मुद्गलपुराणं खण्डः ७ विघ्नराजचरितम्
॥ मुद्गलपुराणं खण्डः ७॥
॥ अथ श्रीमुद्गलपुराणे सप्तमः खण्डः प्रारभ्यते ॥
(Page खं. ७ अ. १ पान १)
७.१ दितिशोकवर्णनं नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
विकटस्य चरित्रं वै श्रुत्वा सूत महामते ।
हर्षितोऽहं विशेषेण ब्रह्मभूयप्रकाशकम् ॥ १॥
यत्किञ्चिद्गणराजस्य चेष्टितं व्यासशिष्यक ।
तदेव ब्रह्मसायुज्यदायकं नाऽत्र संशयः ॥ २॥
धन्यं भाग्यं मुनीन्द्राणां मदीयं येन ते द्विज ।
दर्शनं साधुरूपस्य जातं योगप्रदस्य च ॥ ३॥
योगवृष्टिमयीं गाथां च्युतां त्वन्मुखमेघतः ।
पीत्वा न यामि तृप्तिं च सुधां पीत्वा यथा नरः ॥ ४॥
अधुना कृपया ब्रूहि विघ्नराजस्य चेष्टितम् ।
ममासुरविनाशाख्यं ब्रह्मप्राप्तिकरं परम् ॥ ५॥
सूत उवाच ।
मुद्गलस्य मुखात् पुण्यां कथां श्रुत्वा प्रजापतिः ।
विकटस्य पुनस्तं च जगादैव स हर्षितः ॥ ६॥
दक्ष उवाच ।
धन्यं मे जन्म कर्मादि येन तेऽभूत्समागमः ।
वदसे योगदां पूर्णां कथां योगीन्द्रवन्दित ॥ ७॥
आङ्गिरसकुले साक्षाद्योगरूपधरः प्रभो ।
त्वं जातोऽसि न सन्देहः कुलतारक एव च ॥ ८॥
अधुना वद माहात्म्यं विघ्नराजस्य सर्वदम् ।
श्रुतं विकटमाहात्म्यं न तृप्तोऽहं तु मुद्गल ॥ ९॥
कीदृशं ब्रह्म तस्याऽपि किमर्थं देहधारकः ।
किं कर्मा कुत्र वासः सन्तिष्ठते विघ्ननायकः ॥ १०॥
कस्य दैत्यस्य हन्ताऽसौ चरित्रं वद सर्वपम् ।
विघ्नराजस्य सर्वं तु विचारेण महात्मनः ॥ ११॥
मुद्गल उवाच ।
दक्ष त्वं योगिवन्द्यश्च भविष्यसि न संशयः ।
कथां श्रुत्वा गणेशस्य प्रीतिः संवर्धते यतः ॥ १२॥
समासेन प्रवक्ष्यामि विघ्नराजस्य सौख्यदम् ।
चरित्रं शृणु भावेन सर्वसिद्धिप्रदायकम् ॥ १३॥
अत्र ते कथयिष्यामि पुरातनभवं परम् ।
इतिहासं कश्यपस्य दित्याः संवादसंयुतम् ॥ १४॥
महासुरौऽदितेः पुत्रौ हिरण्यकशिपुर्महान् ।
हिरण्याक्षो हतो पूर्वं विष्णुना मायया परौ ॥ १५॥
ततोऽतिशोकसंयुक्ता दितिः कश्यपमाययौ ।
सेवायां निरता तस्य नित्यं भक्तिपरायणा ॥ १६॥
एवं बहौ गते काले काश्यपस्तोषमाययौ ।
तामुवाच वरं ब्रूहि ततस्तं सा जगाद ह ॥ १७॥
दितिरुवाच ।
मम पुत्रौ हतौ तेन विष्णुना मघवार्थतः ।
अत इन्द्रघ्नपुत्रं मे देहि तुष्टोऽसि कश्यप ॥ १८॥
तस्यास्तद्वचनं श्रुत्वा शोकयुक्तो बभूव ह ।
अहो साधुचरित्राऽपि स्त्री विश्वास्या न केनचित् ॥ १९॥
अधुना किं करिष्यामि धर्मपालकमुत्तमम् ।
साधुं गुणयुतं पुत्रमिन्द्रं रक्षामि वै कथम् ॥ २०॥
अतो विघ्नेश्वरं स्मृत्वा तां जगाद प्रजापतिः ।
व्रतं कुरु प्रयत्नेन वर्षमात्रं महाखले ॥ २१॥
तदा ते भविता पुत्रो हन्तेन्द्रस्य न संशयः ।
छिद्रं मा कुरु भावेन व्रते विघ्नयुताऽपि चेत् ॥ २२॥
एवमुक्त्वा गणेशं स ध्यात्वा रेमे तया सह ।
तस्यां वीर्यं समाधाय व्रतं ददौ सुपुत्रदम् ॥ २३॥
प्रणम्य स्वगृहं सा तमाययौ हर्षसंयुता ।
व्रतं चकार यत्नेन नियमस्था प्रजापते ॥ २४॥
तत इन्द्रेण वृत्तान्तो ज्ञातो नारदवाक्यतः ।
गणेशं मनसि ध्यात्वा निःश्वासं स मुमोच ह ॥ २५॥
(Page खं. ७ अ. १ पान २)
ततस्तस्य हृदिस्थो वै विघ्नराजो मतिं ददौ ।
इन्द्रस्तामाययौ देवीं मातरं सेवनोत्सुकः ॥ २६॥
दितिं सिषेवे नित्यं स व्रतयुक्तां प्रणम्य ह ।
छिद्रदर्शी प्रजानाथ भक्तियुक्तः प्रतापवान् ॥ २७॥
नवमासा गतास्तत्र तथापि छिद्रकं परम् ।
किञ्चिन्न ददृशे सोऽपि विह्वलोऽभूत् सुरेश्वरः ॥ २८॥
विघ्नराजं हृदि ध्यात्वा चिन्तायुक्तः सुराधिपः ।
तां सिषेवे युतो भक्त्या सदा तन्मयचेतसा ॥ २९॥
दशभिर्दिवसैर्न्यूनं वर्षं तत्र गतं किल ।
ततोऽतितापसंयुक्तः किं भविष्यति विह्वलः ॥ ३०॥
ततो विघ्नकरो विघ्नं चकार परमाद्भुतम् ।
स्वयं सा मोहिता देवी भ्रान्ता जाता सहर्षतः ॥ ३१॥
विचारमकरोच्चित्ते व्रते संवत्सरो गतः ।
किञ्चिन्न्यूना च मे वाञ्छा सिद्धा जाता न संशयः ॥ ३२॥
हित्वा त्रिलोकगं राज्यं सुत ऐन्द्रं करिष्यति ।
ममोदरात् समुत्पन्नः कृतकृत्याऽस्मि साम्प्रतम् ॥ ३३॥
ततोऽतिनिद्रया देवी पीडिता मस्तकं मुदा ।
जानुमध्ये समाकृत्य सुष्वाप मोहसंयुता ॥ ३४॥
दिवसे निद्रया तस्या व्रतं भग्नं बभूव ह ।
जानुमध्ये शिरस्तेन द्वे छिद्रे सम्बभूवतुः ॥ ३५॥
इन्द्रस्तां तादृशीं दृष्ट्वा हर्षितोऽभूद्गजाननम् ।
स्मृत्वा वज्रं समागृह्योदरं विवेश मायया ॥ ३६॥
तत्र तेजोयुतं गर्भं ददर्श देवनायकः ।
चकार तस्य वज्रेण सप्त खण्डानि वैरतः ॥ ३७॥
तपसोग्रेण दित्याः स न ममार तथाप्यहो ।
रुरोद सप्तदेहस्थो गर्भस्तेजस्विनां वरः ॥ ३८॥
दृष्ट्वा विस्मितचित्तः स स्मृत्वा विघ्नेश्वरं पुनः ।
एकैकं सप्तधा कृत्वा संस्थितो वज्रधारया ॥ ३९॥
तथापि न ममाराऽसौ गर्भः परमपावनः ।
तावद्देहधरो भूत्वा रुरोद भयविह्वलः ॥ ४०॥
जगाद मघवन्तं स गर्भो हंसि सुरेश्वर ।
किमर्थं भ्रातरस्ते वै वयं सर्वे न संशयः ॥ ४१॥
तेषां तद्वचनं श्रुत्वा पुनरिन्द्र उवाच तान् ।
वैरभावं परित्यज्य भविष्यथ दिवौकसः ॥ ४२॥
तथेति तैः कृतं तत्र बहिरिन्द्रः समाययौ ।
ततो दितिः प्रजानाथ जजागार शुशोच ह ॥ ४३॥
एतस्मिन्नन्तरे तत्र पुत्रान् सा सुषुवे परान् ।
एकोनपञ्चाशत्कांस्तु वीक्ष्य चेन्द्रमुवाच सा ॥ ४४॥
दितिरुवाच ।
इन्द्र किं बहवः पुत्रा एकः सङ्कल्पितोऽभवत् ।
वद सत्यं महाभाग चेज्जानासि सुरेश्वर ॥ ४५॥
इन्द्र उवाच ।
मया ज्ञातं त्वदीयं यच्चेष्टितं मेऽत्र नाशकम् ।
मातस्तदर्थमायातः सेवार्थं ते न संशयः ॥ ४६॥
छिद्रं दृष्टं व्रते मातस्तत एतत् कृतं मया ।
वज्रेण जठरे गत्वा गर्भं छित्वा बहिर्गतः ॥ ४७॥
तपोबलेनैव नव न मृतास्ते सुता इमे ।
स्वयं प्राणधरा जाता वायवश्च भवन्तु हि ॥ ४८॥
तान् गृह्य मघवा स्वर्गं जगाम न शशाप सा ।
सत्यभाषणसंयुक्तमिन्द्रं तुष्टा बभूव ह ॥ ४९॥
कदा दैत्यान् समालोक्य दीनान् शोकपरायणा ।
(Page खं. ७ अ. २ पान ३)
पुनः कश्यपमागत्य प्रणनाम पतिव्रता ॥ ५०॥
जगाद तं सुदुःखेन युक्ता प्रजापतिं वचः ।
विनयेन समायुक्ता स्वार्थमोहयुता परा ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते दितिशोकवर्णनं नाम प्रथमोऽध्यायः ॥ ७.१
७.२ शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दितिरुवाच ।
स्वामिन् पुत्रौ मृतावादौ पुनस्त्वद्वरदानतः ।
पुत्रो जातो महेन्द्रस्य मित्रं नानास्वरूपधृक् ॥ १॥
दैत्या दुःखयुता नाथ तदर्थं किं करोम्यहम् ।
निष्फलो मे समारम्भो भवति स्म निरन्तरम् ॥ २॥
मूर्धनि त्वयि मे नाथ समर्थे दुःखमीदृशम् ।
मया प्राप्तं विशेषेण किं करोमि वदस्व माम् ॥ ३॥
पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः ।
स एव त्वयि संस्थे मे निष्फलः प्रबभूव ह ॥ ४॥
मुद्गल उवाच ।
तस्यास्तद्वचनं श्रुत्वा खिन्नायास्तां प्रजापतिः ।
जगाद स्मयमानः स योगीन्द्रः परमार्थवित् ॥ ५॥
कश्यप उवाच ।
मा खेदं कुरु कल्याणि कर्मणां गतिरीदृशी ।
संसारो दुःखमोहादियुक्तः शास्त्रे निगद्यते ॥ ६॥
दैत्याः पापसमाचारा देवाः पुण्यतमा मताः ।
पापिनां न सुखं देवि शाश्वतं वेदवादतः ॥ ७॥
कथितं वेदवादेषु वचनं सत्यमेव तत् ।
भविष्यति न सन्देहो ममतां तत्र मा कुरु ॥ ८॥
पुत्रा जाताः प्रिये ते ये तेषां पुत्रादयः स्मृताः ।
एवं परम्परा जाता भविष्यति निरन्तरम् ॥ ९॥
न वंशच्छेदिता ते तु भविष्यति कदाचन ।
दैत्या मृत्युयुताः प्रोक्ताः किमर्थं श्राम्यसे वृथा ॥ १०॥
कश्यपस्य वचः श्रुत्वा दितिस्तं पुनरब्रवीत् ।
शोकसन्तप्तगात्रा सा पतिं तेजस्विनां वरम् ॥ ११॥
दितिरुवाच ।
सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः ।
अकर्ते कर्तुमीशश्चान्यथा कर्तुमपि प्रभो ॥ १२॥
ममतां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तम ।
संस्थितोऽसि यथा वेदवादं ज्ञात्वा महामते ॥ १३॥
अहं मोहसमायुक्ता सदा तापत्रयान्विता ।
दहामि ममतात्यागमार्गं मे ब्रूहि मानद ॥ १४॥
येन शान्तिं समालभ्य स्थास्यामि दाहवर्जिता ।
तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु ॥ १५॥
तस्यास्तद्वचनं श्रुत्वा कश्यपो दयया युतः ।
शान्तिमार्गार्थमेवं तां जगाद हर्षसंयुतः ॥ १६॥
कश्यप उवाच ।
अत्र तेऽहं वदिष्यामीतिहासं च पुरातनम् ।
तं ज्ञात्वा शान्तियुक्ता त्वं भजिष्यसि गजाननम् ॥ १७॥
(Page खं. ७ अ. २ पान ४)
हिमाचलसुता जाता पार्वती भगिनी च ते ।
तपसाऽऽराधिता तेन महामाया परात्परा ॥ १८॥
हिमाचलं समाश्रित्य शिवो ध्यानपरायणः ।
तताप तप उग्रं स गणेशं चिन्त्य सर्वदा ॥ १९॥
अत्रागत्य महेशानं पार्वती सेवनोत्सुका ।
पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता ॥ २०॥
महादेवो विदित्वा तां मनसि क्रोधमादधे ।
मामुल्लङ्घ्य गता दक्षाध्वरे चेयं विशेषतः ॥ २१॥
स्वाज्ञाहीना न योग्या वै पत्नी वेदे प्रकीर्तितम् ।
अतः पत्नीविहीनः सन् भजेऽहं विघ्नपं सदा ॥ २२॥
एवं मनसि सन्धार्य न तां मेने महेश्वरः ।
समागतां तया सोऽपि भाषणं न चकार ह ॥ २३॥
ततोऽतिखेदसंयुक्ता पार्वती तं महेश्वरम् ।
सिषेवे भक्तिसंयुक्ता नियमस्था सुरूपिणी ॥ २४॥
हावभावसमायुक्तां नित्यं सेवापरायणाम् ।
जगाम पर्वताद्वीक्ष्य पतिभावकरीं शिवः ॥ २५॥
गतं सदाशिवं वीक्ष्य पार्वती शोकसंयुता ।
देहत्यागे समारब्धा सस्मार द्विरदाननम् ॥ २६॥
तस्य स्मरणमात्रेण स्फूर्तिर्जाता परा हृदि ।
विचारमकरोच्चित्ते शिवा दुःखसमन्विता ॥ २७॥
मां त्यक्त्वा शङ्करो देवो गतो मानसमन्वितः ।
न वृणोति कदाचित् स निश्चितं शङ्करेण तत् ॥ २८॥
वेदे सङ्कथितं वाक्यं तपसा दुर्लभं कदा ।
किञ्चिद्भवेन्न तं देवं तपसाऽऽराधयाम्यहम् ॥ २९॥
एवं निश्चित्य सा देवी तताप तप उत्तमम् ।
ध्यात्वा सदाशिवं नित्यं वनस्था सखिसंयुता ॥ ३०॥
पञ्चाक्षरविधानेन तोषयामास शङ्करम् ।
लिङ्गपूजापरा देवी नानातपःपरायणा ॥ ३१॥
एवं बहौ गते काले न तुतोष सदाशिवः ।
क्रोधयुक्तः स्वभावेन न तां मेने कदाचन ॥ ३२॥
ततो विघ्नेश्वरं देवी मन्त्रेणैकाक्षरेण च ।
तोषयामास तं ध्यात्वा नित्यं पूजापरायणा ॥ ३३॥
त्यक्त्वा सदाशिवं देवी गणेशभजने रता ।
ततः स्वल्पेन कालेन शिवबुद्धिश्चचाल ह ॥ ३४॥
श्रावणे शुक्लपक्षे सा चतुर्थ्यां मृन्मयं परम् ।
कृत्वा गणेश्वरं नित्यं पूजयामास भक्तितः ॥ ३५॥
वायुमात्राशना देवी तां मूर्तिं भावसंयुता ।
पूज्य ध्यानपरा भूत्वा जजाप मन्त्रमुत्तमम् ॥ ३६॥
पुरश्चरणमार्गेण मन्त्रं जजाप नित्यदा ।
ततस्तां शङ्करो देवो मनसा सङ्गतोऽभवत् ॥ ३७॥
शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता ।
अधुना तां गमिष्यामि मदर्थं नियमान्विताम् ॥ ३८॥
देहभृदपराधैश्च संयुक्तो जायते कदा ।
अतः क्षमापनं कृत्वा वरिष्यामि न संशयः ॥ ३९॥
एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः ।
दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितोऽभवत् ॥ ४०॥
ब्रह्मचारिस्वरूपेण निन्दयामास शङ्करम् ।
सा तं क्रोधयुता भर्त्स्य निर्ययौ वनगाचरत् ॥ ४१॥
ततोऽतितोषसंयुक्तः शङ्करो रूपमादधे ।
स्वकीयं तद्विलोक्यैव ननाम जगदम्बिका ॥ ४२॥
तुष्टाव तं महादेवं ततः स वरदोऽभवत् ।
(Page खं. ७ अ. ३ पान ५)
जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः ॥ ४३॥
शिव उवाच ।
वरं वृणु महाभागे तपसा विजितस्त्वया ।
दास्यामि नात्र सन्देहस्त्वदधीनोऽहमादरात् ॥ ४४॥
त्वदाज्ञावशगो भूत्वा स्थास्यामि नित्यमञ्जसा ।
भार्या मे भव कल्याणि पतिस्तेऽहं पुरातनः ॥ ४५॥
पार्वत्युवाच ।
यदि प्रसन्नभावेन वरं दास्यसि शङ्कर ।
तदा मे पितरं गत्वा भार्यार्थं याचयस्व माम् ॥ ४६॥
पतिव्रतात्मकं धर्मं देहि मे विघ्नहीनकम् ।
तेन तुष्टा महादेव त्वयि नित्यं परायणा ॥ ४७॥
शिव उवाच ।
त्वयोक्तं सफलं सर्वं भविष्यति न संशयः ।
पितरं याचयित्वा ते त्वां वरिष्यामि निश्चितम् ॥ ४८॥
अहो तपो ह्यहो धैर्यमतस्ते देहजो मलः ।
सर्वपूज्यो महादेवि भविष्यति न संशयः ॥ ४९॥
कश्यप उवाच ।
तस्मिन् दिने तृतीया तु भाद्री शुक्ला बभूव ह ।
शिवेन संयुता देवी गणेशानं पुपूज ह ॥ ५०॥
ततश्चतुर्थिकायां सा होमं चकार हर्षिता ।
पञ्चम्यां ब्राह्मणैः सार्धं पारणं जगदम्बिका ॥ ५१॥
महोत्सवयुता देवी मूर्तिं तां गृह्य हर्षिता ।
जले चिक्षेप विघ्नेशं प्रार्थयामास यत्नतः ॥ ५२॥
ततः शिवो जगामैव स्वस्थानं हर्षसंयुतः ।
गत्वा प्रणम्य पितरं पार्वती संस्थिताऽभवत् ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते शिवपार्वतीसमागमो नाम द्वितीयोऽध्यायः ॥ ७.२
७.३ ममासुरवरप्रदानं नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
