मुद्गलपुराणं खण्डः ९ योगचरितम्

मुद्गलपुराणं खण्डः ९ योगचरितम्

॥ मुद्गलपुराणं खण्डः ९॥ ॥ अथ श्रीमुद्गलपुराणे नवमः खण्डः प्रारभ्यते ॥ (Page खं. ९ अ. १ पान १)

९.१ स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ श्रीगणेशशारदागुरुभ्यो नमः । शौनक उवाच । धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् । नानाख्यानसमायुक्तं न तृप्तोऽहं महामते ॥ १॥ अधुना वद दक्षस्य संवादं मुद्गलस्य च । पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये ॥ २॥ सूत उवाच । श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् । हृष्टरोमा प्रजानाथः पुनः पप्रच्छ तं मुनिम् ॥ ३॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च त्वत्तः श्रुत्वा महाद्भुतम् । चरितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् ॥ ४॥ अधुना वद विप्रेश योगं पूर्णपदप्रदम् । अष्टौ विनायकाः प्रोक्तास्तेषां योगे स्वरूपकम् ॥ ५॥ स्वानन्दः कीदृशो योगोऽयोगस्तथैव कीदृशः । सुशान्तिदः पूर्णयोगस्तेषां रूपं सुविस्तरात् ॥ ६॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण हर्षसंयुतः । तं जगाद श‍ृणुष्व त्वं द्विजैः शौनक सौख्यदम् ॥ ७॥ मुद्गल उवाच । स्वानन्दात् स्वेच्छया दक्ष ब्रह्माणि निःसृतानि तु । असत् सत् समनेतीति चत्वारि मायया प्रभोः ॥ ८॥ एकैकाश्रितभावेन सृष्टं तैः सौख्यरूपकम् । ततो बोधस्ततः सोऽहं ततो बिन्दुर्महामते ॥ ९॥ ततश्चतुर्विधं विश्वं स्थूलं सूक्ष्मं समात्मकम् । नाद एतानि ब्रह्माणि मीलितानि परस्परम् ॥ १०॥ निजसत्ताविहीनानि जातानि दैवयोगतः । स्वस्वव्यापारजं भोगं लेभिरे न कदाचन ॥ ११॥ ततस्तैश्च तपस्तप्तं घोरं चित्तैकभावतः । यस्मै कस्मै नमश्चोक्त्वा मूलभूताय सर्वपैः ॥ १२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणपोऽभवत् । हृदिस्थं दर्शयामास मन्त्रमेकाक्षरं स्वकम् ॥ १३॥ तं दृष्ट्वा हर्षयुक्तानि जेपुर्मत्रं ततः परम् । गते वर्षशते पूर्णे दर्शयामास स्वं वपुः ॥ १४॥ नरकुञ्जररूपं तु दृष्ट्वा विस्मितमानसैः । सद्यस्तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकम् ॥ १५॥ ज्ञात्वा स्वानन्दनाथं तं ब्रह्माणि हर्षतः परम् । तमेव हृदये ध्यात्वा जेपुर्मन्त्रं सुसिद्धये ॥ १६॥ वर्षेणैकेन विघ्नेशः सुप्रसन्नो बभूव ह । आययौ वरदानार्थं पुरस्तेषां प्रतापवान् ॥ १७॥ तं दृष्ट्वा तानि ब्रह्माणि तुष्टुवुः पूज्य विघ्नपम् । बद्ध्वा करपुटं दक्ष स्वस्वसामर्थ्यसिद्धये ॥ १८॥ ब्रह्माण्यूचुः । नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय । स्वसंवेद्यरूपाय चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ १९॥ अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय । शिवायाथ त्रैविध्यभावप्रदात्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २०॥ समायाथ मायास्वरूपाय द्वन्द्वप्रकाशाय सर्वात्मकायैव विष्णो । महानन्दरूपाय सर्वातिगाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २१॥ सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने । अनन्ताय भेदादिभिर्वर्जिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २२॥ अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय । महाशक्तये शक्तिरूपाय मोहिन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २३॥ (Page खं. ९ अ. १ पान २) निरोधस्वरूपां समास्थाय बुद्धिं निजानन्दभ्रान्तिप्रदां सिद्धिरूपाम् । प्रविश्यैव तुर्येषु बिम्बात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २४॥ ततः साङ्ख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोधकाय । सदा स्वात्मनिष्ठाय सङ्कल्पहन्त्रे निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २५॥ ततो बोधरूपं विनिर्माय बोधस्वरूपाय मायामयाकारधाम्ने । सदा खेलकायाथ नानाप्रचारिन्निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २६॥ ततो देहिरूपाय निर्माय तं वै सदैकप्रबोधाय भ्रान्तेर्धराय । स्वतो भ्रान्तिहीनाय सोऽहम्प्रदाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २७॥ ततो बिन्दुमात्राय निर्माय बिन्दुं चतुर्धा चतुष्पादरूपेण खेलिन् । अनन्तस्वरूपाय देहप्रचार निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २८॥ ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय । अजायाथ त्रैविध्यदेहस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ २९॥ समास्थाय बाह्यान्तरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन् । तदाकाररूपेण चानन्ददाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३०॥ सदा स्वप्नरूपाय सर्वान्तरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय । विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३१॥ नमस्ते प्रभो स्थूलरूपाय तत्र विनिर्माय जागृत्तदाकाररूप । सदा ह्यन्नभूताय बाह्यात्मकाय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३२॥ गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान् । सदा पादपद्मे रतांस्ते कुरुष्व निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३३॥ गजाकारतुण्डाय लम्बोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम् । त्रिनेत्राय पाशाङ्कुशाद्यैर्युताय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३४॥ नराकाररूपाय कण्ठादधस्तात्तथा ह्येकदन्ताय रक्ताम्बराय । महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३५॥ अनन्तप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणाङ्गे । धृते पूर्णमाये परे देवदेव निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३६॥ स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम् । तथेक्षोः समुद्रे सुलीलाकराय निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३७॥ समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणां ब्रह्मभूतं महात्मन् । तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३८॥ वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबन्धो । नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानन्दयोगाय ढुण्ढे नमस्ते ॥ ३९॥ मुद्गल उवाच । एवं स्तुत्वा गणाधीशं प्रणेमुस्तं प्रजापते । ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥ ४०॥ श्रीगणेश उवाच । वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः । दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥ ४१॥ भवत्कृतमिदं स्तोत्रं मम सन्तोषकारकम् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ ४२॥ (Page खं. ९ अ. २ पान ३) यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः । स भुक्त्वा ह्यखिलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ४३॥ विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् । धनधान्यपशूनां तु दायकं प्रभविष्यति ॥ ४४॥ अङ्गहीनजनानां तु स्वङ्गदं रोगनाशनम् । अलक्ष्मीसङ्कटस्यैव दहनं पाठकारिणाम् ॥ ४५॥ विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् । भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥ ४६॥ षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् । राजबन्धहरं चैव भविष्यति सुसेविनाम् ॥ ४७॥ एकविंशतिवारं चैकविंशति दिनानि यः । पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥ ४८॥ एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विघ्नपम् । प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥ ४९॥ ब्रह्माण्यूचुः । वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् । देहि यया महामोहो नश्यत्यत्र न संशयः ॥ ५०॥ निजव्यापारजं देहि बोधं कथय सर्वप । कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥ ५१॥ सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् । निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥ ५२॥ त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते । भजतां सर्वदातॄणि त्वत्प्रसादान्नमोऽस्तु ते ॥ ५३॥ यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् । सत्यसङ्कल्पजं सौख्यं देहि नो गणनायक ॥ ५४॥ एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः । तथेति तान्यथोक्त्वासावन्तर्धानं चकार ह ॥ ५५॥ अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः । तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥ ५६॥ एतत् सर्वं समाख्यातं स्वसंवेद्यस्य चेष्टितम् । श्रवणात् पठनान्नॄणां सर्वसिद्धिप्रदायकम् ॥ ५७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥ ९.१

९.२ अयोगचरितकथनं नाम द्वितीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना श‍ृणु दक्ष त्वं निवृत्तिरूपधारिणः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ १॥ स्वानन्दः सकलाधारो नानाब्रह्मसु संस्थितः । जगत्सु योगभावेन संयोगेन तदात्मकः ॥ २॥ स नानामायया युक्तो नानाभावपरायणः । भावाभावादिहीनत्वाच्छोभते नित्यमञ्जसा ॥ ३॥ अनन्तकल्पकाले तु गते सन्तोषमादधे । निवृत्तिमिच्छति प्राज्ञो मायाहीनत्वकारणात् ॥ ४॥ जगद्भिर्ब्रह्मभिः सार्धं गणेशमभजत्ततः । संयोगभावनाशार्थं सर्वतो भक्तिसंयुतः ॥ ५॥ एकाक्षरविधानेन पूजयामास तं विभुम् । मन्त्रं जजाप सर्वेशो ध्यात्वा हृदि गजाननम् ॥ ६॥ दक्ष उवाच । स्वसंवेद्यात्मकः प्रोक्तो मन्त्र एकाक्षरो महान् । अयोगगणनाथस्य प्रीतिदः स कथं वद ॥ ७॥ मुद्गल उवाच । शब्दशब्दार्थसंयुक्तो मन्त्रो गणपतेः स्मृतः । स्वसंवेद्यात्मकः प्राज्ञैः सर्वशास्त्रेषु सम्मतः ॥ ८॥ नामैकदेशमात्रत्वात् स एवायोगवाचकः । न तत्र शब्दशब्दार्थौ तयोर्योगादिकं कदा ॥ ९॥ गते वर्षशते तत्र प्रसन्नो गणनायकः । आययौ तं वरान् दातुं निजभक्तसुखप्रदः ॥ १०॥ दृष्ट्वा गजाननं दक्ष प्रहृष्टः सर्वसंयुतः । स्वानन्दः प्रणनामाथ पुपूजे भक्तिसंयुतः ॥ ११॥ दक्ष उवाच । सगुणो देह एतस्य निर्गुणं मस्तकं परम् । तयोरभेदभावेऽयं गजाननो निजात्मकः ॥ १२॥ अयोगे सगुणं नैव निर्गुणं नैव वर्तते । तयोः संयोगरूपं यन्नैव योगीन्द्रसत्तम ॥ १३॥ कथं गजाननश्चायमयोगे वाचकोऽभवत् । छिन्धि मे संशयं पूर्णं वचसा योगभाविना ॥ १४॥ मुद्गल उवाच । सिद्धिर्देहमयी माया बभूवे तस्य भो विधे । नानाभ्रमं परित्यज्य लीना जाता शरीरके ॥ १५॥ नानाज्ञानप्रभावं तु त्यक्त्वा बुद्धिः शिरोऽभवत् । भ्रान्तिधारकभावं सा तल्लीना सम्बभूव ह ॥ १६॥ तयोर्योगे स्वसंवेद्यं ब्रह्म संयोगधारकम् । गजाननाकृतिस्थं तद् बभूवे लीनभावतः ॥ १७॥ सिद्धिबुद्धिविहीनोऽयमयोगे वाचकोऽभवत् । गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः ॥ १८॥ शब्दशब्दार्थसंयोगैस्त्रिभिर्हीनो गजाननः । अयोगे शोभते दक्ष मायाभ्यां वर्जितः सदा ॥ १९॥ अथो श‍ृणु चरित्रं त्वं प्रकृतं शान्तिदायकम् । स्वसंवेद्यः प्रतुष्टाव गणेशं हर्षसंयुतः ॥ २०॥ ससर्वस्वानन्द उवाच । अजं पुराणं परमव्ययं तं निवृत्तिमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकमप्रमेयम् ॥ २१॥ न जारजं स्वेदजमण्डजं न न चोद्भिदं स्थावरजङ्गमं न । अनादिमध्यान्तममोघरूपं नमामि निर्मायिकमप्रमेयम् ॥ २२॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुण्ढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकमप्रमेयम् ॥ २३॥ न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् । न बिन्दुमात्रं न च सोऽहमेव नमामि निर्मायिकमप्रमेयम् ॥ २४॥ न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् । न निर्गुणं नो सगुणं तथा तं नमामि निर्मायिकमप्रमेयम् ॥ २५॥ न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न । न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥ २६॥ असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् । निजात्मरूपं विविधेषु नैव नमामि निर्मायिकमप्रमेयम् ॥ २७॥ (Page खं. ९ अ. २ पान ५) अनन्तरूपं न तथैकरूपं समं न तुर्यं न च पञ्चमं तम् । सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥ २८॥ न चागतं नैव गतं गणेशमयोगरूपं प्रवदन्ति वेदाः । सदा निवृत्तिमयमासमन्तान्नमामि निर्मायिकमप्रमेयम् ॥ २९॥ वचोभिरारात् कथितुं कदाचिदयोगभावान् मनसो न शक्यम् । कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥ ३०॥ न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् । अनन्तपारं गजवक्त्रधारं नमामि निर्मायिकमप्रमेयम् ॥ ३१॥ त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महान्तम् । महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥ ३२॥ न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् । निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥ ३३॥ न भक्तभक्तिप्रियमेव देवं तथापि योगेन निवृत्तिदं तम् । अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥ ३४॥ अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् । जगत्सु नानाविधब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥ ३५॥ समाधिरूपोऽहमचिन्त्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् । भ्रमामि मां रक्ष निवृत्तिदातर्नमामि निर्मायिकमप्रमेयम् ॥ ३६॥ सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् । चतुः पदार्थेषु चरामि भ्रान्त्या नमामि निर्मायिकमप्रमेयम् ॥ ३७॥ सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै । न शान्तिजं सौख्यमणु ह्यविन्दं नमामि निर्मायिकमप्रमेयम् ॥ ३८॥ अनन्तभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश । निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥ ३९॥ नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखाब्धिवासिने । नमश्च हेरम्ब महोदराय ते नमो नमो ब्रह्मपते सुशान्तये ॥ ४०॥ अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुण्ढे । दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥ ४१॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं स्वानन्दः प्रणनाम तम् । भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥ ४२॥ श्रीगणेश उवाच । वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् । मायामायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥ ४३॥ त्वया कृतमिदं स्तोत्रं सर्वशान्तिप्रदं भवेत् । न मायासम्भवं दुःखं प्रलभेत् पाठतो नरः ॥ ४४॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥ ४५॥ एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् । जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥ ४६॥ ससर्वस्वानन्द उवाच । यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् । सुखं नान्यं वरं भ्रान्तिं मायामेतां निवारय ॥ ४७॥ तथेति तमुवाचैव गणेशोंऽतर्दधे ततः । (Page खं. ९ अ. ३ पान ६) स्वानन्दः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥ ४८॥ सस्मारायोगनाथं तं ततश्चित्रं बभूव ह । विश्वानि ब्रह्ममुख्यानि स्वानन्दे लयमाययुः ॥ ४९॥ ततः स्वयं निजानन्दो नष्टस्तत्र बभूव ह । मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥ ५०॥ संयोगमायया हीनो न ददर्श स किञ्चन । स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥ ५१॥ सर्वबन्धविनिर्मुक्तं बभूव स्वस्वरूपकम् । एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥ ५२॥ अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् । न गणेशः स्वसंवेद्यं तेन निर्वृत्तिमाप्नुयात् ॥ ५३॥ यः पठेच्छ्रुणुयाद्वा यो ह्ययोगस्य चरित्रकम् । स भुक्त्वा सकलान् भोगानन्ते निर्वृत्तिमाप्नुयात् ॥ ५४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते अयोगचरितकथनं नाम द्वितीयोऽध्यायः ॥ ९.२

