गलो विरराम ह । श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥ ३२॥ मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् । तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥ ३३॥ धन्योऽहं कृतकृत्योऽहं भवतां सङ्गमेन वै । गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥ ३४॥ गणेशान्न परं किञ्चित् सर्वादौ तेन स स्मृतः । सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥ ३५॥ श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः । अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥ ३६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ४.५२ ॥ इति चतुर्थः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणे चतुर्थः खण्डः समाप्तः ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 4 Gajananacharitam
% File name             : mudgalapurANam4.itx
% itxtitle              : mudgalapurANaM khaNDaH 4 gajAnanacharitam
% engtitle              : Mudgala Purana Khanda 4 Gajananacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org