गणेशव्रतपुण्येन मोहितः शङ्करः सदा ।
तन्मना अभवद्देवो विप्रवेषधरो बभौ ॥ १॥
हिमाचलं समागम्य स्मृत्वा विघ्नेश्वरं शिवः ।
नानाकलां प्रदर्श्यैव मोहयामास तं क्षणात् ॥ २॥
हिमाचलो जगादैव वरं वृणु यमिच्छसि ।
दास्यामि मदधीनं चेन्नात्र कार्या विचारणा ॥ ३॥
द्विज उवाच ।
उमां देहि नगाधीश नान्यं याचे वरं परम् ।
ततः स खेदसंयुक्तस्तूष्णीमेवाऽभवद्गिरिः ॥ ४॥
तं चातिशोकसंयुक्तं दृष्ट्वोवाच जगन्मयी ।
उमा तं देहि मां तात शिवोऽयं नात्र संशयः ॥ ५॥
ततः स हर्षितोऽत्यन्तं ददौ तस्मै सुतां प्रिये ।
शिवः स्वस्थानमागम्य देवैः सम्मानितोऽभवत् ॥ ६॥
लग्नं शुभं समालोक्य पूजयित्वा गजाननम् ।
देवादिभिः समायुक्तः पर्वतेशं ययौ शिवः ॥ ७॥
हिमाचलः प्रसन्नात्मा विवाहमकरोत्ततः ।
शिवयोर्भक्तिसंयुक्तो ब्राह्मणैर्वेदपारगैः ॥ ८॥
शिवां गृह्य महेशानः कैलासमगमत् स्वयम् ।
तया रेमे महायोगी ततः स्कन्दो बभूव ह ॥ ९॥
(Page खं. ७ अ. ३ पान ६)
गणेशानं समाराध्य तारकं दैत्यनायकम् ।
जघान सुखसंयुक्तं चकार सचराचरम् ॥ १०॥
शिवः शक्त्या समायुक्तो मोहितो मायया भृशम् ।
तदधीनस्वभावेनाऽतिष्ठन्नित्यं महासती ॥ ११॥
कदाचित् पार्वती देवी सखीभिः संवृता स्थिता ।
मनसा धारयामास धन्याऽहं सर्वभावतः ॥ १२॥
शिवं त्यक्त्वा दक्षगृहे गताऽहं मानसंयुता ।
देहं त्यक्त्वा पुनर्जाता हिमाचलगृहे सुता ॥ १३॥
देवेशो मां ततस्त्यक्त्वा शङ्करः पर्वतान्तरे ।
गतः स्वयं स याचित्वाऽवृणोन् मां पितरं प्रभुः ॥ १४॥
किं त्यक्त्वा मां गतः शम्भुः किं पुनर्याचिता ह्युत ।
अधुना मदधीनः स वर्तते नात्र संशयः ॥ १५॥
मदीया ममता सर्वा पूर्णा जाता विशेषतः ।
मानिनीनां रहस्यं तु मया संरक्षितं भवेत् ॥ १६॥
एवं मनसि हर्षेण धन्यात्मानं नगात्मजा ।
मेने नित्यं ततः सर्वाः सख्यस्तां वचनं जगुः ॥ १७॥
सख्य ऊचुः ।
धन्या त्वं मानिनीमध्ये मानो जित्वा तु शङ्करम् ।
तपसा रक्षितो देवि त्वदधीनः शिवोऽभवत् ॥ १८॥
तच्छ्रुत्वा जगदम्बा साऽतीव मानयुताऽभवत् ।
हास्यं चकार तत्रैव चित्रं देवि बभूव ह ॥ १९॥
तस्या हास्यात् समुत्पन्नः पुरुषः कामसन्निभः ।
ममनामा महाभागो महान् पर्वतसन्निभः ॥ २०॥
सा दृष्ट्वा विस्मिता देवी सखीभिस्तमुवाच ह ।
कस्त्वं कस्मादिहायातः कस्य किं च चिकीर्षसि ॥ २१॥
पुरुष उवाच ।
तव हास्यात् समुत्पन्नं पुत्रं मां विद्धि मानदे ।
आज्ञां कुरु करिष्यामि त्वदीयां सर्वभावतः ॥ २२॥
पार्वत्युवाच ।
मया मानः कृतः पूर्णः तस्मात् त्वं निर्गतः स्वयम् ।
ममनामा भवस्वाद्य पुत्र मानपरायणः ॥ २३॥
गणेशं भज भक्त्या त्वं स ते सर्वं प्रदास्यति ।
तेन सर्वत्र विश्वस्मिन् विख्यातः प्रभविष्यसि ॥ २४॥
ततस्तस्मै महादेवी ददौ मन्त्रं षडक्षरम् ।
गणेशस्य प्रहर्षेण विधियुक्तं सुताय सा ॥ २५॥
स तां प्रणम्य देवेशीं तपसे वनमाययौ ।
तत्राऽऽजगाम दैत्येशः शम्बरः कालचोदितः ॥ २६॥
पप्रच्छ पार्वतीपुत्रस्तं दृष्ट्वा को भवानिति ।
किमर्थमिह संयातो वद मे कारणं महत् ॥ २७॥
शम्बर उवाच ।
विद्यां दातुं महाभाग समायातोऽहमादरात् ।
समर्थस्त्वं तया नित्यं भविष्यसि न संशयः ॥ २८॥
एवमुक्त्वा महादैत्यो विद्यां नानाविधां ददौ ।
आसुरीं तां ममो नाम साधयामास यत्नतः ॥ २९॥
साधयित्वा स्वयं विद्यां कामरूपो बभूव ह ।
नानासामर्थ्यसंयुक्तस्ततो वै हर्षितोऽभवत् ॥ ३०॥
शम्बरं प्रणिपत्यैव जगाद वचनं हितम् ।
भक्तियुक्तस्वभावेन कृताञ्जलिरुदारधीः ॥ ३१॥
ममासुर उवाच ।
त्वया कृतं महाभाग महत् कार्यं मदीयकम् ।
अधुना शिष्यभूतं ते शाधि मां किं करोम्यहम् ॥ ३२॥
शम्बर उवाच ।
गणेशं शक्तिदत्तेन मन्त्रेणाराध्य मानद ।
ब्रह्माण्डराज्यमुग्रं तं याचयस्व महाप्रभुम् ॥ ३३॥
(Page खं. ७ अ. ३ पान ७)
तत्त्वैश्च तत्त्वसम्भूतैर्न मे मृत्युर्भवेत् प्रभो ।
याचस्व सर्वभावेन नान्यं कञ्चिद्वरं परम् ॥ ३४॥
वरान् लब्ध्वा महाभाग मद्गेहे सङ्गतो भव ।
पश्चात् किञ्चित् कुरुष्व त्वमिति याचेऽहमादरात् ॥ ३५॥
तथेति शम्बरं सोऽपि ममनामा जगाद ह ।
शम्बरः स्वगृहं गत्वा हर्षयुक्तो बभूव ह ॥ ३६॥
ममस्तत्र समासीनस्तपस्तेपे सुदारुणम् ।
वायुमात्राशनो देवि ध्यात्वा हृदि गजाननम् ॥ ३७॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
प्राणशेषं ममं तत्र ययौ दातुं वरान् स्वयम् ॥ ३८॥
आगतं गणनाथं स न बुबोध महासुरः ।
ध्यानसंस्थं गणाधीशस्तमुवाच दयायुतः ॥ ३९॥
श्रीगणेश उवाच ।
वरान् ब्रूहि महाभाग मम ते हृदि संस्थितान् ।
दास्यामि तपसा तुष्टो मन्त्रसेवनतः परम् ॥ ४०॥
गणेशवचनं श्रुत्वा मम उन्मील्य लोचने ।
पश्यन् विघ्नेश्वरं सोऽपि सत्तायुक्तो बभूव ह ॥ ४१॥
उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ।
पुनः प्रणम्य तं स्तोतुं स्तोत्रं सोऽपि समारभत् ॥ ४२॥
ममासुर उवाच ।
नमस्ते गणनाथाय गणानां पतये नमः ।
गणपदप्रदात्रे ते गणरूपप्रधारिणे ॥ ४३॥
विघ्नानां पतये तुभ्यं विघ्नानां विघ्नरूपिणे ।
भक्तानां विघ्नहन्त्रे ते इतरेषां प्रहारिणे ॥ ४४॥
अनाथानां प्रणानाथ नाथाय नाथदायिने ।
नाथानां नाथरूपायानाथाय तु नमो नमः ॥ ४५॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणे ब्राह्मणानां च पालकाय नमो नमः ॥ ४६॥
अमेयशक्तये चैव शक्तिरूपधराय ते ।
शक्तिभ्यः शक्तिदात्रे ते शक्तिशक्ते नमो नमः ॥ ४७॥
परेशाय परेभ्यस्तु परपदप्रदायिने ।
पराय पररूपाय परात्पर नमोऽस्तु ते ॥ ४८॥
ज्येष्ठराजाय ज्येष्ठेभ्यः परपदप्रदायिने ।
ज्येष्ठाय ज्येष्ठहीनाय मात्रे पित्रे नमो नमः ॥ ४९॥
विघ्नेश्वरानन्तविहारकारिन् स्वानन्ददात्रे सकलानुगोप्त्रे ।
सिद्धेश्च बुद्धेः पतये परात्मन् हेरम्ब सर्वत्र नमो नमस्ते ॥ ५०॥
किं स्तौमि योगप्रदमेकदन्तं योगस्वरूपं परमार्थभूतम् ।
स्तोतुं न शक्ताः प्रभवन्ति वेदाः शम्भ्वादयो योगिन एव ढुण्ढिम् ॥ ५१॥
धन्योऽहं सर्वभावेभ्यो दृष्ट्वा देवं गजाननम् ।
अगम्यं योगिनां साक्षात् कृतकृत्योऽहमञ्जसा ॥ ५२॥
वरदोऽसि गणाधीश तदा मे तत्त्वभिः कदा ।
न भवेत्तद्भवेभ्यो वै मरणं त्वत्प्रसादतः ॥ ५३॥
यद्यदिच्छामि तत्तन् मे सफलं भवतु प्रभो ।
आरोग्यादि समायुक्तं मां कुरुष्व गजानन ॥ ५४॥
राज्यं ब्रह्माण्डगोलस्य देहि मे वाञ्छितप्रद ।
सङ्ग्रामे न समं तत्र किञ्चिद्भवतु विघ्नप ॥ ५५॥
सदा विजयसंयुक्तमजेयं शङ्करादिभिः ।
मां कुरुष्व गणाधीशामोघशस्त्रप्रधारिणम् ॥ ५६॥
श्रीगणेश उवाच ।
दुर्घटं कथितं सर्वं त्वया दैत्येन्द्रनायक ।
तुष्टस्तथापि दास्यामि त्वयोक्तं ते भविष्यति ॥ ५७॥
स्तोत्रं भवत्कृतं मे च कामदं काममिच्छते ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदं तथा ॥ ५८॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मणां पतिः ।
ममासुरः प्रसन्नात्माऽभवच्छम्बरगेहगः ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते ममासुरवरप्रदानं नाम तृतीयोऽध्यायः ॥ ७.३
७.४ शिवममासुरसमागमो नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
शम्बरं प्रणिपत्यादौ कथयामास विस्तरात् ।
वृत्तान्तं ममनामाऽसौ हर्षितं तं चकार ह ॥ १॥
मोहिनीं प्रददौ तस्मै स्वपुत्रीं शम्बरासुरः ।
तया च संस्थितो रेमे प्रिये तत्र ममासुरः ॥ २॥
ततः स्वल्पे गते काले शम्बरः शुक्रमाययौ ।
तं प्रणम्य महाभागं वृत्तान्तं प्रजगाद ह ॥ ३॥
ततः शुक्रेण दैत्येन्द्राः प्रेरिताः सर्व आययुः ।
स्वयं शम्बरसंयुक्तो जगाम ह ममासुरम् ॥ ४॥
शुक्रं समागतं दृष्ट्वा ममासुरः प्रतापवान् ।
तं प्रणम्य महाभागं कृताञ्जलिः पुरः स्थितः ॥ ५॥
पूजयामास तं विप्रं हर्षयुक्तेन चेतसा ।
प्रणम्य चाऽऽज्ञया तस्याऽऽसनेऽसौ संस्थितोऽभवत् ॥ ६॥
ततो दैत्यगणास्तत्र समाजग्मुः प्रहर्षिताः ।
तान् सर्वान् मानयामास यथाविधि ममासुरः ॥ ७॥
ततः सर्वमतं गृह्य काव्यो नीतिविशारदः ।
ब्राह्मणैस्तं चाभिषिच्य दैत्याधीशं चकार ह ॥ ८॥
प्रधानाः पञ्च तस्यापि बभूवुर्बलसंयुताः ।
प्रेतः कालः कलापश्च कालजित् धर्महा प्रिये ॥ ९॥
दैत्या दानवभूपाश्च राक्षसादय आदरात् ।
हर्षयुक्ता बभूवुस्ते ततः स्वस्वगृहे गताः ॥ १०॥
चिन्तानाशं ममो भूम्यां निर्ममे नगरं परम् ।
सर्वशोभासमायुक्तं परिखावलयाङ्कितम् ॥ ११॥
तत्र नाना जना जग्मुर्वासार्थं विषयप्रियाः ।
वर्णाश्रमयुताः सर्वे वासं चक्रुः प्रहर्षिताः ॥ १२॥
दैत्याद्यास्तत्र संरेजुर्विशेषेण निवासकाः ।
राजा ममासुरस्तान् वै पालयामास हर्षितः ॥ १३॥
पुत्रौ द्वौ समशीलौ तु मोहिन्यां सम्बभूवतुः ।
ममासुरान् महातेजो युक्तौ दैत्यविवर्धिनौ ॥ १४॥
धर्माधर्मौ तयोर्नाम चक्रिरे ब्राह्मणादयः ।
ताभ्यां ममासुरोऽत्यन्तं रेजे तेजोयुतो महान् ॥ १५॥
एकदा श्वशुरेणाऽसौ समानाय्य महामुनिम् ।
उशनसं प्रणम्याऽऽदौ जगाद वचनं परम् ॥ १६॥
ममासुर उवाच ।
तव स्वामिन् प्रसादेन समर्थोऽहं न संशयः ।
प्रजेष्यामि विशेषेण ब्रह्माण्डं लोकसङ्कुलम् ॥ १७॥
आज्ञापय महायोगिन् त्वदाज्ञावशवर्तिनम् ।
(Page खं. ७ अ. ४ पान ९)
दासं मां शाधि विप्रेन्द्र तवेच्छा कीदृशी भवेत् ॥ १८॥
कश्यप उवाच ।
ममासुरस्य वाक्यं स श्रुत्वा वेदविदां वरः ।
शुक्रस्तं भक्तिसंयुक्तं दृष्ट्वोवाच सुरूपिणम् ॥ १९॥
शुक्र उवाच ।
गणेशवरदानेन समर्थोऽसि महासुर ।
गणेशभक्तिसंयुक्तो जय त्वं विश्वमञ्जसा ॥ २०॥
कदाचिदपि दैत्येश द्वेषं विघ्नेश्वरस्य च ।
मा कुरुष्व तदा राज्यं करिष्यसि विशेषतः ॥ २१॥
तथेति दैत्यमुख्यस्तं जगाद हर्षसंयुतः ।
ततोऽसुरान् समाहूय वृत्तमाकथयत्परम् ॥ २२॥
ते सर्वे हर्षसंयुक्ताः साधु साध्वब्रुवन् वचः ।
द्विजैर्मुहूर्तमालोक्य निर्ययौ च ममासुरः ॥ २३॥
अपारसेनया युक्तश्चतुरङ्गप्रभूतया ।
नानावाहनगा दैत्या दैत्येन्द्रा रेजुरञ्जसा ॥ २४॥
सन्नद्धा वीरमुख्याश्च समाजग्मुर्महासुरम् ।
महाबला महावीर्याः पर्वतोन्मूलने क्षमाः ॥ २५॥
प्रधानैर्युद्धमार्गज्ञैः पुत्राभ्यां संयुतः स्वयम् ।
ममासुरो रथे संस्थः शुशुभे तेजसा युतः ॥ २६॥
पृथ्वीं जेतुं महावीरा जग्मुर्द्वीपसमन्विताम् ।
जित्वा क्षत्रगणान् सर्वान् स्ववशे तांस्तु चक्रिरे ॥ २७॥
ततः पातालगाः सर्वे शेषं जित्वा महाबलम् ।
ययुः स्वर्गेषु दैत्येन्द्रा इन्द्रं क्रोधसमन्विताः ॥ २८॥
इन्द्रः सुरगणैः सार्धं योद्धुं समुद्यतोऽभवत् ।
ऐरावतसमारूढो ययौ सङ्ग्राममण्डलम् ॥ २९॥
दैत्येन्द्रा शस्त्रसङ्घातैर्मर्दयित्वा सुरेन्द्रकान् ।
ममासुरं ययुः सर्वे धृत्वेन्द्रं ते प्रहर्षिताः ॥ ३०॥
इन्द्रासनसमारूढो ममासुरः प्रतापवान् ।
शुशुभे दानवेन्द्रैः स सेव्यमानः सदारुणैः ॥ ३१॥
सत्यलोकागतं वीक्ष्य दूतं सम्प्रेष्य दारुणम् ।
योद्धुं समुद्यतं ज्ञात्वा वेधाः पपाल तद्भयात् ॥ ३२॥
विष्णुं गत्वा विधाताऽसौ रक्ष रक्षेति चाब्रवीत् ।
विष्णुस्तं गृह्य शम्भुं वै शरणं प्रजगाम ह ॥ ३३॥
ज्ञात्वा वृत्तान्तमेवं स ममासुरः प्रतापवान् ।
कैलासमाययौ दैत्यैर्योद्धुं महेश्वरेण ह ॥ ३४॥
शिवलोके समायातो भानुः शक्तिस्तथा भयात् ।
विचार्य देवपाः सर्वे दैत्येद्रं जग्मुरावृताः ॥ ३५॥
मरणे निश्चयं कृत्वा शम्भुमुख्याः सुरेश्वराः ।
ममासुरं तं सन्नद्धाः प्रययुस्ते सुलोचने ॥ ३६॥
ममासुरस्य सैन्यं तु सन्नद्धं क्रोधसंयुतम् ।
देवेन्द्रान योद्धुमायातं नानावीरप्रपालितम् ॥ ३७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते शिवममासुरसमागमो नाम चतुर्थोऽध्यायः ॥ ७.४
७.५ ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
समागतान् पुरो देवान् दृष्ट्वा क्रोधसमन्विताः ।
दैत्याः प्रहरणैर्जघ्नुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १॥
देवाः क्रोधयुतास्तद्वज्जघ्नुस्तान् दैत्यपुङ्गवान् ।
अन्योन्यं मिलिताः सर्वे एकीभूता यथाऽभवन् ॥ २॥
रजस्तिमिरभावेन स्वपरज्ञानवर्जिताः ।
पुरोगाञ्जघ्निरे सर्वे स्वान् परानपि दुर्मदाः ॥ ३॥
दिनैकं दारुणं युद्धं बभूवे वीरमोहनम् ।
ततः शोणितजा घोरा नदी तत्र प्रसुस्रुवे ॥ ४॥
ततो रजोऽभवच्छान्तं प्रकाशसंयुताः पुनः ।
दैत्या देवा विवेकेन युयुधुर्जातसम्भ्रमाः ॥ ५॥
ततो दैत्यबलैर्भग्नं देवसैन्यं सुदारुणम् ।
पपाल दैत्यसङ्घैस्तद्धतं हर्षसमन्वितैः ॥ ६॥
ततो भैरवमुख्याश्च विष्वक्सेनादयो ययुः ।
आदित्याः कालिमुख्याश्च शक्तयः क्रोधसंयुताः ॥ ७॥
तैः समन्तान् महास्त्रैस्तद्बलं सम्मर्दितं परम् ।
दैत्यानां भयसंयुक्तं पपाल च दिशो दश ॥ ८॥
ततः क्रोधसमायुक्ताः प्रधाना ममकस्य ते ।
जग्मुः प्रहरणैर्वीक्ष्य शस्त्रैर्जघ्नुः सुरेन्द्रकान् ॥ ९॥
दैत्यपैर्भैरवाद्याश्च युयुधुर्जातसम्भ्रमाः ।