९.३ गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना श‍ृणु दक्ष त्वं पूर्णशान्तिप्रदायकम् । चरितं गणनाथस्य नानायोगेश्वरस्य यत् ॥ १॥ अयोगो मायया हीनः सदा बन्धविवर्जितः । निमग्नश्च ब्रह्मसुखे तिष्ठ नित्यं विशेषतः ॥ २॥ स्वानन्दाख्यं परं ब्रह्म नष्टं गाणेशयोगतः । पुनः सृष्टं गणेशेन पूर्णयोगस्वरूपिणा ॥ ३॥ एवं पुनः प्रनष्टं तत् कालेन बहुना विधे । पुनः सृष्टं पुनर्नष्टं कल्पा एवं गता बहु ॥ ४॥ नित्यं त्वयोगसंस्थः स गणेशो ब्रह्मनायकः । विचारमकरोच्चित्ते दृष्ट्वा स्वानन्दजं भ्रमम् ॥ ५॥ अहो मायाप्रभावेण ब्रह्म स्वानन्दधारकम् । नानाभावयुतं भूत्वा पुनर्भवति नश्यति ॥ ६॥ मायाविहीनभावेनाऽहं सदा मोहवर्जितः । अखण्डयोगसंयुक्तोऽतिष्ठं ब्रह्मपरायणः ॥ ७॥ अविनाशिपदं दत्तं मह्यं केन महात्मना । न ब्रह्म नाशसंयुक्तमविनाशि न विद्यते ॥ ८॥ दक्ष उवाच । अविनाशि समाख्यातं देहिरूपं पुरा त्वया । स्वत उत्थानकेनैव सृष्टं तदेव निश्चितम् ॥ ९॥ स्वसंवेद्यात् परं ब्रह्मायोगरूपं प्रकीर्तितम् । तदेव केन योगीश विनाशि कथ्यते त्वया ॥ १०॥ मुद्गल उवाच । नाशाऽनाशादिभेदाश्च स्वानन्दात् सम्भवन्ति च । भेदाऽभेदादिहीनं तत् स्वसंवेद्यं प्रकीर्तितम् ॥ ११॥ शिष्यस्य बोधदानार्थं योगिनस्तं वदन्ति च । कथितुं नैव शक्यत्वात् किञ्चिद्भेदं प्रजापते ॥ १२॥ अयोगमविनाशाख्यं कथयाम्यधुना परम् । (Page खं. ९ अ. ३ पान ७) नाशरूपं स्वसंवेद्यं बोधार्थं नात्र संशयः ॥ १३॥ अयोगश्चिन्तयाऽऽविष्टो बभूवे बन्धहानतः । निवृत्तिजं सुखं तुच्छं मानयामास चेतसा ॥ १४॥ सदा मायाविहीनत्वं ममास्त्यत्र न संशयः । मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते ॥ १५॥ विचार्य खेदसंयुक्तो योगमार्गपरोऽभवत् । अयोगो हृदि सञ्चिन्त्य तपस्तताप दारुणम् ॥ १६॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः । दर्शयामास मन्त्रं स एकाक्षरं स्वकीयकम् ॥ १७॥ दृष्ट्वा योगो जजापाऽतिहर्षितो मन्त्रमुत्तमम् । ध्यात्वा मन्त्रस्वरूपस्थं गणेशं शान्तिदायकम् ॥ १८॥ ततः स्वल्पेन कालेन रूपं गणपतेः शुभम् । ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः ॥ १९॥ ततोऽतिविस्मितो भूत्वा विचारमकरोत् हृदि । कोऽयं गजाननो देवः स्त्रीभ्यां संशोभते हृदि ॥ २०॥ गणेशकृपया ज्ञानं बभूव तस्य शाश्वतम् । तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्टितम् ॥ २१॥ ततोऽतिहर्षितो भूत्वा ध्यात्वा देवं गजाननम् । मन्त्रं जजाप योगज्ञः शान्तिप्राप्त्यर्थमादरात् ॥ २२॥ स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः । वरदो भक्तवात्सल्यान् महाभक्तस्य भो विधे ॥ २३॥ दक्ष उवाच । आश्चर्यं विप्र वदसि ज्ञायते न मया परम् । रहस्यं तेऽद्य वाक्यस्य योगग्रथितकस्य च ॥ २४॥ अष्टौ विनायकाः प्रोक्तास्ते सर्वे गजवक्त्रिणः । एकदन्तादिचिह्नैश्च संयुक्ता गणपाः किल ॥ २५॥ संयोगस्थं गणेशानं भजतेऽनन्यमानसाः । तेषां हृदि गणेशानः प्रकटो जायते यदा ॥ २६॥ तदा ते विस्मिता भूत्वा न जानन्ति स्वरूपकम् । नित्यं गजाननाः प्राज्ञा गजाननं कथं मुने ॥ २७॥ एकाक्षररहस्यं ते न जानन्ति कथं प्रभो । एकाक्षरस्य भावेन संस्थिता नित्यमञ्जसा ॥ २८॥ तथा संयोगरूपस्थो गणेशो गणनायकम् । मन्त्रयुक्तं न जानाति मन्त्राकृतिधरः कथम् ॥ २९॥ अयोगगणनाथोऽयं गजाननाकृतिं धरन् । समन्त्रो मन्त्रयुक्तं तं न जानाति गणेश्वरम् ॥ ३०॥ कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः । यं न जानन्ति विघ्नेशास्तदाकृतिधरा अपि ॥ ३१॥ संयोगे गणनाथोऽपि सिद्धिबुद्धिसमन्वितः । अयोगे सिद्धिबुद्धिभ्यां हीन एव स वर्ण्यते ॥ ३२॥ पूर्णयोगे गणेशानः संयोगायोगवर्जितः । मायाभ्यां संयुतः प्रोक्तः कथं वद रहस्यकम् ॥ ३३॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया दक्ष रहस्यं परमाद्भुतम् । योगिनां सुखदं पूर्णं शान्तिदं भावितात्मनाम् ॥ ३४॥ एकाग्रचित्तभावेन श‍ृणु तस्य चरित्रकम् । अन्यथा भ्रान्तिसंयुक्तो भविष्यसि निरन्तरम् ॥ ३५॥ यथा विश्वमिदं नित्यं ब्रह्माकारं प्रवर्तते । तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितम् ॥ ३६॥ नामरूपविहीनत्वान् मन्त्रस्तस्य न विद्यते । तपसा युक्तभावेन प्रणवं पश्यति प्रभुम् ॥ ३७॥ सर्वाकारं महाबीजं प्रणवाकृतिरूपिणम् । दृष्ट्वा विस्मयभावेन विचारमकरोत् हृदि ॥ ३८॥ (Page खं. ९ अ. ३ पान ८) तपसा योगभावेन चतुष्पादं जगन्मयम् । जानाति कृपया तस्य मन्त्रराजं जगद्यथा ॥ ३९॥ ततो योगप्रभावेण प्रणवार्थस्वरूपिणम् । देवं सर्वात्मभावस्थं पश्यति विश्वमञ्जसा ॥ ४०॥ दृष्ट्वाऽतिविस्मितं भूत्वा विचारयति चेतसि । तपसा योगभावेन तं जानाति महाप्रभुम् ॥ ४१॥ ततो योगप्रभावेण शान्तिस्थं गणनायकम् । पश्यति वक्रतुण्डाख्यं ब्रह्म स्वानन्दगं परम् ॥ ४२॥ प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः । शिरस्तयोश्च संयोगे गणेशो योगरूपधृक् ॥ ४३॥ योगाकारं महद्रूपं दृष्ट्वा विस्मितमानसम् । विश्वं भक्तिसमायुक्तं भजनार्थं मनो दधे ॥ ४४॥ एतादृशं सुशान्तिस्थं ब्रह्म देहधरं कथम् । भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः ॥ ४५॥ हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः । गजाननो बभूवापि पुनर्दृष्ट्वाऽतिविस्मितम् ॥ ४६॥ तं पश्यति प्रजानाथ कोऽयं भिन्नस्वरूपधृक् । तस्तस्तं तस्य जानाति कृपया योगसेवया ॥ ४७॥ गणेशानं मूर्तिधरं भजतेऽनन्यभावतः । मन्त्रादिना रहस्येन जानीहि विश्वमादरात् ॥ ४८॥ तथा गणेश्वराः प्रोक्ता अष्टौ योगप्रवाचकाः । तेषां हृदि स्थितं ब्रह्म स्वसंवेद्यं न संशयः ॥ ४९॥ महैश्वर्यप्रसंयुक्ता न जानन्ति कदाचन । वयं ब्रह्मस्वरूपाश्च प्रत्येकं मानयन्ति ते ॥ ५०॥ न मत्तः परमं किञ्चिज्ज्ञात्वा मोहसमन्विताः । विश्वात्मनि च विश्वस्मिन् क्रीडायुक्ता बभूविरे ॥ ५१॥ कृत्वा नानाविधं खेलं नानाकल्पपरायणाः । एवं बहौ गते काले शान्तिमिच्छन्ति शाश्वतीम् ॥ ५२॥ ततः क्रीडां विहायैव स्वमहिम्न्यभवन् स्थिताः । तथापि ते पुनर्विश्वप्रवशाः ससृजुः स्वयम् ॥ ५३॥ ततस्ते खेदसंयुक्ता विचारं कुर्वते परम् । केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् ॥ ५४॥ अतः स्वाधीनता नो न विद्यतेऽपि कदाचन । वयं न ब्रह्मरूपाश्च मायामोहयुताः सदा ॥ ५५॥ एवं मनसि सन्धार्य तपश्चेरुः समाधिदम् । तपसा योगसंयुक्ता बभूवुर्नात्र संशयः ॥ ५६॥ क्रमेण गणपाः सर्वे पूर्णयोगस्वरूपिणि । लयं ययुः सुशान्तिस्थाः शान्तरूपे प्रजापते ॥ ५७॥ तत्र विधिं प्रवक्ष्यामि श‍ृणु संशयनाशकम् । योगोऽष्टधा समाख्यातस्तत् स्वरूपं सुयोगदम् ॥ ५८॥ शमो दम आसनं च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा वै ध्यानं समाधिरष्टमः ॥ ५९॥ स्वधर्मयुक्तभावेन मनो नियम्य यत्नतः । यतते ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः ॥ ६०॥ स्वधर्मस्थितिमास्थाय नियमादिस्वभावतः । दमेद्देहं सुशान्त्यर्थं दमस्तेन प्रकथ्यते ॥ ६१॥ स्वस्तिकादीनि भो दक्ष आसनानि विशेषतः । साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतम् ॥ ६२॥ प्राणायामं ततोऽभ्यस्य लघ्वादिकं क्रमेण च । योगार्थं साधयेद्वायुं स प्राणायाम उच्यते ॥ ६३॥ नानाविषयभोगार्थं गच्छन्तीन्द्रियकाणि तु । तेभ्यस्तानि समागृह्य योगयुक्तानि कारयेत् ॥ ६४॥ (Page खं. ९ अ. ३ पान ९) स मनांसि सुशान्त्यर्थं हृत्वा हृत्वा पुनः पुनः । इन्द्रियाणि नरः कुर्यात् प्रत्याहारः स वै स्मृतः ॥ ६५॥ महावाक्यादिभिः प्रोक्तं ब्रह्म शब्दार्थभावतः । सन्धार्य स श्रमेद्दक्ष धारणा सा प्रकीर्तिता ॥ ६६॥ हृदि ब्रह्मावबोधश्च जायते ऐक्यभावतः । स्वस्य तेन समाख्यातं ध्यानं ब्रह्म सुखप्रदम् ॥ ६७॥ ततो ब्रह्मणि सोऽप्येवं लीनः सञ्जायते परे । न ब्रह्म न स्वयं तत्र समाधिः परिकीर्तितः ॥ ६८॥ इदं योगाष्टकं प्रोक्तं योगप्राप्त्यर्थमादरात् । सेविनां ब्रह्मदं पूर्णं भविष्यति न संशयः ॥ ६९॥ तत्र मायायुता जीवा भिन्नदेहधरा मताः । तेषामष्टकमेवं तद्वर्तते साधनात्मकम् ॥ ७०॥ ब्रह्माकाराणि प्रोक्तानि तत्त्वानि विविधानि तु । विश्वरूपाणि सर्वाणि ब्रह्माण्यन्नमुखानि च ॥ ७१॥ तेषां योगः समाख्यातस्त्रिविधो नाऽत्र संशयः । देहादिभावशून्यत्वात् तच्छृणुष्व सुखप्रदम् ॥ ७२॥ धारणाध्यानके दक्ष समाधिः परिकीर्तितः । त्रिभिर्योगं समाराध्य शान्तिगानि भवन्ति तु ॥ ७३॥ स्वस्वब्रह्मणि ये सन्ति भोगा ब्रह्मसुखात्मकाः । तांस्त्यक्त्वा धारयेद्ब्रह्म तपस्तदेव कथ्यते ॥ ७४॥ पूर्णशान्त्यर्थमत्यन्तं ब्रह्माणि सम्भवन्ति चेत् । त्यक्त्वा भोगांस्तपस्तेषां ज्ञातव्यं विबुधैः परम् ॥ ७५॥ मनोवाणीविहीनं न मनोवाणीमयं न च । ब्रह्म वेदेषु विख्यातं तदेव गणनायकः ॥ ७६॥ न तत्र सगुणं दक्ष निर्गुणं नैव वर्तते । गणेशे पश्य वेदेषु योगरूपस्ततः स्मृतः ॥ ७७॥ ब्रह्माणि खेदयुक्तानि पराधीनतया यदा । तपश्चेरुस्तदा तानि विचार्य ब्रह्मप्राप्तये ॥ ७८॥ अतितपोबलेनैव हृदि स्फूर्तिः प्रजायते । योगस्य मन्त्रराजं तं जानीहि ब्रह्मणां विधे ॥ ७९॥ ततो हर्षयुतान्येवानुभवं सस्मरुस्तदा । जपस्तदेव तेषां वै ब्रह्मणां भवति प्रभो ॥ ८०॥ हृदि संस्थं ततो योगं ददृशुस्तानि सर्वदा । तदेव गणराजस्य रूपं तत्र प्रकीर्तितम् ॥ ८१॥ ततस्तल्लीनभावेन तिष्ठन्ति ब्रह्मकानि वै । गणेशस्य कृपा ज्ञेया तत्र सा कथ्यते बुधैः ॥ ८२॥ योग एतादृशं ब्रह्म यदि देहयुतं भवेत् । तदा तं प्रभजिष्यामो नित्यमिच्छन्ति तानि तु ॥ ८३॥ ब्रह्मदेहधरः सोऽपि बभूव भक्तिमोहितः । आययौ वरदानार्थं तेषामग्रे गजाननः ॥ ८४॥ ब्रह्माकाराणि चिह्नानि कथितानि पुरा मया । गणेशस्य स्वरूपे तु तान्यपश्यंश्च तादृशम् ॥ ८५॥ ततस्तानि प्रणेमुस्तं पुपूजुस्तं च नित्यशः । अन्ते योगमयान्येव बभूवुर्नात्र संशयः ॥ ८६॥ एतत्सर्वं समाख्यातं ब्रह्मणां चरितं मया । तपोयोगादिकाचारमन्यच्छृणु प्रजापते ॥ ८७॥ वक्रतुण्डो गणेशानो यदि खेदसमन्वितः । पराधीनतया दक्ष शान्तियोगपरोऽभवत् ॥ ८८॥ तदा तपोयुतः सोऽपि त्रेधा योगार्थमादरात् । श्राम्येत्तेन हृदिस्थं तं लोकयेदेकदन्तकम् ॥ ८९॥ देहेषु ब्रह्मभावेन वक्रतुण्डः स्थितोऽभवत् । तस्माद्देही स्थितः श्रेष्ठो भिन्नाकारः प्रकीर्तितः ॥ ९०॥ अतोऽयं वक्रतुण्डस्तं गजाननं परात्परम् । एकदन्तं न जानाति तत्र भेदं वदाम्यहम् ॥ ९१॥ त्रिगुणाकारदेहश्च तुरीयं मस्तकं मतम् । वक्रतुण्डस्तयोर्योगे बिन्दुब्रह्मप्रवाचकः ॥ ९२॥ चतुर्विधेषु देहेषु मोहयुक्तं च यत् स्मृतम् । सदा भेदविहीनं तज्जीवसंज्ञं प्रकथ्यते ॥ ९३॥ मोहहीनं सदा साक्षिरूपं परात्मधारकम् । एकदन्तस्तयोर्योगे सोऽहम्मात्रात्मकः स्मृतः ॥ ९४॥ जीवो देहस्वरूपस्थः परमात्मा शिरः स्मृतम् । गजाकारं न सन्देह एकदन्तस्य नित्यदा ॥ ९५॥ जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ । विस्मितः स भवेत्तत्र वक्रतुण्डो गजाननः ॥ ९६॥ नानाभेदसमायुक्तो वक्रतुण्डो मयोदितम् । भेदहीनमेकदन्तं दृष्ट्वा पप्रच्छ तं पुनः ॥ ९७॥ हृदिस्थं सोऽहमादौ यद्ब्रह्माकारं प्रकथ्यते । बिन्दोस्तदेकदन्ताख्यं न देहादियुतं कदा ॥ ९८॥ सेवार्थं वक्रतुण्डेन प्रार्थितं हृदि सङ्गतम् । ब्रह्म तदेव भो दक्ष एकदन्तो बभूव ह ॥ ९९॥ यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितम् । तथा ज्ञेयं वक्रतुण्डोऽपि ह्येकदन्तस्वरूपधृक् ॥ १००॥ सगुणं नरसंज्ञस्थं निर्गुणं गजवाचकम् । तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते ॥ १०१॥ सेवार्थं प्रार्थितं सर्वैस्तदेव देहवानभूत् । गणेशो ब्रह्मरूपाख्यो नानाब्रह्मसु संस्थितः ॥ १०२॥ अतो गणेश्वरं दक्ष न जानाति गणेश्वरः । नानामोहसमायुक्तो भ्रान्तिभावात् सुशान्तिदम् ॥ १०३॥ स्वत उत्थान भावे तु देहो बिन्दुमयः स्मृतः । सोऽहं शिरो गजाकारं तयोर्योगे महोदरः ॥ १०४॥ एवं नानाविभेदैश्च नानाब्रह्मपरायणः । गणेश्वरः स्थितस्तेषु गजाननादिचिह्नितः ॥ १०५॥ संयोगे गणनाथस्य स्वत उत्थानकं वपुः । उत्थानं परतस्तस्य मस्तकं नात्र संशयः ॥ १०६॥ अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितम् । वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः ॥ १०७॥ पूर्णयोगे शरीरं तु मतं संयोगवाचकम् । अयोगवाचकं तस्य मस्तकं तु गजाकृति ॥ १०८॥ अविनाशार्थसंयुक्तो गजशब्दः प्रकीर्तितः । अयोगान्न परं ब्रह्माविनाशाख्यं प्रकथ्यते ॥ १०९॥ संयोगायोगभावाख्या भ्रान्तिः सर्वत्र पठ्यते । निरोधचित्ताग्र दक्ष सा सिद्धिः परिकीर्तिता ॥ ११०॥ संयोगायोगभावस्था बुद्धिर्भ्रान्तिधरा मता । तयोः स्वामी गणाध्यक्षः पूर्णयोगप्रवाचकः ॥ १११॥ अहं गणेशरूपश्चेत् संयोगायोगकौ मम । कुतो मायाप्रभावाख्यौ तेन शान्तिं लभेन्नरः ॥ ११२॥ सर्वत्राऽभेदभावेन संयोगात्मा गजाननः । तिष्ठत्यत्र न सन्देहो युतः संयोगमायया ॥ ११३॥ सर्वत्राऽभेदहीनश्च योगरूपो गजाननः । अयोगमायया युक्तस्तिष्ठति व्यतिरेकतः ॥ ११४॥ यदि सर्वात्मकं योगं वदामि गणनायकम् । नानाब्रह्मसुसंस्थं तमन्वयाख्यं तदा विदुः ॥ ११५॥ नागतं न गतं योगं कदाचिच्चेद्गजाननम् । नानाब्रह्मसु मुक्तं तं व्यतिरेकात्मकं जगुः ॥ ११६॥ (Page खं. ९ अ. ४ पान ११) अतश्चित्तलयेनैवाऽहं गणेशो न संशयः । चित्तपञ्चकमुत्सृज्य पूर्णयोगमवाप्नुयात् ॥ ११७॥ तत्र समाधिजं सौख्यं वदामि युक्तिभावतः । गणेशेऽहं तदाकारो भवामि यदि योगतः ॥ ११८॥ तदा संयोगजः प्रोक्तोऽनुभवो योगिनां हृदि । यदाऽहं गणनाथश्चेन्नागतो न गतः कदा ॥ ११९॥ तदा ह्ययोगशः प्रोक्तोऽनुभवः शान्तिदायकः । अतोऽयोगमयो योगः कथं तत्र प्रवर्तते ॥ १२०॥ चित्तं नानाविधं दक्ष संयोगायोगधारकम् । योगे योगात्मकोऽहं च तदा शान्तिः प्रलभ्यते ॥ १२१॥ शान्तीनां शान्तिरूपा सा योगशान्तिः प्रजापते । तस्मात् परं विद्यते न ब्रह्म योगात् सुनिश्चितम् ॥ १२२॥ अतोऽयं गणनाथस्तु ब्रह्मणस्पतिरुच्यते । संयोगाऽयोगकादीनां ब्रह्मणां पातृभावतः ॥ १२३॥ एतत् सर्वं समाख्यातं रहस्यं परमाद्भुतम् । गजाननस्य ते दक्ष प्रकृतं श‍ृणु साम्प्रतम् ॥ १२४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरित्रे गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः ॥ ९.३

९.४ पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः

॥ श्रीगणेशाय नमः ॥ तपसा भक्तिभावेनागतं दृष्ट्वा गजाननम् । अयोगो हर्षितोऽत्यन्तमुत्थाय प्रणनाम तम् ॥ १॥ ततः पूज्य गणेशानं प्रभुं नानोपचारकैः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसम्पुटः ॥ २॥ अयोग उवाच । शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ ३॥ वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ ४॥ वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥ ५॥ त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः । त्वय्येव लीनानि ह्यभिन्नभावाद्योगाय योगाधिपते नमस्ते ॥ ६॥ नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय । वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥ ७॥ स्वानन्दरूपाय सुशान्तिदाय सिद्ध्या च बुद्ध्या सह खेलकाय । वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥ ८॥ अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय । त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥ ९॥ सामान्यरूपाय त्रयीमयाय द्वन्द्वप्रकाशाय च विष्णवे ते । आनन्दनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते ॥ १०॥ आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो । भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥ ११॥ नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते । आनन्त्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥ १२॥ साक्षिस्वरूपाय च साङ्ख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ । बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥ १३॥ बोधस्वरूपाय सङ्ख्याविहारकर्त्रे सदा पालकभावधारिन् । त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥ १४॥ सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय । देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥ १५॥ बिन्दुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् । आनन्त्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥ १६॥ तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय । नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥ १७॥ आनन्दकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् । नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ १८॥ सर्वान्तरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय । हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ १९॥ बाह्यस्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् । स्थूलस्वरूपाय च जागृदास्थ योगाय योगाधिपते नमस्ते ॥ २०॥ विश्वस्यद्वैविध्यमयाय तुभ्यं नानाण्डरूपाय च खेलकाय । शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥ २१॥ एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय । न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥ २२॥ स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् । तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥ २३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं प्रणनाम कृताञ्जलिः । अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥ २४॥ गणेश उवाच । वरान् वृणु महाभाग मनसीप्सितरूपकान् । दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥ २५॥ त्वया कृतमिदं स्तोत्रं योगशान्तिपदप्रदम् । पठतां श‍ृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥ २६॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्रपाठतः । मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥ २७॥ एकविंशतिवारं चैकविंशति दिनावधि । पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥ २८॥ एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् । अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥ २९॥ ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः । जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥ ३०॥ अयोग उवाच । यदि ढुण्ढे वरान् मे त्वं दास्यसि भक्तिमोहितः । तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥ ३१॥ पूर्णयोगस्वरूपस्थं मां कुरुष्व गजानन । (Page खं. ९ अ. ५ पान १३) सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥ ३२॥ मुद्गल उवाच । अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् । जगाद तं गणेशानस्तथेत्यन्तर्हितोऽभवत् ॥ ३३॥ अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः । अन्ते योगमयः सोऽपि बभूवे मोक्षनायकः ॥ ३४॥ इति ते सर्वमाख्यातं चरितं गणपस्य यत् । पूर्णयोगधरस्यापि समासेन प्रजापते ॥ ३५॥ अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः । तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥ ३६॥ अन्ते योगयुतश्चैव ब्रह्मभूतो भविष्यसि । आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषितः ॥ ३७॥ रहस्यं गणनाथस्य कथितं सकलं मया । नान्यत् किञ्चिदतो दक्ष परं वेदादिसम्मतम् ॥ ३८॥ श‍ृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् । अन्ते योगमयो भूत्वा सन्तिष्ठेत् गणपात्मकः ॥ ३९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगचरिते नवमे खण्डे पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः ॥ ९.४

९.५ सार्वभौमयोगो नाम पञ्चमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने । येन गणेशमाहात्म्यं श्रावितं योगदायकम् ॥ १॥ गणेशगीतासारादि कथितं तु विशेषतः । ज्ञानं योगप्रदं पूर्णं सङ्क्षेपेण त्वया परम् ॥ २॥ तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद । योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥ ३॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् । हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥ ४॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल । विभूतिवाचकस्तत्र न चित्रमिदमुत्तमम् ॥ ५॥ त्वया पृष्टं महाभाग लोकोपकारकारकम् । सर्वेषां सुलभत्वेन योगशान्तिपदप्रदम् ॥ ६॥ कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् । श‍ृणुष्वैकमना दक्ष योगं शान्तिप्रदायकम् ॥ ७॥ चित्तं पञ्चविधं प्रोक्तं तेषु पञ्चविधो रसः । सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥ ८॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पञ्चविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥ ९॥ व्यष्टिभावे स्थिता ये तु जन्तवो विविधात्मकाः । लक्षचतुरशीतिषु योनिषु सम्भवाः किल ॥ १०॥ देहभोगादिमार्गेषु कुशलाः सम्भवन्ति ये । तेषु स्वस्वप्रपञ्चेषु नानाकार्यपरायणाः ॥ ११॥ तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा । तत्तत्कार्यप्रकाशेन प्रकाशयति तान् हृदि ॥ १२॥ तेन कार्येषु दक्षास्ते भवन्त्यत्र न संशयः । तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥ १३॥ केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः । मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥ १४॥ त्रिविधेषु विभागेषु स्थिता नानाविभेदतः । नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥ १५॥ लक्षचतुरशीतिषु जन्तवो विविधात्मकाः । व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवन्ति ये ॥ १६॥ ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा । तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥ १७॥ तेषां प्रकाशकं चित्तं नानामूढस्वभावगम् । तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमञ्जसा ॥ १८॥ परैः सम्बोधितो जन्तुर्न बुबोध विचारतः । कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥ १९॥ व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा । नानातपःपरा भूत्वा मुक्तिमिच्छन्ति शाश्वतीम् ॥ २०॥ विषयेषु विरज्यैव सदा ब्रह्मपरायणाः । कुर्वन्ति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥ २१॥ तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः । न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥ २२॥ अतो विक्षिप्तचित्तास्ते मता योगिजनैः पुरा । ब्रह्मार्पणक्रियाः सर्वाः कुर्वन्त्यन्तरबाह्यजाः ॥ २३॥ विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा । विगतक्षेपणं सर्वे नानासाधनभावतः ॥ २४॥ तेषां मुक्त्यर्थमत्यन्तं प्रकाशयति भावनाम् । चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्तितम् ॥ २५॥ तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः । जानाति देवतां तुष्टां ममोपरि न संशयः ॥ २६॥ कदा देवप्रसादादि गृह्य विक्षेपसंयुतः । अनाधारां क्रियां कुयोद्देवाज्ञावशगो मुधा ॥ २७॥ स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा । सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥ २८॥ एवं विक्षिप्तभावेन मोहितः स कदाचन । अनाधारं करोत्येव नानातपःप्रभावतः ॥ २९॥ समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम् । तेन व्यष्टिं समाव्याप्य भुङ्क्ते स विविधं सुखम् ॥ ३०॥ वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसम्मते । तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥ ३१॥ तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च । व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥ ३२॥ समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम् । तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥ ३३॥ चेतनाभावगं पूर्णं तद्वन्नादात्मकं मतम् । अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥ ३४॥ समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो । प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥ ३५॥ समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो । तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥ ३६॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः । अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥ ३७॥ देहेषु मोहितो देही जीव इत्यभिधीयते । (Page खं. ९ अ. ५ पान १५) मोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥ ३८॥ जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः । सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥ ३९॥ तत्र जीवशिवाकारभावप्रकाशकारकम् । चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥ ४०॥ सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै । देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥ ४१॥ चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते । संयोगो बिन्दुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥ ४२॥ चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा । देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥ ४३॥ तत्र चतुष्पदाकारभावप्रकाशकारकम् । चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥ ४४॥ देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः । निरोधं कथ्यते चित्तं बिन्दुधर्मप्रकाशकम् ॥ ४५॥ जीवशिवात्मभावस्थं मोहहीनं सदात्मगम् । ब्रह्म सोऽहं समाख्यातं सदा भ्रान्तिविवर्जितम् ॥ ४६॥ तत्र जीवशिवाकारमोहहीनप्रकाशकम् । चित्तमात्मस्वरूपस्थं निरोधं कथ्यते बुधैः ॥ ४७॥ देहदेहिसमायोगे स्वत उत्थानमुच्यते । बोधाख्यं द्वन्द्वभावेन ब्रह्म खेलकरं सदा ॥ ४८॥ तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् । सङ्क्षेपेण प्रजानाथ श‍ृणु भावसमन्वितः ॥ ४९॥ बाह्यं स्थूलं समाख्यातमान्तरं सूक्ष्मगं मतम् । बाह्यान्तरैकभावस्थमानन्ददेहगं परम् ॥ ५०॥ त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् । अहमानुभवेनैतज्ज्ञातव्यं योगिनां हृदि ॥ ५१॥ तेषां संयोगभावे यच्चतुर्णां वपुषां परम् । सर्वात्मकं भवेद्ब्रह्म पञ्चमं बिन्दुसंज्ञितम् ॥ ५२॥ चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता । अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥ ५३॥ बिन्दुत्यागे निरालम्बं चित्तं भवति सर्वदा । सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥ ५४॥ न किञ्चिज्ज्ञायते यत्र भेदहीनप्रभावतः । सोहं मात्रात्मकं चित्तं निरालम्बसमाधिदम् ॥ ५५॥ अवलम्बनगं चित्तं चतुर्धा देहिसंश्रितम् । अवलम्बनहीनं तद्देहिगं चिन्मयं भवेत् ॥ ५६॥ निरालम्बपरित्यागेऽधिकसंरोधनं भवेत् । चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥ ५७॥ मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् । अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥ ५८॥ अवलम्बनयोगो न पञ्चधा योगिनां हृदि । निरालम्बनकं तस्मान् मनोवाणीविवर्जितम् ॥ ५९॥ बोधेन बुद्ध्यते सर्वं निरालम्बं समाधिना । अवलम्बनकं तद्वद्बोधबोधो न विद्यते ॥ ६०॥ एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् । देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥ ६१॥ देहसौख्यं प्रजानाति देहिसौख्यं निरन्तरम् । तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥ ६२॥ पदानां बोधभावेन पदार्थानां विशेषतः । उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥ ६३॥ सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः । देहदेहि च सृष्ट्वा स खेलति ब्रह्मतत्परः ॥ ६४॥ तत्रोत्थानप्रकाशाख्यं चित्तं निरोधसंज्ञकम् । तिष्ठत्यत्र न सन्देहो ज्ञातव्यं योगिनां हृदि ॥ ६५॥ (Page खं. ९ अ. ५ पान १६) बोधत्यागे समाख्यातं ब्रह्म साङ्ख्यं प्रजापते । कः सङ्ख्यां कुरुते तस्य बोधनाशप्रभावतः ॥ ६६॥ उत्थानवर्जितं ब्रह्म साङ्ख्यं साक्षिस्वभावगम् । बोधहीनात् कदा तत्रोत्थानं नैव प्रजापते ॥ ६७॥ प्रकृतिसम्भवं बोधं तयोः पुरुषसम्भवम् । योगसौख्यं न जानाति साङ्ख्यं बोधविहीनतः ॥ ६८॥ बुद्ध्वा सुखं नरस्यैवोत्थानं यथा प्रजापते । तथा मायासुखं ज्ञात्वा ब्रह्मणोत्थानकं भवेत् ॥ ६९॥ तथा परत उत्थानं साङ्ख्ये नित्यं प्रतिष्ठितम् । तत्र योगं प्रवक्ष्यामि येन योगी नरो भवेत् ॥ ७०॥ यद्युत्थानसमायुक्तं भवति चेत्तदा भवेत् । उत्थानवर्जितं दक्ष तदेवं बीजमाद्यकम् ॥ ७१॥ उत्थानहीनभावेन सदा साङ्ख्यं विराजति । स्वयं च स्वत उत्थानं निःसृतं तत् प्रभावतः ॥ ७२॥ साङ्ख्येन न कृतं चैतत्तथाप्युत्थानहीनतः । स्वयं च स्वत उत्थानं जायते नात्र संशयः ॥ ७३॥ यदाऽनृतं भवेद्दक्ष तदा सत्यं प्रकीर्त्यते । एकं ब्रह्म यदा तिष्ठेत् सत्यं तत् केन कथ्यते ॥ ७४॥ न दृष्टमनृतं येन न जानाति स सत्यकम् । सदा तादृशरूपत्वादेकभावप्रदर्शनात् ॥ ७५॥ अत उत्थानहीनत्वं धृतं तेन विशेषतः । स्वत उत्थानभावाख्यं स्वयमेवोपजायते ॥ ७६॥ न कृतं तेन साङ्ख्येन स्वयमेव विनिःसृतम् । अतः परत उत्थानं प्राप्तं तत्र न संशयः ॥ ७७॥ सङ्ख्याहीनप्रकाशाख्यं चित्तं तत्र प्रवर्तते । बोधहीनप्रकाशेन ज्ञायते तन्निरोधकम् ॥ ७८॥ उत्थानेन युतं ब्रह्म बोधमयं प्रकीर्तितम् । साङ्ख्यमुत्थानहीनं च तयोर्योगे निजात्मकम् ॥ ७९॥ स्वतः परत उत्थानं तत्र नैव प्रजापते । जगतां ब्रह्मणां योगे भवति स्वस्वरूपकम् ॥ ८०॥ स्वस्वरूपात् परो नास्ति संयोगः तन्मयः कदा । स समाधिः समाख्यातो ब्रह्मण्यस्यान्वयात्मकः ॥ ८१॥ स्वकीयाभेदभावस्य तत्र प्रकाशकारकम् । चित्तं निरोधसंज्ञं तु तिष्ठत्यत्र न संशयः ॥ ८२॥ संयोगः पञ्चधा दक्ष भवति श‍ृणु रूपकम् । तस्य भिन्नं प्रवक्ष्यामि लोकानां हितकारणात् ॥ ८३॥ एते भेदाः समाख्याता योगेन लयतां ययुः । स्वसंवेद्येन सन्देहस्तेन सृष्टाश्च पालिताः ॥ ८४॥ एतेषां रूपमास्थाय खेलति स्वस्वरूपकम् । नानालीलाकरं प्रोक्तं तदेवं वेदवादिभिः ॥ ८५॥ उत्पत्तिनाशसंयुक्ता भेदा एते मनीषिभिः । तेषां निजस्वभावत्वादसत्स्वानन्द उच्यते ॥ ८६॥ तद्ब्रह्म शक्तिरूपाख्यं ज्ञातव्यं भेदधारणात् । तत्रासत्काशभावेन चित्तं तिष्ठति निश्चितम् ॥ ८७॥ एतैर्भेदैर्विहीनं यदमृतं ब्रह्म कथ्यते । एतेषां जीवनं नित्यं तच्च सत्स्वस्वरूपकम् ॥ ८८॥ तद्ब्रह्म सौरमाख्यातं भेदहीनप्रभावतः । तत्र नित्यस्य काशाख्यं चित्तं निरोधकं मतम् ॥ ८९॥ (Page खं. ९ अ. ५ पान १७) असत् सत् द्विविधं प्रोक्तं तयोर्योगे समात्मकम् । स्वसंवेद्यं परं ब्रह्म विष्णुर्द्वन्द्वप्रवेशनात् ॥ ९०॥ तत्रानन्दप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठते तेन योगीन्द्रास्तं गच्छन्ति समाधिना ॥ ९१॥ त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं नेति कारकम् । मोहहीनप्रभावेण तुरीयं ब्रह्म कथ्यते ॥ ९२॥ तदेव शिवसंज्ञाख्यं ज्ञातव्यं योगसेवया । तत्र नेति प्रकाशाख्यं चित्तं तिष्ठति तद्गतम् ॥ ९३॥ त्रिविधं मोहसंयुक्तं मोहहीनं चतुर्थकम् । तेषां संयोगभावे वै स्वसंवेद्यं प्रकीर्तितम् ॥ ९४॥ पूर्णसंयोगभावाख्यं पञ्चमं ब्रह्म तत् स्मृतम् । तस्मात् परो न संयोगः कथ्यते योगिभिः सदा ॥ ९५॥ स एव गणनाथस्तु स्वानन्दाख्यः प्रकीर्तितः । तत्र निजप्रकाशाख्यं चित्तं तिष्ठति सर्वगम् ॥ ९६॥ अतः परमयोगाख्यं ब्रह्म मायाविवर्जितम् । तदेव योगिभिः प्रोक्तं निवृत्तिसुखदायकम् ॥ ९७॥ न तत्र जगतां दक्ष ब्रह्मणां योग उच्यते । तस्याऽपि तेषु तद्वच्च तेनायोग इति स्मृतः ॥ ९८॥ ब्रह्मणि तन्मयत्वेन स्वस्य संयोग उच्यते । तस्मान्निवृत्तिरापन्ना तेन निवृत्तिसंज्ञकम् ॥ ९९॥ स्वसंवेद्यस्य नाशेन लभ्यते ह्यसमाधिना । नाऽगतं न गतं ब्रह्म संयोगः कुत्र जायते ॥ १००॥ तत्रायोगप्रकाशाख्यं चित्तं निरोधसंज्ञितम् । तिष्ठति चापवादेषु निवृत्तिसुखदायकम् ॥ १०१॥ इदं पञ्चविधं चित्तं कथितं ते प्रजापते । जगत्सु ब्रह्मसु तज्ज्ञं नानाप्रकाशदायकम् ॥ १०२॥ भूमयः पञ्च विख्याताश्चित्तस्य विविधात्मनः । भूमीनां त्यागभावे तच्चित्तं ब्रह्ममयं भवेत् ॥ १०३॥ अतः पञ्चविधं चित्तं त्यज त्वं योगसेवया । योगी भविष्यसि दक्ष चिन्तामणौ न संशयः ॥ १०४॥ संयोगायोगसंज्ञस्थं निरोधाख्यं मतं बुधैः । अतः परो निरोधो न विद्यते सर्वसम्मते ॥ १०५॥ सार्वभौमात्मधर्मेण योगी भवति मानवः । तत्र शान्तिं लभेच्चित्तं त्यक्त्वा भूमिभवं भ्रमम् ॥ १०६॥ योगरूपे सुखं यद्वै योगिनां हृदि वर्तते । तदेव कथितुं दक्ष शक्यते न कदाचन ॥ १०७॥ मनोवाणीमयं चित्तं चतुर्विधं प्रकीर्तितम् । मनोवाणीविहीनं तु निरोधसंज्ञकं मतम् ॥ १०८॥ अतो योगः समाख्यातो मनोवाणीमयो न च । मनोवाणीविहीनोऽपि कथ्यते नैव योगिभिः ॥ १०९॥ कीदृशं ब्रह्म तत्राहं योगेन कीदृशेन च । ब्रह्मभूतः स्वयं जात एभ्यः शान्तिं लभेन्नरः ॥ ११०॥ योगे योगी नरो जातस्तत्र न ज्ञायते कदा । ब्रह्म वा साधनं किञ्चिद्ब्रह्मभूतस्य कारकम् ॥ १११॥ तन्मयत्वं ब्रह्मणि न न च तन्मयवर्जनम् । अतः शान्तिं समागृह्य शान्तियोगपरो भवेत् ॥ ११२॥ पञ्चविधेषु चित्तेषु दृश्यते जगतां परम् । ब्रह्मणामैश्वरं सौख्यं रसं तत्र न धारयेत् ॥ ११३॥ नानारसविहीनं तु चित्तं कृत्वा प्रजापते । तत्त्यक्त्वा स भवेद्योगी शान्त्या शान्तिमवाप्नुयात् ॥ ११४॥ (Page खं. ९ अ. ६ पान १८) स्रोतसोर्णवमानन्दाद्गच्छन्त्यप्रेरितान्यपि । प्रारब्धेन तथा कामान् भुनक्ति योगिसत्तमः ॥ ११५॥ नानाद्वन्द्वविहारेषु समभावपरायणः । योगी भवति शान्त्या च सदा योगसुखे रतः ॥ ११६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन सार्वभौमयोगो नाम पञ्चमोऽध्यायः ॥ ९.५ ॥ इति योगगीतासूपनिषत्सु सुगमासु प्रथमोऽध्यायः ॥ ९(दत्तगीता).१