युद्धं तत्राऽभवद्घोरं दिनैकं जयमिच्छताम् ॥ १०॥
ततो दैत्येन्द्रमुख्यास्ते पतिता मूर्च्छया युताः ।
पपालासुरसैन्यं तद्भययुक्तं दिशो दश ॥ ११॥
ज्ञात्वा ममासुरस्यैव पुत्रौ द्वौ समुपस्थितौ ।
प्रणम्य पितरं तौ तु योद्धुं जग्मतुरादरात् ॥ १२॥
ततः काव्येन दैत्येन्द्रा जीविताः पुनरुत्थिताः ।
युयुधुस्ते महावीरा देवैः परमदारुणाः ॥ १३॥
दैत्यैर्धर्मश्च सङ्क्रुद्धोऽधर्मः शस्त्रास्त्रवर्षिणौ ।
बभूवतुश्च देवेन्द्रान् मूर्च्छितांश्चक्रतुर्मृधे ॥ १४॥
न कोऽपि देवसैन्यस्थस्तयोरस्त्रबलं परम् ।
असहत्तत्ततो देवाः प्रपेलुर्भयसंयुताः ॥ १५॥
ततः शिवः स्वयं क्रुद्धो वृषारूढः समाययौ ।
अनु तं जगदम्बा सा भानुर्विष्णुर्ययौ पुरः ॥ १६॥
तेषां युद्धं महाघोरं बभूवे रोमहर्षणम् ।
न वक्तुं शक्यते देवि ब्रह्माण्डभयकारकम् ॥ १७॥
अधर्मो विष्णुना सार्धं धर्मः शङ्करमाययौ ।
कालजिद्भानुना सार्धं प्रेतः शक्त्या महाबलः ॥ १८॥
कपालः कालरुद्रेण काल्या धर्मघ्न एव च ।
नियतं युयुधुः सर्वे शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १९॥
दिनैकं दारुणं युद्धं बभूवे देवरक्षसाम् ।
ततः काल्या हतः पापी धर्मघ्नश्च मृतोऽभवत् ॥ २०॥
कपालः कालरुद्रेण त्रिशूलेन प्रमूर्च्छितः ।
प्रेतः शक्त्या हतस्तत्र ममार खड्गघाततः ॥ २१॥
त्रिशूलेन हतो धर्मः शिवेनामूर्च्छितोऽभवत् ।
चक्रेण विष्णुना तद्वदधर्मो मूर्च्छितः कृतः ॥ २२॥
चक्रत्रिशूलकाद्यैश्च शस्त्रास्त्रैर्दैत्यसैन्यकम् ।
हतं सर्वत्र देवेशैर्हाहाकाररवाकुलम् ॥ २३॥
शोणितौघा महानद्यस्तत्र जाता भयानकाः ।
छिन्नभिन्नाश्च दैत्याद्याः पपलुः सर्वतोदिशम् ॥ २४॥
तत्राऽपि शस्त्रवेगेन मृताः केऽपि सुलोचने ।
ततो ममासुरः क्रुद्धः सङ्ग्रामाय ययौ स्वयम् ॥ २५॥
पुरः स्थितं शिवं वीक्ष्य जगाद क्रोधसंयुतः ।
(Page खं. ७ अ. ५ पान ११)
सर्वसंहारकं सोऽपि महाबलपराक्रमः ॥ २६॥
ममासुर उवाच ।
तिष्ठ तिष्ठ महादेव पश्य मे पौरुषं परम् ।
दृष्टं त्वदीयं सामर्थ्यं सर्वदेवातिगं मया ॥ २७॥
एवमुक्त्वा महादेवं धनुः सज्जमथाऽकरोत् ।
निष्काश्य सुदृढं बाणं मुमोच दैत्यनायकः ॥ २८॥
तावत् त्रिशूलकं शम्भुश्चिक्षेप नाशकारकम् ।
ममासुरं समासाद्य निष्फलं तद्बभूव ह ॥ २९॥
बाणेन स हतः शम्भुः पपात धरणीतले ।
मूर्च्छया पीडितोऽत्यन्तं सहसा दैत्यपालिनि ॥ ३०॥
ततो ममासुरः क्रुद्धो बाणेनैकेन वक्षसि ।
विव्याध माधवं देवं मूर्च्छितं तं चकार ह ॥ ३१॥
शक्तिः सूर्यस्ततः क्रुद्धौ बाणान् चिक्षिपतुः परान् ।
ते सर्वे निष्फला बाणाः पेतुः परमदारुणाः ॥ ३२॥
ततो ममासुरः सूर्यं शक्तिं विव्याध वक्षसि ।
एकैकेन स बाणेन पतितौ धरणीतले ॥ ३३॥
बाणवृष्टिं महोग्रां स चक्रे क्रोधसमन्वितः ।
तया देवेन्द्रमुख्याश्च देवाः सम्मर्दिता मृधे ॥ ३४॥
ततो देवान् मृतान् वीक्ष्य कांश्चिद्भयसमन्वितान् ।
पलतो दैत्यराजः स हर्षितोऽभून् महामते ॥ ३५॥
देवान् शम्भुमुखान् गृह्य ययौ स्वस्थानमुत्तमम् ।
काव्येन जीवितान् दैत्यान् प्रधानपुत्रमुख्यकान् ॥ ३६॥
ततो धर्मं महादैत्यः कैलासाधिपतिं सुतम् ।
अधर्मं विष्णुलोकस्य नाथं चकार हर्षितः ॥ ३७॥
प्रेतं शक्तिपुरस्यापि कपालं स चकार ह ।
सौरलोकाधिपं वीरं धर्मघ्नं ब्रह्मणस्तथा ॥ ३८॥
कालजितं महेन्द्रस्य यमस्य कालकं परम् ।
लोकस्य चाधिपं चक्रे तथाऽन्येषां च दानवान् ॥ ३९॥
ततः स्वपुरमागम्य कारागारे समाक्षिपत् ।
देवेन्द्रान् शिवमुख्यान् स राज्यं चक्रे महाबलः ॥ ४०॥
ब्रह्माण्डाधिपतिर्दुष्टो बभूव स ममासुरः ।
कृतकृत्यमिवात्मानं मेने दैत्येन्द्रसंयुतः ॥ ४१॥
स्त्रीमांसमदिरायुक्तो बभूवे भोगलालसः ।
अविनाशं स्वमात्मानं मेने देहधरोऽपि सन् ॥ ४२॥
ततोऽतिमदसंयुक्तो ममासुरः प्रतापवान् ।
देवाङ्गना नराणां तु कन्या नागोद्भवा बलात् ॥ ४३॥
समानाय्यासुरेन्द्रैः स बुभुजे पापनिश्चयः ।
ततो बहुगते काले दैत्येन्द्रान् प्रेष्य दारुणान् ॥ ४४॥
खलः खण्डनकं चक्रे वर्णाश्रमसुकर्मणाम् ।
आसुरं कर्म सर्वत्र स्थापयामास दण्डतः ॥ ४५॥
न स्वाहा न स्वधा कुत्र भवति स्म कदाचन ।
न वषट्कारभावश्च वर्णसङ्करभावतः ॥ ४६॥
ऋषयस्ताडिताः केचित् केचिद्बन्धनसंयुताः ।
देवस्थानानि सर्वाणि खण्डितानि च दानवैः ॥ ४७॥
तीर्थानि पुण्यवृक्षास्ते बभञ्जुः पापकारकाः ।
ममासुरात्मकं कर्म चक्रिरे सर्वमानवैः ॥ ४८॥
प्रतिमा दैत्यनाथस्य स्थापिताः सर्वमन्दिरे ।
इत्यादिकर्मनाशश्च बभूव जगतीतले ॥ ४९॥
हाहाकारयुताः सर्वे भ्रष्टा जाताः सुलोचने ।
वर्णाश्रमविहीनास्ते जना दुःखसमन्विताः ॥ ५०॥
राज्यं चकार दैत्येशो ममासुरः सुहर्षितः ।
वृष्ट्यादिकमभूत्तत्र काले सर्वं भयाकुलम् ॥ ५१॥
(Page खं. ७ अ. ६ पान १२)
एवं पापे प्रवृद्धे तु देवाश्चोपोषणान्विताः ।
कारागारे स्थिताः सर्वे बभूवुः शोकपीडिताः ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते ममासुरराज्यभोगवर्णनं नाम पञ्चमोऽध्यायः ॥ ७.५
७.६ विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
ततः शम्भुमुखा देवा विचारं दुःखसंयुताः ।
ममासुरस्य नाशार्थं चक्रुः सर्वे भयातुराः ॥ १॥
तत्र विष्णुर्महाबुद्धिरुवाच वाक्यमुत्तमम् ।
देवान् सर्वान् समाश्वास्य विघ्नराजं हृदि स्मरन् ॥ २॥
विष्णुरुवाच ।
कारागारे वयं क्षिप्तास्तत्र कर्मप्रखण्डनात् ।
उपोषणसमायुक्ताः कृता ममासुरेण च ॥ ३॥
अतिपापं ममस्यैव राज्ये वृत्तं महेश्वराः ।
तेन पुण्यविहीनोऽयं मरिष्यति न संशयः ॥ ४॥
सर्वसत्ताधरः प्रोक्तो गणेशो वेदवादिभिः ।
विघ्नराजश्च तेनाऽसौ नामाऽभूद्धर्मपालकः ॥ ५॥
आपद्धर्मविधानेन तदुपासनकं परम् ।
करिष्यामो विशेषेण स एनं घातयिष्यति ॥ ६॥
तत्त्वप्रकाशकः सोऽपि न तत्त्वरूपधारकः ।
तत्त्वहीनो न देवेशा अत एनं वधिष्यति ॥ ७॥
अतिविषयसंयुक्तो दैत्येन्द्रैर्मोहितो भृशम् ।
ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना ॥ ८॥
अन्यच्च शृणुत प्राज्ञाः क्षेत्रेषु विघ्नपस्य च ।
मूर्तयः खण्डिताः सर्वाः स्वकीयाः स्थापिताः खलैः ॥ ९॥
आदौ गणपतेः प्रोक्तं पूजनं स्मरणादिकम् ।
तत्कर्मसु ममेनैव खण्डितं भूमिमण्डले ॥ १०॥
अतो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् ।
तं विशेषेण भजत देवा भावसमन्विताः ॥ ११॥
विष्णोर्वचनमाकर्ण्य देवाः शम्भुपुरोगमाः ।
साधु साधु त्वया प्रोक्तं जगुस्तं केशवं प्रिये ॥ १२॥
ततो देवा गणेशानं चिन्त्य सङ्कटमुक्तये ।
मन्त्रस्नानं प्रचक्रुस्ते न्यासादींश्च मनोमयान् ॥ १३॥
ध्यात्वा गणपतिं सर्वे पुपूजुर्मानसैः पृथक् ।
उपचारैरनेकैस्ते जेपुर्मन्त्रं हृदा परम् ॥ १४॥
एकाक्षरविधानेन युक्तास्तेपुस्तपो महत् ।
सङ्गोप्य भयसंयुक्ता निराहारपरायणाः ॥ १५॥
एवं वर्षशते पूर्णे तान् ययौ गणनायकः ।
भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने वरदायकः ॥ १६॥
तं दृष्ट्वा हर्षसंयुक्ता देवा उत्थाय सत्वरम् ।
प्रणेमुः पूजयामासुर्मानसैरुपचारकैः ॥ १७॥
पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः ।
साश्रुनेत्राः प्रिये देवा भक्तिनम्रात्मकन्धराः ॥ १८॥
(Page खं. ७ अ. ६ पान १३)
देवेन्द्रा ऊचुः ।
नमस्ते विघ्नराजाय भक्तविघ्नविदारण ।
अभक्तेभ्यो विशेषेण विघ्नदात्रे नमो नमः ॥ १९॥
गणेशाय परेशाय हेरम्बाय नमो नमः ।
चतुर्बाहुधरायैव नागेशध्वजिने नमः ॥ २०॥
अमेयायाप्रतार्क्याय सदा स्वानन्दवासिने ।
ब्रह्मणां पतये तुभ्यं ब्रह्मदात्रे नमो नमः ॥ २१॥
साङ्ख्याय बोधरूपाय पुरुषाय परात्मने ।
गणेशाय प्रकृतये त्रिगुणाय नमो नमः ॥ २२॥
स्रष्ट्रे पात्रे च संहर्त्रे प्रकाशरूपधारिणे ।
मोहकाय त्रिलोकस्थनाथाय ते नमो नमः ॥ २३॥
नानामायाप्रचालाय मायिभ्यो मायया प्रभो ।
मोहदाय विशेषेण मायिकाय नमो नमः ॥ २४॥
नानाभेदमयं ब्रह्म विघ्नयुक्तं न संशयः ।
तत्रानन्दयुतायैव समभावाय ते नमः ॥ २५॥
सर्वभेदविहीनं यद्ब्रह्मामृतमयं परम् ।
भेदहीनेन विघ्नेन युतं शास्त्रप्रमाणतः ॥ २६॥
भेदयुक्तं गणाधीश भेदहीनं त्वया परम् ।
सृष्टं द्वन्द्वमयं नाथ तयोर्नाथाय ते नमः ॥ २७॥
आनन्दं परमं ब्रह्म विघ्नानां हारकं मतम् ।
दायकं तत्त्वमेवेति विघ्नराज नमोऽस्तु ते ॥ २८॥
तं विघ्नराजराजं तु पश्यामश्चर्मचक्षुषा ।
धन्या वयं गणाधीश तव पादस्य दर्शनात् ॥ २९॥
एवमुक्त्वा प्रणेमुस्ते देवाः शम्भुपुरोगमाः ।
स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्त्रितः ॥ ३०॥
श्रीविघ्नराज उवाच ।
वरान् ब्रूत महादेवा येषां यान् मनसीप्सितान् ।
दास्यामि स्तोत्रसन्तुष्टस्तपसा ध्यानशालिना ॥ ३१॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
पठते शृण्वते देवा वाञ्छितार्थप्रदायकम् ॥ ३२॥
गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः ।
प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा ॥ ३३॥
देवा ऊचुः ।
तव पादेऽचलां भक्तिं देहि विघ्नेश नः पराम् ।
यया विघ्नविहीनाश्च शान्तिं प्राप्ताः सुयोगिनः ॥ ३४॥
ममासुरं नाथ जहि सर्वपीडाप्रदायकम् ।
धर्मध्वंसकरं पूर्णं वर्णसङ्करकारिणम् ॥ ३५॥
कारागारे वयं क्षिप्ता वरदानप्रभावतः ।
अधुनोपोषणैर्युक्ताः कृतास्तेनासुरेण च ॥ ३६॥
एवं तेषां वचः श्रुत्वा विघ्नराजः प्रतापवान् ।
तथेति तानुवाचेदं करिष्यामि वचो हितम् ॥ ३७॥
एतस्मिन्नन्तरे देवि तत्र चित्रं बभूव ह ।
दैत्याः संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसाम् ॥ ३८॥
ते दृष्ट्वा चेष्टितं तेषां गणेशाऽऽगमनात्मकम् ।
गत्वा तं सर्ववृत्तान्तं कथयामासुरादरात् ॥ ३९॥
रक्षका ऊचुः ।
देवैः संराधितस्तत्राऽऽययौ विघ्नपतिः प्रभो ।
तं प्रणम्य महेशाद्यास्तुष्टुवुस्तद्वधाय च ॥ ४०॥
तथेति गणनाथेन कृतं सर्वं न संशयः ।
अधुना दैत्यनाथ त्वं यत् करिष्यसि तत् कुरु ॥ ४१॥
तेषां वचनमाकर्ण्य क्रोधयुक्तो ममासुरः ।
सर्वानानाय्य वृत्तान्तं कथयामास विस्तरात् ॥ ४२॥
श्रुत्वा ते भयसंयुक्ता बभूवुर्जातसम्भ्रमाः ।
जगुस्तं प्रणिपत्यैव वचनं स्वहितावहम् ॥ ४३॥
दैत्येन्द्रा ऊचुः ।
कारागारे स्थिता देवास्तैः कथं गणनायकः ।
(Page खं. ७ अ. ७ पान १४)
आराधितो विशेषेण वरदश्च बभूव ह ॥ ४४॥
दैत्यैर्दृष्टस्तत्त्वमयो गणाधीशो न संशयः ।
तत्त्वहीनो न दैत्येन्द्र दृश्यते केनचित् कदा ॥ ४५॥
अतः सदेवकं तं तु हनिष्यामो न संशयः ।
किं करिष्यति विघ्नेशस्त्वां ध्रुवं मृत्युवर्जितम् ॥ ४६॥
एवमुक्त्वा महादैत्याश्चक्रुर्नादं भयङ्करम् ।
देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे ॥ ४७॥
एतस्मिन्नन्तरे तत्र पुनश्चित्रं बभूव ह ।
नारदो विघ्नराजं तं ययौ हर्षसमन्वितः ॥ ४८॥
प्रणम्यास्तुत्य विघ्नेशं गानं चकार हर्षतः ।
जगाद तं महायोगी प्रभो जहि ममासुरम् ॥ ४९॥
मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपस्य वै ।
समीपे प्रेषयामास स ययौ दैत्यनायकम् ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते विघ्नराजप्रादुर्भावो नाम षष्ठोऽध्यायः ॥ ७.६
७.७ ममासुरगर्वहरणं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
समागतं ममो दैत्यो नारदं पूज्य दैत्यपैः ।
प्रष्टुं समुद्यतो यावत्तावत्तं नारदोऽब्रवीत् ॥ १॥
नारद उवाच ।
आपद्धर्मविवेकेन देवैः संराधितोऽधुना ।
गणेशो वरदो भाति देवेभ्यः सिद्धिदायकः ॥ २॥
त्वद्वधार्थं महाराज प्रार्थितो देवनायकैः ।
तथेति प्रतिपाद्यैव तत्र संस्थोऽधुना प्रभुः ॥ ३॥
सामार्थं प्रेषयामास मां मम तेऽत्र सन्निधौ ।
शृणु वाक्यं मदीयं त्वं हितं तेन भविष्यति ॥ ४॥
विघ्नाः सत्तात्मकाः प्रोक्ताः सत्ताऽत्र त्रिविधा मता ।
सत्यसङ्कल्परूपा च पराधीनात्मिका प्रभो ॥ ५॥
सत्यसङ्कल्पसत्ताया धारका ब्रह्मवाचकाः ।
परमेश्वरसंज्ञास्ते स्वाधीनाः प्रभवन्ति ये ॥ ६॥
अन्ये नरादयः प्रोक्ताः सत्तावन्तो न संशयः ।
तेषु दैवं समाख्यातं दैवाधीनास्ततः स्मृताः ॥ ७॥
त्वं वरेण समर्थोऽसि स्वसत्तासंयुतो न च ।
वरसत्तात्मको दैत्य पराधीनो न संशयः ॥ ८॥
पराधीना नरा विघ्नैः पीडिताः सर्वदा मताः ।
वृथा गर्वयुता अन्ते सत्ताहीना भवन्त्युत ॥ ९॥
अहं ब्रह्मेति मोहेन मोहिता जगदीश्वराः ।
मदाधारमिदं सर्वं विश्वं चलति तेऽब्रुवन् ॥ १०॥
अस्मभ्यो न परं किञ्चित् सत्ताहीनास्तदाऽभवन् ।
सत्यसङ्कल्पजां तेषां सिद्धिं गृह्णाति विघ्नपः ॥ ११॥
अतो विघ्नयुतं सर्वं जानीहि द्विविधं मतम् ।
सत्यासत्यमयं दैत्य द्वन्द्वमायाविमोहितम् ॥ १२॥
आनन्दं परमं ब्रह्म द्वन्द्वहीनं समात्मकम् ।
द्वन्द्वेषु द्वन्द्वभावाख्यं परं तन्मोहवर्जितम् ॥ १३॥