९.६ योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगस्यानुभवं ब्रूहि यत्र शान्तिं लभेन् मनः । रसं त्यक्त्वा सुशान्त्या तद्युक्तं तिष्ठेन् महामुने ॥ १॥ मुद्गल उवाच । न तत्र दृश्यते दक्ष जगद्ब्रह्मभवं सुखम् । तन्मायामयगं दृष्ट्वा तस्मान्निर्वृत्तिगो भवत् ॥ २॥ नाहं देहो न मे देहो नाहं नानाभ्रमान्वितः । चराचरमयो नैव ताभ्यां संवर्जितो न च ॥ ३॥ न समष्टिसमायुक्तो व्यष्टिगो न कदाचन । ब्रह्माऽहमखिलेष्वेव तत्तद्भावविवर्जितः ॥ ४॥ न बाह्यसुखभोक्ताऽहं नान्तरस्थपरायणः । न समानगतोऽहं तु नात्मप्रतीतिधारकः ॥ ५॥ न स्थूलो नैव सूक्ष्मोऽहं नानन्दगः कदाचन । न नाददेहसंस्थश्च सर्वाकारः सदा मतः ॥ ६॥ चतुष्पादाः सन्ति मे चेन् मायया सन्धृता मया । मायाहीनप्रभावेण पादहीनोऽहमञ्जसा ॥ ७॥ मायायुक्तवियुक्तत्वं मयि नैव प्रतिष्ठितम् । मायासंस्थापितं द्वन्द्वं तदप्याश्चर्यमुत्तमम् ॥ ८॥ अनेनानुभवेनैव योगी बिन्दुगतो भवेत् । तत्र लीनस्वभावेन सदा शान्त्या प्रवर्तते ॥ ९॥ अथाहं भेदहीनश्च न भेदो मयि वर्तते । सदा सन्ततभावेन संस्थितोऽत्र निरन्तरम् ॥ १०॥ न सृजामि हराम्येव पालयामि न निश्चितम् । स्वयमेव जगद्भाति यथा मयि धृतं भवेत् ॥ ११॥ उत्पन्नं स्वस्वभावेन स्मितं नष्टं तथा किल । विश्वं तत्र न मे हानिर्वृद्धिर्भवति कर्हिचित् ॥ १२॥ न विश्वस्मिन्नहं जीवो न शिवः साक्षिभावगः । भ्रान्त्या मायायुतं हीनं वदन्त्ययोगिनः सदा ॥ १३॥ यथाऽऽकाशभवं मेघपटलं सर्वतः स्थितम् । तत्र सूर्यस्य किं दक्षाच्छादनं सम्भवेत् कदा ॥ १४॥ नष्टेऽभ्रे किं रविः साक्षाच्छादनेन विवर्जितः । तथा मोहविमोहौ च मयि भ्रान्त्या वदन्ति ये ॥ १५॥ (Page खं. ९ अ. ६ पान १९) सदैकात्मस्वरूपाख्ये मयि मोहविमोहकौ । कथं भेदौ प्रवर्तेते पश्य मायाप्रभावजौ ॥ १६॥ तथापि विश्वसंयुक्तो मोहितोहं न संशयः । ज्ञात्वाऽऽत्मानं विमोहोऽहं सदा साक्षी न संशयः ॥ १७॥ मायया जीवसंज्ञोऽहं तथा शिवो न संशयः । मयि ब्रह्मणि विश्वं तत् दृश्यते नैव दृश्यते ॥ १८॥ एवं ज्ञात्वा स्वयं योगी सदा शान्त्या प्रवर्तते । द्वन्द्वभावं परित्यज्य सोऽहं ब्रह्मणि संस्थितः ॥ १९॥ अतः परं प्रवक्ष्यामि ब्रह्मानुभवरूपकम् । न देहो नैव देहस्थोऽहं भवामि कदाचन ॥ २०॥ सन्ततं मयि नास्त्येव विश्वं मयि न विद्यते । भेदाभेदविहीनत्वाद्ब्रह्म ब्रह्मण्यहं रतः ॥ २१॥ विश्वरूपोऽहमेवेदं मयि सर्वं प्रतिष्ठितम् । विश्वहीनो न सन्देहः सदैकरूपधारकः ॥ २२॥ न सृष्टं पाल्यते नैव ह्रियते न मया कदा । विश्वं सृष्टं हृतं नित्यं पालितं सर्वदा मया ॥ २३॥ मयि सन्ततभावश्च दृश्यते न विनिश्चितम् । न विश्वं विविधाकारं नानादेहपरायणम् ॥ २४॥ सदा बोधमयोऽहं तु देहदेहियुतस्तथा । मम तत्र न भो दक्ष बन्धाऽबन्धौ प्रकीर्तितौ ॥ २५॥ मायया संयुतो नित्यं देहदेहिमयो मतः । मायाहीनप्रभावेण देहदेहिविवर्जितः ॥ २६॥ मायायुक्तवियुक्तत्वं मयि कुत्र प्रदृश्यते । सदाऽहं बोधरूपाख्यो ब्रह्मणि ब्रह्मभावितः ॥ २७॥ एवं बोधात्मकेनैवानुभवेन प्रजापते । योगी योगसमायुक्तः सदा शान्त्या प्रवर्तते ॥ २८॥ अतः परं विबोधाख्यं वक्ष्यामि ब्रह्मभूतकम् । प्रकृतिर्न तथा दक्ष पुरुषोऽहं न निश्चितम् ॥ २९॥ तयोर्योगेन बोधोऽहं ब्रह्माऽहं भोगवर्जितः । सदा ब्रह्मणि संस्थश्च खेलहीनप्रभावतः ॥ ३०॥ मिथ्यारूपं जगत् सर्वं जगदात्मा तथा मतः । तयोर्योगकरं ब्रह्म मिथ्यामूलप्रकाशकम् ॥ ३१॥ मयि ब्रह्मणि नास्त्येव प्रकृतिर्वा पुमान् क्वचित् । तयोर्योगो भ्रमाकारः सदा खेलपरायणः ॥ ३२॥ बोधेनोत्थानभावश्च जायते ब्रह्मणः सदा । मिथ्याभूतं तदेवाऽपि कथं मयि प्रवर्तते ॥ ३३॥ सत्यं ब्रह्म इति प्रोक्तं वेदेषु वेदवादिभिः । तत्र खेलोऽनृताकारः कुतस्तिष्ठति भ्रान्तिदः ॥ ३४॥ सदा ब्रह्मसुखे सक्तो ब्रह्मणि ब्रह्मभावितः । तत्र भेदादिकं नास्ति स्त्रीपुम्भावमयं कदा ॥ ३५॥ मायया रचितं सर्वमनृताख्यं न संशयः । सा मयि न स्थिता दक्ष निराधारा भ्रमान्विता ॥ ३६॥ ब्रह्मरूपं च मां दृष्ट्वा स्वयमेव विनश्यति । माया ततः स्वयं साक्षात् सत्यरूपो भविष्यति ॥ ३७॥ यद्यहं मायया युक्तस्तया स्त्रीपुम्मयं जगत् । सृजामि चेत्तदा सत्यं मयि कुतः प्रतिष्ठति ॥ ३८॥ यत्रानृतस्वरूपं तु नास्त्येव वेदवादतः । तदेव सत्यमाख्यातमतो बोधो न दृश्यते ॥ ३९॥ अनृतं विश्वमखिलं प्रकृतिपुरुषात्मकम् । तस्माद्भिन्नोऽहमेकश्च सत्यरूपो न संशयः ॥ ४०॥ योगेनैतादृशेनैव शान्तियुक्तो भवेन्नरः । सङ्ख्यां त्यक्त्वा स विविधां ब्रह्मभूतस्वभावतः ॥ ४१॥ अथ स्वानन्दयोगं तु वदिष्यामि हिताय ते । तं श‍ृणुष्व प्रजानाथ सावधानेन चेतसा ॥ ४२॥ सत्यमुत्थानहीनं चानृतमुत्थानसंयुतम् । ब्रह्मणि द्विविधं नास्ति स्वस्वरूपिणि नित्यदा ॥ ४३॥ बोधयुक्तं स्वतोत्थानं साङ्ख्यमुत्थानवर्जितम् । तयोर्योगे परं ब्रह्माऽसत्स्वानन्दमयं भवेत् ॥ ४४॥ उत्थानवर्जितोऽहं नोत्थानयुक्तोऽपि नाञ्जसा । उत्थानयुक्तहीनोऽहं पश्य मे योगमुत्तमम् ॥ ४५॥ मयि ब्रह्मणि सर्वं तत् स्वस्वरूपमयं भवेत् । तत्रोत्थानेन युक्तत्वं हीनत्वं नैव दृश्यते ॥ ४६॥ अहो मायाप्रभावेण मां वदन्ति विमोहिताः । उत्थानेन युतं हीनं स्वस्वरूपं निजे रतम् ॥ ४७॥ उत्थानसंयुतं ब्रह्मोत्थानहीनं प्रकीर्तितम् । ब्रह्मणि तन्मयं सर्वं संयोगायोगभावतः ॥ ४८॥ मयि ब्रह्मणि संयोगो जायते योगिनां यदा । उत्थानेन युतं हीनं कः पश्यति ततः परम् ॥ ४९॥ समाधिहीनभावेन पश्यन्ति विविधं सदा । अयोगिनो न सन्देहो योगिनां वै न विद्यते ॥ ५०॥ सर्वं ब्रह्मेति वेदेषु कथ्यते वेदवादिभिः । अतो मायां परित्यज्य ब्रह्माकारो भवेन्नरः ॥ ५१॥ अनेन विधिना योगं साधयेद्यः समाधिना । ब्रह्मणि ब्रह्मभूतः स शान्तिं प्राप्नोति शाश्वतीम् ॥ ५२॥ अथ सत्स्वस्वरूपस्य विधेर्योगं वदामि भोः । तं ज्ञात्वा योगमार्गेण योगी भवति मानवः ॥ ५३॥ सर्वं ब्रह्मेति वेदेषु कथितं नात्र संशयः । तदेवोपाधिसंयुक्तं सर्वं मायाप्रभावतः ॥ ५४॥ एकमेवाद्वितीयं यद्ब्रह्म वेदविवादतः । तत्र सर्वं कुतो भाति नानाभावपरायणम् ॥ ५५॥ नाहमुत्थानसंयुक्तो नाहमुत्थानवर्जितः । तयोर्योगमयोऽहं नाद्वितीयेऽस्मिन् स्थितः सदा ॥ ५६॥ न सत्यं मयि नास्त्येवानृतं तत् संयुतं परम् । ब्रह्म संयोगदं नास्ति सदाऽहं ब्रह्मसंज्ञकः ॥ ५७॥ न मया सत्यरूपं तु सृष्टं नानृतरूपकम् । तयोर्योगमयं नैवामृतोऽहं चात्मभावतः ॥ ५८॥ आदिमध्यान्तभावाश्च कुतो मयि भवन्ति ते । सदामृतमये संस्थोऽहमात्मा ब्रह्मभावितः ॥ ५९॥ मायया संयुताः सर्वे सर्वेषां जीवनं परम् । मां वदन्ति विशेषेण मयि सर्वं न विद्यते ॥ ६०॥ सर्वात्मकं परं ब्रह्म नानाखेलयुतं भवेत् । खेलहीनं भवति च तदेवापि तयोः परम् ॥ ६१॥ तत्राहं नागतो दक्ष न गतोऽपि कदाचन । स्वयमेव भवेत् पश्य जीवनं मे प्रभावतः ॥ ६२॥ तत्र किं मयि सर्वात्मविकारो दृश्यते कदा । भ्रान्तियुक्ता मां वदन्ति जीवनं ब्रह्मणां परम् ॥ ६३॥ ब्रह्मणां जगतां नैव जीवनं सन्धृतं मया । स्वयमेव प्रभावेण मयि तत् दृश्यते वृथा ॥ ६४॥ सदा ब्रह्मणि संस्थोऽहं भेदाभेदादिवर्जितः । अद्वितीयप्रभावेणात्माऽहं पूर्णस्वभावतः ॥ ६५॥ अनेन योगमुख्येन योगी सञ्जायते नरः । ब्रह्मणिब्रह्मभूतत्वाच्छान्तियुक्तो भवेत् सदा ॥ ६६॥ अतः परं समाख्यं यद्ब्रह्मानुभवरूपकम् । (Page खं. ९ अ. ६ पान २१) कथयामि महाप्रीत्या येन योगी भवेन्नरः ॥ ६७॥ नाहं सर्वात्मको दक्ष नाहमात्मात्मकः कदा । आनन्दोऽहं तयोः साम्ये ब्रह्मणि ब्रह्मभावतः ॥ ६८॥ मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितम् । एकमेवाद्वितीयाख्यं तयोः साम्येऽहमास्थितः ॥ ६९॥ ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेत् । अमृतं मृतमूलं यन्नास्त्येव मयि सर्वदा ॥ ७०॥ अनन्तलीलया युक्तं लीलाहीनं न विद्यते । मयि लीलायुतं हीनं वर्तते पश्य मे महः ॥ ७१॥ अखण्डरूपभावेन संस्थितोऽहं सदाऽमलः । नानाविकारहीनत्वाद् द्वाभ्यां हीनोऽहमञ्जसा ॥ ७२॥ ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः । सदात्मभावस्तत्रैव साम्यं वेदे ततः स्मृतम् ॥ ७३॥ यद्यत् सङ्कथ्यते वेदे तेषु ब्रह्म स्थितं मतम् । न वर्ण्यते तथा तत्र न तद्ब्रह्ममयं किल ॥ ७४॥ अतः समं समाख्यातं ब्रह्म वेदविवादतः । आनन्दमुभयानन्दादासमन्ताद्विचारय ॥ ७५॥ आनन्दोऽहं न सन्देहो ब्रह्म ब्रह्मसु संस्थितम् । अनेनानुभवेनैव शान्तियुक्तो नरो भवेत् ॥ ७६॥ अतस्ते व्यक्तसंज्ञस्थं कथयामि प्रजापते । ब्रह्मानुभवमाहात्म्यं येन योगी भवेन्नरः ॥ ७७॥ अहमव्यक्तरूपश्च त्रिभिर्हीनः सदा मतः । त्रिषु मोहविहीनोऽहं त्रिनेतिकारकः परः ॥ ७८॥ सर्वात्मकं मयि नास्ति तथाऽमृतमयं न च । साम्यं स्वाधीनसंज्ञेऽथ ब्रह्मणि नन्दनात्मकम् ॥ ७९॥ उत्थानयुक्तहीनाख्यो मोहः सर्वमये स्थितः । सदाऽमृतमयो मोहोऽखण्डब्रह्मणि कथ्यते ॥ ८०॥ नन्दनं सर्वभावेषु समत्वान्मोहरूपकम् । सदा स्वाधीनता तेषु कुतस्त्रिषु भवेत् किल ॥ ८१॥ त्रिभिर्युक्तोऽहमत्यन्तं तदपि त्रिविमोहतः । भिन्नः सदा त्रयाणां तु नेति कर्ताहऽमञ्जसा ॥ ८२॥ नानाभावसमायुक्तं भावहीनं ततः परम् । साम्यमुभयगं तेभ्यः परोऽव्यक्तस्ततः स्मृतः ॥ ८३॥ सृष्ट्वाऽहं त्रिविधां मायां तत्र खेलकरो मुदा । मोहहीनोऽहं तदपि मायायाः स्वप्रभावतः ॥ ८४॥ मदाज्ञया त्रयं नित्यं चलत्यत्र न संशयः । स्वस्वव्यापारसंयुक्तं स्वाधीनोऽहं प्रभावतः ॥ ८५॥ त्रयाणामन्तरे प्रज्ञस्तिष्ठाम्यत्र न संशयः । ममान्तरे कोऽपि न वै प्रेरकः साधुसत्तम ॥ ८६॥ स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः । तथापि नैव मे मोहो नाहं प्रेरक उच्यते ॥ ८७॥ अहमव्यक्तरूपश्च वेदे सङ्कथितो मतः । नेह नानास्तिभावाख्यः सदा नानात्रिवर्जितः ॥ ८८॥ नेह नानाप्रमाणेनाऽव्यक्तं ब्रह्म सनातनम् । तदेवाहं सुखे सक्तः सदा ब्रह्मणि योगतः ॥ ८९॥ सर्वेषां नेति कर्ताऽहं महादण्डधरः प्रभुः । नेति कर्ता नास्ति मे कस्तेनाव्यक्तोऽहमञ्जसा ॥ ९०॥ मनोवाणीविहीनोऽहमव्यक्तः परमो मतः । अनेनानुभवेनैव शान्तिं प्राप्नोति मानवः ॥ ९१॥ अथ पूर्णनिजानन्दानुभवं श‍ृणु सौख्यदम् । येन स्वानन्दसंयुक्तो भविष्यसि महामते ॥ ९२॥ अहं ब्रह्ममयः साक्षान् मयि मोहविवर्जितम् । (Page खं. ९ अ. ६ पान २२) कुतो मोहयुतं ब्रह्म निजरूपे भवेत् कदा ॥ ९३॥ महावाक्ययुता वेदा यदा लीनाः समाधिना । तदा स्वानन्दगाः प्रोक्ताः पश्य वेदे महात्मभिः ॥ ९४॥ अहम्भावयुतो जन्तुर्मायया तुर्यभावया । मोहहीनश्च युक्तश्च भवति भ्रमभावतः ॥ ९५॥ चतुर्विधं मया सृष्टं नानाभावपरायणम् । भावहीनं समानं चाव्ययं तेषु स्थितेन वै ॥ ९६॥ ब्रह्मदोषविहीनं तु दोषयुक्तं प्रकीर्तितम् । साम्यं नेतिमयं वेदे चतुर्हीनपरं भवेत् ॥ ९७॥ स्वानन्दे तन्मयो योगी भवते यः समाधिना । न पश्यति पुनर्ह्यत्र चतुर्षु मोहितात्मसु ॥ ९८॥ समाधिना युतो योगी निजरूपे लयं गतः । न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते ॥ ९९॥ कीदृशोऽहमिमां मायां यस्त्यक्त्वा योगसंयुतः । ब्रह्मणि ब्रह्मभूतः स भवति स्वस्वरूपिणि ॥ १००॥ यदा ब्रह्मणि योगेन तन्मयो भवति स्वयम् । स्वपरादिकमेवेदं पुनर्वद कुतः प्रभो ॥ १०१॥ अहं ब्रह्मेति यत् प्रोक्तं पश्य वेदे विचारतः । तेनैव कृतकृत्यः स भवति योगसेवया ॥ १०२॥ एवं संयोगयोगेन भवेत् ब्रह्मणि तन्मयः । शान्तियुक्तः स वै साक्षात् वर्तते शान्तिधारकः ॥ १०३॥ अतः परमयोगाख्यं वदामि योगमुत्तमम् । तत्रानुभवमात्रेण शान्तियुक्तो नरो भवेत् ॥ १०४॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भवेदिदम् । तन्मयत्वं प्रजानाथ ब्रह्म ब्रह्मणि संस्थितम् ॥ १०५॥ ब्रह्म वाणीविहीनं च मनोगतिविवर्जितम् । तदेव नागतं कुत्र न ब्रह्मणि गतं पुनः ॥ १०६॥ यदा भिन्नं विहारेषु संसक्तं जायते परम् । तदा योगेन स्वानन्दयुक्तं भवति नान्यथा ॥ १०७॥ ब्रह्म ब्रह्मणि संस्थं च नागतं न गतं मतम् । कुतो योगेन तत्रैव तन्मयो जायते नरः ॥ १०८॥ सदाऽहं ब्रह्मरूपश्च न मायासंयुतः कदा । भ्रान्त्या मां नैव जानन्ति स्वमहिम्नि स्थितं परम् ॥ १०९॥ सर्वसंयोगयोगाख्या माया नानाभ्रमात्मिका । मयि ब्रह्मणि सा कुत्र तिष्ठति ब्रह्मवर्जिता ॥ ११०॥ यथा मरीचिसंस्थं च तोयं व्यर्थभ्रमप्रदम् । तथा मयि महामाया व्यर्था संयोगधारिका ॥ १११॥ ब्रह्मदोषविहीनं तु वेद सङ्कथितं पुरा । तदेव मायया युक्तं कथं भवति मोहितम् ॥ ११२॥ भ्रान्तियुक्तं सुयोगेन भ्रान्तिहीनं भवेत् कथम् । ब्रह्ममायायुता मूर्खो वदन्ति ब्रह्मवर्जिताः ॥ ११३॥ अतोऽहं नागतः पश्य जगत्सु ब्रह्मसु प्रभुः । न ब्रह्मणि गतस्तत्र पुनर्योगस्य सेवया ॥ ११४॥ ब्रह्मणि विविधाकारा माया नैव प्रतिष्ठति । मायायां नैव तद्ब्रह्म ह्यपवादप्रभावतः ॥ ११५॥ अयोगस्त्रिविधः प्रोक्तो मृदुमध्याधिमात्रतः । तेषां भेदं प्रवक्ष्यामि मायामूलनिकृन्तनम् ॥ ११६॥ स्वतोत्थानभ्रमं त्यक्त्वाऽहं ब्रह्म ह्यपवादतः । यस्तिष्ठति नरः सोऽपि मृदुयोगयुतो मतः ॥ ११७॥ परतोत्थानजं दक्ष भ्रमं त्यक्त्वा ह्ययोगतः । तिष्ठति मध्यगः सोऽपि मतो योगस्य सेवया ॥ ११८॥ (Page खं. ९ अ. ६ पान २३) स्वतः परत उत्थानहीनं संयोगधारकम् । ब्रह्म तस्य भ्रमं त्यक्त्वा तिष्ठति सोऽधिमात्रगः ॥ ११९॥ नाऽऽगतोऽहं यदा भ्रान्त्या जगत्सु ब्रह्मसु भ्रमन् । तदा मे गमनं कुत्र योगेनैव भविष्यति ॥ १२०॥ ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः । निवृत्तियोगमाश्रित्य सदा शान्त्या प्रवर्तते ॥ १२१॥ अधुना पूर्णयोगस्यानुभवं ते वदाम्यहम् । योगी येन नरो भूत्वा तिष्ठति गणपप्रियः ॥ १२२॥ नाहं न ब्रह्म वेदेषु कथितं भेदभ्रान्तिदम् । ब्रह्मणि द्विविधं दक्ष कुतो भवति चित्तगम् ॥ १२३॥ अहं चित्तमयश्चैव ब्रह्म चित्तमयं तथा । चित्तं पञ्चविधं त्यक्त्वा योगी भवति मानवः ॥ १२४॥ जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मतम् । जगतां ब्रह्मणां संयोगायोगं चित्तमुच्यते ॥ १२५॥ भ्रान्तियुक्तं भवेच्चित्तं नानामायाविमोहितम् । योगसेवापरं चित्तं भ्रान्तिहीनं तथा भवेत् ॥ १२६॥ अहं कुतस्तथा ब्रह्म कुतस्तयोश्च योगतः । अभेदः सर्वगं चित्तं क्रीडत्यत्र न संशयः ॥ १२७॥ नाहं सर्वत्र योगेन संयोगाभेदभावतः । तिष्ठामि चित्तमोहेन वदन्त्ययोगिनो मुधा ॥ १२८॥ ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं कदा । अयोगधारकोऽहं न चित्तं तदेव सम्मतम् ॥ १२९॥ धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकम् । कामं मोक्षं ब्रह्मभूतं पञ्चभूमिप्रभावतः ॥ १३०॥ चित्तं त्यक्त्वा महायोगी पञ्चरूपं सुशान्तिगः । ब्रह्मभूतो भवेन्नूनं चिन्तामणिः प्रकथ्यते ॥ १३१॥ चित्तरूपा महाबुद्धिस्तत्र भ्रान्तिप्रदायिका । सिद्धिस्तयोः पतिः साक्षात् क्रीडति स्वेच्छयाऽपरः ॥ १३२॥ तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः । सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी प्रजापते ॥ १३३॥ नैव ब्रह्मणि संयोगो नायोगो वर्तते कदा । सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पतिः ॥ १३४॥ गणेशोऽहं न सन्देहो कुतो मयि भवेदिदम् । सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते ॥ १३५॥ सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो भवेत् । शान्तियोगेन शान्तिस्थो वर्तते नित्यमादरात् ॥ १३६॥ ब्रह्मणि योगभावेन मायायुक्तविहीनता । शान्तिं प्राप्तः स्वयं त्यक्त्वा योगं योगी स जायते ॥ १३७॥ एतादृशभवेनैवानुभवेन युतं परम् । चित्तं भ्रान्तिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति ॥ १३८॥ योगे रससमायुक्तं सदा भवति तत्परम् । निश्चलं शान्तिसंयुक्तं मायामलविवर्जितम् ॥ १३९॥ एतत्ते कथितं सर्वमनुभवभवं सुखम् । यज्ज्ञात्वा ब्रह्मभूतः स तिष्ठत्यत्र न संशयः ॥ १४०॥ श‍ृणुयाद्यः पठेद्वाऽपि योगानुभवरूपगम् । माहात्म्यं स लभेत् सर्वं वाञ्छितं शान्तिमाप्नुयात् ॥ १४१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन योगिचित्तानुभवशान्तिसुखवर्णनयोगो नाम षष्ठोऽध्यायः ॥ ९.६ ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ॥ ९(दत्तगीता).२

९.७ योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् । शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् ॥ १॥ कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो । कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥ २॥ मुद्गल उवाच । जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा । प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥ ३॥ स्वयं ब्रह्मणि संस्थश्च बिम्बं चित्ते प्रतिष्ठति । योगिनस्तत्कृतं सर्वं न कदा बन्धदं भवेत् ॥ ४॥ नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः । ब्रह्मणि ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥ ५॥ प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् । तीर्थयात्रादिकं सर्वं यज्ञदेवार्चनादिकम् ॥ ६॥ सदा शौचसमायुक्तो नित्यं धर्मपरायणः । तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥ ७॥ अथवा पूर्वजेनैव प्रारब्धेन नियन्त्रितः । पापानि नित्यमानन्दात् प्रकुर्याद्विविधानि सः ॥ ८॥ ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् । मद्यपानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥ ९॥ एवं पापसमाचारो यदि तिष्ठति मानवः । योगी पापफलं नैव भुनक्ति नरवत् कदा ॥ १०॥ पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते । कारितं योगिना तत्र तेन किञ्चित् कृतं न च ॥ ११॥ मरणे या मतिः प्राप्ता तादृशीं लभते गतिम् । नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥ १२॥ इदं संशयनाशार्थं कथितं ब्रह्मणः सुत । योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥ १३॥ योगी योगसमायुक्तो न पापानि कदाचन । चरति धर्मनिष्ठः स भवत्यत्र न संशयः ॥ १४॥ लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः । नाचरन्ति कदा पापमहिंसादिसमन्विताः ॥ १५॥ (Page खं. ९ अ. ७ पान २५) फलहीनस्वभावेन धर्मं चरति नित्यदा । योगी लोकोपकारार्थं स्वयं ब्रह्मपरायणः ॥ १६॥ कदाचित् पूर्वसंस्कारात् पापं तेन कृतं परम् । न तत्र पापयुक्तोऽसौ तदर्थो वर्णितः पुरा ॥ १७॥ किमर्थं प्राणिनां योगी दुःखदायकमाचरेत् । पापं पापसमायुक्तो न भवेन्निश्चितं पुरा ॥ १८॥ सर्वत्र गणनाथं स पश्यत्यनन्यचक्षुषा । पुण्येन सुखसंयुक्तं विश्वं भवति तच्चरेत् ॥ १९॥ प्रारब्धं योगिनां दक्ष न भवेत् पापकारकम् । पुण्यचेष्टासमायुक्तं तेषां प्रारब्धमञ्जसा ॥ २०॥ योगार्थं धर्मसंयुक्तो ब्रह्मार्पणविधानतः । यतते जन्मसु प्राज्ञस्तदा योगी भवेन्नरः ॥ २१॥ तस्य प्रारब्धकं दक्ष कुतो दुर्बुद्धिदायकम् । भवति च महायोगी धर्मयुक्तो भवेत् सदा ॥ २२॥ अथ योगिजनानां ते स्थितिं वदामि सर्वदा । क्रमयुक्तो यथा योगी भ्रान्तो नैव भवेत् कदा ॥ २३॥ साधयित्वा महायोगं चित्तनिरोधकारकम् । पञ्चविधं परित्यज्य चित्तं योगी भवेन्नरः ॥ २४॥ चित्ते चिन्तामणिं ज्ञात्वा सचित्तः सहसा गतः । तदाकारः स वै योगी तत्र ब्रह्मणि संरतः ॥ २५॥ प्रारब्धं योगिनां नास्ति भोगदं शास्त्रसम्मतम् । यदा हठयुतो योगी भवेत् प्रारब्धचालकः ॥ २६॥ देहपातं प्रकुर्याच्चेदात्महत्यां लभेन्न च । आयुषा संयुतो वाऽपि देहं त्यजति निश्चितम् ॥ २७॥ तथापि योगसंयुक्तो न देहं त्यजति प्रभुः । न प्रारब्धमतिक्रम्य करोति किञ्चिदञ्जसा ॥ २८॥ शान्तियुक्तस्वभोवन तिष्ठत्यत्र न संशयः । यद्भावि तद्भवत्येव मायामोहविवर्जितः ॥ २९॥ देहपातेन किं ग्राह्यं देहरक्षणतस्तथा । रचितं गणनाथेन सदा भवतु तादृशम् ॥ ३०॥ एवं निश्चित्य चित्तेन शान्तियुक्तस्वभावतः । आचरेद्योगसंयुक्तः स्वधर्मे संस्थितां क्रियाम् ॥ ३१॥ वर्णाश्रमयुतो योगी भवेद्यदि स सर्वदा । तदा स्वधर्मजं कुर्यात् कर्म निःसङ्गभावतः ॥ ३२॥ देहः कर्ममयः प्रोक्तस्तस्थोऽकर्मी कुतो भवेत् । व्यवस्थासम्भवं कर्म कृतं भवति न ह्यपि ॥ ३३॥ यदि कर्म परित्यज्य तिष्ठेद्योगपरायणः । तदा देहनिपातेन युक्तो भवेन्न संशयः ॥ ३४॥ अन्नभक्षणरूपं यद्भवति कर्म निश्चितम् । जागृत्स्वप्नादिकं सर्वं त्यक्त्वा जीवति तत्कथम् ॥ ३५॥ क्रियतेऽनेन यत्किञ्चित् सा क्रिया परिकीर्तिता । अतः कर्ममयो देहस्तेन धर्मं समाचरेत् ॥ ३६॥ देहत्यागे समुद्युक्तो यदि योगी भवेत् प्रभो । सहने द्वन्द्वभावस्य न समर्थः स वै स्मृतः ॥ ३७॥ अशान्तिसंयुतः सोऽपि योगहीनो यथा नरः । तथा द्वन्द्वं समालोक्य सहने न समर्थकः ॥ ३८॥ गणेशेन कृतं तस्येच्छया सर्वं च यद्भवेत् । भवतु तादृशं सर्वं सहे नित्यं सुशान्तिगः ॥ ३९॥ स योगी शान्तिहीनो न प्रभवेत् क्वचिदञ्जसा । ब्रह्मभूतो महाश्रेष्ठः पावनः सर्वदेहिनाम् ॥ ४०॥ अतो वर्णाश्रमस्थो यो योगी भवेत् स तत् क्रियाम् । (Page खं. ९ अ. ७ पान २६) ब्रह्मार्पणतया कुर्याद् हृदि ध्यात्वा गजाननम् ॥ ४१॥ यदि स्वधर्मसंयुक्तं कर्म नैव समाचरेत् । तमक्रियं समालोक्यान्ये त्यजेयुः स्वधर्मकम् ॥ ४२॥ अतो लोकोपकारार्थं योगी कर्म समाचरेत् । अन्यान् कर्मयुतान् कुर्यात् स्ववशान् धर्मपालकः ॥ ४३॥ सर्वेभ्यश्चाधिको योगी कुर्यात् सत्कर्म धर्मदम् । तादृशं कर्म सर्वेऽपि करिष्यन्ति विशेषतः ॥ ४४॥ तेन प्रामाण्यमानन्दात् कृतं कर्म प्रजापते । तदेव सर्वलोकाश्च मान्यं कुर्वन्ति निश्चितम् ॥ ४५॥ ब्रह्मार्पणतया कर्म बन्धदं न भवेत् कदा । ब्रह्मप्राप्तिकरं तस्य फलं प्रोक्तं मनीषिभिः ॥ ४६॥ योगिभिश्च कृतं कर्म लोकसङ्ग्रहकारणात् । असक्तमनसा नित्यं नैमित्तिकं न बन्धदम् ॥ ४७॥ सदा ब्रह्ममयत्वेन तेन किञ्चित् कृतं न च । देहस्वभावजो भावो भवेदस्य निरन्तरम् ॥ ४८॥ अन्यं मार्गं प्रवक्ष्यामि ये निन्दन्ति स्तुवन्ति तम् । योगिनं पापभोक्तारो भवन्ति पुण्यभोगिनः ॥ ४९॥ योगिना यत् कृतं पापं तत् स्प्रष्टुं न क्षमं कदा । निन्दकांस्तत् समाश्रित्य प्रतिष्ठेत्तस्य नित्यदा ॥ ५०॥ योगिना यत् कृतं पुण्यं तदेव तं न संस्पृशेत् । स्तुवतस्तान् समाश्रित्य नित्यं तिष्ठेत् स्वभावजम् ॥ ५१॥ अतो न योगिनां निन्दां कदा कुर्याद्विचक्षणः । सेवां समाचरेत्तेषां तेन सौख्ययुतो भवेत् ॥ ५२॥ वने यदि स्थितो योगी प्रारब्धेन नियन्त्रितः । फलादिकं तत्र भुञ्जन् शान्त्या तिष्ठेत् स नित्यदा ॥ ५३॥ तत्र निन्दाकरास्तस्य तथा सेवाकरा न च । एक एव महायोगी शुभाशुभं समाचरेत् ॥ ५४॥ तदेव देहपातेऽस्य योगिनश्च मृतं भवेत् । शुभाशुभं निराधारमुपोषणसमन्वितम् ॥ ५५॥ एतत्ते कथितं दक्ष ब्रह्मीभूतस्य चेष्टितम् । कर्म योगमयं पूर्णं श्रवणाच्छुभदं भवेत् ॥ ५६॥ अथ योगं प्रवक्ष्यामि ज्ञानात्मकमहं परम् । योगिभ्यः सुखदं पूर्णं शान्तियुक्तं विशेषतः ॥ ५७॥ देहः कर्मात्मकः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया कर्म चाचरन् शान्तिधारकः ॥ ५८॥ ज्ञानं स्फूर्तिमयं प्रोक्तं हृदि तिष्ठति सर्वदा । विवेकात्ममयं तत्र ज्ञानयोगं समाचरेत् ॥ ५९॥ हृदि यद्यद् भवेज्ज्ञानं नानायोगार्थसौख्यदम् । अथवा विषयार्थानां बोधकं तत् स सन्त्यजेत् ॥ ६०॥ उत्पत्तिनाशसंयुक्तं ज्ञानं विषयबोधकम् । ब्रह्म सौख्यप्रदं ज्ञानं योगभूमिप्रभावजम् ॥ ६१॥ उपाधिसंयुतं चैकमनुपाधियुतं परम् । तत्त्यक्त्वा योगसंयुक्तो भवेद्योगी महायशाः ॥ ६२॥ ज्ञानानां सकलानां च योगे ज्ञानमयः स्मृतः । योगस्तत्र भवेल्लीनो ब्रह्मीभूतस्वभावतः ॥ ६३॥ ब्रह्मणि ब्रह्मीभूतोऽहं मम ज्ञानं कुतो भवेत् । नानाभ्रान्तिकरं हृत्स्थं त्यक्त्वा ब्रह्मपरो भवेत् ॥ ६४॥ अनेन विधिना सर्वं ज्ञानं त्यक्त्वा हृदि स्थितम् । शान्तियुक्तः स्वयं योगी तिष्ठेद्ब्रह्मपरायणः ॥ ६५॥ न कर्ताऽहं कदाचिद्वै कारयिता न निश्चितम् । (Page खं. ९ अ. ७ पान २७) मायामोहयुता मां ते वदन्ति कर्मकारिणम् ॥ ६६॥ अहं साक्षी शरीरस्य यद्देहेन कृतं भवेत् । तन्मया न कृतं क्वापि ब्रह्माहं परतः परः ॥ ६७॥ यद्यत् स्फूर्तिर्भवेन् मे वै सा माया भ्रान्तिदायिका । न तस्यां संस्थितो जीवः सदा साक्षिस्वभावतः ॥ ६८॥ न मोहेन समायुक्तो न कदा मोहवर्जितः । मायया मां वदन्त्येव ह्ययोगिनो न संशयः ॥ ६९॥ एवं सदा महायोगी साक्षिवत्संस्थितो भवेत् । हृदयज्ञानयोगस्थस्त्यक्त्वा स्फूर्तिभवं भ्रमम् ॥ ७०॥ सर्वत्र रसहीनं यन् मनस्तस्य महात्मनः । शान्त्या युक्तं भवेद्दक्ष ब्रह्मीभूतस्य नित्यदा ॥ ७१॥ एष ते कथितो योगो ज्ञानात्मको विशेषतः । साक्षिवद्देहसंस्थः स मया तिष्ठति लेशतः ॥ ७२॥ अतः परं समं योगं श‍ृणु स्थितिपरायण । यं ज्ञात्वा ब्रह्मभूतो यः शान्तिहीनो भवेन्न सः ॥ ७३॥ देहः कर्मत्रयस्तत्र कर्मयोगं समाचरेत् । मनो विवेकरूपं तु साक्षित्वं तत्र सञ्चरेत् ॥ ७४॥ अहं ब्रह्म यदा दक्ष कुतस्तत्र भवेदिदम् । द्वन्द्वरूपं विशेषेण तस्य वक्ष्यामि रूपकम् ॥ ७५॥ देहः कर्ममयः प्रोक्तो विवेकः कर्मवर्जितः । द्वन्द्वं ज्ञात्वा महायोगी समयोगं समाचरेत् ॥ ७६॥ देहे कर्ममयोऽहं तु हृदि साक्षी तथाऽमलः । उभयोर्योगभावेन भवति किञ्चिदञ्जसा ॥ ७७॥ यदा विवेकहीनश्चेत् देहः किं तु करिष्यति । देहहीनं मनस्तद्वज्ज्ञानदं कस्य वा भवेत् ॥ ७८॥ आनन्दमयभावेन संस्थितोऽहं तदात्मकः । उभयत्र ततः स्वस्वव्यापारं कुरुतः परौ ॥ ७९॥ देहे कर्ममयोऽहं वै हृदि विवेकधारकः । द्विविधां रच्यतां मायां सदानन्दनधर्मगः ॥ ८०॥ तयोः समानभावेन संस्थितोऽहं न संशयः । अनुपाधेरुपाधेश्च वर्जितो ब्रह्मसंज्ञितः ॥ ८१॥ अतः समं समाश्रित्य बाह्यान्तरैकभावतः । यादृशं संस्थितं ब्रह्म तादृशं तत्र चाचरेत् ॥ ८२॥ देहे कर्मकरो भूत्वा हृदि साक्षिमयो भवेत् । उभयं तत् परित्यज्यानन्दावस्थां समाचरेत् ॥ ८३॥ यद्यदुभयभावाख्यं नानाभेदमयं परम् । तत्र योगमयो भूत्वा तिष्ठेदानन्दसंयुतः ॥ ८४॥ आनन्दानां समायोगे ब्रह्मानन्दः प्रकीर्तितः । उभयेषां प्रजानाथ तादृशं चाचरेद्बुधः ॥ ८५॥ मदीयसङ्गयोगेनोभयं प्रवर्तते सदा । उभयं चाचरेत् सर्वमुभाभ्यां वर्जितोऽपि सः ॥ ८६॥ इयमानन्दरूपाख्या कथिता योगिभिः पुरा । ब्रह्मीभूतः समास्थाय तिष्ठेत्तां शान्तिसंयुतः ॥ ८७॥ अतः परं प्रजानाथावस्थां श‍ृणु सुखप्रदाम् । सहजाख्यां महायोगी चाचरेत्तां विशेषतः ॥ ८८॥ देहः कर्ममयः प्रोक्तस्तत्र योगं समाचरेत् । ब्रह्मार्पणतया नित्यं कर्मणां योगिसत्तमः ॥ ८९॥ हृदि साक्षिस्वभावेन तिष्ठेत्तयोः परे ततः । समभावं समाश्रित्य त्रिषु त्रैधं प्रकीर्तितम् ॥ ९०॥ तेषु विस्मृतिभावेन भ्रान्त्या वा विस्मृतं भवेत् । विपरीतं भवेद्वाऽपि ततः खेदं न धारयेत् ॥ ९१॥ त्रिविधं मायया युक्तं पराधीनं प्रकीर्तितम् । तुर्यं स्वाधीनरूपाख्यं प्रोक्तं शास्त्रेषु सर्वदा ॥ ९२॥ तुर्येच्छया त्रिधा भूतं चलत्यत्र न संशयः । स्वस्वप्रारब्धसंयुक्तं सदा भ्रान्तमिव स्थितम् ॥ ९३॥ न कस्याहङ्कृतिस्तस्य तुरीयस्य कदाचन । यादृशं कुरुते कर्म तादृशं फलमश्नुते ॥ ९४॥ अतः प्रारब्धयोगेन विस्मृतोऽहं स्थितिं पराम् । योगरूपां च तुर्येण प्रेरितः सर्वधारिणा ॥ ९५॥ अथवा ज्ञानमोहेन विपरीतं कृतं मया । त्यक्त्वा योगस्थितिं पूर्णां प्रारब्धं तत्र मुख्यकम् ॥ ९६॥ प्रारब्धधारकं प्रोक्तं तुरीयं नात्र संशयः । तस्येच्छया च यज्जातं तदेवं योगदं भवेत् ॥ ९७॥ पराधीनोऽहमत्यन्तं तुर्येच्छया समन्वितः । करोमि कर्म साक्षित्वमानन्दं वा न संशयः ॥ ९८॥ सदा स्वाधीनभावेन तिष्ठति ब्रह्म तुर्यगम् । तुरीयैः खेलकं प्रोक्तं तस्य किं बन्धनं भवेत् ॥ ९९॥ यज्जातं तत्कृतं तेन तुरीयेण न संशयः । तत्र कुत्र स्थितोऽहं तु स्वेच्छया क्रीडति प्रभुः ॥ १००॥ इयं तु सहजावस्था कथिता ते प्रजापते । यज्जातं तत्र सा प्रोक्ता न कृता तदपि ह्यहो ॥ १०१॥ यत्कृतं सह जातेन स्वयमेव प्रवर्तते । योगस्तेन समाख्याता सहजा तुर्यसंज्ञिता ॥ १०२॥ अतः परं ब्रह्मभूतं स्वानन्दाख्यं प्रकीर्तितम् । तत्र योगस्वरूपाख्यां स्थितिं श‍ृणु सुखप्रदाम् ॥ १०३॥ स्वाधीनं तुर्यभावाख्यं पराधीनं त्रिधा मतम् । तेषां योगे निजात्मस्थो भवेद्योगी निजात्मसु ॥ १०४॥ त्रिविधं खेलरूपं तु तुर्यः खेलक उच्यते । तयोर्योगे प्रजानाथ स्वानन्दस्थो भवेन्नरः ॥ १०५॥ ब्रह्मणि ब्रह्मभूतस्य योगिनश्च कुतो भवेत् । स्वाधीनं तु पराधीनं मायायुक्तं न संशयः ॥ १०६॥ योगस्थितिं समाश्रित्य बुधश्चत्वारि चाचरेत् । तेषां संयोगरूपेण तिष्ठेत्तेषु महात्मवान् ॥ १०७॥ कर्मयोगं समाश्रित्य देहचेष्टां समाचरेत् । ज्ञानयोगं तथाऽऽश्रित्य साक्षित्वं चाचरेत् बुधः ॥ १०८॥ समयोगं समाश्रित्य आनन्दं आचरेत् परम् । सहजं स समाश्रित्य विपरीतेन शोकभाक् ॥ १०९॥ चतुर्भिः संयुतो भूत्वा चतुभिर्वर्जितस्तथा । तिष्ठेद्योगमयीं दक्षावस्थामाश्रित्य सर्वदा ॥ ११०॥ अवस्था निजरूपे तु कुतोऽवस्थाप्रधारकः । तयोर्योगे योगमयी व्यवस्था ते प्रकीर्तिता ॥ १११॥ चतुर्मयी चतुर्हीना योगावस्था प्रकीर्तिता । योगिभिस्तां समाश्रित्य शान्तिहीनो भवेन्न सः ॥ ११२॥ अधुना श‍ृणु योगस्थामवस्थां द्वितीयां पराम् । अयोगधारिकां पूर्णां सदा निवृत्तिदायिकाम् ॥ ११३॥ ब्रह्मणि ब्रह्मभूतो यो योगी तां संश्रयेत् पराम् । यदा निवृत्तिसंयुक्तः शान्तिहीनो भवेन्न सः ॥ ११४॥ ब्रह्मणि ब्रह्मसंस्थं तन्नागतं न गतं पुनः । मायायां ब्रह्मभूतो योऽवस्थाया धारकः कुतः ॥ ११५॥ यत् कुर्यात् कारयेद्यच्च तत्र नैवावलोकयेत् । (Page खं. ९ अ. ७ पान २९) मायामयं विनिश्चित्य पञ्चकं पञ्चकेषु गम् ॥ ११६॥ नाहं पञ्चकगश्चेद्वै ततस्तत्कृतमञ्जसा । कुतो मयि प्रदृश्येताधार्यनिवृत्तिगो भवेत् ॥ ११७॥ जीवनं मरणं जन्म योगो योगात्मिका परा । अवस्था मे कुतो मायामोहयुक्तं स्मृतं बुधैः ॥ ११८॥ अथ योगमयीं पूर्णामवस्थां श‍ृणु मानद । संयोगायोगहीनां तां यया शान्तो भवेन्न सः ॥ ११९॥ ब्रह्मणि ब्रह्मभूतोऽहं मयि मायामयं परम् । पञ्चकं च कुतो भाति मायाहीनमयोगकम् ॥ १२०॥ विधिनिषेधसंयुक्तं चित्तं भवति सर्वदा । विधिनिषेधहीनं तु तदेवं जायते मुधा ॥ १२१॥ देहेन कर्मयोगश्च ज्ञानगो हृदि जायते । उभयत्र समश्चैव तुर्येषु सहजात्मकः ॥ १२२॥ सर्वसंयोगभावेषु स्वानन्दाख्यः प्रवर्तते । निवृत्तिषु ह्ययोगाख्यो योगेषु शान्तियोगकः ॥ १२३॥ एवं नानाविधं योगं समास्थाय महामतिः । योगी शान्त्या समातिष्ठेद्ब्रह्मीभूतोऽपि निश्चितम् ॥ १२४॥ योगस्थितिः समाख्याता ब्रह्मीभूतसुखप्रदा । अनेन विधिना देहनिर्वाहो योगिनां भवेत् ॥ १२५॥ वर्णाश्रमस्थितो योगी चाचरेत् स्थितिमुत्तमाम् । लोकसङ्ग्रहकार्यार्थमसक्तस्तत्फलादिषु ॥ १२६॥ यदा वर्णाश्रमं त्यक्त्वा पञ्चमाश्रमधारकः । न तस्य स्थितिरूपं तु कदाचिन्नात्र संशयः ॥ १२७॥ विधिनिषेधहीनोऽयं विनायको भवेत् सदा । यद्यत् कुर्यात् स तत् सर्वं योगरूपं भवेत् सदा ॥ १२८॥ यदि स्थितिसमायुक्तो वेदादिषु प्रमाणतः । तदा विधियुतः सोऽपि भवेत् पश्य प्रजापते ॥ १२९॥ यदा स्थितिविहीनोऽयं तिष्ठेत् सङ्कथितं परम् । वेदेषु स निषेधेन तदा युक्तो भवेत् परः ॥ १३०॥ अतः स्थितियुतो योगी स्थितिहीनो यथारुचि । वर्णाश्रमान् परित्यज्य तिष्ठेद्विनायको यथा ॥ १३१॥ शान्त्या नित्यं चरेत् सर्वं मनसीप्सितमञ्जसा । विधिनिषेधहीनश्च ब्रह्मणि रसधारकः ॥ १३२॥ एतत् सर्वं समाख्यातं योगिनां चेष्टितं महत् । ब्रह्मभूतात् परं पूर्णं चरेदेवं निरन्तरम् ॥ १३३॥ श‍ृणुयाद्यः पठेद्वाऽपि स सर्वं हीप्सितं लभेत् । अन्ते योगमयो भूत्वा तिष्ठेत् स गणपे रतः ॥ १३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे योगस्थितिवर्णनयोगो नाम सप्तमोऽध्यायः ॥ ९.७ ॥ इति योगगीतासूपनिषत्सु सुगमासु तृतीयोऽध्यायः ॥ ९(दत्तगीता).३