तदेव विघ्नराजाख्यं ब्रह्म वेदैः प्रकाशितम् ।
देवैराराधितं पूर्णं देहधारि बभूव ह ॥ १४॥
(Page खं. ७ अ. ७ पान १५)
अधुना तत् समायातं देवागारेषु दैत्यप ।
तद्गच्छ शरणं नो चेन् मरिष्यसि न संशयः ॥ १५॥
स्वस्वधर्मयुतं सर्वं विश्वं भवतु दैत्यप ।
स्वधर्मनिरतो भूत्वा तिष्ठ स्थाने स्वके सदा ॥ १६॥
स्वर्गभोगकरा देवा नरा भूमिसमाश्रिताः ।
दैत्याः पातालगा भूत्वा तिष्ठन्तु सुखसंयुताः ॥ १७॥
वर्णाश्रमयुता लोकास्तिष्ठन्तु नित्यमादरात् ।
एवं कृत्वा मम त्वं तु तिष्ठ वै भोगसंयुतः ॥ १८॥
एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ।
मा गर्वं कुरु दैत्येन्द्र नारदाज्ञावशो भव ॥ १९॥
नोचेद्विघ्नपतिः क्रुद्धस्त्वां हनिष्यति निश्चितम् ।
अतस्तं शरणं गच्छ सर्वसिद्धिप्रदायकम् ॥ २०॥
ममासुरश्च तां श्रुत्वा खेदयुक्तो बभूव ह ।
शुक्रं तत्र समानाय्य विचारमकरोत् परम् ॥ २१॥
शुक्रेणाऽपि तथा प्रोक्तं ततः स भयसंयुतः ।
प्रणम्य नारदं वाक्यं जगाद हितमात्मनः ॥ २२॥
ममासुर उवाच ।
त्वया नारद यत् प्रोक्तं तथा शुक्रेण निश्चितम् ।
देवानां हितमत्यन्तं नाऽहं यामि गजाननम् ॥ २३॥
आदौ मया विशेषेण सेवितोऽयं महामुने ।
मां त्यक्त्वा देवनाथः सोऽभवत्तेन नयामि तम् ॥ २४॥
मरणं मे यदा प्राप्तं भविष्यति यशस्करम् ।
शत्रूणां शरणं विप्र न योग्यं मानिनां कदा ॥ २५॥
तस्य तद्वचनं श्रुत्वा नारदः पुनरब्रवीत् ।
मा चिन्तां कुरु दैत्येन्द्र नायं देवसहायवान् ॥ २६॥
देवा मदयुता जाता दैत्यान् जघ्नुः प्रमोहिताः ।
दैत्यानां मूलनाशार्थं पातालं विविशुः पुरा ॥ २७॥
तदाऽयं वरदो भूत्वा तव सामर्थ्यतः स्वयम् ।
देवान् मदविहीनांश्च चकार विघ्ननायकः ॥ २८॥
अपि त्वं मोहसंयुक्तस्त्यक्त्वा गणपतिं परम् ।
कर्मनाशनतः सर्वान् देवान् हन्तुं समुद्यतः ॥ २९॥
कर्मनाशप्रभावेण देवा नष्टा भवन्ति च ।
निर्देवं विश्वमत्यन्तं तदा भवति सर्वदा ॥ ३०॥
अतस्त्वां हन्तुमुद्युक्तो विघ्नराजो महासुर ।
स्वस्वधर्मयुतांश्चेत्तान्न हन्ति ब्रह्मनायकः ॥ ३१॥
सुरासुरमयश्चायं सिद्धिबुद्धिविहारकृत् ।
सिद्धिबुद्धिविहीनस्त्वं किं करिष्यसि तद्वद ॥ ३२॥
विघ्नराजस्य विघ्नं तु कः क्षमो जायते वद ।
कर्तुं विघ्नयुतो नित्यं मूर्खभावान् मरिष्यसि ॥ ३३॥
आनन्दं ब्रह्म वेदेषु कथितं सदसन्मयम् ।
न तत्त्वसंयुतं दैत्य तत्त्वहीनं न विद्यते ॥ ३४॥
सर्वत्र योगभावेन संस्थितं द्वन्द्वधारकम् ।
स एव विघ्नराजस्त्वां हनिष्यति न संशयः ॥ ३५॥
तेनैव त्रिविधं सर्वं रचितं योगमायया ।
स्वस्वधर्मयुतं विश्वं कृतं क्रीडार्थमञ्जसा ॥ ३६॥
यदा गर्वयुता दैत्य जन्तवश्चेश्वरादयः ।
त्यक्त्वा स्वधर्मं मोहेन संसक्ता विषयेऽभवन् ॥ ३७॥
सर्वैरवध्यतां प्राप्य कुर्वन्ति मनसीप्सितम् ।
तदाऽयं देहधारी सम्भवते मदनाशकः ॥ ३८॥
असन्मयो गणेशस्य देहः सन्मयमस्तकम् ।
तेनाऽयं गजवक्त्रोऽभूत्तं गच्छ शरणं परम् ॥ ३९॥
नारदस्य वचः श्रुत्वा तथा काव्यस्य दैत्यपः ।
ममासुरः खवाणीं तां विचारमकरोत् हृदि ॥ ४०॥
(Page खं. ७ अ. ७ पान १६)
गणेशो ब्रह्मरूपोऽयं स्वानन्दे वासकारकः ।
गच्छामि शरणं तं स्वहितं तेन भविष्यति ॥ ४१॥
विघ्नराजमनादृत्य सिद्धिबुद्धिपतिं प्रभुम् ।
को विघ्नहीनतां प्राप्य तिष्ठेद्वै सर्वमण्डले ॥ ४२॥
स्वयं दैत्यानुवाचाथ वचनं हितकारकम् ।
ममासुरः प्रसन्नात्मा गणेशो ममतां दधौ ॥ ४३॥
ममासुर उवाच ।
दैत्येन्द्राः कालमुख्या मे वचनं शृणुत प्रियाः ।
काव्येन नारदेनोक्तं खवाण्या तत् करोम्यहम् ॥ ४४॥
तस्य तद्वचनं श्रुत्वा धर्माधर्मौ समूचतुः ।
न देवपक्षिणं योग्यं शरणं जगदीश्वरम् ॥ ४५॥
मरणं रणमध्ये तु स्वर्गदं कीर्तिदं भवेत् ।
तस्माद्युध्यामहे तात विघ्नेशेन विशेषतः ॥ ४६॥
देहधारी गणेशानः किं करिष्यति मां वद ।
तात ते मायया देवा दर्शयन्ति प्रमोहकम् ॥ ४७॥
नारदो गणराजस्य भक्तस्तस्य वचः कथम् ।
दैत्येन्द्रैः सह मान्यं त्वं करिष्यसि महामते ॥ ४८॥
नारदभावरक्षार्थं काव्यो वदति वै तथा ।
देवैः संरचिता वाणी खस्था तस्या वचो वृथा ॥ ४९॥
मा कुरुष्व भयं तात तत्त्वयुक्तं गजाननम् ।
हनिष्यामः प्रतापेन तव दैत्यप्रपालक ॥ ५०॥
एवमुक्त्वा महावीरौ रथारूढौ बभूवतुः ।
देवान् हन्तुं प्रगर्वेण जग्मतुः क्रोधसंयुतौ ॥ ५१॥
मामेति वचनं दैत्यनाथस्य त्यज्य दुर्मदौ ।
धर्माधर्मौ गणेशानं जग्मतुर्हननाय च ॥ ५२॥
ततो गणेश्वरं विप्रो नारदः प्रजगाम ह ।
कथयामास वृत्तान्तं सोऽपि क्रोधयुतोऽभवत् ॥ ५३॥
देवान् भययुतान् वीक्ष्य जगाद गणनायकः ।
मा भयं कुरुत प्राज्ञा हनिष्यामि ममासुरान् ॥ ५४॥
अमोघास्त्रबलैर्युक्तो ममासुरः प्रतापवान् ।
समागतः सोऽपि चेत्तं हनिष्यामि न संशयः ॥ ५५॥
एवमुक्त्वा गणाधीशः कमलं निजहस्तगम् ।
मुमोच क्रोधसंयुक्तो महास्त्रं ब्रह्मरूपकम् ॥ ५६॥
क्षणेन कमलं तत्र दैत्यसैन्ये पपात ह ।
तस्माज्जातः सुवासश्च प्रससार महीतले ॥ ५७॥
गणेशानं द्विषन्तस्तान् जघान वास आगतः ।
द्वेषहीनान् समुत्सृज्य तदद्भुतमिवाऽभवत् ॥ ५८॥
वासं गृह्य महादैत्यौ धर्माधर्मौ मृतौ मृधे ।
प्रधानाः पञ्च तद्वत्ते मृतास्तत्र बभूविरे ॥ ५९॥
ततो हाहारवं कृत्वा दैत्याः पातालमाविशन् ।
कमलं क्रोधसंयुक्तं जगाम ह ममासुरम् ॥ ६०॥
सुवासकं तस्य गृह्य मूर्च्छितोऽभून् ममासुरः ।
प्रहरार्धेन दैत्येशः सावधानो बभूव ह ॥ ६१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते ममासुरगर्वहरणं नाम सप्तमोऽध्यायः ॥ ७.७
(Page खं. ७ अ. ८ पान १७)
७.८ ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
ततो ममासुरस्तत्र सावधानो बभूव ह ।
समीपे कमलं संस्थं दृष्ट्वा भययुतोऽभवत् ॥ १॥
त्यक्त्वा गर्वं महादैत्यः कमलं प्रणनाम ह ।
कृत्वा करपुटं भीतोऽभवत् स्तोतुं समुद्यतः ॥ २॥
ममासुर उवाच ।
कमलाय नमस्तुभ्यं गणेशशस्त्रमुख्यक ।
वासनानां परेशाय सुवासधारिणे नमः ॥ ३॥
विषयेषु सुवासेन मोहिताः सम्भ्रमन्ति ते ।
संसारे दुःखसंयुक्ताः सुखयुक्ताः त्वया कृताः ॥ ४॥
योगवासनया युक्ता ब्रह्मभूता भवन्ति ते ।
वासनानां प्रभेदाश्च बहवस्तेषु किं ब्रुवे ॥ ५॥
तेषां ब्रह्मस्वरूपाय खेलकाय नमो नमः ।
विश्वं कमलसम्भूतं पद्माकारं वदन्ति तत् ॥ ६॥
अतस्त्वां कः समर्थः स्यात् स्तोतुं शस्त्रोत्तमोत्तम ।
नमो नमः प्रसन्न त्वं भव मां रक्ष ते भयात् ॥ ७॥
दैत्येशं संस्तुवन्तं तं दृष्ट्वा शान्तिं समादधे ।
कमलं गणराजस्य हस्तगं प्रबभूव ह ॥ ८॥
ममासुरः प्रसन्नात्मा काव्येन विघ्ननायकम् ।
जगाम तं प्रणम्यैव पुपूजे भक्तिसंयुतः ॥ ९॥
पुनः प्रणम्य विघ्नेशं कृत्वा करपुटं प्रिये ।
तुष्टाव हर्षसंयुक्तो ज्ञात्वा तं ब्रह्मनायकम् ॥ १०॥
ममासुर उवाच ।
विघ्नेशाय नमस्तुभ्यं सर्वसत्ताप्रचालिने ।
अनादये परेशाय ब्रह्मेशाय नमो नमः ॥ ११॥
गणेशाय गणानां तु चालकाय परात्मने ।
आनन्दाय सदानन्ददायकाय नमो नमः ॥ १२॥
हेरम्बायैकदन्ताय शूर्पकर्णाय ढुण्ढये ।
लम्बोदराय वै तुभ्यं भक्तपाल नमो नमः ॥ १३॥
स्वानन्दपतये तुभ्यं योगाकारस्वरूपिणे ।
शान्तिभ्यः शान्तिदात्रे ते शान्तिस्थाय नमो नमः ॥ १४॥
ज्येष्ठराजाय पूज्याय सर्वेषां सर्वनायक ।
विनायकाय देवानां दैत्यानां पालकाय ते ॥ १५॥
आदिपूज्याय चान्ते ते अवशिष्टाय ते नमः ।
सिद्धिबुद्धिपते तुभ्यं चतुर्भुज नमो नमः ॥ १६॥
शेषस्योपरिसंस्थाय नागेशध्वजधारिणे ।
गजाननाय देवेश नमो दैत्येशरूपिणे ॥ १७॥
भक्तानां विघ्नहन्त्रे ते ह्यभक्तानां विनाशिने ।
योगिनां समभावाय हृदिस्थाय नमो नमः ॥ १८॥
नानाभेदमयं ब्रह्मासद्रूपं वेदवादतः ।
भेदहीनं च सद्रूपं तयोः साम्ये त्वमञ्जसा ॥ १९॥
समस्वानन्दसंस्थो यः को जानाति च तं प्रभुम् ।
विघ्नराजं प्रपश्यामि प्रत्यक्षं ब्रह्मनायकम् ॥ २०॥
तेनाऽहं कृतकृत्यश्चाऽधुना जातो न संशयः ।
धन्यं मे जन्म कर्मादि येन दृष्टो गजाननः ॥ २१॥
किं स्तौमि त्वां गणेशान यत्र वेदादयः प्रभो ।
शान्तिं प्राप्ता विशेषेण योगिनस्ते नमो नमः ॥ २२॥
एवं ममासुरः स्तुत्वा ननर्तासौ सुभाग्यवान् ।
रोमाञ्चितशरीरश्च साश्रुनेत्रः सुरूपिणि ॥ २३॥
तमुवाच महाभक्त्या युतं विघ्नप्रनायकः ।
वरं ब्रूहि महाबाहो दास्यामि स्तोत्रतोषितः ॥ २४॥
त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
सकामेभ्यो विशेषेण नानाकामप्रदायकम् ॥ २५॥
निष्कामेभ्यो महामोक्षदायकं प्रभविष्यति ।
(Page खं. ७ अ. ९ पान १८)
मम भक्तिप्रदं चैतन् मम भावहरं सदा ॥ २६॥
विघ्नेशवचनं श्रुत्वा तं प्रणम्य ममासुरः ।
जगाद भक्तिसंयुक्तो विघ्नराजं कृताञ्जलिः ॥ २७॥
ममासुर उवाच ।
यदि प्रसन्नभावेन वरं दास्यसि विघ्नप ।
तव भक्तिं स्थिरां देहि मायानाशकरीं प्रभो ॥ २८॥
गाणपत्यसहावासं देहि नाथ निरन्तरम् ।
स्थानं भक्ष्यादिकं ढुण्ढे तत्र स्थास्यामि यन्त्रितः ॥ २९॥
दासोऽहं ते गणाधीश नान्यं याचे वरं परम् ।
तव दर्शनमात्रेण ज्ञानयुक्तोऽहमञ्जसा ॥ ३०॥
विघ्नेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति ममासुर ।
गाणपत्यप्रियत्वं च योगयुक्तो भविष्यसि ॥ ३१॥
स्वस्थाने निर्भयो भूत्वा तिष्ठ त्वं मत्परायणः ।
स्वधर्मविधिहीनं त्वं कर्म भुङ्क्ष्व जनैः कृतम् ॥ ३२॥
यत्रादौ पूजनं मे न स्मरणं वा ममासुर ।
मम भावेन सम्मोह्य राज्यं कुरु हृदि स्थितः ॥ ३३॥
मद्भक्तान् दासवन्नित्यं रक्षस्व स्नेहभावतः ।
मम भावविहीनांश्च कुरु मे ममतायुतान् ॥ ३४॥
एवं विघ्नेश्वरस्यैव श्रुत्वा वचनमुत्तमम् ।
ममासुरस्तं तथेति प्रहृष्टो वाक्यमब्रवीत् ॥ ३५॥
प्रणम्य तं ममो दैत्यः स्वस्थाने प्रजगाम ह ।
शान्तिं धृत्वा गणेशानं भजते सर्वभावतः ॥ ३६॥
दैत्यास्तं त्यज्य सर्वे तु भययुक्ता विशेषतः ।
पातालं विविशुः सद्यः सोऽपि हर्षयुतोऽभवत् ॥ ३७॥
एवं ममासुरं शान्तं चकार विघ्ननायकः ।
स्वाधीनं कृत्य तं स्थाने स्थापयामास मानिनि ॥ ३८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तिवर्णनं नामाष्टमोऽध्यायः ॥ ७.८
७.९ क्षेत्रवर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः ।
प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ १॥
पूज्य तं हृष्टरोमाणः पुनः प्रणम्य भावतः ।
तुष्टुवुर्विघ्नराजं ते बद्धाञ्जलय आदरात् ॥ २॥
देवर्षय ऊचुः ।
साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् ।
आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ ३॥
सर्वात्मकं बिम्बमथो विधाय तेनैव द्वन्द्वं रचितं गणेश ।
सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ ४॥
भेदैर्विहीनं परमप्रमेयं साक्षिमयं कृत्य विनायकत्वम् ।
तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ ५॥
ढुण्ढे त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च ।
(Page खं. ७ अ. ९ पान १९)
उत्थानरूपं त्वमपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ ६॥
त्वन्मायया मोहयुते परेशे अन्योन्यमादौ मिलिते प्रकाशिन् ।
तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ ७॥
त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार ।
तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ ८॥
ताभ्यां मिलित्वा रचितं गणेश विश्वं चतुष्पादमयं पुराणम् ।
तत्रैव ते नाथ प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ ९॥
एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिन् ।
तद्भावशून्योऽसि गजानन त्वं तं विघ्नराजं सततं भजामः ॥ १०॥
एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज भासि ।
साङ्ख्यस्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ ११॥
दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर साङ्ख्यसंस्थः ।
उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ १२॥
स्वानन्दवासी गणनायकस्त्वमानन्दरूपोऽसि वदन्ति वेदाः ।
द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ १३॥
नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन ।
लक्ष्यः सदानन्दघनप्रकाशस्तं विघ्नराजं सततं भजामः ॥ १४॥
स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बमाद्यं प्रणमामहे त्वाम् ।
तेनैव तुष्टो भव देवदेव तं विघ्नराजं सततं भजामः ॥ १५॥
सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्रमुख्याः प्रभुदासभूताः ।
तत्रैव ते ध्यानमपारमेवं तं विघ्नराजं सततं भजामः ॥ १६॥
तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः ।
तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ १७॥