९.८ योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगशान्तिं समाश्रित्य योगमभ्यस्य नित्यदा । ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथं भवेत् ॥ १॥ मायामयं जगत् सर्वं नानाभ्रमसमन्वितम् । ज्ञात्वा स्वयं पुनर्भ्रष्टः कौतुकं वद मे मुने ॥ २॥ मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य योगिनो बिम्बसंस्थितम् । बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापते ॥ ३॥ दृष्ट्वा नानाविधान् भोगान् स्वयं मोहेन मोहितः । तेषु भूत्वा रसयुतो तानिच्छति निरन्तरम् ॥ ४॥ तत्र तस्य हृदि दक्ष विवेकः संस्थितो भवेत् । तस्य रूपं प्रवक्ष्यामि श‍ृणु बुद्धिविशारद ॥ ५॥ अहं ब्रह्मणि योगेन ब्रह्मीभूतो न संशयः । पापपुण्यादिकं मे न शुभाशुभकृते भवेत् ॥ ६॥ यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् । तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितम् ॥ ७॥ यदा नित्यं प्रभुञ्जाने भोगान्नानाविधान् परान् । पापपुण्यमनादृत्य तदा योगक्षयो न च ॥ ८॥ अतोऽहं योगमृत्सृज्य किमर्थं दुःखसंयुतः । तिष्ठामि शान्तिमाश्रित्य विधिनिषेधसंयुतः ॥ ९॥ एवं मनसि सन्धार्य योगी भोगेषु लालसः । विविधेष्वेव भवति रसयुक्तः क्रमेण सः ॥ १०॥ अयं मोहः समाख्यातो योगिहृद्भ्रान्तिदायकः । तेन शान्तिं परित्यज्य पापपुण्यपरो भवेत् ॥ ११॥ ततः कामं समाश्रित्य देहसौख्यप्रदायकम् । इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः ॥ १२॥ भोगार्थं यतमानस्य योगिनः क्रमभावतः । तत्र विघ्नः कृतः केन ततः क्रोधयुतो भवेत् ॥ १३॥ येन विघ्नः कृतस्तेषु भोगेषु तस्य भोगिनः । तं शत्रुं स हि जानाति भिन्नभावपरायणः ॥ १४॥ ततो ह्यज्ञानसम्भूतिः क्रमेणोत्पद्यते परा । योगिनश्च तया युक्तो हन्तुं तं यतते सदा ॥ १५॥ शत्रुशिक्षार्थमर्थान् स नानाभावसमन्वितः । सम्पाद्य तं तु निर्जित्य भोगान् भुङ्क्ते प्रयत्नतः ॥ १६॥ स्वपरज्ञानहीनत्वं गतं तस्य प्रजापते । तदेवाज्ञानसम्भूतिः शत्रुमित्रप्रदर्शिनी ॥ १७॥ ततः शान्तेः क्रमेणास्य विस्मृतिर्जायते परा । तया युतः स्वयं देहं मन्यते सत्यरूपकम् ॥ १८॥ देहे सन्तोषमापन्ने कृतकृत्यमिव स्थितम् । मन्यते विपरीते स आत्मानं भाग्यवर्जितम् ॥ १९॥ ततो योगं परित्यज्य स्वयं बिम्बी प्रजायते । बिम्बे तन्मयभावेनागमिष्यति न संशयः ॥ २०॥ एवं क्रमेण योगी स शान्तिहीनस्वभावतः । सदा तिष्ठति तं योगं नाश्रयते कदाचन ॥ २१॥ सुखयुक्ते शरीरे स सुखयुक्तो भवेत् स्वयम् । दुःखयुक्ते तथा दुःखी नानाभावपरायणः ॥ २२॥ लेशमात्रमयं शान्तिं लभते न कदाचन । असन्तोषयुतो नित्यं भ्रमते भोगलिप्सया ॥ २३॥ भोगार्थं विविधान्येव नित्यं पापानि चादरात् । चरते सर्वपुण्यानि विधिनिषेधवर्जितः ॥ २४॥ वर्णाश्रमयुतो योगी स्वधर्मं त्यज्य नित्यदा । पापं चरति वा पुण्यं स्वधर्मः संयुतः कदा ॥ २५॥ (Page खं. ९ अ. ८ पान ३१) योगान् भुङ्क्ते विशेषेण मोहयुक्तो निरन्तरम् । योगभ्रष्टोऽयमाख्यातस्त्यक्त्वा योगं नरो भवेत् ॥ २६॥ हृदि तस्य विवेकश्च सदा तिष्ठति मोहदः । पुण्यपापविहीनोऽहं ब्रह्मैव ब्रह्मभावितः ॥ २७॥ अन्ते स नरकान् गच्छेद् द्वन्द्वदुःखप्रदायकान् । यातनां घोररूपां तु पतेद्भुक्त्वा धरातले ॥ २८॥ दक्ष उवाच । योगभ्रष्टगतिं ब्रूहि योगीन्द्र दयया पराम् । कथं नरकगो भूत्वा यातनां प्राप्नुयात् परम् ॥ २९॥ कर्मफलपरित्यागादिहजन्मधरः कथम् । सम्भवेद्विस्मयो भाति चेष्टितं योगिनः परम् ॥ ३०॥ मुद्गल उवाच । ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनात् । ब्रह्मणो भक्तिहीनस्यान्ते स्थानं न भवेत् किल ॥ ३१॥ अपारपुण्ययोगेन ब्रह्मणि देहिनः कदा । रसोत्पत्तिर्भवेद्दक्ष सर्वश्रेष्ठस्य योगदा ॥ ३२॥ देहविषयसंयोगाद् द्वन्द्वभावपरात्मनः । नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते ॥ ३३॥ मृतोऽयं शिवलोके वै वैकुण्ठे सौरशाक्तयोः । ब्रह्मण इन्द्रलोके वा पतेदन्ते न संशयः ॥ ३४॥ शोकहर्षप्रदं विश्वं नानाद्वन्द्वसमन्वितम् । नरको नात्र सन्देहो योगिनां शास्त्रसम्मतम् ॥ ३५॥ उत्पत्तिनाशसंयुक्तं त्यक्त्वा ब्रह्मपरायणः । ब्रह्मणि ब्रह्मभूतः स पुनर्द्वन्द्वपरो यतः ॥ ३६॥ विकुण्ठादिपदे संस्थो द्वन्द्वं भुङ्क्ते निरन्तरम् । उत्पत्तिनाशसंयुक्तं नानाभोगपरायणः ॥ ३७॥ अतो योगी प्रजानाथ स्वर्गाख्यान्नरकान् परान् । भुक्त्वा द्वन्द्वमयान् पश्चादिह जन्मधरो भवत् ॥ ३८॥ भवेद्योगिकुले तस्य जन्म वा तापसे कुले । ऋद्धिमतां स तत्रापि पुनर्योगं चरिष्यति ॥ ३९॥ पूर्वसंस्कारयोगेन न भोगे स रमेत् कदा । चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः ॥ ४०॥ पुनर्न योगभ्रष्टः स सम्भवेद्ब्रह्मणः सुत । शान्त्यायुक्तस्वभावेन शरीरं पोषयेन् मुदा ॥ ४१॥ अन्ते ब्रह्मणि योगी स तदाकारो भवेत् परम् । योगसंस्कारपुण्येन स्थितिं लब्ध्वा महामतिः ॥ ४२॥ एतत्ते कथितं पूर्णं योगभ्रष्टस्य चेष्टितम् । किं पुनः श्रोतुमिच्छा ते वद धातर्वदाम्यहम् ॥ ४३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः ॥ ९.८ ॥ इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ॥ ९(दत्तगीता).४ (Page खं. ९ अ. ९ पान ३२)

९.९ अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । चित्तं चञ्चलमत्यन्तं विषयेषु परायणम् । दुर्ग्रहं शान्तिसंयुक्तं न भवेन् मुनिसत्तम ॥ १॥ अतो योगस्य प्राप्त्यर्थं सिद्ध्यर्थं सुगमं ततः । उपायं वद चित्तस्य जयार्थं वाऽपरं प्रभो ॥ २॥ मुद्गल उवाच । पञ्चचित्तेषु यद्बिम्बं स्थितं भ्रान्त्या समन्वितम् । चिन्तामणेः समाख्यातं तस्यैव भजनं चरेत् ॥ ३॥ तेन चित्तं जयेद्योगी नान्यं पश्यामि भो विधे । विना चित्तजयं योगदायकं नात्र संशयः ॥ ४॥ दक्ष उवाच । सुगमं वद मार्गं मे सर्वेभ्यो ब्रह्मदायकम् । संसेव्य जन्तवः सर्वे ब्रह्मीभूता भवन्ति वै ॥ ५॥ मुद्गल उवाच । अज्ञानेन समायुक्तो नरो विषयलम्पटः । शिश्नोदरपरो नित्यं योगं नेच्छति कर्हिचित् ॥ ६॥ तस्य सकामिकं कर्म सुखदं बोधयेत् परम् । अलभ्यप्रापकं हृद्यमाचरेल्लोभसंयुतः ॥ ७॥ अलभ्यलभ्यलोभेन त्यक्त्वा पापं महाखलः । सत्कर्मनिरतो भूत्वा चरेत् पुण्यं निरन्तरम् ॥ ८॥ ततस्तेनैकभावेन पापं नश्येन्निरन्तरम् । शुद्धोऽत्यन्तं नरः कुर्यात् कर्म कामयुतं परम् ॥ ९॥ समाप्नुयात्ततोऽलभ्यं हृद्यं चेत् पुनरेव सः । विश्वासेन समायुक्तः कुर्यात् कर्म विशेषतः ॥ १०॥ अथवा नैव सम्प्राप्तमलभ्यं तेन तं तदा । उपादिशेद्विशेषेणाधिकं सत्कर्म चाचर ॥ ११॥ अनन्तजन्मभिः पापं त्वया कृतमसंशयम् । अपारमन्तरायो भवति ते तद्विघातकम् ॥ १२॥ एवं कर्मपरः सोऽपि दुःखितोऽत्यन्तमाचरेत् । पापनाशार्थमानन्दात्तेन शुद्धान्तरो भवेत् ॥ १३॥ सत्कामिकपरस्यास्य कर्मात्यन्तप्रभावतः । तस्य बुद्धिर्भवेत् दक्ष निःकामिकपरायणा ॥ १४॥ जन्ममृत्युप्रदा भोगा भुक्ता विविधजन्मसु । अपारसुखदं ब्रह्म न प्राप्तं देहधारिणा ॥ १५॥ अलभ्यं न मया प्राप्तं प्रारब्धाधीनतोऽथवा । प्रारब्धं चालितुं कोऽपि न समर्थो भविष्यति ॥ १६॥ अतो निःकामिकं कर्म करोमि नित्यमादरात् । जन्ममृत्युविहीनोऽहं भविष्यामि न संशयः ॥ १७॥ ब्रह्मसुखमपारं यल्लब्ध्वा ब्रह्मपरायणः । ब्रह्मीभूतो भविष्यामि यत्नं करोमि तत्परः ॥ १८॥ एवं धार्य परित्यज्य कामान् सेवेत् स पञ्चकान् । देवान् गणेशमुख्यांश्च मुक्तिमार्गपरायणः ॥ १९॥ सालोक्यादिभवं सौख्यमिच्छति नित्यमादरात् । क्रमेण तपसा युक्तो प्रभवेन् मानवस्ततः ॥ २०॥ विभूतिर्ब्रह्मणः प्रोक्ता नानारूपा प्रजापते । तत्र तस्य रमेच्चित्तमैश्वर्यैर्युक्तभावतः ॥ २१॥ इमे समर्थरूपा वै ब्रह्मणः परमात्मनः । अंशतेजोधरास्तस्य सर्वाधीशा भवन्त्यतः ॥ २२॥ एवं सर्वत्र सञ्चिन्त्य तेषां पूजापरो भवेत् । लभेत्तत् कृपया दक्ष चित्तशुद्धिं नरोत्तमः ॥ २३॥ विचारेण गणेशानं ज्ञात्वा सम्पूर्णमञ्जसा । सर्वपूज्यादिचिह्नैस्तं श्रेष्ठं तत्र रतो भवेत् ॥ २४॥ ज्ञात्वा स्वानन्दनाथं तं स्वानन्दार्थं विशेषतः । प्रभजेद्गणराजं स निष्कामभक्तिसंयुतः ॥ २५॥ ततोऽहर्निशमत्यन्तं भजेत्तत्तपसा युतः । (Page खं. ९ अ. ९ पान ३३) मोक्षार्थं सर्वभावेन विरक्तो विषयादिषु ॥ २६॥ गणेशकृपया तस्य चित्तशुद्धिर्भवेत् परा । तया सर्वस्वभावेन भजेत्तं गणनायकम् ॥ २७॥ विश्वं चराचरं सर्वं जानीयात्तत्स्वरूपकम् । सर्वेषां हितभावेन भजेत्तं द्विरदाननम् ॥ २८॥ कस्यापि सम्भवेत् दुःखं तादृशं प्रचरेन्न सः । सहन् सन् द्वन्द्वजं भावमार्जवेन समन्वितः ॥ २९॥ देवकार्यं विना साधुर्न छिन्द्यात् स कदाचन । पत्रादिकं विशेषेण विश्वरूपपरायणः ॥ ३०॥ एकान्ते निर्जने स्थाने स्थित्वा ध्यात्वा गजाननम् । पूजयेद्भक्तिसंयुक्तो ध्यानं कुर्याद्विशेषतः ॥ ३१॥ अनन्यमनसा देवं भजेत्तं भावधारकः । शमदमपरो भूत्वा चित्तनिग्रहमाचरेत् ॥ ३२॥ दुर्जयं चित्तमत्यन्तं ज्ञात्वा वायुनिबन्धतः । प्राणायामपरो भूत्वा जयेत्तन्नात्र संशयः ॥ ३३॥ अथ वायुनिरोधस्य वदामि मार्गमुत्तमम् । येन पापं परित्यज्य शुद्धचित्तो नरो भवेत् ॥ ३४॥ पूरयेद्वामनासायां वायुं तस्माच्चतुर्गुणम् । धारणं तस्य कुर्यात् स स्वोदरे नियतो भवेत् ॥ ३५॥ पूरकाद् द्विगुणं कुर्याद्रेचकं च प्रजापते । पुनर्नसा दक्षिणया पूरयेत् कुम्भकं चरेत् ॥ ३६॥ वामया रेचकं चैव पुनः पुनर्निरन्तरम् । प्राणायामं चरेद् धीमान् पापहीनो नरो भवेत् ॥ ३७॥ एवं त्रैकालिकं कुर्यात् प्राणायामं विशेषतः । नातिनिरोधसंयुक्तं वायुं हठसमन्वितः ॥ ३८॥ अतिहठेन संरुद्धो वायू रोमभ्य एव च । निःसृत्य कुष्ठसंयुक्तं तं करोति न संशयः ॥ ३९॥ नाभिमूलस्थिता नाडी इडा च पिङ्गलाऽपरा । सुषुम्णा तत्र रोधेन मार्गो भवति निर्मलः ॥ ४०॥ अपानो नाभिमूलस्थो ह्यधो गच्छति सर्वदा । प्राण ऊर्ध्वं तथा जन्तोर्नाडीभिः प्रेरितः सदा ॥ ४१॥ मार्गरोधनभावेन नाड्यां मार्गो भविष्यति । वायुर्मूलं समाश्रित्य तिष्ठति क्रमतस्ततः ॥ ४२॥ तत्र लघ्वक्षराण्येव द्वादशापि प्रतिष्ठति । वायुश्चेत् स लघुः प्रोक्तः प्राणायामश्च योगिभिः ॥ ४३॥ ततो द्विगुणतस्तिष्ठेद्यदा वायुः सुरोधितः । मध्यमः स समाख्यातस्त्रिगुणादुत्तमोत्तमः ॥ ४४॥ एवं प्राणमपानं च स्वमूले सन्नयेद् बुधः । तयो रोधनभावेन मूलगौ तौ भविष्यतः ॥ ४५॥ एवं क्रमेण मूलेऽयं वायुर्मुहूर्तं संस्थितः । तदा समानगा नाडी भिद्यते तत्र संस्थिता ॥ ४६॥ सा सुषुम्णा समाख्याता तत्र सम्मिलितौ क्रमात् । प्राणापानौ समौ भूत्वा तद्रूपौ तौ भविष्यतः ॥ ४७॥ त्रिकालज्ञः स्वयं सिद्धो भविष्यति नरोत्तमः । वायुसाधनपात्रत्वं प्राप्य तेजःसमन्वितः ॥ ४८॥ ततः स्वाधीनतां यातौ प्राणापानौ विशेषतः । स नयिष्यति तौ यत्र क्रमात्तत्र गमिष्यतः ॥ ४९॥ ततो ध्यानपरो भूत्वा षट्चक्रभेदने रतः । चक्रस्थं स्वस्वरूपं स पश्येत्तद्वायुना गतः ॥ ५०॥ एवं क्रमेण योगीन्द्रो गच्छेद्भेद्य प्रजापते । सहस्रारे स चक्राणि तत्र पश्येद्गजाननम् ॥ ५१॥ (Page खं. ९ अ. ९ पान ३४) तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना । वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥ ५२॥ क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति । पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥ ५३॥ ततः स्वाधीनतायुक्तः प्रभवेत् स्वेन तेजसा । यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥ ५४॥ किञ्चिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् । नो चेच्छन्दरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥ ५५॥ साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते । बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥ ५६॥ आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् । ताभ्यां चित्तं विनिर्गृह्य स्ववशं कारयेन्नरः ॥ ५७॥ बाह्यकर्मरताज्जन्तोरान्तरं शीघ्रसिद्धिदम् । सहस्राधिकभावाख्यं प्रोक्तं योगीन्द्रमुख्यकैः ॥ ५८॥ अतः परं तृतीयं ते साधनं कथयाम्यहम् । येन योगीन्द्रसेव्यः स ध्रुवं भवति मानवः ॥ ५९॥ चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते । शुद्धचित्तो नरः पश्चात् सम्पश्येद्ब्रह्म शाश्वतम् ॥ ६०॥ सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् । अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥ ६१॥ एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः । बाह्यान्तरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥ ६२॥ चित्तं रसयुतं कुत्र जायते योगिनः परम् । तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥ ६३॥ स्वधर्मसंयुतो भूत्वा देहनिर्वाहकं चरेत् । देहस्य शमनं तच्च जायते स दमः स्मृतः ॥ ६४॥ विषयार्थं मनस्तस्य सङ्कल्पं यत् समाचरेत् । तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥ ६५॥ अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् । स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरं भवेत् ॥ ६६॥ शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् । धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥ ६७॥ कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः । ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥ ६८॥ मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् । ध्यानं सङ्कल्पत्यागाख्यं विषयेषु निरन्तरम् ॥ ६९॥ यो यश्चित्तेन सङ्कल्पः क्रियते विषयेषु च । तत्तत्सङ्कल्पहीनं स कारयेद्योगतत्परः ॥ ७०॥ एवं चित्तं नरस्यैव स्वाधीनं जायते सदा । यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥ ७१॥ देहेन्द्रियाणि सङ्गृह्य तिष्ठेद्भुमौ महायशाः । न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥ ७२॥ तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् । परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥ ७३॥ केनापि जलपानादि न दत्तं तादृशो वसेत् । न तदर्थं श्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥ ७४॥ सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः । नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥ ७५॥ तथापि न चलेत् सोऽपि स्वस्थानाज्जडवत्परः । देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥ ७६॥ पूर्वजन्मकृतं कर्म मया तेन प्रबोधितः । (Page खं. ९ अ. ९ पान ३५) इमे सम्पीडयन्त्येवमेषां दोषो न विद्यते ॥ ७७॥ अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः । नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥ ७८॥ पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः । मया मां पूजयन्त्येव गुण एषां न विद्यते ॥ ७९॥ एवं मनसि सन्धार्य तेषां नेच्छेच्छुभं कदा । द्वन्द्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥ ८०॥ अनेन विधिना सोऽपि स्वल्पकालेन भो विधे । चित्तं जयेन्न सन्देहः शान्तिं पूर्णामवाप्नुयात् ॥ ८१॥ नान्यत् किञ्चिच्चरेत् कर्म न ध्यानादिकमादरात् । एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥ ८२॥ विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः । कीदृशं ब्रह्म हृत्स्थं मे वेदाद्यैः प्रतिपादितम् ॥ ८३॥ पञ्चभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः । नानाब्रह्मणि पश्यन् सन्नन्ते शान्तिमवाप्नुयात् ॥ ८४॥ शान्तियुक्तो नरः पश्चात् सन्त्यजेत्तां महाद्भुताम् । जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥ ८५॥ हृदि चिन्तामणिं दृष्ट्वा पञ्चभूमिप्रचालकम् । शान्त्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥ ८६॥ दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा । सर्वत्र नात्र सन्देहः शान्त्या सर्वं समाचरेत् ॥ ८७॥ अनेन विधिना दक्ष ज्ञानी पापपरायणः । क्रमेण साधयेद्योगं स योगी सम्भवेत् परः ॥ ८८॥ एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः । इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥ ८९॥ स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरन्तरम् । निन्द्यभोगान् प्रभुञ्जन् सन्नन्ते स्वानन्दगो भवेत् ॥ ९०॥ गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति । ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥ ९१॥ ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः । तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥ ९२॥ एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुतः । कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥ ९३॥ तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् । निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥ ९४॥ एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः । त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥ ९५॥ कर्मत्यागबलेनैवाहं ब्रह्म निश्चयेन सः । क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥ ९६॥ निःकामकर्मकर्ता स पुनरन्यभवे नरः । योगरससमायुक्तो भवेद्विषयनिन्दकः ॥ ९७॥ एवं क्रमेण शान्तिं स लभेत् पूर्णां न संशयः । क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥ ९८॥ सुगमं सर्वभावेषु गणेशभजनं परम् । तेन योगी भवेन्नूनं सर्वशास्त्रेषु सम्मतम् ॥ ९९॥ यत्किञ्चिद् गणराजस्य व्रतपूजादिकं प्रभोः । कीर्तनश्रवणाद्यं तु ब्रह्मीभूतप्रदायकम् ॥ १००॥ नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् । अहर्निशं तदास्यान्ते गणेशस्मरणं भवेत् ॥ १०१॥ तेन स्वानन्दगो भूत्वा योगमभ्यस्य तन्मयः । ब्रह्मकल्पान्तभावे स भविष्यति न संशयः ॥ १०२॥ (Page खं. ९ अ. १० पान ३६) स्मरणं गणराजस्य प्रकुर्यान्नित्यमादरात् । तस्यान्ते गणराजस्य स्मृतिं दद्यान्नराय सः ॥ १०३॥ अतोऽहर्निशमेकं तं संस्मरेन् मानवः परम् । नानायोगादिकं सर्वं साध्य योगिसमो भवेत् ॥ १०४॥ आयासेन विहीनोऽपि सदा विषयलम्पटः । गणेशस्मरणे सक्तः सः शुकसमतां व्रजेत् ॥ १०५॥ शिवविष्णुमुखादीनां नरो यः स्मरणं चरेत् । अन्ते तेषां स्मृतिं तस्मै स दद्याच्चित्तगः प्रभुः ॥ १०६॥ तेषां लोकं समासाद्य भुक्त्वा भोगान् मनोहरान् । प्रपतेन्नाऽत्र सन्देहो मृत्युलोके विशेषतः ॥ १०७॥ पुराणेषु प्रपठ्यन्ते त्रिगुणानां लयाः सदा । अतः स जन्ममृत्युभ्यां युक्तो भवति तद्गतः ॥ १०८॥ अतः सारं समाख्यातं गणेशभजनं परम् । तेनाज्ञानसमायुक्तो नरो ब्रह्ममयो भवेत् ॥ १०९॥ एतत्ते कथितं दक्ष योगप्राप्त्यर्थमादरात् । अज्ञानसंयुतस्यापि ब्रह्मीभूतप्रदायकम् ॥ ११०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामतार्थशास्त्रे अज्ञानिनां क्रमयोगवर्णनं नाम नवमोऽध्यायः ॥ ९.९ ॥ इति योगगीतासूपनिषत्सु सुगमासु पञ्चमोऽध्यायः ॥ ९(दत्तगीता).५

९.१० विभूतियोगो नाम दशमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । विभूतीर्वद योगीश गणेशस्य महात्मनः । या ज्ञात्वा ताः समाराध्य गणेशज्ञो भवेन्नरः ॥ १॥ मुद्गल उवाच । अपारा गणनाथस्य विभूतयो न संशयः । ता न शक्ताः कथयितुं भवन्ति शङ्करादयः ॥ २॥ क्षणे क्षणे गणेशानो नानाखेलपरायणः । विभूतिभिर्जगत्सर्वं भावयति परात्परः ॥ ३॥ लोकेषु तत्त्वमुख्येषु जगत्सु ब्रह्मसु प्रभोः । ये श्रेष्ठास्तस्य ते सर्वे विभूतिपदधारकाः ॥ ४॥ कल्पे कल्ये विभूतीनामवतारा असङ्ख्यकाः । गणेशस्य तथा दक्ष तान् वक्तुं कः क्षमो भवेत् ॥ ५॥ अतः सङ्क्षेपतस्तुभ्यं कथयिष्यामि ताः श‍ृणु । विभूतीर्गणनाथस्य नानासिद्धिप्रदायिनीः ॥ ६॥ जगत्सु ब्रह्मसु प्राज्ञ योगरूपो गजाननः । कथं न भिन्नभावाख्यं वर्तते वर्णयाम्यहम् ॥ ७॥ मायाभ्यां संयुतः सोऽपि नानावेषप्रधारकः । अयोगिनामिदं हृद्यं सत्यं सम्भासते सदा ॥ ८॥ मायायुक्तप्रभावेण किं किं गजाननस्य च । (Page खं. ९ अ. १० पान ३७) न सम्भवेदहं मायां समाश्रित्य वदामि ताः ॥ ९॥ कलांशाः कलया युक्ताः कलांशांशाः कलात्मकाः । तेषामंशधरा ये ते सर्वे विभूतिधारकाः ॥ १०॥ एवमेव गणेशानः पृष्टश्च नारदेन सः । जगाद ताः श‍ृणुष्व त्वं विभूतीः परमाद्भुताः ॥ ११॥ श्रीगणेश उवाच । पूर्णो योगेषु सर्वेषु चित्तरोधमयः परः । मायाहीनप्रभावाणामयोगोऽहं महामुने ॥ १२॥ स्वानन्दो निजभूतेषु तुर्येष्वव्यक्तसंज्ञितः । आनन्दसमभावेषु जीवेष्वात्माहमञ्जसा ॥ १३॥ नानाभेदेषु ब्रह्माहमसद्रूपप्रधारकम् । सत्येषु साङ्ख्यरूपोऽहं बोधः खेलकरेषु च ॥ १४॥ देहाभिमानयुक्तेषु सदैकोऽहं महामते । देहेषु बिन्दुरूपोऽहं चेतनासु गुणेश्वरः ॥ १५॥ कोशेष्वानन्दकोशोऽहं विज्ञानं सूक्ष्मजातिषु । विवेकेषु मनश्चाहं चालकेषु समीरणः ॥ १६॥ स्थूलेष्वन्नस्वरूपोऽहं समष्टिषु तथेश्वरः । व्यष्टिषु प्राज्ञरूपोऽहमणुषु च महाविराट् ॥ १७॥ इन्द्रियेषु मनश्चाहं भूतेष्वाकाशसंज्ञितः । तन्मात्राणामहं शब्दो ज्ञाताहं देवतासु च ॥ १८॥ तत्त्वेषु विविधेष्वेव महत्तत्त्वमहं परम् । गुणेषु गुणपोऽहं तु पालकेषु जनार्दनः ॥ १९॥ हरः संहारकर्तॄणां स्रष्टॄणां प्रपितामहः । कर्मणामर्यमाऽऽत्माऽहं मोहकानां च शक्तिका ॥ २०॥ देवानां मघवाऽहं तु आदित्यानां विनायकः । तेजसां भानुरूपोऽहममृतेषु विधुः परः ॥ २१॥ अग्निः प्रतापदेष्वेव धर्मः समप्रवृत्तिषु । यमो यमवतां चाहं रक्षसां निरृतिः स्वयम् ॥ २२॥ जलेषु वरुणोऽहं तु बलवत्सु समीरणः । निधीनां धनदाताऽहं रुद्राणां शङ्करः प्रभुः ॥ २३॥ कामो धनुर्धराणां च रतिर्भोगेषु भोगदा । नागेशानामहं शेषः सर्पाणां तक्षकः स्वयम् ॥ २४॥ नागानां वासुकिर्नाम जम्बुर्द्वीपेषु सर्वदः । स्वादूदकः समुद्राणां पर्वतेषु हि मेरुकः ॥ २५॥ पितॄणां यमरूपोऽहं वृक्षेषु शमिका मता । देववृक्षेषु मन्दारस्तरूणां कामदायकः ॥ २६॥ धेनूनां कामधेनुर्या दूर्वा चौषधिषु प्रभुः । पक्षिषु तु मयूरोऽहं मृगाणां सिंहरूपधृक् ॥ २७॥ मासानां श्रावणश्चाहं चौराणां मूषकाधिपः । वाहनेष्वश्ववाहोऽहं सिद्धिरैश्वर्यदेषु च ॥ २८॥ विद्यासु बुद्धिरूपोऽहं चित्तं प्रकाशकारिणाम् । अहं मनश्च वेगानां मोहदेष्वभिमानकः ॥ २९॥ नराधिपो नराणां तु वर्णेषु ब्राह्मणोह्यहम् । आश्रमेषु तुरीयोऽहं पोषकेषु गृहस्थकः ॥ ३०॥ त्यागिनामवधूतोऽहं तिथीनां च चतुर्थिका । प्रजापतिषु दक्षोऽहं ब्रह्मर्षिषु भृगुस्तथा ॥ ३१॥ नारदो दैवतर्षीणां दत्तोऽवधूतरूपिणाम् । कपिलस्तत्त्वविज्ञानां योगिनां शुक एव यः ॥ ३२॥ जनकोऽहं विदेहानां निःसङ्गेषु महामुने । सनकादय एवाऽहं ज्ञानिनां बादरायणः ॥ ३३॥ वसिष्ठः कर्मकर्तॄणां गाणपत्येषु मुद्गलः । भृशुण्डी चैकनिष्ठेषु ब्रह्मिष्ठानां बृहस्पतिः ॥ ३४॥ अन्नानां तिलरूपोऽहं गव्यानां घृतमञ्जसा । मधु सर्वरसानां च मकरो जलजात्मनाम् ॥ ३५॥ कौमण्डली नदीनां च तीर्थेषु गाणपं परम् । क्षेत्राणां मयूरक्षेत्रं काशिराजः सुबुद्धिषु ॥ ३६॥ मयूरेशोऽवताराणां गार्ग्य उपासकात्मनाम् । ध्याननिष्ठेषु सर्वेषु गृत्समदोऽहमेव च ॥ ३७॥ सुबोधौ दैत्यजातीनां ज्ञानारिर्द्वेषकारिणाम् । दुर्जयेषु मनश्चाहं वर्णेष्वोङ्कार एव सः ॥ ३८॥ शुक्रोहं भाविकेष्वेव त्रिशिराः शुद्धचेतसाम् । उपदेशप्रदातॄणां याज्ञवल्क्यः प्रतापवान् ॥ ३९॥ पौराणिकेषु सूतोऽहं श्रोतॄणां शौनको मुनिः । सेनानीनामहं स्कन्दो विष्णुर्यशस्विनामहम् ॥ ४०॥ पापेष्वनृतरूपोऽहं कलहो भेदधारिणाम् । प्राप्तिषु लोभरूपोऽहं मणीनां चिन्तितार्थदः ॥ ४१॥ ज्ञानं पवित्रं भावानां सामगायकधर्मिणाम् । वेदेष्वथर्वसंज्ञोऽहं शस्त्रेषु परशुः परः ॥ ४२॥ निर्लेपानामहं साक्षी राजश्रीषु गजस्तथा । विषयो भ्रान्तिदानां च रम्भा ह्यप्सरसामहम् ॥ ४३॥ गन्धर्वाणां चित्ररथो वैद्यानां वैद्यनायकः । धन्वन्तरिस्तु भिषजां समुद्रः सरसात्मनाम् ॥ ४४॥ स्रोतसां जाह्नवी विप्र मन्त्राणामेकवर्णजः । सूक्तेषु ब्राह्मणस्पत्यं यज्ञेषु ज्ञानरूपधृक् ॥ ४२॥ प्राणेषु तु समानोऽहं शक्तिः शक्तिमतामहम् । बृहदारण्यकं विद्धि नानोपनिषदां परम् ॥ ४६॥ शास्त्रेषु योगशास्त्रं च पुराणेषु च मौद्गलम् । अरण्यानां महारण्यं दण्डकाख्यमहं परम् ॥ ४७॥ नियन्तॄणामहं दण्डो मायाऽहं भावकारिणाम् । स्मृतीनां याज्ञवल्क्यस्य स्मृतिरेव परा मता ॥ ४८॥ गायत्री छन्दसां विप्र स्वानन्दो नगरात्मनाम् । व्याकरणमङ्गभूतेषु कलासु योगदा ह्यहम् ॥ ४९॥ नीतिज्ञेषु तथा काव्यो वृषभो भूमिधारिणाम् । नन्दिकेशो गवां चाहं नग्नो भैरवभाविनाम् ॥ ५०॥ एवं नानाविधाऽऽकारा विभूतीर्गणपस्य या । कथितुं नैव शक्या सा सारा सङ्कथिता मया ॥ ५१॥ यद्यच्छ्रेष्ठतमं विप्र सा विभूतिर्न संशयः । लोकेषु गणराजस्य तां भावय विशेषतः ॥ ५२॥ मुद्गल उवाच । एवमुक्त्वा गणेशानो विरराम प्रजापते । नारदस्तं प्रणम्यैव जगाम तादृशोऽभवत् ॥ ५३॥ य इमां श्रावयेद्दक्ष श‍ृणुयाद्वा प्रयत्नतः । न मोहं स लभेत् क्वापि ज्ञात्वा सामर्थ्यजं महः ॥ ५४॥ अपारमहिमायुक्ता जीवाश्च परमेश्वराः । ते सर्वे विघ्नराजस्य विभूतिपदधारकाः ॥ ५५॥ एवं ज्ञात्वा गणेशानं ये भजन्ति मनीषिणः । ते सर्वे ब्रह्मभूताश्च भविष्यन्ति प्रजापते ॥ ५६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन विभूतियोगो नाम दशमोऽध्यायः ॥ ९.१० ॥ इति योगगीतासूपनिषत्सु सुगमासु षष्ठोऽध्यायः ॥ ९(दत्तगीता).६ (Page खं. ९ अ. ११ पान ३९)

९.११ तत्त्वविचारयोगो नाम एकादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । त्वया प्रोक्तः पुरा विप्र विचारो ब्रह्मणः परः । तं कृत्वा योगमाप्नोति तद्वदस्व हितावहम् ॥ १॥ क्रियया शुद्धचित्तो यो नरो ब्रह्मपरायणः । सर्वत्र ब्रह्मरूपं यद्विधिना केन पश्यति ॥ २॥ मुद्गल उवाच । बाह्यान्तरां क्रियां कृत्वा शुद्धचित्तो नरोत्तमः । तत्त्वविचारमार्गेण पश्यति ब्रह्म शाश्वतम् ॥ ३॥ तत्तेऽहं कथयिष्यामि तत्त्वज्ञानं प्रजापते । आदौ योगिजनानां यत् साधनं योगदायकम् ॥ ४॥ पृथ्वी जलं तथा तेजो वायुराकाशमेव यत् । पञ्चभूतमयो देहः प्रकृतिः सा च पञ्चधा ॥ ५॥ क्रियारूपा महाभागा नानाभेदपरायणा । विभज्यात्मानमेवं सा क्रीडति विविधे रता ॥ ६॥ भूतानामेकभावाख्या पञ्चानां ज्ञानरूपिणी । प्रकृतिर्हृदि संस्था सा जीवभावधरा परा ॥ ७॥ तया ज्ञानं भवेत् सर्वं नानाविवेकदायकम् । तदाधारं जगत् सर्वमेकरूपा प्रकीर्तिता ॥ ८॥ तयोर्योगे प्रजानाथ ब्रह्मैवमभिधीयते । क्रियाज्ञानस्वरूपाख्यं द्वन्द्वहीनं परात्परम् ॥ ९॥ तदेव पञ्चधा जातं श‍ृणु तद्योगदायकम् । स्थूलं सूक्ष्मं समं चात्मप्रतीतं बिन्दुसंज्ञितम् ॥ १०॥ समष्टिव्यष्टिभावेन द्विविधं ब्रह्म कथ्यते । पृथक्त्वेन स्वयं भाति पञ्चसु पञ्चभेदतः ॥ ११॥ स्थूलं जागृन्मयं ब्रह्म तदेव द्विविधं मतम् । विश्वाख्यं व्यष्टिरूपेण वैश्वानरं समष्टिगम् ॥ १२॥ अण्डेषु विविधा रूपा जन्तवो दृष्टिगोचराः । जागृद्भावधराः सर्वे विश्वात्मका उदाहृताः ॥ १३॥ तस्य बोधं प्रवक्ष्यामि सुगमार्थप्रकाशकम् । क्रियात्मकेषु देहेषु क्रियारूपा भवन्ति ते ॥ १४॥ ज्ञानात्मकेषु देहेषु ज्ञानरूपधरा मताः । उभयोर्योगभावेन विश्वाख्यास्ते प्रकीर्तिताः ॥ १५॥ बाह्यदेहस्य भो दक्ष वितस्तिर्यादृशी भवेत् । तावन्मानेन सर्वेषां ज्ञानदेहो हृदि स्थितः ॥ १६॥ विराट् जागृत् स्वरूपस्थो वैश्वानर इति स्मृतः । व्यापकात्मकदेहेन तिष्ठति विश्वभाविषु ॥ १७॥ तस्यापि द्विविधो देहः क्रियाज्ञानप्रभेदतः । तयोर्योगे समाख्यातो वैश्वानरश्च तन्मयः ॥ १८॥ विश्ववैश्वानरयोश्च योगे ब्रह्म प्रकीर्तितम् । जागृद्भावधरं पूर्णं स्थूलभूतप्रकाशकम् ॥ १९॥ एतत् स्थूलस्य तत्त्वं ते कथितं तु समासतः । तत्र तत्त्वविधिं भिन्नं श‍ृणु योगसमाधिदम् ॥ २०॥ जन्ममृत्युयुतं यच्च नानाभावपरायणम् । त्वम्पदाख्यं प्रजानाथ विद्धि तत् सर्वभावगम् ॥ २१॥ जन्ममृत्युविहीनं यदेकरूपं प्रकीर्तितम् । तत्पदाख्यं च तद्विद्धि परं सर्वात्मधारकम् ॥ २२॥ तयोर्योगे भवेत्तत्वं तदेवासिपदं परम् । द्वन्द्वभावविहीनं यद् द्वन्द्वरूपप्रकाशकम् ॥ २३॥ त्वम्पदं क्रियया युक्तं ज्ञानाख्यं तत्पदं भवेत् । तयोर्योगे भवेद्विश्वं तत्त्वरूपं न संशयः ॥ २४॥ एवं वैश्वानराख्यं त्वं जानीहि तत्त्वसंज्ञितम् । क्रियाज्ञानसमायोगे तयोः प्रकाशकारकम् ॥ २५॥ अथान्यच्छृणु दक्ष त्वं तत्त्वरूपं पुरातनम् । विश्वाख्या जन्तवः सर्वे नानाभावात्मका बुधैः ॥ २६॥ जन्ममृत्युयुताः प्रोक्तास्त्वम्पदधारका मताः । वैश्वानरस्त्वम्पदश्चैकरूपाद्व्यापको मतः ॥ २७॥ तयोरभेदभावे यद्ब्रह्मतत्त्वं प्रकीर्त्यते । जागृद्भावधरं पूर्णं स्थूलभावपरायणम् ॥ २८॥ एवं नानाविभागेषु ज्ञातव्यं तत्त्वरूपकम् । सूक्ष्मादिषु प्रजानाथ ब्रह्मसौख्यप्रदायकम् ॥ २९॥ अथ सूक्ष्मं प्रवक्ष्यामि योगमार्गप्रसिद्धये । शुद्धचित्तप्रभावेण तज्ज्ञानं तन्मयं भवेत् ॥ ३०॥ बाह्यं स्थूलं विशेषेण जागृदन्नमयं परम् । आन्तरं स्वप्नभावाख्यं सूक्ष्मं जानीहि मानद ॥ ३१॥ प्राणो दशविधः प्रोक्तः सूक्ष्मरूपोंऽतरे स्थितः । तस्मात् सूक्ष्मं मनः प्रोक्तं प्राणान्तः संव्यवस्थितम् ॥ ३२॥ तस्मात् सूक्ष्मं च विज्ञानं देहद्वन्द्वज्ञमुत्तमम् । मनोंऽतरे स्थितं पूर्णं तदन्तर्न च विद्यते ॥ ३३॥ त्रिविधं कोशसंयुक्तं स्वप्नं सूक्ष्मस्वरूपकम् । सर्वान्तरे स्थितं ब्रह्म द्वन्द्वमायाप्रचालकम् ॥ ३४॥ क्रियारूपस्तथा देहः सूक्ष्मभूतमयः स्मृतः । सर्वान्तरे समास्थाय कल्पिताभोगकारकः ॥ ३५॥ ज्ञानदेहः समाख्यातः सदैकभावधारकः । पूर्ववत् सर्वं विज्ञेयं सूक्ष्ममायाप्रकाशकम् ॥ ३६॥ भिन्नभावधराः सर्वे जन्तवः स्वप्नगाः पराः । तैजसास्ते मताः शास्त्रे क्रियाज्ञानप्रकाशकाः ॥ ३७॥ विराट् तत्र समाख्यातो हिरण्यगर्भसंज्ञितः । व्यापकः स्वप्नभावेषु नानाजन्तुप्रचालकः ॥ ३८॥ तयोरभेदभावे यद्ब्रह्म स्वप्नात्मकं परम् । सूक्ष्ममायाप्रकाशत्वात् सूक्ष्मं तत् कथ्यते बुधैः ॥ ३९॥ पूर्ववत्तत्त्वभावश्च विज्ञेयः सूक्ष्मगः परः । शुद्धचित्तप्रभावेण साक्षात्कारं करोति सः ॥ ४०॥ अतः परं समाख्यं यद्ब्रह्म सुषुप्तिसंज्ञितम् । कथयामि महाप्रीत्या लोकानामुपकारकम् ॥ ४१॥ बाह्यं जागृन्मयं दक्ष वपुः सर्वत्र पठ्यते । आन्तरं स्वप्नमित्युक्तं तयोर्योगे समात्मकम् ॥ ४२॥ बाह्यान्तरैकभावाख्यं बाह्यान्तरविवर्जितम् । आनन्दकोशगं साम्यं कृतं भूतैर्गुणात्मकैः ॥ ४३॥ जागृत्त्यक्त्वा नरो यस्तु स्वप्नं गच्छति तत्र सः । तयोः सन्धिं समाश्रित्य सुषुप्तिर्जायते परा ॥ ४४॥ तथा स्वप्नं परित्यज्य जागृतिं गच्छति स्वयम् । तयोः सन्धिं समास्थाय तिष्ठति सा सुषुप्तिका ॥ ४५॥ यत्र सुप्तो नरो दक्ष ज्ञानयुक्तो भवत्यसौ । न जानाति स्वकं चान्यं स्वप्नं नैव प्रपश्यति ॥ ४६॥ सा सुषुप्तिः समाख्याता निद्रां संश्रित्य तिष्ठति । जागृतिस्वप्नबोधं या करोति सा सुषुप्तिका ॥ ४७॥ सा द्विधा मायया युक्ता प्राज्ञेश्वरस्वभावतः । भिन्नदेहधराणां तु प्रज्ञाख्या सा प्रकीर्तिता ॥ ४८॥ विराड्रूपधरा नित्या सेश्वराख्या प्रकथ्यते । ब्रह्मरूपा तयोर्योगे तत्त्वसंज्ञा यथा पुरा ॥ ४९॥ अथ तुरीयरूपं ते कथयामि समासतः । नादरूपधरं भूततन्मात्राभेदमञ्जसा ॥ ५०॥ व्यवस्थासंश्रितं पूर्णं त्रिषु साक्षिवदुच्यते । तस्यानुभवमाहात्म्यं कथयामि हिताय ते ॥ ५१॥ मया जागृन्मयं भुक्तं मया स्वप्नं विलोकितम् । निद्रायां न मया किञ्चिज्ज्ञातं वदति यः स वै ॥ ५२॥ (Page खं. ९ अ. ११ पान ४१) यदा जागर्ति विश्वस्थस्तदा द्वाभ्यां विवर्जितः । यदा स्वपिति स द्वाभ्यां हीनस्तिष्ठति निश्चितम् ॥ ५३॥ यदा सुषुप्तिसंस्थोऽयं तदा द्वाभ्यां विवर्जितः । एवं भेदप्रकारैः स व्यवस्थासंयुतो मतः ॥ ५४॥ तस्य तत्त्वं प्रवक्ष्यामि वैश्वतैजसप्राज्ञगः । त्वम्पदाख्यः समाख्यातो नादरूपधरः प्रभुः ॥ ५५॥ त्रिविराण्मय एवासौ तत्पदाख्यः प्रकीर्त्यते । तयोरभेदभावे स तत्त्वरूपोऽस्मितामयः ॥ ५६॥ अवस्थानां समायोगो नादस्तुरीयधारकः । सदैकभावसंयुक्तः सर्वत्राऽसौ विराजति ॥ ५७॥ न बाह्यो नांऽऽतरस्थोऽयं नोभयात्मक उच्यते । अहमित्येव कोशात्माऽस्मिताख्यः परमेश्वरः ॥ ५८॥ अतः परं प्रवक्ष्यामि बिन्दुतत्त्वं सुसौख्यदम् । पञ्चमं ब्रह्मसंज्ञं तत् देहानां देहगं परम् ॥ ५९॥ व्यवस्थामयसंस्थं यत्त्वम्पदस्थं प्रकथ्यते । तुरीयसंज्ञितं देहं तत्पदाख्यं प्रकीर्तितम् ॥ ६०॥ तयोरभेदभावे यत्तत्त्वं योगमयं परम् । चतुर्षु संस्थितं पूर्णं चतुर्भिर्वर्जितं सदा ॥ ६१॥ एवं तत्त्वविचारेण शमदमपरायणः । सङ्कल्पजान् सदा कामांस्त्यक्त्वा योगमयो भवेत् ॥ ६२॥ सर्वत्र ब्रह्मसंस्थं यत् पश्येत्तन्नात्र संशयः । तत्त्वरूपधरं पूर्णं तत्त्वविचारतः सदा ॥ ६३॥ अथान्यत्तत्त्वमार्गं ते कथयिष्यामि सर्वदम् । बिन्दुस्त्वम्पदसंज्ञस्थः सोऽहं तत्पदगं मतम् ॥ ६४॥ तयोर्योगे प्रजानाथ बोधस्तत्त्वमयः स्मृतः । मनोवाणीविहीनत्वात् दृश्यते योगिना परः ॥ ६५॥ बोधस्त्वम्पदरूपश्च विबोधस्तत्पदात्मकः । तयोर्योगे स्वसंवेद्यं तत्त्वं वेदे प्रकीर्तितम् ॥ ६६॥ असत्त्वम्पदरूपं सत्तत्पदस्थमुदुच्यते । तयोर्योगे समं ब्रह्म तत्त्वं योगप्रदं मतम् ॥ ६७॥ समं त्वम्पदसंज्ञस्थमव्यक्तं तत्पदस्थितम् । तयोर्योगे तथा तत्त्वं स्वानन्दाख्यं प्रकीर्तितम् ॥ ६८॥ स्वानन्दस्त्वम्पदाख्यश्चायोगस्तत्पदमुच्यते । तयोर्योगे परं तत्त्वं पूर्णयोगमयं मतम् ॥ ६९॥ सिद्धिस्त्वम्पदगा प्रोक्ता बुद्धिस्तत्पदगा मता । तयोर्योगे गणेशानस्तत्त्वरूपः प्रकथ्यते ॥ ७०॥ एवं नानामतैर्युक्ता वेदान्तार्थविचक्षणाः । तत्त्वं वदन्ति दक्ष त्वं जानीहि नात्र संशयः ॥ ७१॥ अनन्तभावसंयुक्तं त्वम्पदं विद्धि सर्वदा । अकल्पितं तत्पदाख्यं तयोर्योगे परं भवेत् ॥ ७२॥ इदं सारं रहस्यं ते कथितं योगदं परम् । येन सर्वत्र योगं स सम्पश्येज्ज्ञानचक्षुषा ॥ ७३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन तत्त्वविचारयोगो नाम एकादशोऽध्यायः ॥ ९.११ ॥ इति योगगीतासूपनिषत्सु सुगमासु सप्तमोऽध्यायः ॥ ९(दत्तगीता).७