देहस्त्वसद्ब्रह्ममयश्च तेऽयं सद्रूपतुण्डं गजवाचकं ते ।
योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ १८॥
कर्याननं त्वां प्रवदन्ति तेन सन्तः सदा योगमयं हृदिस्थम् ।
सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ १९॥
ब्रह्माऽहमेवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति ।
त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ २०॥
सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव ।
स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ २१॥
अङ्घ्रिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति ।
विघ्नेशनामाऽसि ततस्त्वमेव तं विघ्नराजं सततं भजामः ॥ २२॥
एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः ।
वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ २३॥
कश्यप उवाच ।
एवं स्तुत्वा गणाधीशं प्रणेमुरमरर्षयः ।
तुष्टस्तानब्रवीद्देवो विघ्नेशो ब्रह्मणां पतिः ॥ २४॥
विघ्नेश उवाच ।
देवर्षयो वरान् ब्रूत महाभागा हृदीप्सितान् ।
दास्यामि स्तोत्रतुष्टोऽहं भक्त्या स्वाधीनतां गतः ॥ २५॥
भवत्कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् ।
(Page खं. ७ अ. ९ पान २०)
यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ २६॥
विद्यामायुर्धनं धान्यं यशो धर्मं तथार्थकम् ।
कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥ २७॥
पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् ।
विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥ २८॥
मारणोच्चाटनाद्यं चानेन सिद्धं भविष्यति ।
परकृत्यप्रशमनं भवेच्च मरणादिकम् ॥ २९॥
कारागृहादिजा पीडा नश्येदनेन निश्चितम् ।
सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥ ३०॥
एकविंशतिवारं चैकविंशति दिनानि च ।
पठेद्वा शृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥ ३१॥
मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् ।
अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥ ३२॥
एवं गणपतेर्वाक्यं श्रुत्वा तममरर्षयः ।
प्रणम्य देवमूचुस्ते वचनं भक्तिसंयुताः ॥ ३३॥
देवर्षय ऊचुः ।
यदि प्रसन्नतां यातो विघ्नेशस्ते पदाम्बुजे ।
भक्तिं देहि विशेषेण वरं नान्यं वृणीमहे ॥ ३४॥
ममासुरस्त्वया नाथ शान्तियुक्तः कृतो महान् ।
तेन स्वस्थानगाः सर्वे भविष्यन्ति दिवौकसः ॥ ३५॥
मुनयः कर्मकर्तारो जनाः स्वधर्मसंयुताः ।
भविष्यन्ति गणाध्यक्ष वृणीमहि किमप्यहो ॥ ३६॥
कृतं त्वया वराणां यत् कार्यं विघ्नविदारण ।
तथेति तानथोक्त्वाऽसौ देवेशोंऽतर्दधे प्रिये ॥ ३७॥
देवा मुनिगणैः सार्धं तं प्रणम्य विशेषतः ।
खेदयुक्ता गणाध्यक्षं स्थापयामासुरादरात् ॥ ३८॥
हिमाचलस्य मध्ये तत् स्थानं विघ्नपतेः परम् ।
सम्पूर्णमुत्तरदिशि सर्वसिद्धिप्रदायकम् ॥ ३९॥
भाद्रशुक्लचतुर्थ्यां तु मध्याह्ने स्थापितः परः ।
विघ्नेशो मुनिभिः सार्धं देवैः सर्वसुखावहः ॥ ४०॥
मध्ये विघ्नपतिः साक्षाद्वामे सिद्धिः स्थिता स्वयम् ।
बुद्धिश्च दक्षिणाङ्गे तु नागेशः पुरतः स्थितः ॥ ४१॥
क्षेत्राणि पृष्ठभागे च प्रयागादीनि मानदे ।
संस्थितानि प्रसेवार्थं विघ्नराजस्य नित्यदा ॥ ४२॥
वामे शुम्भुमुखा देवा दक्षिणाङ्गे मुनीश्वराः ।
पुरतो गणराजस्य सेवन्ते तं सुलोचने ॥ ४३॥
असुरा नागमुख्याश्च गन्धर्वाप्सरसस्तथा ।
नानासिद्धगणास्तत्र वसन्ति सेवनोत्सुकाः ॥ ४४॥
गङ्गाद्याः सरितस्तत्र भक्तियुक्ता वसन्ति च ।
अन्ये नाना जना देवि वसन्ति भक्तिकारकाः ॥ ४५॥
दशयोजनविस्तारं क्षेत्रस्य मुख्यभावतः ।
चतुरस्रं महाक्षेत्रं ज्ञातव्यं स्वसुखप्रदम् ॥ ४६॥
तत्र गणेशतीर्थं तु सर्वसिद्धिप्रदायकम् ।
जन्तवे स्नानमात्रेण भुक्तिमुक्तिप्रदं भवेत् ॥ ४७॥
अन्येषां विष्णुमुख्यानां तत्र तीर्थानि योगिनाम् ।
स्थितानि स्नानमात्रेण स्वस्वसायुज्यदानि तु ॥ ४८॥
अन्यदेवादिकानां ये भक्ताः क्षेत्रे मृता यदि ।
ते सर्वे शुक्लगत्या च ब्रह्मभूता भवन्ति वै ॥ ४९॥
यात्रां तत्र प्रकुर्वन्ति भक्ता भाद्रपदे प्रिये ।
शुक्लपक्षे चतुर्थ्यां वै महोत्सवपरायणाः ॥ ५०॥
क्षेत्रवासिजनाः सर्वे देवर्षिगणसंयुताः ।
परस्परं विशेषेण बोधयन्ति गजाननम् ॥ ५१॥
(Page खं. ७ अ. १० पान २१)
विघ्नराजचरित्राणि कथयन्ति परस्परम् ।
साश्रुनेत्रा भवन्त्येते भक्त्या विघ्नेश्वरस्य च ॥ ५२॥
यस्मिन् कस्मिन् दिने देवि यात्रां कुर्वन्ति मानवाः ।
इह भुक्त्वाऽखिलान् भोगानन्ते मुक्तिमवाप्नुयुः ॥ ५३॥
ये तत्र विघ्नराजं तु नमन्ति मनसीप्सितम् ।
लब्ध्वा सुखयुताः सर्वे भवन्ते नात्र संशयः ॥ ५४॥
यत्र कुत्र स्थिता देवि भक्ता विघ्नेश्वरस्य च ।
ब्रह्मभूता न सन्देहो दर्शनात् पावना नृणाम् ॥ ५५॥
मानुषं देहमाप्यैव न पश्येद्विघ्ननायकम् ।
पशुतुल्यः स विज्ञेयो जन्म तस्य निरर्थकम् ॥ ५६॥
एवं खण्डेषु सर्वेषु द्वीपेषु क्षेत्रमुत्तमम् ।
विघ्नराजस्य विप्रेशैः कृतमुत्तरदिग्भवम् ॥ ५७॥
ब्रह्मभूयप्रदं क्षेत्रं वैघ्नेशं च चतुष्पदम् ।
तस्य किं वर्णनं कुर्यां यत्र वेदा विसिस्मिरे ॥ ५८॥
सङ्क्षेपेण मया प्रोक्तं क्षेत्रमाहात्म्यमुत्तमम् ।
विस्तरेण न कोऽप्येतद्वर्णयितुं क्षमो भवेत् ॥ ५९॥
एवं विघ्नेश्वरो देवो नानाऽवतारकारकः ।
भक्तानां रक्षणार्थायाभक्तानां हरणाय च ॥ ६०॥
अवतारा असङ्ख्याता विघ्नेशस्य महात्मनः ।
तेषां चरित्रकं वक्तुं न समर्थोऽहमञ्जसा ॥ ६१॥
इदं ममासुरस्यैव शमनं कथितं मया ।
चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ ६२॥
शृणुयाद्यः पठेद्वाऽपि भयं तस्य ममात्मकम् ।
न भवेदीप्सितं सर्वं लभेद्ब्रह्म सनातनम् ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते ममासुरशान्तियुक्तविघ्नेशचरित-
क्षेत्रवर्णनं नाम नवमोऽध्यायः ॥ ७.९
७.१० विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दितिरुवाच ।
श्रुत्वा ब्रह्मप्रदं पूर्णं सर्वसिद्धिप्रदायकम् ।
चरितं विघ्नराजस्य न तृप्ताऽहं मुनीश्वर ॥ १॥
अहो विघ्नपतिः साक्षाद्ब्रह्मभूतो न संशयः ।
मया ज्ञातोऽधुना नाथ तव वाक्याद्विशेषतः ॥ २॥
अवतारान् वद स्वामिन् विघ्नेशस्य महात्मनः ।
मुख्यानपारकेषु त्वं तारयस्व भवार्णवात् ॥ ३॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी कश्यपो हर्षसंयुतः ।
समालिङ्ग्य प्रियां दक्ष जगाद वचनं हितम् ॥ ४॥
धन्याऽसि दक्षपुत्रि त्वं येन विघ्नेश्वरे रतिः ।
जाता ते सार्थकं सर्वं करिष्यसि न संशयः ॥ ५॥
विघ्नेशेन महादेवि सृष्टं ब्रह्म ह्यसन्मयम् ।
सद्रूपं तत्र बिम्बेन मायाभ्यां संस्थितः प्रभुः ॥ ६॥
ततस्ताभ्यां मिलित्वा वै सृष्टं च द्विविधं परम् ।
स्वतः परत उत्थानं ततः सोऽहं च बिन्दुकम् ॥ ७॥
ततश्चतुर्विधं देवि विश्वं सृष्टं विशेषतः ।
(Page खं. ७ अ. १० पान २२)
स्थूलसूक्ष्मसमात्माख्यमेकानेकादिसंयुतम् ॥ ८॥
एवं नानाविधं ब्रह्म विश्वं नानाविधं पुरा ।
आनन्देन विहीनत्वाद्बभौ व्यापारवर्जितम् ॥ ९॥
स्वस्वक्रियां प्रचक्रुर्वै न तत्र मोहयुक्तता ।
हीनता न तथा तानि खेदयुक्तानि सम्बभुः ॥ १०॥
तैस्तपो घोररूपं तु कृतं विघ्नेश्वरस्य वै ।
ध्यात्वा ब्रह्ममयं रूपमेकाक्षरविधानतः ॥ ११॥
दिव्यवर्षसहस्रे तु गते तु विघ्ननायकः ।
हृदि तेषां प्रसन्नोऽभूत् प्रकटश्च बभूव ह ॥ १२॥
नरकुञ्जरयुक्तं यद्दर्शयामास रूपकम् ।
दृष्ट्वा तं हर्षितानि ब्रह्माणि वै नेमुरन्तरे ॥ १३॥
विघ्नेशकृपया तेषां तद्रूपज्ञानजोऽमलः ।
बोधो बभूव तेनैव तुष्टानि स्म भजन्ति तम् ॥ १४॥
ततो विष्णुस्वरूपेण विघ्नेशो वरदोऽभवत् ।
आगत्य तान् उवाचाथ वरान् वृणुत सर्वपः ॥ १५॥
ततो ब्रह्माणि तं दृष्ट्वा विस्मितानि बभूविरे ।
विघ्नेशकृपया तेषां ज्ञानं तस्य बभूव ह ॥ १६॥
बिम्बात्मकश्च सर्वत्र विघ्नेशोऽयं प्रतापवान् ।
स्वमहिम्नि स्थितः सोऽपि गजवक्त्रादिचिह्नितः ॥ १७॥
ततो हर्षयुतान्येवं प्रणेमुर्भक्तिभावतः ।
नत्वा पूज्य महाविष्णुं तुष्टुवुस्तं सुलोचने ॥ १८॥
ब्रह्माण्यूचुः ।
विघ्नेशाय नमस्तुभ्यं गरुडध्वजिने नमः ।
चतुर्भुजाय सर्वेषां पतये वै नमो नमः ॥ १९॥
चक्रपाणे रमेशाय परात्परतराय च ।
हेरम्बाय विकुण्ठस्य नाथाय ते नमो नमः ॥ २०॥
स्वानन्दवासिने तुभ्यं गजाननाय ढुण्ढये ।
अपाराय महेशानसुताय तु नमो नमः ॥ २१॥
काश्यपाय च शेषस्य पुत्राय भक्तवत्सल ।
दैत्यदानवनाशाय शार्ङ्गिणे ते नमो नमः ॥ २२॥
गदाधराय देवाय वासुदेवाय देवप ।
धर्मस्थापनकाराय ब्रह्मणे ते नमो नमः ॥ २३॥
सदसन्मयरूपाय चानन्दपदधारिणे ।
समाय सर्वभावेषु शाश्वताय नमो नमः ॥ २४॥
नमो वागतिरूपाय देहदेहिप्रचारिणे ।
बोधाय च विदेहाय विष्णवे ते नमो नमः ॥ २५॥
किं स्तुमस्त्वां परेशान यत्र वेदा विकुण्ठिताः ।
योगिनस्तु महाभाग प्रसन्नो भव ते नमः ॥ २६॥
ब्रह्माणि एवं स्तुत्वा च प्रणेमुस्तं जनार्दनम् ।
तान्युत्थाप्य जगाद स्वयं विष्णुर्हर्षसंयुतः ॥ २७॥
विष्णुरुवाच ।
भवत्कृतं मदीयं च स्तोत्रं भुक्तिप्रदं भवेत् ।
मुक्तिदं शृण्वते ब्रह्मदायकं पठते सदा ॥ २८॥
ब्रह्माणि यद्यदिच्छेत तत्तद् वृणुत सत्वरम् ।
दास्यामि तपसा तुष्टः स्तोत्रेणानेन निश्चितम् ॥ २९॥
ब्रह्माण्यूचुः ।
देह्यानन्दमयं नाथ सौख्यं स्वाभाविकं परम् ।
सामर्थ्यं स्वस्वकार्येषु सत्यसङ्कल्पसम्भवम् ॥ ३०॥
तव पादयुगे नाथ भक्तिं देहि विशेषतः ।
योगशान्तिभवं सौख्यं ब्रह्मभूयप्रदायकम् ॥ ३१॥
विष्णुरुवाच ।
भवद्भिः प्रार्थितं सर्वं तत्तत् सर्वं भविष्यति ।
सफलं सर्वभावेन कुरुध्वं कार्यमुत्तमम् ॥ ३२॥
योगशान्तिं प्रवक्ष्यामि ब्रह्मभूयप्रदायिनीम् ।
ब्रह्माणि भक्तियुक्तानि शृणुध्वं योगसेवनात् ॥ ३३॥
(Page खं. ७ अ. ११ पान २३)
पञ्चचित्तमयीं बुद्धिं तत्र भ्रान्तिकरीं पराम् ।
सिद्धिं जानीत सर्वत्र तयोः स्वामी गजाननः ॥ ३४॥
सम्प्रज्ञातमयो देहो सम्प्रज्ञातात्मकं शिरः ।
गजरूपं तयोर्योगे देहधारी बभूव ह ॥ ३५॥
संयोगाख्यो गकारश्च णकारो योगगः स्मृतः ।
तयोर्योगे गणेशोऽयं नामाऽभून्नात्र संशयः ॥ ३६॥
स्वसंवेद्येन योगेन दर्शनं जायते परम् ।
गणेशस्य च तेनाऽयं स्मृतः स्वानन्दवासकः ॥ ३७॥
असच्छक्तिश्च सद्भानुः समोहं नेति शङ्करः ।
चतुर्णां ब्रह्मणां योगे स्वानन्दः कथ्यते बुधैः ॥ ३८॥
स्वानन्दो मायया युक्तः संयोगात् ब्रह्मणां मतः ।
अयोगो ब्रह्मणां मायया हीनो व्यतिरेकतः ॥ ३९॥
संयोगाऽयोगयोर्योगे गणेशः शान्तिरूपधृक् ।
तं भजध्वं विशेषेण हृदि चित्तप्रचालकम् ॥ ४०॥
तेन च ब्रह्मभूतानि भविष्यथ न संशयः ।
ब्रह्माणि कथितं योगं प्रयुङ्ध्वं भक्तिकारणात् ॥ ४१॥
यद्यच्च क्रियते तत्त्वैर्जगद्रचनकादिकम् ।
भवद्भिस्तद्गणेशाय समर्प्य सकलाः क्रियाः ॥ ४२॥
एवमुक्त्वा महाविष्णुस्तत्रैवान्तरधीयत ।
ब्रह्माणि तं नमस्कृत्य साधयामासुरञ्जसा ॥ ४३॥
क्रमेण ब्रह्मभूतानि ब्रह्माणि च बभूविरे ।
तानि ब्रह्माणि योगेन गाणेशे दक्षनन्दिनि ॥ ४४॥
तत आनन्दयुक्तानि चक्रुः सर्वं चराचरम् ।
तत्रानन्देन सर्वाणि क्रीडां चक्रुः परस्परम् ॥ ४५॥
एतत्ते कथितं सर्वं चरित्रं देवि शोभनम् ।
विष्णुरूपधरस्यास्य विघ्नराजस्य सर्वदम् ॥ ४६॥
शृणुयाद्यो नरो वाऽपि पठेत्तस्य प्रिये सदा ।
भुक्तिमुक्तिप्रदं पूर्णं सर्वानन्दकरं भवेत् ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते विष्ण्ववतारवर्णनं नाम दशमोऽध्यायः ॥ ७.१०
७.११ लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
एकदा सुखमासीनं नारायणमनामयम् ।
प्रणम्य तं महाभागो विष्वक्सेन उवाच ह ॥ १॥
विष्वक्सेन उवाच ।
वद केशव योगं मे शान्तिदं ते पदप्रदम् ।
संसाध्य विष्णुरूपोऽहं भविष्यामि सुभक्तितः ॥ २॥
श्रीनारायण उवाच ।
नामरूपात्मकं सर्वमसत्यं वेदवादतः ।
जन्ममृत्युयुतं विद्धि ब्रह्म तत्र च तादृशम् ॥ ३॥
सर्वभेदविहीनं यत् परं ब्रह्मात्मवाचकम् ।
अमृतं सत्यमेकं तज्जानीहि योगसेवया ॥ ४॥
तयोर्योगे समं ब्रह्म सदानन्दमयं परम् ।
विष्णुरूपं समाख्यातं जानीहि भक्तिभावतः ॥ ५॥
तदेव विघ्नराजाख्यं ब्रह्म वेदे प्रतिष्ठितम् ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ६॥
(Page खं. ७ अ. ११ पान २४)
विष्वक्सेन उवाच ।
कथं विघ्नेश्वरः स्वामिन् विष्णुरूपः प्रकीर्तितः ।
वद मां सर्वशास्त्रज्ञ संशयस्थापनुत्तये ॥ ७॥
श्रीविष्णुरुवाच ।
मायासुखं विजानीहि विघ्नयुक्तं विशेषतः ।
आत्मसौख्यं सदा प्रोक्तं विघ्नहीनं बुधैः पुरा ॥ ८॥
तयोर्योगे गणेशानो विघ्नराजः प्रकीर्तितः ।
सदानन्दमयः सोऽपि योगिभिः सेवितोऽभवत् ॥ ९॥
गणः समूहरूपश्च समूहा ब्रह्मवाचकाः ।
बाह्यान्तरादियोगेन ज्ञायन्ते योगिभिर्ध्रुवम् ॥ १०॥
गणेशानस्य बिम्बं यत् पतितं मायया युतम् ।
तदेव शिवविष्ण्वादि वाचकं प्रबभूव ह ॥ ११॥
अतो गणेशरूपा वै वयं सर्वे कलांशतः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ १२॥
कश्यप उवाच ।
विष्णोर्वचनमाकर्ण्य विष्वक्सेनः प्रणम्य तम् ।
जगाद भक्तिसंयुक्तो वचनं दक्ष पुत्रिके ॥ १३॥
विष्वक्सेन उवाच ।
नाऽहं भजामि विघ्नेशं तव भक्तिपरायणः ।
त्वत्तः परतरं नास्ति वदसे किं जनार्दन ॥ १४॥
एवमुक्त्वा स्वयं विष्णुं तं प्रणम्य ययौ प्रिये ।
वनं योगस्य सिद्ध्यर्थं तताप तप आदरात् ॥ १५॥
आनन्दं सर्वभावेषु विष्णुं धृत्वा स्वयं हृदि ।
जजाप मन्त्रराजं स इदं विष्णुस्तु ऋग्भवम् ॥ १६॥
निराहारपरो भूत्वा विष्वक्सेनः प्रतापवान् ।
तपश्चकार तद्भक्त्या वैष्णवानां शिरोमणिः ॥ १७॥
ततो वर्षशते पूर्णे प्रसन्नो गणनायकः ।
ददौ योगं समाख्यं तु तस्मै भावधरः प्रभुः ॥ १८॥
स्वयं संयोगरूपं तं दृष्ट्वा संहर्षितोऽभवत् ।
ततो हृदि गणेशानं ददर्श लक्ष्मीसंयुतम् ॥ १९॥
दृष्ट्वा खेदसमायुक्तो विष्णुं चिन्त्य महायशाः ।
मन्त्रं जजाप तत्रैव गणेशमवलोकयन् ॥ २०॥
क्षणं नारायणं लक्ष्म्या युक्तं ददर्श चेतसि ।
क्षणाद्विघ्नेश्वरं सोऽपि विस्मितः प्रबभूव ह ॥ २१॥
तपसोऽतिप्रभावेण शुद्धचित्तो बभूव ह ।
त्यक्त्वाभिमानजं मोहं विचारमकरोत् हृदि ॥ २२॥
मायामयं शरीरं तु मायाहीनं च मस्तकम् ।
गजाकारं तयोर्योगे देहधारी गणेश्वरः ॥ २३॥
अस्य बिम्बं सदा मोहयुतं देवि विनिश्चितम् ।
विष्णुः समस्वभावस्थो लक्ष्म्यायुक्तो विशेषतः ॥ २४॥
स्वमहिम्नि स्थितो देवः सिद्धिबुद्धिसमन्वितः ।
मायाखेलकरः सोऽपि लक्ष्मीपतिरुदाहृतः ॥ २५॥
विष्णुना बोधितोऽहं तु पूर्वकालेऽभिमानतः ।
अबुध्यं नैव तद्रूपं वृथा पण्डितको यथा ॥ २६॥
अहो योगसमं किञ्चिन्न दृष्टं नैव संश्रुतम् ।
यस्य सेवनमात्रेणाभिमानो नाशमेष्यति ॥ २७॥
एवं विचार्य देवेशं गणेशं ध्यानसंयुतः ।
ध्यात्वा पुपूज भावेन मानस्या पूजया स तु ॥ २८॥
ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ।
वरान् दातुं समायातो विष्वक्सेनाश्रमे प्रिये ॥ २९॥
ध्यानस्थो न बुबोधैव समागतं गजाननम् ।
विष्वक्सेनस्ततश्चित्रं चकार विघ्ननायकः ॥ ३०॥
हृदिस्थं गणनाथं स लोपयामास तत्क्षणात् ।
(Page खं. ७ अ. ११ पान २५)
ततोऽतिविह्वलः सोऽपि तं ददर्श बहिः स्थितम् ॥ ३१॥
लक्ष्म्यायुक्तं गणाधीशं दृष्ट्वा हर्षसमन्वितः ।
उत्थाय तं प्रणम्याऽऽदौ विष्वक्सेनः पुपूज ह ॥ ३२॥
पूजयित्वा पुनर्देहं प्रणम्य साश्रुलोचनः ।
तुष्टाव भक्तिसंयुक्तः कृताञ्जलिर्गजाननम् ॥ ३३॥
विष्वक्सेन उवाच ।
विघ्नेशाय नमस्तुभ्यं भक्तविघ्नविनाशिने ।
विघ्नदात्रे सुनाथाय ह्यभक्तेभ्यो नमो नमः ॥ ३४॥
लक्ष्मीपते नमस्तुभ्यं सिद्धिबुद्धिवराय च ।
स्वानन्दवासिने देव विकुण्ठस्थाय ते नमः ॥ ३५॥
केशवाय परेशाय चक्रपाणे गदाधर ।
हेरम्बाय नमस्तुभ्यं परशोर्धारकाय च ॥ ३६॥
दशरथसुतायैव वासुदेवाय ते नमः ।
शिवपुत्राय देवेश वरेण्यसूनवे नमः ॥ ३७॥
योगाकाराय नाथाय योगानां शान्तिदायिने ।
कर्त्रे हर्त्रे सदा पात्रे गणेशाय नमो नमः ॥ ३८॥
शेषशायिन्नमस्तुभ्यं नाभिशेषाय ते नमः ।
सर्पयज्ञोपवीताय लम्बोदराय शाश्वते ॥ ३९॥
नानाखेलकरायैव नानामायाप्रचालक ।
खेलहीनाय देवानां सहायाय नमो नमः ॥ ४०॥
असुराणां विनाशायासुरभ्यो वरदायिने ।
ढुण्ढिराजाय भक्तेश भक्तिप्रियाय ते नमः ॥ ४१॥
गणेशाय गणानां तु चालकाय परात्पर ।
नारायणाय कृष्णाय मेघश्यामाय ते नमः ॥ ४२॥
मायायुक्ततया नाथ विष्णुरूपोऽसि सर्वदा ।
स्वमहिम्नि स्थितस्त्वं तु गणेशस्ते नमो नमः ॥ ४३॥
अतो गणेश ते नाम विष्णुर्वेदेषु कथ्यते ।
यो विष्णुः स हि विघ्नशो नान्तरं विद्यते कदा ॥ ४४॥
एवं स्तुत्वा गणेशानं प्रणनाम महामतिः ।
जगाद विष्वक्सेनं च तं देवो विघ्ननायकः ॥ ४५॥
श्रीविघ्नेश उवाच ।
वरान् वरय मत्तस्त्वं विष्वक्सेन महामते ।
तव दास्यामि भक्त्याऽहं तुष्टः स्तोत्रेण मानद ॥ ४६॥
त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठते शृण्वते चैव सर्वसिद्धिप्रदायकम् ॥ ४७॥
कश्यप उवाच ।
गणेशवचनं श्रुत्वा विष्वक्सेनस्तमब्रवीत् ।
कृत्वा करपुटं भक्त्या नम्रकन्धर आदरात् ॥ ४८॥
विष्वक्सेन उवाच ।
यदि प्रसन्नतां यातस्तदा देहि गजानन ।
भक्तिं ते पादपद्मे मे शान्तियोगं प्रयच्छ च ॥ ४९॥
जगाद गणराजस्तु श्रुत्वा तं हर्षयन्निव ।
मदीया भक्तिरुग्रा ते भविष्यति न संशयः ॥ ५०॥
विष्णुसङ्गतियोगेन शान्तियोगमवाप्स्यसि ।
यद्यदिच्छसि तत्तत्ते सफलं चाऽस्तु सर्वदा ॥ ५१॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो भक्तियन्त्रितः ।
विष्वक्सेनो जगामैव विकुण्ठं विष्णुमानमत् ॥ ५२॥
वृत्तान्तं कथयामास श्रुत्वा संहर्षितोऽभवत् ।
केशवस्तूत्तमं तस्मै महायोगं जगाद च ॥ ५३॥
साधयित्वा यथान्यायं योगिवन्द्यो बभूव ह ।
विष्वक्सेनो गणेशानमभजद्भक्तिसंयुतः ॥ ५४॥
गुरुरूपं महाविष्णुं देवरूपं गणेश्वरम् ।
(Page खं. ७ अ. १२ पान २६)
धृत्वा हृदि महातेजा योगध्यानपरोऽभवत् ॥ ५५॥
इदं लक्ष्मीगणेशस्य कथितं ते चरित्रकम् ।
सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विरघ्नराजचरिते लक्ष्मीविनायकचरितवर्णनं नामैकादशोऽध्यायः ॥ ७.११
७.१२ शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
मधुकैटभनाशार्थं विष्णुना तपसा पुरा ।
आराधितो गणेशानस्तद्भक्त्या योगसेवया ॥ १॥
ततः प्रसन्नतां यातो विघ्नेशः प्रददौ वरान् ।
तैर्युक्तः स जघानैव दैत्यौ परमदारुणौ ॥ २॥
गणेशवरदानेन यशोयुक्तो जनार्दनः ।
तं जेतुं कः क्षमो देवि प्रभविष्यति ते सुतः ॥ ३॥
अतस्त्यक्त्वा स्वपुत्रेषु ममतां भज भावतः ।
विघ्नेशं योगिनां तेन वन्द्या त्वं प्रभविष्यसि ॥ ४॥
यादृशं गणराजेन रचितं त्रिविधं पुरा ।
तादृशं वर्तते सर्वं सदेवासुरमानुषम् ॥ ५॥
कश्यपस्य वचः श्रुत्वा हर्षयुक्ता दितिः पुनः ।
जगाद तं सुखार्थाय योगिवन्द्यं प्रजापते ॥ ६॥
दितिरुवाच ।
विघ्नराजावतारस्य चरितं पुनरादरात् ।
वद मे मुनिमुख्य त्वं ज्ञानं तस्य तथा परम् ॥ ७॥
कश्यप उवाच ।
धर्मघ्नस्य च पुत्रोऽभूद्यज्ञध्रुङ्नामकोऽसुरः ।
स शैवीं साधयामासोपासनां पापनिश्चयः ॥ ८॥
पञ्चाक्षरविधानेन तोषयामास शङ्करम् ।
दिव्यैर्वर्षसहस्रैस्तं वरदः शङ्करो ययौ ॥ ९॥
स्तुतः सम्पूजितस्तेन प्रसन्नस्तमुवाच ह ।
वरान् वरय दास्यामि तपसा तोषितोऽसुर ॥ १०॥
स वव्रे त्रिगुणेभ्यो मे मरणं न भवेत् कदा ।
राज्यमारोग्यसंयुक्तं ब्रह्माण्डस्य च देहि भोः ॥ ११॥
यद्यदिच्छामि देवेश तत्तन् मे सफलं भवेत् ।
तथेति तं जगादैव शङ्करोंऽतर्हितोऽभवत् ॥ १२॥
ततः स्वगृहमागत्य दैत्यराजो बभूव ह ।
यज्ञध्रुक् सैन्यमादाय जिग्ये ब्रह्माण्डमोजसा ॥ १३॥
देवाः शम्भुमुखाः सर्वे प्रपेलुश्च दिशो दश ।
तेषां पदेषु दैत्येन्द्रान् स्थापयामास यज्ञहा ॥ १४॥
ततो यज्ञविनाशार्थं यतते स्म विशेषतः ।
यज्ञहा क्रोधसंयुक्तो मुनीन् सर्वानताडयत् ॥ १५॥
त्यक्त्वा मुनिगणा यज्ञान् प्रपेलुर्भयसंयुताः ।
वर्णसङ्करभावं च चकार सचराचरम् ॥ १६॥
ततो विष्णुविनाशार्थं यतते स्म महाखलः ।
देवानां मूलनाशार्थं दैत्यः परमदारुणैः ॥ १७॥
यज्ञो विष्णुः समाख्यातो वेदेषु वेदवादिभिः ।
यज्ञनाशे स्वयं नष्टो भविष्यति जनार्दनः ॥ १८॥
(Page खं. ७ अ. १२ पान २७)
एवं विचार्य दैत्येशो यज्ञान् सर्वान् बभञ्ज ह ।
यज्ञहीनं चकारैव त्रैलोक्यं सचराचरम् ॥ १९॥
ततो विष्णुः क्षुधाविष्टो बभूवे देवसंयुतः ।
अस्थिचर्मावशेषश्च सस्मार गणनायकम् ॥ २०॥
रक्ष मां गणनाथ त्वं दैत्यात् परमदारुणात् ।
मरिष्यामि न सन्देहो यज्ञनाशप्रभावतः ॥ २१॥
देवैः सार्धं महाविष्णुस्तताप तप उत्तमम् ।
एकाक्षरविधानेन तोषयामास विघ्नपम् ॥ २२॥
गते वर्षशते पूर्णे तं ययौ गणनायकः ।
स्तुतः सम्पूजितः सर्वैः प्रसन्नो वरदोऽभवत् ॥ २३॥
तैर्वृतो दैत्यनाशार्थं तथेति क्रोधसंयुतः ।
तान् जगाद ययौ हन्तुं यज्ञघ्नं देवपैर्वृतः ॥ २४॥
कृत्वा युद्धं महाघोरं जघानाङ्कुशघाततः ।
यज्ञघ्नं मुक्तिगं चक्रे दैत्यान् पातालगामिनः ॥ २५॥
ततः स देवसंयुक्तो विष्णुर्मुनिगणैस्तथा ।
तुष्टाव सुस्थिरो भूत्वा पूज्य नत्वा कृताञ्जलिः ॥ २६॥
श्रीविष्णुरुवाच ।
नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे ।
महाविघ्नप्रशान्ताय देवदेवेश ते नमः ॥ २७॥
अनादये परेशाय सर्वाऽऽदौ संस्तुताय च ।
सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ २८॥
विनायकाय सर्वेषां नायकाय परात्पर ।
ढुण्ढिराजाय वेदादिढुण्ढिताय नमो नमः ॥ २९॥
सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने ।
आनन्दायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥ ३०॥
गणानां पतये तुभ्यं नानागणसुरूपिणे ।
सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ॥ ३१॥
ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च ।
इन्द्रादिदेवरूपाय कलया ते नमो नमः ॥ ३२॥
मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे ।
पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥ ३३॥
नागाय सुररूपाय राक्षसाय विहारिणे ।
चराचरमयायैव शूर्पकर्णाय ते नमः ॥ ३४॥
त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे ।
पाशाङ्कुशधरायैव हेरम्बाय नमो नमः ॥ ३५॥
नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय ।
अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाथ धाम्ने ॥ ३६॥
किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः ।
विसिस्मिरे सुशान्तिस्थाः शान्तिरूपाय ते नमः ॥ ३७॥
यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् ।
रक्षिताः सर्वभावेन प्राणदातर्नमो नमः ॥ ३८॥
भक्तिं देहि गणाधीश तव पादाम्बुजेऽमलाम् ।
तया वयं च योगेश बन्धहीना भवामहे ॥ ३९॥
एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः ।
तांस्तथेति जगादैवांऽतर्दधे शूर्पकर्णकः ॥ ४०॥
तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् ।
पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥ ४१॥
स्वस्वाचारसमायुक्तं बभूव ह चराचरम् ।
एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥ ४२॥
अवतारा असङ्ख्याता विघ्नराजस्य शोभने ।
तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥ ४३॥
सङ्क्षेपेण मया तस्याऽवताराः कथिताः पराः ।
(Page खं. ७ अ. १३ पान २८)
भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि ॥ ४४॥
रजोयुक्तं यथा धान्यं रजोहीनं करोति च ।
नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥ ४५॥
तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते ।
त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥ ४६॥
शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् ।
ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥ ४७॥
ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत् ।
तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ॥ ४८॥
शूर्पकर्णावतारस्य कथितं चरितं मया ।
यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥ ४९॥
य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः ।
स मानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते शूर्पकर्णावतारवर्णनं नाम द्वादशोऽध्यायः ॥ ७.१२
७.१३ दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
कश्यप उवाच ।
एकदा माघमासे तु मकरस्थे दिवाकरे ।
तीर्थानि देवविप्राद्याः प्रयागं जग्मुरादरात् ॥ १॥
सर्वे संहृष्टभावस्था माघस्नानपरायणाः ।
ओङ्कारगणनाथं ते पुपूजुर्भक्तिसंयुताः ॥ २॥
ततः शूलभृतं पूज्य तत्रस्थं माधवं प्रिये ।
त्रिवेणीं भावसंयुक्ताः कथां चक्रुः पुरातनीम् ॥ ३॥
भ्रमंस्तत्राऽऽजगामैव दत्तो योगीन्द्रसत्तमः ।
अवधूतस्य मार्गस्य प्रकाशक उदाहृतः ॥ ४॥
गाणेशं ब्रह्मपं ब्रह्म परं सर्वार्थदायकम् ।
ओङ्कारगणनाथं स प्रणम्य स्तोत्रमारभत् ॥ ५॥
तत् दृष्ट्वा परमाश्चर्यमाययुस्तं शिवादयः ।
योगिनः कश्यपाद्याश्चाऽन्ये देवादय आदरात् ॥ ६॥
तं प्रणम्य स्थिताः सर्वे योगीन्द्रं ब्रह्म तत्परम् ।
गणेशभजने सक्तं दृष्ट्वा पप्रच्छुरादरात् ॥ ७॥
शिवादय ऊचुः ।
भगवन् सर्वतत्त्वज्ञ ब्रह्मभूतपरायण ।