९.१२ शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । शुक्लां कृष्णां गतिं ब्रूहि याभ्यां मुक्तिमवाप्नुयात् । संसारं च तथा योगिन् दयया सर्वतारक ॥ १॥ मुद्गल उवाच । कर्मत्वं त्रिविधं विद्धि कर्माकर्मविकर्मगम् । स्वधर्मवर्जितं सर्वं कर्म विकर्मसंज्ञकम् ॥ २॥ स्वधर्मसंयुतं कर्म भोगवासनया युतम् । कर्मसंज्ञं विजानीहि कृष्णगतिपदप्रदम् ॥ ३॥ ब्रह्मार्पणतया कर्म स्वधर्मस्थं भवेत् परम् । शुक्लगतिमयं विद्धि मुक्तिदं तदकर्मकम् ॥ ४॥ आग्नेयं ज्योतिरयनमुत्तराख्यं दिवा तथा । शुक्लगतिमयं सर्वं जानीहि मुक्तिदायकम् ॥ ५॥ चान्द्रं ज्योतिर्धूमरात्री दक्षिणायनमेव यत् । कृष्णगतिस्वरूपं तज्जानीहि जनिमृत्युदम् ॥ ६॥ तयोर्भेदं प्रवक्ष्यामि लोकानां हितकाम्यया । येन द्वैधं परित्यज्य ब्रह्मणि निरतो भवेत् ॥ ७॥ निःकामिकं कर्म कृत्वा मृतो नरो यदा भवेत् । रात्रौ स दक्षिणार्के वा न तं गृह्णन्ति देवताः ॥ ८॥ देवभोगांस्तिरस्कृत्य ब्रह्मार्पणपरायणम् । नरं तं किं करिष्यन्ति देवाः स्वर्गसुखप्रदाः ॥ ९॥ अतो दाहे स वै दक्ष अग्निज्योतिःस्थगो भवेत् । दिवसे समनुप्राप्ते दिवा दैवतगस्तथा ॥ १०॥ उत्तरायणसम्भूते स गच्छेद्भानुमण्डले । प्रलये मण्डलस्यैव नाशे पुरुषगो भवेत् ॥ ११॥ महाप्रलयवेलायां प्रकृतेः पुरुषस्य च । नाशे ब्रह्मणि गच्छेत् स ब्रह्मभूतो भवेत्ततः ॥ १२॥ सकामकं कर्म कृत्वा दिवसे उत्तरायणे । मृतं नरं न तं भानुर्गृह्णाति कामनायुतम् ॥ १३॥ सदाघे धूमसंस्थश्च यदा रात्रिः समागता । तदा तस्यां समाश्रित्य तथा तिष्ठेत् प्रजापते ॥ १४॥ दक्षिणायनमानन्दादागतं वीक्ष्य तत्क्षणात् । विमानवरमारुह्य गच्छेत् स्वर्गं विहायसा ॥ १५॥ चान्द्रं ज्योतिः समाश्रित्य भोगान् भुङ्क्ते स्वकर्मजान् । कर्मप्रमाणमार्गेण नानास्वर्गपरायणः ॥ १६॥ विधिं तत्र प्रवक्ष्यामि चन्द्रकलासमुद्भवम् । अमृतं देवलोकेषु स्वर्गेषु भोगदं परम् ॥ १७॥ इह कर्म कृतं पूर्णं नरैस्तदमृतात्मकम् । भवति चन्द्रगं सर्वं तेन कलायुतो भवेत् ॥ १८॥ शुक्लपक्षे क्रमेणायमेकैककलया प्रभुः । वृद्धियुक्तः स्वयम्पूर्णः पूर्णिमायां प्रदृश्यते ॥ १९॥ कृष्णपक्षे सुराः सर्वे क्रमेणामृतभोजिनः । पिबन्ति चन्द्रसंस्थं तदमृतं तृप्तिकारकम् ॥ २०॥ तेन तृप्तियुताः सर्वे भवन्ति मासमानतः । अमायां पतितश्चन्द्र ओषधीषु न संशयः ॥ २१॥ अत ओषधयश्छेद्या नरेण नैव निश्चितम् । अमायां चन्द्रसंयोगयुक्ताः सुखपरायणाः ॥ २२॥ अतश्चन्द्रभवं सर्वममृतं देवभूमिषु । चान्द्रः स्वर्ग इति प्रोक्तस्तेनैवं वेदवादिभिः ॥ २३॥ देवानां विविधानां स कर्म कृत्वा सकामकम् । कर्माङ्गदेवमभ्यर्च्य गच्छेत् समर्प्य तत्क्रियाम् ॥ २४॥ तत्तल्लोकसुखं भुक्त्वा नानाभोगसमन्वितम् । भोगान्ते पुनरेवाऽसौ मेघमण्डलगो भवेत् ॥ २५॥ तत्र जलमयो भूत्वा पतेद् वृष्ट्या स भूमिषु । (Page खं. ९ अ. १२ पान ४३) तत ओषधिगो भूत्वा भवेदन्नमयस्ततः ॥ २६॥ ततो वीर्यं समाश्रित्य गच्छेत् स जठरे स्त्रियः । तत्र तत्त्वानि तं दक्ष आविशन्ति न संशयः ॥ २७॥ क्षेत्रज्ञः संस्थितस्तत्र तत्त्वैः क्षेत्रं विनिर्ममे । विधिं तस्य प्रवक्ष्यामि गर्भोपनिषदि भवम् ॥ २८॥ तत्रैकदिवसेनैव स्त्रीवीर्ये रक्तसंश्रिते । तस्मिन् सम्मिलनं कृत्वा तदाकारो भवेन्नरः ॥ २९॥ ततस्त्रिदिवसैः सोऽपि फेनरूपो भवेन्नरः । बुहुदः पञ्चदिवसैः पेशी सप्तदिनैस्तथा ॥ ३०॥ ततश्चतुर्दशैः सोऽपि दिवसैः फुल्लतां गतः । पञ्चविंशतिभिस्तत्र मांसरूपो भवेत् स्वयम् ॥ ३१॥ मासेन कठिनत्वं स प्रगच्छेत्तत्र संस्थितः । द्विमासाभ्यां शिरो युक्तो भवेत्तत्र प्रजापते ॥ ३२॥ त्रिमासैः कण्ठसंयुक्तश्चतुर्मासैस्त्वचा युतः । पञ्चमासैर्भवेज्जन्तुरिन्द्रियैः संयुतः क्रमात् ॥ ३३॥ अवयवादिसंयुक्तो नखरोमसमन्वितः । भवेन् मुखेन संयुक्तो मासैः षड्भिर्न संशयः ॥ ३४॥ तत इन्द्रियसम्भूतं ज्ञानं भवेत् क्रमेण वै । षण्मासैः परिपूर्णैश्चाऽऽकृतिः पूर्णा भवेत् परा ॥ ३५॥ पूर्वकर्मानुसारेण यादृशी योनिराभवेत् । तादृशाकृतिसंयुक्त इन्द्रियैश्च समन्वितः ॥ ३६॥ सप्तमासैर्भवेज्जन्तुश्चेतनया समन्वितः । उदरे प्रचरेत् सोऽपि मातुर्दुःखसमन्वितः ॥ ३७॥ अवकाशविहीनः स पीडितो जन्तुभिः सदा । मूर्च्छां गच्छेत् पुनः संज्ञां कोमलोऽतीव मानवः ॥ ३८॥ अष्टमासैस्ततस्तत्र बुद्धियुक्तो भवेन्नरः । साङ्ख्ययोगपरो भूत्वा ध्यायेद्ब्रह्म सनातनम् ॥ ३९॥ अतिसङ्कोचभावेन पीडितो जन्तुभिस्तथा । मातुर्भक्ष्यान्नदोषैः स वेदनासंयुतो भवेत् ॥ ४०॥ गर्भदुःखं स विज्ञाय तन्निवृत्त्यर्थमादरात् । साङ्ख्ययोगपरो भूत्वा भजेत्तं गणनायकम् ॥ ४१॥ ततस्तत्र भवेत्तस्य ज्ञानं परमसौख्यदम् । तेनानन्तभवानां स दृष्ट्वा दुःखं निवृत्तिगः ॥ ४२॥ अनन्यमनसा देवं स्तुयात् स्तोत्रैर्महामतिः । गर्भवासप्रशान्त्यर्थं ब्रह्म भूयार्थमादरात् ॥ ४३॥ गर्भ उवाच । नमस्ते गणनाथाय ब्रह्मणे ब्रह्मरूपिणे । अनाथानां प्रणाथाय विघ्नेशाय नमो नमः ॥ ४४॥ ज्येष्ठराजाय देवाय देवदेवेशमूर्तये । अनादये परेशाय चादिपूज्याय ते नमः ॥ ४५॥ सर्वपूज्याय सर्वेषां सर्वरूपाय ते नमः । सर्वादये परब्रह्मन् सर्वेशाय नमो नमः ॥ ४६॥ गजाकारस्वरूपाय गजाकारमयाय ते । गजमस्तकधाराय गजेशाय नमो नमः ॥ ४७॥ आदिमध्यान्तभावाय स्वानन्दपतये नमः । आदिमध्यान्तहीनाय त्वादिमध्यान्तगाय ते ॥ ४८॥ सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे । सिद्धिबुद्धिमयायैव ब्रह्मेशाय नमो नमः ॥ ४९॥ शिवाय शक्तये चैव विष्णवे भानुरूपिणे । मायिनां मायया नाथ मोहदाय नमो नमः ॥ ५०॥ किं स्तौमि त्वां गणाधीश यत्र वेदादयोऽपरे । योगिनः शान्तिमापन्ना अतस्त्वां प्रणमाम्यहम् ॥ ५१॥ रक्ष मां गर्भदुःखात्त्वं त्वामेव शरणागतम् । जन्ममृत्युविहीनं वै कुरुष्व ते पदप्रियम् ॥ ५२॥ एवं संस्तुतवन्तं तं नवमासादनन्तरम् । प्रसूतिजो महावायुर्बहिः कुर्यान्नरं क्षणात् ॥ ५३॥ वायुना चालितः सोऽपि मुमूर्च्छ दुःखसंयुतः । सङ्कीर्णाङ्गः पतेज्जन्तुर्धरण्यां योनिमार्गतः ॥ ५४॥ भवेत् स सावधानोऽत्र विस्मृतो ज्ञानमुत्तमम् । बालभावधरः कुर्याद्रोदनं धरणीतले ॥ ५५॥ फलहीनं भवेत् सर्वं गर्भागारकृतं महत् । ज्ञानादिकमतो भूमौ साधयेत् सर्वमञ्जसा ॥ ५६॥ न साधितं नरेणात्र कर्मभूमौ प्रजापते । ज्ञानादिकं तदा सोऽपि गर्भजं दुःखमश्नुते ॥ ५७॥ एवं कृष्णा गतिश्चैव कथिता ते विशेषतः । जन्ममृत्युकरी जन्तोः सुखदुःखप्रदायिनी ॥ ५८॥ इदं गर्भकृतं स्तोत्रं यः पठिष्यति मानवः । स भुक्त्वा सकलान् भोगानन्ते स्वानन्दगो भवेत् ॥ ५९॥ न कदाचिल्लभेत् सोऽपि गर्भवासं प्रजापते । अतो विशेषतो जन्तुर्निरन्तरमिदं जपेत् ॥ ६०॥ अधुना कथयिष्यामि ह्यन्यमर्थं सुखप्रदम् । शुक्लकृष्णगतिसंस्थं येन ज्ञानं तयोर्भवेत् ॥ ६१॥ भुक्तिमुक्तिप्रलोभार्थं नरः कुर्यान्निरन्तरम् । कर्म स्वधर्मसंयुक्तो नानादैवं स योगवित् ॥ ६२॥ उत्तरायणगे भानौ दिवसे वा मृतो भवेत् । स चाग्निलोकमासाद्य तपोयुक्तो भवेत् सदा ॥ ६३॥ तत्र भोगेप्सुतां ज्वाल्य गच्छेच्छक्तिं महामतिः । तत्राभिमानमृत्सृज्य गच्छेत् दिवं दिवाकरम् ॥ ६४॥ अतिध्यानेन संयुक्तस्तत्रात्मानं स चिन्तयेत् । अन्तरात्मानमुत्सृज्य गच्छेद्विकुण्ठमेव च ॥ ६५॥ तत्रानन्दं परित्यज्य शिवं गच्छेन्न संशयः । तत्र साक्षित्वमुत्सृज्य गच्छेत् स्वानन्दमञ्जसा ॥ ६६॥ तत्र गणेश्वरं दृष्ट्वा ब्रह्मीभूतो नरो भवेत् । शुक्लगतिप्रभावेण कथितं ते प्रजापते ॥ ६७॥ यदा दक्षिणगे भानौ रात्रौ वा स मृतो भवेत् । भुक्तिमुक्तिपरः सोऽपि गच्छेत् स्वर्गं ततो नरः ॥ ६८॥ नानास्वर्गफलं भुक्त्वा स्वकर्मनिर्मितं नरः । पुनः पतेद्विधे भूमौ तत्र मोक्षरुचिर्भवेत् ॥ ६९॥ ततः शुक्लां समाश्रित्य मोक्षं गच्छेत् स योगवित् । एवं जानीहि भो दक्ष गत्योर्मार्गं पुरातनम् ॥ ७०॥ यदैकदेवतां श्रित्वा तद्भक्तस्तत्परः सदा । उपासनाविधानेन स्वधर्मस्थो भजेत् स ताम् ॥ ७१॥ स मृतः स्वेष्टदेवस्य लोकं गच्छेन्न संशयः । तत्क्षणाच्चन्द्रसूर्याख्यौ मार्गौ नैव प्रकीर्तितौ ॥ ७२॥ तत्र भोगान् प्रभुञ्जानः स पतेदिह निश्चितम् । त्रिगुणात्ममया देवास्तेषां नाशे प्रजापते ॥ ७३॥ यदा गणेश्वरं सोऽपि भजेदत्रैव मानवः । अन्ते स्वानन्दगो भूत्वा ब्रह्मीभूतो भविष्यति ॥ ७४॥ स्वानन्दो नाशहीनश्च सदा ब्रह्मसुखप्रदः । अतः स्वानन्दमाश्रित्य ब्रह्मीभूतो भविष्यति ॥ ७५॥ मरणे दाघहीनश्चेत्तेजस्तत्त्वं समाश्रितः । अथवा धूम्रतत्त्वं स शुक्लकृष्णगतिश्रितः ॥ ७६॥ पूर्ववत् सर्वमाख्यातं तस्य सर्वं प्रजापते । (Page खं. ९ अ. १३ पान ४५) एवं विस्तरतो गत्योः कथितं ते प्रजापते ॥ ७७॥ अतो गणेश्वरं दक्ष समाश्रय हितप्रदम् । योगक्षेमं स ते कुर्यादनन्यचेतसः सदा ॥ ७८॥ न शुक्ला नैव कृष्णा ते भविष्यति गतिः कदा । ब्रह्मभूयमयं भावं प्राप्स्यसे नात्र संशयः ॥ ७९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन शुक्लकृष्णगतियोगो नाम द्वादशोऽध्यायः ॥ ९.१२ ॥ इति योगगीतासूपनिषत्सु सुगमासु अष्टमोऽध्यायः ॥ ९(दत्तगीता).८