साक्षाद्ब्रह्मशरीरस्त्वं समागतो यदृच्छया ॥ ८॥
अवधूतस्य मार्गस्य प्रकाशार्थं विशेषतः ।
देहधारी भवान्नाथ पावनाय शरीरिणाम् ॥ ९॥
तव दर्शनमात्रेण कृतकृत्या वयं प्रभो ।
जाताः कुलयुताः स्वामिन् बोधयस्व मुनीन् सुरान् ॥ १०॥
एवं विनयसंयुक्तैः स्तुतः पृष्टो महामुनिः ।
जगाद तान् महाभागान् हर्षेण महताऽऽवृतः ॥ ११॥
दत्तात्रेय उवाच ।
ब्रह्मविष्णुशिवाद्याश्चाङ्गिराद्या मुनयोऽमलाः ।
शेषाद्या नागराजाश्च शृणुध्वं मे वचो हितम् ॥ १२॥
ब्रह्मेदं सर्वमाभाति तं भजध्वं हिताय वः ।
समर्था ब्रह्मभूताश्च भविष्यथ न संशयः ॥ १३॥
तस्य तद्वचनं श्रुत्वा पुनः सर्वे जगुर्वचः ।
हर्षेण योगिवन्द्यं तं कृत्वा करपुटं प्रिये ॥ १४॥
(Page खं. ७ अ. १३ पान २९)
शिवाद्या ऊचुः ।
ब्रह्मणि ब्रह्मभूतस्त्वं गणेशं भजसे कथम् ।
नामरूपधरं देवमोङ्काराकृतिधारकम् ॥ १५॥
अस्माकं कुलदेवोऽयं त्रिगुणात्मशरीरिणाम् ।
मूलभूतो न सन्देहो योगिनां कथमञ्जसा ॥ १६॥
तेषां तद्वचनं श्रुत्वा स्मयमानो महायशाः ।
दत्तो जगाद हर्षेण ज्ञानदानार्थमादरात् ॥ १७॥
दत्त उवाच ।
गणेशो ब्रह्मणां नाथो वेदेषु परिकीर्तितः ।
ब्रह्म नानाविधं तद्वत् कथितं मायया युतम् ॥ १८॥
अन्नं ब्रह्मेति देवेशा मुनयः शृणुत प्रियाः ।
तत्रान्नमयरूपा तु माया मोहकरी बभौ ॥ १९॥
प्राणो ब्रह्मेति तत्रैव प्राणाकारविमोहिनी ।
माया मनोमयी तद्वन् मनो ब्रह्मणि संस्थिता ॥ २०॥
विज्ञानं ब्रह्म तत्रेयं माया विज्ञानरूपिणी ।
आनन्दं ब्रह्म यत् प्रोक्तं युतमानन्दमायया ॥ २१॥
चैतन्यं ब्रह्म यत् प्रोक्तं माया चेतनरूपिणी ।
बिन्दुब्रह्मेति तत्रैव माया बिन्दुमयी बभौ ॥ २२॥
सोऽहं ब्रह्मेति यत्रेयं माया सोऽहं प्रकाशिनी ।
बोधो ब्रह्मेति बोधाख्या माया तत्र विमोहिनी ॥ २३॥
विदेहं ब्रह्म यत् प्रोक्तं माया वै देहरूपिणी ।
तया तत्र महादेवा भ्रमन्ति ब्रह्ममानिनः ॥ २४॥
कर्म ब्रह्मेति कर्माख्या माया तत्र विमोहिनी ।
ज्ञानं ब्रह्मेति तद्वत्तु ज्ञानमायायुतं बभौ ॥ २५॥
समं ब्रह्मेति तत्रैव माया समस्वरूपिणी ।
सहजं ब्रह्म यत् प्रोक्तं सहजाख्यविकारदम् ॥ २६॥
असद्ब्रह्मेति यत् प्रोक्तं तत्रासन्मायया युतम् ।
सद्ब्रह्मेति सदाकारमायायुक्तं प्रकीर्तितम् ॥ २७॥
सदसन्मयभावाख्यं ब्रह्म प्रोक्तं मुनीश्वराः ।
उभयात्मविकारेण ज्ञातव्यं संयुतं सदा ॥ २८॥
अव्यक्तं ब्रह्म यत् प्रोक्तं युतमव्यक्तमायया ।
स्वसंवेद्यं परं ब्रह्म युतं स्वानन्दमायया ॥ २९॥
आत्माद्वयैकसर्वाख्याद्याः शब्दाः परिकीर्तिताः ।
महावाक्यादिभिस्ते तु तत्तन्मायाप्रकाशकाः ॥ ३०॥
शिवविष्णुमुखाः शब्दा ब्रह्मवाच्याः प्रकीर्तिताः ।
तत्तद्विकारसंयुक्तान् जानीत देवसत्तमाः ॥ ३१॥
पृथ्वी जलादितत्त्वानि ब्रह्मणां वाचकानि तु ।
तत्तद्विकारयुक्तानि जानीत देवसत्तमाः ॥ ३२॥
एवं नानाविधान्येव ब्रह्माणि कथितानि च ।
वेदादिषु समस्तानि मायामोहयुतानि तु ॥ ३३॥
तेषां स्वामिस्वरूपेण तिष्ठति ब्रह्मणस्पतिः ।
ब्रह्मणां पातृभावाच्च पालयितृत्वकारणात् ॥ ३४॥
स एवायं गणाध्यक्षो वेदेषु कथितोऽभवत् ।
ब्रह्मभूयमयः साक्षात्तं भजामि द्विजोत्तमाः ॥ ३५॥
उत्पत्तिनाशहीनं यद् गजाख्यं ब्रह्म चक्षते ।
साङ्ख्यं शिरो गणेशस्य गजानन इति स्मृतः ॥ ३६॥
भूमिसाधनभावेन भवेत् ब्रह्मणि तन्मयः ।
देहस्तस्य च योगाख्यो नानाभूमिप्रधारणात् ॥ ३७॥
तयोर्योगे गणेशानो देहधारी बभूव ह ।
साङ्ख्ये योगमयः साक्षात् पूर्णशान्तिप्रदायकः ॥ ३८॥
संयोगेऽयं गकाराख्यो ह्ययोगे णमयः स्मृतः ।
तयोरीशो गणेशानो नामाऽयं वेदवादतः ॥ ३९॥
(Page खं. ७ अ. १३ पान ३०)
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गं बभूव ह ।
पञ्चभ्रान्तिकरी सिद्धिर्वामाङ्गं तस्य सर्वदा ॥ ४०॥
तयोः स्वामी गणाध्यक्षो मायाभ्यामत्र खेलति ।
चित्ते चिन्तामणिः साक्षात् प्रकाशकारकस्तयोः ॥ ४१॥
समोहं चित्तमुत्सृज्य योगीन्द्रो जायते नरः ।
तं भजामि विशेषेण चित्तचालनकारकम् ॥ ४२॥
कृतानि सिद्धिबुद्धिभ्यां ब्रह्माणि सकलानि वै ।
तानि त्यक्त्वा कथं ब्रह्म लभ्यते मानवैः परम् ॥ ४३॥
अतोऽयं देहभृद्भूत्वा भक्तमार्गप्रदायकः ।
सुलभत्वाय देवेशा परो जानीत संस्थितः ॥ ४४॥
तस्य तद्वचनं श्रुत्वा वसिष्ठस्तमुवाच ह ।
संशयस्य विनाशार्थं सर्वैः सम्प्रेरितो वचः ॥ ४५॥
वसिष्ठ उवाच ।
ब्रह्म ब्रह्मैव वेदेषु कथितं सर्वसम्मतम् ।
ब्रह्मणस्पतिरेकोऽयं पतिस्तत्र कथं मुने ॥ ४६॥
पतिरूपा महामाया गणेशे संस्थिताऽभवत् ।
यथाऽन्नादिविकारस्थं ब्रह्म तद्वदयं मतः ॥ ४७॥
वसिष्ठस्य वचः श्रुत्वा दत्तो हर्षसमन्वितः ।
जगाद तं विशेषज्ञं योगीन्द्रः परमार्थवित् ॥ ४८॥
अन्नप्राणादियुक्तानि ब्रह्माणि रचितानि तु ।
गणेशेन महायोगिंस्तेनायं पतिरुच्यते ॥ ४९॥
ब्रह्मभिः कथितश्चायं पतिस्तेषां न संशयः ।
स्वयं ब्रह्मैव तन्नाशे तथाऽपि पातृभावतः ॥ ५०॥
अन्नप्राणादिकान्येव विकारान् सन्त्यजन्ति च ।
ब्रह्माणि ब्रह्मभूतानि भविष्यन्त्यस्य सेवनात् ॥ ५१॥
ब्रह्माणि ब्रह्मणि यदि चेद्गतानि महामुने ।
पतिः केषां गणेशानः कथ्यते कैर्वदाशु मे ॥ ५२॥
अतो मायाविकारेण हीनोऽयं गणनायकः ।
ब्रह्मैवोपास्यभावात्तु पतित्वं कथनात्मकम् ॥ ५३॥
इति तस्य वचः श्रुत्वा पुनस्तं नारदोऽब्रवीत् ।
योगीन्द्रं भावबोधार्थमवधूतमकल्मषम् ॥ ५४॥
नारद उवाच ।
गणेशे त्वं महायोगिंस्तदाकारो न संशयः ।
अहं दत्तोऽयमेकश्च गणेशः कुत्र वर्तते ॥ ५५॥
न भिन्नश्चेन् महाभाग भजसे कं पुरः स्थितम् ।
इमं मे संशयं छिन्धि सर्वज्ञोऽसि महामते ॥ ५६॥
दत्त उवाच ।
देहोऽयं नरतुल्यो मे करोति कर्म नित्यदा ।
शुभाशुभं विशेषेण नामरूपविकारतः ॥ ५७॥
ब्रह्म सर्वत्र विप्रेश तन्मयं नात्र संशयः ।
सत्ता न्यूनाधिका भाति विचारय विचक्षण ॥ ५८॥
ब्रह्मणस्पतिशब्दाख्या सत्ता गणपतौ स्थिता ।
नान्यत्र शम्भुविष्ण्वादि भावेषु पश्य मानद ॥ ५९॥
अतः प्रत्यक्षचित्तस्थं ब्रह्म विघ्नेशवाचकम् ।
दृष्ट्वा तन्न भजेत् कोऽपि ब्रह्मभूयपरः कथम् ॥ ६०॥
अतो देहधरोऽहं तु ब्रह्माकारो गणेश्वरः ।
तं भजामि विशेषेण देहचेष्टापरायणः ॥ ६१॥
देहः क्रियात्मकः प्रोक्तश्चित्तं चिन्तनकारकम् ।
स्वभावेन यथाऽन्यद्वै करोति चिन्तनादिकम् ॥ ६२॥
तथा गणेश्वरं मेऽत्र देहश्चित्तं भजेत् ध्रुवम् ।
तयोः प्रकाशकं ब्रह्म कथं भजेद्गजाननम् ॥ ६३॥
ब्रह्म ब्रह्मैव सञ्जातं तदाकारं मदीयकम् ।
देहश्चित्तं भजेत्तं वै स्वप्रकाशकरं सदा ॥ ६४॥
(Page खं. ७ अ. १४ पान ३१)
अनेन योगमार्गेण भजामि गणनायकम् ।
न भिन्नोऽहं गणेशानात् कं पृच्छसि विचारय ॥ ६५॥
यथा करोमि नित्यं तु भक्षणादिकमादरात् ।
तथा गणेश्वरं तात भजामि भक्तिसंयुतः ॥ ६६॥
नाऽहं भोक्ता स्वदेहस्थस्तथा मां विद्धि देहगम् ।
न भक्तं गणराजस्य देहधर्मः प्रवर्तते ॥ ६७॥
ब्रह्मणि ब्रह्मभूतो यो न भजेद्गणनायकम् ।
तथाऽपि देहचित्तेऽन्यत् करिष्यतः स्वभावतः ॥ ६८॥
न मुख्यो ब्रह्मभूतेषु योगिषु भक्त उच्यते ।
श्रेष्ठस्तस्माद्गणेशानं भजामि हर्षसंयुतः ॥ ६९॥
अनायासेन चित्तस्थं देहस्थं ब्रह्म प्राप्य यः ।
दृष्ट्वा तं न भजेत् सोऽपि ब्रह्मघ्नः परिकीर्तितः ॥ ७०॥
गणेशं मूर्तिगं दृष्ट्वा योगेशं शान्तिदायकम् ।
कस्य योगिजनस्यात्र प्रीतिः सद्यो न जायते ॥ ७१॥
इति तस्य वचः श्रुत्वा हर्षयुक्ताः शिवादयः ।
नारदाद्याः प्रणेमुस्तं विस्मितास्तस्य चेष्टितैः ॥ ७२॥
जगुस्तं हर्षसंयुक्ता वयं संशयवर्जिताः ।
कृतास्त्वया महाभाग एकमार्गपरायणाः ॥ ७३॥
नानामतविभेदेन भ्रान्तियुक्ता भ्रमन्ति तु ।
त्यक्त्वा गणेश्वरं पूर्णं सर्वपूज्यं महामुने ॥ ७४॥
भ्रान्तिनाशार्थमत्यन्तं भवान् विघ्नेश्वरेण च ।
निर्मितो योगमार्गज्ञः सर्वशान्तिप्रदायकः ॥ ७५॥
एवं तैः संस्तुतो दत्तः प्रहस्य प्रययौ ततः ।
शिवादयो वसिष्ठाद्याः स्वालयं प्रययुः प्रिये ॥ ७६॥
सर्वसारां समाख्यातां गीतां दत्तमुखाच्च्युताम् ।
पठनाच्छ्रवणान्नृभ्यः शान्तिदां सर्वसिद्धिदाम् ॥ ७७॥
कश्यपस्य वचः श्रुत्वा हर्षिता तं प्रणम्य सा ।
जगाद भावगम्भीरा दितिर्विघ्नेश्वरे रता ॥ ७८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते दत्तगीतावर्णनं नाम त्रयोदशोऽध्यायः ॥ ७.१३
७.१४ दितिवरप्रदानं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दितिरुवाच ।
गणेशस्य महाभाग वदोपासनकं प्रभो ।
तेन विघ्नेश्वरं भक्त्या भजिष्यामि निरन्तरम् ॥ १॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी दित्या तस्यै ददौ मनुम् ।
दशाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ २॥
सा तं प्रणम्य योगीन्द्रं कश्यपं प्रययौ ततः ।
वनं वृक्षादिसंयुक्तं तपस्तत्र तताप वै ॥ ३॥
निराहारेण संयुक्ता गणेशध्यानतत्परा ।
नासाग्रन्यस्तदृष्टिः सा मन्त्रजापं चकार च ॥ ४॥
त्यक्त्वा सर्वां कामनां सा दितिर्विघ्नेश्वरे रता ।
तपः प्रभावयोगेन भ्रान्तिहीनाऽभवद्विधे ॥ ५॥
(Page खं. ७ अ. १४ पान ३२)
पुत्रपौत्रादिके भावे रसहीना बभूव ह ।
योगेप्सुः पूर्णभावेनाऽभजत्तं द्विरदाननम् ॥ ६॥
एवं वर्षसहस्रेण योगभूतिपरायणा ।
शान्तियोगं समासाद्य योगिवन्द्या बभूव सा ॥ ७॥
तथा सा दत्तमार्गं तं दितिः सस्मार चेतसि ।
भक्त्या विघ्नेश्वरं देवी न मुमोच कदाचन ॥ ८॥
ततः प्रसन्नभावेन तां ययौ गणनायकः ।
जगादाऽसौ वरान् ब्रूहि ध्यानस्थां मनसेप्सितान् ॥ ९॥
गणेशवचनं श्रुत्वा दितिर्हर्षसमन्विता ।
उत्थाय तं नमस्कृत्य पूजयामास भक्तितः ॥ १०॥
पुनः प्रणम्य विघ्नेशं सा तुष्टाव कृताञ्जलिः ।
गणेशं दक्ष ते पुत्री दितिः साश्रुमुखाम्बुजा ॥ ११॥
दितिरुवाच ।
नमस्ते विघ्नराजाय भक्तविघ्नविदारण ।
अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥ १२॥
काश्यपाय परेशाय विनायकाय ढुण्ढये ।
लम्बोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥ १३॥
दीनानां पतये तुभ्यं दीनदीनाय ते नमः ।
दीनपालकनाथाय हेरम्बाय नमो नमः ॥ १४॥
परेशाय गणेशाय परात्परतमाय ते ।
परात्पराणां कर्त्रे ते महोदराय वै नमः ॥ १५॥
अनादये च सर्वेषामादिमूर्तिधराय च ।
आदिपूज्याय सर्वेषामन्तःस्थाय नमो नमः ॥ १६॥
शिवपुत्राय विष्णोश्च पुत्राय परमात्मने ।
वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥ १७॥
सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये ।
ज्येष्ठराजतमायैव मात्रे पित्रे नमो नमः ॥ १८॥
ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने ।
ब्रह्मणां ब्रह्मरूपायैकदन्ताय नमो नमः ॥ १९॥
गजाननाय देवायासुराय समभाविने ।
योगाकाराय योगिभ्यो योगदाय नमो नमः ॥ २०॥
किं स्तौमि त्वां गणाधीश शान्तीनां शान्तिरूपिणम् ।
वेदादयः शिवाद्याश्च यत्र शान्तिं प्रलेभिरे ॥ २१॥
अतस्त्वां प्रणमाम्येव सर्वेऽशं तेन विघ्नप ।
सन्तुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥ २२॥
यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् ।
भव स्वामिन् दयासिन्धो तेनाऽहं तारिता त्वया ॥ २३॥
आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन ।
साऽहं कया महाभक्त्या भजिष्यामि निरन्तरम् ॥ २४॥
त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः ।
तव मातुः कथं मायामयो बन्धः कदाचन ॥ २५॥
भक्तिं त्वच्चरणे ढुण्ढे देहि नित्यं विशेषतः ।
आसुरीं बन्धहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥ २६॥
एवमुक्त्वा गणाधीशं ननाम दक्षनन्दिनी ।
दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥ २७॥
विघ्नेश उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेत् ।
पठते शृण्वते देवि सर्वसिद्धिप्रदायकम् ॥ २८॥
तव पुत्रो भविष्यामि आसुरीभावनाशकः ।
त्वं भजिष्यसि मां नित्यं भक्त्या भावपरायणा ॥ २९॥
एवमुक्त्वांऽतर्दधेऽसौ विघ्नेशो ब्रह्मनायकः ।
दितिः स्वगृहमागत्य प्रणनाम पतिं स्वकम् ॥ ३०॥
(Page खं. ७ अ. १५ पान ३३)
वृत्तान्तं कथयामास कश्यपो हर्षितोऽभवत् ।
श्रुत्वा तां स समालिङ्ग्य जगाद साश्रुलोचनः ॥ ३१॥
कश्यप उवाच ।
धन्याऽसि कृतकृत्याऽसि सफलस्ते भवो मतः ।
यया दृष्टो गणाध्यक्षः सर्वेभ्यः शान्तिदायकः ॥ ३२॥
अहो ते ससुतो देवि असुर्याः प्रभविष्यति ।
महद्भाग्यं गणाधीशो योगिवन्द्या त्वमञ्जसा ॥ ३३॥
तारितोऽहं त्वया नूनं सुस्त्रिया गणपे रतः ।
धन्यं मे जन्मकर्मादि आसुरी स्वहिते रता ॥ ३४॥
एवमुक्त्वा दितिं विप्रः कश्यपो विरराम ह ।
दितिः प्रणम्य तं विप्रं सेवायां संस्थिताऽभवत् ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते दितिवरप्रदानं नाम चतुर्दशोऽध्यायः ॥ ७.१४
७.१५ चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततः सा गणनाथं तं सस्मार हृदि सर्वदा ।
तन्मयं विश्वमेवेदमालोकयदशेषतः ॥ १॥
एकदा माघमासे तु शुक्लपक्षे गजाननम् ।
पुपूज मध्यगे भानौ चतुर्थ्यां मूर्तिगं परम् ॥ २॥
मूर्तिमध्याद्गणाधीशः प्रकटोभूच्चतुर्भुजः ।
अनन्तसूर्यसङ्काशतेजोयुक्तः प्रजापते ॥ ३॥
तं दृष्ट्वा भयभीता सा सस्मार हृदि कश्यपम् ।
स्वगुरुं तं तथा देवं गणेशं भक्तिसंयुता ॥ ४॥
गुरोः स्मरणमात्रेण गणेशः सौम्यरूपधृक् ।
बालरूपो दितिं देवीं जगाद मेघनिःस्वनः ॥ ५॥
श्रीगणेश उवाच ।
पुत्रोऽहं ते महाभागे वरदानप्रभावतः ।
मा भयं कुरु कल्याणि पश्य मां सौम्यरूपिणम् ॥ ६॥
ततः सोन्मील्य चक्षुस्तं पश्यति स्म भयातुरा ।
बालं चतुर्भुजं देवं शुण्डादण्डधरं परम् ॥ ७॥
परश्वादिमहास्त्रैश्च संयुतं चन्द्रशेखरम् ।
लम्बोदरं चैकदन्तं शेषनाभिसमायुतम् ॥ ८॥
शूर्पकर्णं त्रिनेत्रं तु नानाभूषणभूषितम् ।
अमूल्यवस्त्रसंयुक्तं गले चिन्तामणिं धरम् ॥ ९॥
दृष्ट्वा तं प्रणनामैव कश्यपेन समन्विता ।
तुष्टावाऽऽपूज्य विघ्नेशमथर्वशिरसा विभुम् ॥ १०॥
ततस्तं कश्यपो नत्वा प्रार्थयामास शान्तिदम् ।
बालरूपो भव स्वामिन् येन ते लालनं भवेत् ॥ ११॥
धन्योऽहं कृतकृत्योऽहं मत्समो न प्रविद्यते ।
मम त्वं येन पुत्रोऽभूद्ब्रह्मणां गणनायकः ॥ १२॥
यस्य रोमाञ्चरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ।
कथं स मम पुत्रत्वं प्राप्तोऽसीति विडम्बनम् ॥ १३॥
एवं सम्प्रार्थितस्तेन दित्या सोऽपि तथाऽभवत् ।
चतुर्भुजधरो बालो बभूवे तत्क्षणात् स्वयम् ॥ १४॥
(Page खं. ७ अ. १५ पान ३४)
तं प्रणम्य गणाधीशं कश्यपो हर्षसंयुतः ।
दित्या कर्मपरो भूत्वा ब्राह्मणांश्च समाह्वयत् ॥ १५॥
ततश्चतुर्भुजेनैव मायाऽऽक्षिप्ता तयोर्हृदि ।
पुत्रभावप्रकाशार्थं तथा तौ सम्बभूवतुः ॥ १६॥
स्नापयित्वा दितिर्बालं स्तनपानमकारयत् ।
जातकर्म चकारैव कश्यपो हर्षसंयुतः ॥ १७॥
द्वादशेऽह्नि द्विजास्तत्र नामकर्मार्थमाययुः ।
पूजिताः कश्यपेनैव तमूचुर्हर्षसंयुताः ॥ १८॥
स्वर्गेषु देवपांश्चाऽयं नरान् पृथ्व्यां तथा तले ।
असुरान् नागकूर्मादीन् स्थापयिष्यति बालकः ॥ १९॥
तत्त्वानि चालयन् विप्र तस्मान्नाम्ना चतुर्भुजः ।
चतुर्णां विविधानां च स्थापकोऽयं मतो बुधैः ॥ २०॥
मुद्गल उवाच ।
ततो वर्षे द्वितीयेऽस्य प्रह्लादप्रमुखाः परे ।
प्रपेलुर्हन्यमानास्तैर्देवैर्विष्णुमुखैर्विधे ॥ २१॥
सर्वं त्यक्त्वाऽसुरेशानाः पातालं विविशुर्भयात् ।
देवानां च स्वयं विष्णुः क्रोधयुक्तो बभूव ह ॥ २२॥
इन्द्राद्यैः सहितः सोऽपि सन्नद्धश्चक्रसंयुतः ।
आययौ दैत्यनाशार्थं पातालेषु महाबलः ॥ २३॥
चक्रं तत्याज देवेशस्तेन दैत्या मृता मृधे ।
केचिद् दुःखसमायुक्ताः प्रपेलुश्छिन्नदेहकाः ॥ २४॥
शरणं केशवं चैव केचिज्जग्मुः प्रजापते ।
तथापि तान् महाविष्णुर्जघान क्रोधसंयुतः ॥ २५॥
असुरैर्विगतं विश्वं कर्तुं चैव समुद्यतः ।
दैत्येन्द्रा भयसंयुक्ता दितिं ययुः शरण्यदाम् ॥ २६॥
छिन्नभिन्नकृताङ्गांस्तान् दितिर्दृष्ट्वा शुशोच ह ।
ततः क्रोधयुतः सोऽपि बभूवे गणनायकः ॥ २७॥
तत्याज परशुं तीक्ष्णं देवान् हन्तुं चतुर्भुजः ।
परशोस्तेजसा सर्वं व्याप्तं पातालमण्डलम् ॥ २८॥
व्यर्थरूपाणि शस्त्राणि चक्रादीन्यभवन् मृधे ।
देवा दाहसमायुक्ताः प्रपेलुश्च दिशो दश ॥ २९॥
ततस्तत्र ययौ ब्रह्मा बोधयामास केशवम् ।
पातालं त्यज्य सर्वे ते ययुः स्वर्गं भयान्विताः ॥ ३०॥
परशोस्तेजसा तत्र सन्दग्धा इव देवपाः ।
न शान्तिं प्रलभन्ते स्म हाहाकाररवाकुलाः ॥ ३१॥
ततः शम्भू रविर्ब्रह्मा केशवस्तुष्टुवुः परम् ।
परशुं भयसंयुक्ता देवैर्मुनिगणैः सह ॥ ३२॥
शान्तियुक्तं महास्त्रं तद्बभूवे च प्रजापते ।
ततो देवेन्द्रकाः सर्वे चतुर्भुजं ययुः पुरा ॥ ३३॥
तं प्रणम्य भयोद्विग्ना मुनिभिर्देवनायकाः ।
नत्वाऽऽपूज्य गणेशानं तुष्टुवुः करसम्पुटाः ॥ ३४॥
देवर्षय ऊचुः ।
नमस्ते काश्यपायैव चतुर्भुजाय ढुण्ढये ।
अनादये गणेशाय विघ्नेशाय नमो नमः ॥ ३५॥
परेशाय परेषां च पतये परमात्मने ।
विनायकाय विप्रेभ्यो वरदाय नमो नमः ॥ ३६॥
लम्बोदराय सर्वेषामुदरस्थाय ते नमः ।
महोदराय ज्येष्ठाय ब्राह्मणाय नमो नमः ॥ ३७॥
क्षत्राणां क्षात्रधर्माय वैश्यानां वैश्यरूपिणे ।
शूद्राणां शूद्रधर्माय वर्णहीनाय ते नमः ॥ ३८॥
गृहस्थानां गृहस्थाय ब्रह्मचर्याय सर्वप ।
ब्रह्मचारिस्वरूपाणां वनस्थानां तदात्मने ॥ ३९॥
न्यासिनां न्यासधर्मायाश्रमहीनाय ते नमः ।
चतुर्षु ते पञ्चमाय हेरम्बाय नमो नमः ॥ ४०॥
(Page खं. ७ अ. १५ पान ३५)
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
एकदन्ताय देवायासुराय ते नमो नमः ॥ ४१॥
अनाथानामनाथाय सनाथानां सनाथक ।
ईश्वराणां महेशाय विष्णवे ते नमो नमः ॥ ४२॥
ब्रह्मणे भानवे तुभ्यं शक्तये सर्वरूपिणे ।
देवादिभ्यः प्रदात्रे ते पदानां वै नमो नमः ॥ ४३॥
किं स्तुमस्त्वां चतुर्णां च चालकं स्वभुजैः परम् ।
अतस्त्वां प्रणमामो वै चतुर्भुज प्रसीद नः ॥ ४४॥
एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः ।
स तानुवाच प्रीतात्मा भक्तान् भक्तजनप्रियः ॥ ४५॥
चतुर्भुज उवाच ।
वरान् ब्रूत महादेवा मुनयो मत्त ईप्सितान् ।
दास्यामि स्तोत्रतुष्टोऽहं भवतां भयवर्जिताः ॥ ४६॥
स्तोत्रं भवत्कृतं देवाः सर्वसिद्धिप्रदं भवेत् ।
पठतां शृण्वतां चैव भयनाशकरं परम् ॥ ४७॥
विशेषतः पुत्रपौत्रादिकं सर्वं लभेन्नरः ।
धनधान्यादिकं चान्ते मल्लोकं पठनात् परम् ॥ ४८॥
एवं तस्य वचः श्रुत्वा देवा मुनिसमन्विताः ।
भयहीनाः प्रणेमुस्तं जगुर्हर्षसमन्विताः ॥ ४९॥
देवर्षय ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि चतुर्भुज ।
तदा ते पादपद्मे वै भक्तिरस्तु निरन्तरम् ॥ ५०॥
आज्ञां कुरु महाभाग तथा वर्तामहे वयम् ।
दितिजदैत्यसन्त्रासतापिताः सततं वयम् ॥ ५१॥
चतुर्भुज उवाच ।
अद्य प्रभृति देवेशाः पातालस्थान् महासुरान् ।
मा हिंस्यथ महाभागा मया संस्थापितान् पुरा ॥ ५२॥
स्वर्गेषु चामरस्थानं पृथिव्यां च नृणां सदा ।
पाताले दानवादीनां स्वधर्मस्था भवन्तु ते ॥ ५३॥
यदि भूत्वा विपथगा इमे गर्वेण मोहिताः ।
सिद्धिर्न भविता तेषां मद्वाक्यान्नात्र संशयः ॥ ५४॥
तथेति तं प्रणम्यैव देवाः स्वस्थानमाययुः ।
तदादि दानवान् देवा न जघ्नुः स्थलसंश्रितान् ॥ ५५॥
चतुर्भुजश्च दैत्येन्द्रान् सर्वानाज्ञापयत् प्रभुः ।
ते तथेति तमुच्चार्य हर्षिताः स्वस्थलं ययुः ॥ ५६॥
ततश्चतुर्भुजो देवोंऽतर्दधे च प्रजापते ।
कश्यपो दितिसंयुक्तः शुशोच तमनुस्मरन् ॥ ५७॥
पितरौ वाक्यमूचे सा वाणी चाऽकाशसम्भवा ।
स्थाप्य मूर्तिं गणेशस्य भजतं नित्यमादरात् ॥ ५८॥
तथा चकार दित्या स कश्यपो ब्राह्मणैः सह ।
स्थापयामास मूर्तिं वै चतुर्भुजस्य सर्वदाम् ॥ ५९॥
हृदि चिन्तामणिं ध्यात्वा बहिः पूज्य चतुर्भुजम् ।
संस्थितौ भक्तिसंयुक्तौ दितिकश्यपकौ किल ॥ ६०॥
आसुरं भावमुत्सृज्य दितिर्भक्तिसमन्विता ।
गाणपत्यस्वभावेनाऽभजत्तं तु चतुर्भुजम् ॥ ६१॥
एतच्चतुर्भुजस्यैव चरितं कथितं मया ।
विघ्नराजकलारूपोऽवतारोऽयमुदाहृतः ॥ ६२॥
य इदं शृणुयान् मर्त्यः श्रावयेद्वा पठेत् स तु ।
भुक्तिं मुक्तिं लभेद्ब्रह्म भक्तिं विघ्नेश्वरे पराम् ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते चतुर्भुजावतारविक्रमवर्णनं नाम पञ्चदशोऽध्यायः ॥ ७.१५
(Page खं. ७ अ. १६ पान ३६)
७.१६ चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो बहौ गते काले दैत्येन्द्रा बलसंयुताः ।
देवान् जेतुं प्रसन्नद्धा बभूवुः क्रोधसंयुताः ॥ १॥
प्रह्लादं मुख्यकं कृत्वा ब्रह्मशापेन मोहितम् ।
आययुस्तां प्रणेमुस्ते दितिं कश्यपसंयुताम् ॥ २॥
तानुवाच स्वयं देवी दितिः क्रोधसमन्विता ।
मा गच्छत महादुष्टाः धर्मं सन्त्यज दैत्यपाः ॥ ३॥
चतुर्भुजेन देवेशाः स्थापिताः स्वर्गभूमिषु ।
पातालविवरेष्वत्र यूयं राज्यसमन्विताः ॥ ४॥
प्रणम्य तामनादृत्य दैत्येशा लोभसंयुताः ।
ययुर्देवजयार्थं ते ह्यधर्मेण प्रणोदिताः ॥ ५॥
दितिः कश्यपसंयुक्ता दैत्यानां सुदुरात्मनाम् ।
पक्षं त्यक्त्वा गणेशानमभजद् भक्तिसंयुता ॥ ६॥
एवं वै देवपक्षं सा त्यक्त्वा मुनिसमन्विता ।
अदितिस्तं स्वपुत्रं चाभजद्विनायकं परम् ॥ ७॥
दैवीं प्रकृतिमुत्सृज्य मृन्मूर्तिस्थं विनायकम् ।
योगभावेन भक्त्या तमभजत्प्रेमसंयुता ॥ ८॥
विनताद्यास्तथा दक्ष कश्यपेनोपदेशिताः ।
शान्तियुक्ता गणेशानमभजन् प्रेमसंयुताः ॥ ९॥
दक्ष उवाच ।
दैवीं तु प्रकृतिं त्यक्त्वा तथाऽऽसुरीं महामुने ।
कथं गणेश्वरं भक्त्या भजन्ति वद मानवाः ॥ १०॥
मुद्गल उवाच ।
सकामिकं करोति चेन्नरः कर्म यथाविधि ।
आसुरं तत् समाख्यातं देहसौख्यकरं यतः ॥ ११॥
निष्कामिकं करोति चेन्नरः दैवं प्रकीर्तितम् ।
विधियुक्तं कर्म दक्ष मुक्तिदं तन्मतं बुधैः ॥ १२॥
स्वधर्मस्थैर्जनैः कर्म क्रियते विविधं परम् ।
देहधर्मं समाज्ञाय योगरूपं च तत् स्मृतत् ॥ १३॥
तदेव देवप्रीत्यर्थं कर्म भक्तिमयं मतम् ।
भक्तिभावार्थमानन्दात् सस्त्रीको मुनिराकरोत् ॥ १४॥
एतत्ते कथितं सर्वं विघ्नराजचरित्रकम् ।
सर्वसिद्धिप्रदं पूर्णं शान्तिदं भक्तिकारणम् ॥ १५॥
एवं नानाऽवताराश्च विघ्नराजस्य मानद ।
तेषां चरित्रकं केन वक्तुं नैव प्रशक्यते ॥ १६॥
अयं विघ्नेश्वरो देवः समस्वानन्दगो भवेत् ।
सत्यासत्ये विनिर्माय प्रभुः क्रीडति मायया ॥ १७॥
पूर्णयोगमयश्चायं विघ्नराजः प्रकीर्तितः ।
तस्यार्थं शृणु भावेन ब्रह्मबुद्धिप्रकाशकम् ॥ १८॥
सम्प्रज्ञातमयं ब्रह्माऽसम्प्रज्ञातगतं तथा ।
भ्रमयुक्तं महाविघ्नसंयुक्तं नात्र संशयः ॥ १९॥
भ्रमहीनं तदेवापि विघ्नहीनं प्रकीर्तितम् ।
ब्रह्मणि ब्रह्मभूतं चेन्नोभयं तत्र विद्यते ॥ २०॥
विश्वेषां विघ्नराजोऽयं विघ्नकर्ता प्रजापते ।
विघ्नहर्ता स्वयं साक्षाद्ब्रह्मणां च निरन्तरम् ॥ २१॥
स्वयं विघ्नयुतो नैव विघ्नहीनो न विद्यते ।
एवं ज्ञात्वा नरो ब्रह्मभूतो भवति विघ्नपम् ॥ २२॥
इदं वैघ्नेश्वरं चित्रं चरितं संशृणोति यः ।
पठेद्वा तस्य विघ्नेशः प्रसन्नो जायते सदा ॥ २३॥
प्रसन्ने विघ्नराजेन्द्रे किं किं वै दुर्लभं भवेत् ।
सर्वसिद्धियुतः सोंऽते नरो ब्रह्मैव जायते ॥ २४॥
नानेन सदृशं किञ्चित् पावनं कुत्र वर्तते ।
भुक्तिमुक्तिप्रदं दक्ष चरित्रं संश्रुतं त्वया ॥ २५॥
पञ्चाग्निसाधनादीनि तपांसि विविधानि यः ।
(Page खं. ७ अ. १६ पान ३७)
कुर्यात्तेभ्योऽधिकं पुण्यमस्य श्रवणतो लभेत् ॥ २६॥
तीर्थानि विविधान्येव साधयित्वा फलं लभेत् ।
तेभ्योऽधिकं लभेत् पुण्यं खण्डस्यास्य श्रवान्नरः ॥ २७॥
यज्ञानां साङ्गजातानां फलं तस्मात् प्रजापते ।
अधिकं श्रवणादस्य लभेत् खण्डस्य मानवः ॥ २८॥
इष्टापूर्तादिकं सर्वं यः करोति नरोत्तमः ।
तेभ्योऽधिकं लभेत्तस्य श्रवणान्नात्र संशयः ॥ २९॥
पुत्रपौत्रादिसंयुक्तो धनधान्यादिसंयुतः ।
आरोग्येण नरो युक्तो भवेदस्य तु संश्रवात् ॥ ३०॥
वन्ध्यादिदोषभावेन पीडितो यदि मानवः ।
अस्य श्रवणमात्रेण पीडाहीनो भवेत् सदा ॥ ३१॥
यस्य गेहे स्थितश्चायं खण्डो विघ्नेशभक्तिदः ।
कदा तस्य पिशाचेभ्यश्चौरादिभ्यो भयं न हि ॥ ३२॥
नाग्निभूतं न भूतेभ्यो भयं राजभवं कदा ।
ग्रहेभ्यो राशिसंस्थेभ्यः पूतनादिभयं न च ॥ ३३॥
धर्मार्थकाममोक्षाणां दायकोऽयं प्रकीर्तितः ।
ब्रह्मभूयप्रदः साक्षाच्छ्रवणेन न संशयः ॥ ३४॥
बहुनाऽत्र किमुक्तेन यत्र विघ्नपतिः स्वयम् ।
संस्थितस्तेन सामान्यं भविष्यति किमप्यहो ॥ ३५॥
इति ते कथितं सर्वं विघ्नराजस्य चेष्टितम् ।
भज त्वं सर्वभावेन गणेशं सुखमाप्स्यसि ॥ ३६॥
न श्राव्यं दुर्जनायेदं चरित्रं सर्वसिद्धिदम् ।
साधवे गाणपत्याय श्राव्यं यत्नेन मानद ॥ ३७॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
दक्षो हृष्टमनास्तं तु प्रणनाम कृताञ्जलिः ॥ ३८॥
मया ते कथितं पूर्णं चरित्रं विघ्नपस्य यत् ।
यथा मुद्गलवक्त्राच्च निःसृतं तादृशं परम् ॥ ३९॥
भवतां सङ्गयोगेन पावितोऽहं न संशयः ।
श्रोतुमिच्छसि किं भूयो वद शौनक ते हितम् ॥ ४०॥
विघ्नराजसमं नैव यथा विप्र तथा परम् ।
चरित्रं विघ्नराजस्य सर्वसिद्धिप्रदायकम् ॥ ४१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
सप्तमे खण्डे विघ्नराजचरिते चरितमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ ७.१६
॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे सप्तमः खण्डः समाप्तः ॥
Proofread by Yash Khasbage