९.१३ क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । क्षेत्रं वद महाभाग क्षेत्रज्ञं च तयोः परम् । सर्वगं ब्रह्म यत् प्रोक्तं येन ज्ञानं तयोर्भवेत् ॥ १॥ मुद्गल उवाच । देहं क्षेत्रमयं विद्धि देही क्षेत्रज्ञमञ्जसा । तयोर्योगे महद्ब्रह्म स्वत उत्थानसंज्ञितम् ॥ २॥ भूतानि पञ्चतन्मात्राः पञ्च ज्ञानेन्द्रियाणि तु । कर्मेन्द्रियाणि पञ्चैव वायवः पञ्च देवताः ॥ ३॥ इन्द्रियाणां दशैवाऽपि द्वेष इच्छा धृतिस्तथा । अव्यक्तं चेतना दुःखं सुखं मोहनमेव च ॥ ४॥ चित्तं बुद्धिः स्थूलसूक्ष्मे कारणं च तुरीयकम् । एतेषां योगभावे यत् क्षेत्रं तत् कथितं बुधैः ॥ ५॥ सदैकभावरूपश्च भेदैः संवर्जितः परः । क्षेत्रज्ञः क्षेत्रमास्थाय सर्वान्तर्यामितां दधे ॥ ६॥ तयोर्योगे परं ब्रह्म दृश्यादृश्यविवर्जितम् । दृश्यादृश्यमयं पूर्णं बोधरूपं प्रजापते ॥ ७॥ स्थूलसूक्ष्मसमात्माख्यैर्भावैर्माया विशेषतः । क्षेत्रज्ञं मोह्यस्वाधीनं करोति नित्यमादरात् ॥ ८॥ चतुर्भेदैर्विशेषेण मोहितोऽत्यन्तमेव सः । अहं देहस्वरूपाख्यो मन्यते सततं मुधा ॥ ९॥ ततः क्षेत्रस्य भोगार्थं नानाकर्मपरायणः । त्रिगुणेषु भ्रमेणैव भ्रमतेऽहम्ममात्मकः ॥ १०॥ ततस्तमोगुणं त्यक्त्वा राजसं धारयेन्नरः । राजसं च ततस्त्यक्त्वा सात्त्विकः सम्भवेत् क्रमात् ॥ ११॥ ततस्तुरीयमाश्रित्य गणेशं स भजेत् परम् । सर्वगं पञ्चमं साध्यं ब्रह्मीभूतो भवेन्नरः ॥ १२॥ इह सौख्यप्रदं यच्च कर्म सञ्जायते सदा । पापरूपमयं तेन ज्ञायते न कदाचन ॥ १३॥ देहभोगकरं पूर्णं शिश्नोदरपरायणम् । तामसं तद्विजानीहि चान्ते नरकदं भवेत् ॥ १४॥ तत्र तामससंयुक्ता भुक्त्वा दुःखं महाद्भुतम् । (Page खं. ९ अ. १३ पान ४६) पुना रोगादिसंयुक्ता भवन्ति नीचयोनिषु ॥ १५॥ काणमूकादिदोषैस्ते संयुक्ताः पापचेतसः । दरिद्रादिसमायुक्ता भोगैर्हीना भवन्त्यपि ॥ १६॥ पुनः पापसमाचारा भवन्ति यदि मानवाः । अन्ते यमस्य गेहे ते नरकस्थाः पुनः पुनः ॥ १७॥ अतस्तमोगुणस्थं स्वभावं त्यक्त्वा च मानवाः । धर्मार्थधृतिसंयुक्ता यतन्ते दैवयोगतः ॥ १८॥ विद्धि राजसगं भावं नरा भुवि सकामकम् । सततं कर्म कुर्वन्ति भोगदं धर्मसंयुताः ॥ १९॥ वासनासंयुतं कर्म स्वधर्मस्थं भवेत्किल । तदेव राजसं विद्धि नानाभावगतं परम् ॥ २०॥ राजसाः सर्वभोगं तु भुक्त्वा पुनः पतन्त्यपि । इह ये यादृशं कर्म कुर्वते तादृशं फलम् ॥ २१॥ अथवा स्वल्पभावेन कृतं राजससम्भवम् । कर्म तेन नरा भूमौ भवन्ते तत्क्षणात् पुनः ॥ २२॥ अथवा विविधास्ते ते योनिषु सम्भवन्त्यपि । नीचोच्चासु विशेषेण जन्ममृत्युपरायणाः ॥ २३॥ राजसानां प्रजानाथ नरको नैव विद्यते । स्थावरं जङ्गमं श्रित्वा भवन्ते जन्मसंयुताः ॥ २४॥ तत्र दुःखं सुखं नाना भुञ्जते नात्र संशयः । एवं राजसगं सर्वं कथितं ते समासतः ॥ २५॥ अतः परं प्रवक्ष्यामि सात्विकं कामवर्जितम् । स्वधर्मस्था जना विद्धि तत्कुर्वन्ति निरन्तरम् ॥ २६॥ ब्रह्मार्पणतया यद्यद्भवति कर्म धर्मजम् । नानाविधं परं तत्तत् स्वात्त्विकं विद्धि मानद ॥ २७॥ तेन शुक्लगतिं श्रित्य गच्छन्ति मोक्षमञ्जसा । अतः सत्त्वगुणेनैव युक्ता भवन्ति मानवाः ॥ २८॥ अतः परं तुरीयं ते कथयामि समासतः । रसहीनस्वभावेन चित्तं देहसमन्वितम् ॥ २९॥ तदा भवति चेत्तुर्यं कर्म सञ्जायते परम् । नानाविधं जगत् सर्वं ब्रह्माकारं न संशयः ॥ ३०॥ यद्यत्तेन कृतं कर्म तदेव ब्रह्मदं भवेत् । स्तुतिनिन्दादिकं किञ्चिन्नैव तत्र प्रकीर्तितम् ॥ ३१॥ देवभक्तादिकं दक्ष नैव तुर्ये प्रतिष्ठितम् । ब्रह्मणि समभावेन वर्तते सर्वदा स्वयम् ॥ ३२॥ अन्तरे सर्वभावेषु पश्यति विश्वरूपिणम् । तदा तुरीयगं कर्म क्वचिद्भवति नान्यथा ॥ ३३॥ एवं सर्वसमत्वेन यद्भवेत्तत्तुरीयकम् । कर्म प्रारब्धयोगेन ब्रह्मणो रसभावतः ॥ ३४॥ अन्तेऽस्मितामये तेन लीनो भवति मानवः । महाकारणभावेन भवेत् त्रिगुणचालकः ॥ ३५॥ अतः परमहं कर्म कैवल्यं कथयामि ते । निषेधविधिहीनं यद्भवते कर्म स्वेच्छया ॥ ३६॥ ब्रह्मभूयमयं विद्धि पञ्चमं योगिसम्मतम् । कर्ता देहो न सन्देहस्तुरीयं प्रेरकं मतम् ॥ ३७॥ कुतस्तत्र व्यवस्थाख्यं तुरीयं वर्तते परे । चतुर्विधं येन सृष्टमिदं सर्वं स्वलीलया ॥ ३८॥ स एव कर्तृभावेन कारयितृप्रभावतः । तत्र तिष्ठति कोऽहं तु कुतो ब्रह्मविचारतः ॥ ३९॥ नाहं नरो न वै ब्रह्म मया साध्यं निरन्तरम् । भ्रान्त्या सर्वं न सन्देहो दृश्यते मायया मयि ॥ ४०॥ स्वेच्छया खेलति ब्रह्म चतुर्भेदमयं परम् । शुभाशुभं तस्य नास्ति वृथाऽहन्तां त्यजेन्नरः ॥ ४१॥ (Page खं. ९ अ. १३ पान ४७) अनेनानुभवेनैव शान्त्या संवर्तते नरः । रसं सर्वत्र सन्त्यज्य ब्रह्मणो रसधारकः ॥ ४२॥ एवं चतुर्विधे भावे स्थितं देहिस्वरूपकम् । देहभ्रान्तिविहीनं तत्कृत्वा सोऽहम्परो भवेत् ॥ ४३॥ एवं क्रमेण योगीन्द्रो भवेद्योगान्नरोत्तमः । कथितं विस्तरात् सर्वं क्षेत्रक्षेत्रज्ञसाधनम् ॥ ४४॥ अथ वर्णाश्रमाचारं श‍ृणु सर्वसुखप्रदम् । येन धर्मार्थकामांश्च लभेन् मोक्षं नरोत्तमः ॥ ४५॥ चित्तेन्द्रियाणि वश्यानि क्षमार्जवतपांसि च । शौचं श्रुतिस्मृतीनां वै ज्ञानं यत्र प्रतिष्ठति ॥ ४६॥ वेदाधारविहीनं यन्न करोति कदाचन । सदा ब्रह्मपरो यस्माद्ब्राह्मणः स च संस्मृतः ॥ ४७॥ शौर्यं दाक्ष्यं तथा दार्ढ्यं युद्धे सम्मुखता सदा । शरण्यरक्षणं नित्यं प्रभुत्वं दण्डधारणम् ॥ ४८॥ धृतिः क्षात्रं सदा तेजश्चित्तमौदार्यसंयुतम् । सुनीत्या पालनं पञ्च कर्मयुक्तः स बाहुजः ॥ ४९॥ क्रयविक्रयकौ नित्यं वस्तूनां भूमिकर्षणम् । गवां पालनकं त्रेधा कर्मयुक्तः स वैश्यकः ॥ ५०॥ त्रिवर्णसेवनं दानं नाममन्त्रं जपेत् परम् । पुराणश्रवणं शौद्रं कर्म पौराणिकं द्विजात् ॥ ५१॥ अन्त्यजानां पुराणोक्तं कर्म विप्रमुखोद्गतम् । नैव शूद्रसमं चान्यदस्पर्शत्वं द्विजादिषु ॥ ५२॥ कृतोपवीतको विप्रः क्षत्रियो वैश्य एव यः । वेदादिकं समभ्यस्यन् ब्रह्मचर्ययुतो भवेत् ॥ ५३॥ भिक्षाशनो भवेन्नित्यं गुरोराज्ञावशानुगः । गायत्रीं सञ्जपेन्नित्यं त्रिकालेषु च रोमधृक् ॥ ५४॥ सायं प्रातश्च जुहुयात् हविर्नित्यं जितेन्द्रियः । षोडशाब्दं द्वादशाब्दं ब्रह्मचर्यं चरेत् परम् ॥ ५५॥ पञ्चयज्ञपरो नित्यं नैमित्तं स समाचरेत् । कृतदारः प्रजार्थं स ऋतुगामी भवेद् गृही ॥ ५६॥ स्त्रीसङ्गं सम्परित्यज्य स्त्रिया युक्तो वसेद्वनम् । वन्येन सर्वकर्माणि कुर्यान्नित्यं तपः परम् ॥ ५७॥ नखलोमयुतश्चैव न ग्रामेषु प्रवेशयेत् । कुर्यादेवं वानप्रस्थो वायुभक्ष्यादिकं चरेत् ॥ ५८॥ मनसाऽपि स्मरेन्नैव स्त्रीसङ्गं न्याससंयुतः । चित्तनिग्रहसंयुक्तो भिक्षाशी सततं नरः ॥ ५९॥ कपर्दिकादिकं किञ्चिन्न स्पृशेत् स कदाचन । ब्रह्मणि ब्रह्मभूतत्वं तदर्थं श्रमयेत् सदा ॥ ६०॥ साक्षिवद् देहसंस्थोऽपि मौनादिदण्डधारकः । अथवा दण्डहीनः स ज्ञानदण्डधरो भवेत् ॥ ६१॥ एवं संन्यासकं कृत्वा सदा तिष्ठेद्यतात्मवान् । मुक्तिमार्गमयं शास्त्रं स्पृशेन्नान्यद्विनिश्चितम् ॥ ६२॥ वर्णाश्रमविहीनश्चेद्योगी पञ्चमगः स्मृतः । विधिनिषेधहीनः स यथा विनायको भवेत् ॥ ६३॥ एतत्ते सर्वमाख्यातं स्वधर्माचरणादिकम् । येनैव प्राप्यते योगो नरेण ब्रह्मदायकः ॥ ६४॥ दक्ष उवाच । धर्मार्थकाममोक्षाणां स्वरूपं वद मानद । ब्रह्मीभूतस्य भिन्नं मे भ्रमनाशकरं परम् ॥ ६५॥ केचिद्धर्मं महाश्रेष्ठमर्थं कामं तु मोक्षकम् । परात्परं वदन्त्येव ब्रह्मभूयं तथाऽपरे ॥ ६६॥ मुद्गल उवाच । धर्मेण ब्रह्मलोकश्च लभ्यते मानवैः परः । ब्रह्मा सर्वसमानश्च स्वधर्माख्यः प्रकीर्तितः ॥ ६७॥ अर्थः समर्थभावाख्य ईशलोकप्रदायकः । ईश्वरान्न समर्थोऽन्यः पश्य ब्रह्माण्डमण्डले ॥ ६८॥ कामो भोगात्मकः प्रोक्तो विष्णुलोकप्रदायकः । स लक्ष्मीपतिराख्यातो नानाकामप्रदः प्रभुः ॥ ६९॥ मुक्तिः सौरात्मिका प्रोक्ता सूर्यः पुरुष उच्यते । शुक्लमार्गधरः पूर्णः साक्षात् साक्षी विभावसुः ॥ ७०॥ ब्रह्मीभूतमयः प्रोक्तः स्वानन्दः पूर्णयोगदः । वदन्ति न परं लोकं स्वानन्दाद्वेदवादिनः ॥ ७१॥ अन्यच्छृणु प्रजानाथ पञ्चैते योगदायकाः । योगार्थवाचकाः सर्वे तत्र भेदं वदाम्यहम् ॥ ७२॥ योगधर्मेण योगश्च लभ्यते मानवैः परः । न योगादपरः श्रेष्ठस्तेनार्थोऽयं प्रकीर्त्यते ॥ ७३॥ योगकामेन योगोऽयं लभ्यते सर्वभावतः । मायाया वरणं त्यक्त्वा मोक्षयोगः प्रकीर्त्यते ॥ ७४॥ ब्रह्म ब्रह्मणि वेदेषु कथितं नात्र संशयः । तत्र योगेन योगी यो ब्रह्मीभूतः स वै स्मृतः ॥ ७५॥ धर्मार्थकाममोक्षाख्या योगशास्त्रे विशेषतः । भिन्ना मायामयाः प्रोक्ता ब्रह्मीभूतस्तु पञ्चमः ॥ ७६॥ ब्रह्मणि ब्रह्मभूतो यो योगी एव स उच्यते । न भिन्नः सर्वथा तस्माद्ब्रह्मणो ब्रह्मगः परः ॥ ७७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन क्षेत्रक्षेत्रज्ञज्ञानयोगो नाम त्रयोदशोऽध्यायः ॥ ९.१३ ॥ इति योगगीतासूपनिषत्सु सुगमासु नवमोऽध्यायः ॥ ९(दत्तगीता).९

९.१४ नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुताम् । नानामतभयं त्यक्त्वा तया योगी भवेन्नरः ॥ १॥ चैतन्यं न्यायशास्त्रज्ञा वदन्ति ब्रह्ममुख्यकम् । चैतन्येन युताः सर्वे स्वस्वकार्यपरायणाः ॥ २॥ सर्वप्रकाशकत्वात्तच्चैतन्यं ब्रह्मसंज्ञितम् । चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति ॥ ३॥ पञ्चचित्तात्मयोगेन चैतन्यं ब्रह्मसंज्ञितम् । भवत्यत्र न सन्देहः शब्दार्थानामनेकतः ॥ ४॥ तार्किकाः प्रवदन्त्येव सर्वाभेदं परं मतम् । ब्रह्मवेदान्तवादेषु विद्यते शास्त्रसम्मतौ ॥ ५॥ पञ्चचित्तमया भेदा अभेदा योगिना कृताः । योग एकार्थभावाख्यो भवत्यर्थप्रमाणतः ॥ ६॥ धर्मशास्त्रविदः सर्वे बोधान्नैव परं पदम् । (Page खं. ९ अ. १४ पान ४९) ब्रह्म बोधमयं मुख्यं भावाभावविवर्जितम् ॥ ७॥ पञ्चचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः । धर्मो भवेन्न सन्देहो ब्रह्मधर्मधरः प्रभुः ॥ ८॥ साङ्ख्या वदन्ति साङ्ख्यं यद्ब्रह्म सङ्ख्याविवर्जितम् । विबोधान्न परं ब्रह्म खेलहीनप्रभावतः ॥ ९॥ तत्र पञ्चविधं चित्तं परं योगेन सङ्ख्यया । हीनं तदेव भवति योगाख्यं शब्दमानतः ॥ १०॥ मीमांसका वदन्त्येव स्वसंवेद्यं परं मतम् । कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् ॥ ११॥ पञ्चचित्तं परित्यज्य ब्रह्मरूपं करोति तत् । मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् ॥ १२॥ एवं नानामतैर्युक्ता वदन्ति शास्त्रभेदतः । ब्रह्म नानाविधं दक्ष तदेवं योगगं भवेत् ॥ १३॥ शक्तिर्ब्रह्मेति शाक्ता वै ते वदन्ति न तत्परम् । संयोगो द्वन्द्वयोर्यत्र तदेवं योगगं भवेत् ॥ १४॥ शक्तिः पञ्चमचित्तङ्गा सा ब्रह्मणि समागता । परिगृह्य निरोधाख्यं चित्तं देवी ततः स्मृता ॥ १५॥ सौरं ब्रह्मेति सौराश्च वदन्ति तु परात्परम् । तस्मात्परं न विद्येत सर्वाधारप्रमाणतः ॥ १६॥ भेदात्मकं स सञ्जीव्य नित्यं तिष्ठति चादरात् । तेन योगमयः सूर्यो भवत्यत्र न संशयः ॥ १७॥ वदन्ति विष्णुर्ब्रह्मेति मुख्यं यद्वैष्णवा जनाः । तस्मात् परं पदं नास्ति सदानन्दप्रमाणतः ॥ १८॥ चित्तं यत् पञ्चमं तत्र मोहं त्यक्त्वा तदात्मकम् । ब्रह्मयोगे भवेद्योग आनन्दो नात्र संशयः ॥ १९॥ शैवाः शैवं परं ब्रह्म वदन्ति मुख्यभावतः । वेदे तस्मात् परं नास्ति किञ्चिन् मोहविहीनकम् ॥ २०॥ निरोधं त्रिविधं दक्ष पराधीनं न संशयः । तत्रस्थं योगरूपाख्यं स्वाधीनं योगगं भवेत् ॥ २१॥ एवं नानामतैर्युक्ता स्वस्वदेवपरायणाः । वदन्ति तत् प्रमाणं वै शब्दानामर्थभावतः ॥ २२॥ अनेकार्थमयाः शब्दास्तेषु किं किं न सम्भवेत् । सर्वे योगार्थवाच्या वै जायन्ते योगिनः क्रमात् ॥ २३॥ अन्नप्राणादिकाः शब्दा एवं ब्रह्मप्रवाचकाः । ते सर्वे योगदा दक्ष भवन्ति ब्रह्मधारणात् ॥ २४॥ वेदान्तमथ वक्ष्यामि सर्वमान्यं विशेषतः । शास्त्राणि च तदङ्गानि तत्प्रमाणानि सर्वदा ॥ २५॥ यः सर्वं सर्वभावेषु युतो जानाति मायया । (Page खं. ९ अ. १४ पान ५०) मायाहीनप्रभावेण योगस्तिष्ठति नित्यदा ॥ २६॥ तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्र संशयः । ब्रह्मभ्य ऋग्जगादैव प्रज्ञानं योगगं स्मृतम् ॥ २७॥ पञ्चचित्तभवं सर्वं यो जानाति तदेव सः । योगस्तद्गतभावैः संवर्जितो भवति प्रभुः ॥ २८॥ अहं ब्रह्मेति यद्ब्रह्म सर्वदोषविवर्जितम् । सदैवं यजुषा प्रोक्तं मुख्यं वै परतः परम् ॥ २९॥ पञ्चचित्तभवा भेदास्तेष्वेवं भेदवर्जितम् । योगं विद्धि प्रजानाथ योगशास्त्रप्रमाणतः ॥ ३०॥ मायामोहयुतं यच्च मायामोहविवर्जितम् । तयोर्योगे परं ब्रह्म साम्ना सङ्कथितं किल ॥ ३१॥ मायामोहयुतं ब्रह्म स्वानन्दाख्यं ततः परम् । अयोगं मायया हीनं तयोर्योगे तु योगगम् ॥ ३२॥ ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तत् । मनोवाणीविहीनं नाथर्ववेदो जगाद ह ॥ ३३॥ मनोवाणीमयः प्रोक्तः सम्प्रज्ञातो न संशयः । असम्प्रज्ञातकस्ताभ्यां हीनो योगस्तयोः परः ॥ ३४॥ एवं वेदार्थयुक्तानि महावाक्यानि मानद । योगाख्यानि विशेषेण जानीया योगसेवया ॥ ३५॥ कर्मादयः समाख्याताः शब्दा ब्रह्ममया बुधैः । भवन्ति योगसंज्ञस्थास्ते सर्वे योगिनां मते ॥ ३६॥ सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणात् । तज्ज्ञात्वा मोहहीनः स सदा भवति मानवः ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः ॥ ९.१४ ॥ इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ॥ ९(दत्तगीता).१०

९.१५ गणेशरहस्ययोगो नाम पञ्चदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अथो लयं प्रवक्ष्यामि येन चित्तं लयं व्रजेत् । ब्रह्मण्यास्थाय योगं च ज्ञात्वा योगं प्रजापते ॥ १॥ लयश्चतुर्विधः प्रोक्तो नित्यो नैमित्तिकः परः । तृतीयः प्राकृतो विप्रैः सारस्वतश्चतुर्थकः ॥ २॥ कर्माकर्मविकर्माख्यो नित्यः प्रोक्तो बुधैः पुरा । कर्मानुकूलभावेन जनानां जननादिकम् ॥ ३॥ क्षणक्रमादिमारभ्यायुषामन्तः समास्थितः । गर्भाधानाद्यवस्थानां प्रकाशश्च प्रकथ्यते ॥ ४॥ ब्रह्मणो दिवसान्ते स कुण्ठितो नात्र संशयः । नैमित्तिकलयेनैव त्रिलोकलयकारिणा ॥ ५॥ शुभाशुभयुताः सर्वे जन्तवो लयमाययुः । शुभाशुभफलैर्हीना बभूवुः कर्मकुण्ठनात् ॥ ६॥ स्वर्गमण्डलपर्यन्तं त्रैलोक्यं प्रलयं गतम् । तावता स प्रमाणेन नित्यः सङ्कथितो बुधैः ॥ ७॥ अथो नैमित्तिकं दक्ष कथयामि समासतः । चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ ८॥ नैमित्तिको दिनान्तो यस्तदाऽयं वर्तते लयः । तेन नैमित्तिकः प्रोक्तो नाम्ना सर्वार्थकोविदैः ॥ ९॥ अधुना प्राकृतं वच्मि व्यवस्थाभिर्युतं लयम् । महाकारणगं चेदं स प्राकृत उदाहृतः ॥ १०॥ तत्त्वानामेकभावेऽयं स्थूलसूक्ष्मसमात्मनाम् । प्राकृतः प्रकृतिस्थत्वात् कथ्यते विबुधैः परः ॥ ११॥ सारस्वतं परं पूर्णं श‍ृणु योगप्रदं प्रभो । निरोधचित्तभावेन पञ्चचित्तलयात्मकम् ॥ १२॥ मनोवाणीमयं सर्वं विश्वं नानास्वभावगम् । (Page खं. ९ अ. १५ पान ५१) मनोवाणीविहीनं त्वसम्प्रज्ञातं विदुर्बुधाः ॥ १३॥ वाण्या सङ्कथ्यते भावो मनस्तत्र प्रगच्छति । नानापदार्थभिन्नत्वात् सर्वेषां प्राणिनां प्रभो ॥ १४॥ वाण्या वाणीविहीनं यत् कथितं ब्रह्म हृद्गतम् । चित्तं समाधिना तत्र सदा तिष्ठति तादृशम् ॥ १५॥ वाणी सा द्विविधा प्रोक्ता ब्रह्माकारा जगन्मयी । तयोर्नाशे लयः प्रोक्तः परः सारस्वतो बुधैः ॥ १६॥ सरस्वतीलयं यत्र योगभावात् प्रगच्छति । महावाक्यादिसंयुक्ता स सारस्वत उच्यते ॥ १७॥ सारस्वतलयेनैव चित्तं पञ्चविधं प्रभो । चिन्तामणौ लयं कृत्वा तिष्ठ त्वं योगिसम्मतः ॥ १८॥ एतत् सर्वं समाख्यातं योगदं ते समासतः । गोपयैनं महायोगं ततो योगी भविष्यसि ॥ १९॥ मा योगं कथयस्व त्वमिमं कस्मै प्रजापते । पात्रहीनप्रभावेण भ्रंशदस्ते भविष्यति ॥ २०॥ वासनाहीनभावेन गणेशज्ञानलालसान् । तान् बोधय विशेषेण तदाऽयं शुभदो भवेत् ॥ २१॥ अत्र ते कारणं दक्ष कथयामि समासतः । तस्य श्रवणमात्रेण संशयस्तु लयं व्रजेत् ॥ २२॥ योगाकारो गणेशानो यदा खेलपरोऽभवत् । तदा तं वचनं माये सिद्धिबुद्धी समूचतुः ॥ २३॥ सिद्धिबुद्धी ऊचतुः । यदि खेलं करोषि त्वमावाभ्यां गणनायक । आवां त्वां छादयिष्यावो नानाभावप्रदर्शनात् ॥ २४॥ वेदादिभिस्तत्र वाणीमयी गाथा गजानन । स्वरूपं ते यथातथ्यं कथयिष्यति मानवान् ॥ २५॥ तेन त्वां ब्रह्मणां नाथं ज्ञास्यन्ते मानवादयः । त्वदुपासनमात्रेण भवेयुर्ब्रह्मभूतकाः ॥ २६॥ न त्वां छादयितुं शक्ते वाणीस्थं गणनायक । अतस्तदर्थमानन्दात् कुरु किञ्चिद्गजानन ॥ २७॥ एवं तयोर्वचः श्रुत्वा ते जगाद गजाननः । मा खेदं कुरुतं देव्यौ वाणीं सम्मोहयाम्यहम् ॥ २८॥ मोहिता सा मया वाणी वर्णनं भ्रान्तिदं च मे । करिष्यति प्रगूढार्थयुतं सत्यार्थभाषितम् ॥ २९॥ गूढार्थं नैव देवेशा योगीशास्तत्त्वदर्शिनः । ज्ञास्यन्ति तेन मां सर्वे न भजिष्यन्ति भावतः ॥ ३०॥ सिद्धिबुद्धियुतं ब्रह्म वाणी प्रकटयिष्यति । न गणेशमयीं गाथां कथयिष्यति योगदाम् ॥ ३१॥ सिद्धिबुद्धिमयं सर्वं जगद्ब्रह्म प्रसेव्य यः । यदा शुद्धो नरो भावी तदा मां ज्ञास्यति प्रिये ॥ ३२॥ परं सिद्धियुतं ब्रह्म कथितं सिद्धिदायकम् । स एव गणनाथोऽयं पतिः सिद्धेः प्रमाणतः ॥ ३३॥ परं बुद्धियुतं ब्रह्म परं बुद्धेः प्रकथ्यते । गणेश एव सम्प्रोक्तः पतिर्बुद्धेः प्रमाणतः ॥ ३४॥ एवं त्रैविध्यगं वाणी वदिष्यति सदा तु माम् । सिद्धिदं बुद्धिगं ब्रह्म शास्त्रेष्वेतत् त्रयं मतम् ॥ ३५॥ एवमुक्त्वा गणेशानः पुनस्तूष्णीं बभूव तम् । उवाच प्रणनामादौ भक्तिः परमदुःखिता ॥ ३६॥ भक्तिरुवाच । वरो दत्तस्त्वया नाथ सिद्ध्यै बुद्ध्यै गजानन । तेन भक्तिविहीनाश्च भविष्यन्ति सदा नराः ॥ ३७॥ (Page खं. २ अ. १५ पान ५२) अतोऽहं दुःखसंयुक्ता चरिष्यामि निरन्तरम् । मां पालय गणाध्यक्ष भक्तियुक्तान् जनान् कुरु ॥ ३८॥ एवमुक्तो गणाध्यक्षस्तामुवाच सुदुःखिताम् । भक्तिं भक्तिप्रियः पूर्णः स्मयमानः प्रजापते ॥ ३९॥ श्रीगणेश उवाच । मा शोकं कुरु कल्याणि नरा मद्भक्तिकारकाः । देवनागासुराद्याश्च भविष्यन्ति न संशयः ॥ ४०॥ नानादेवपरा ये तु भक्त्या जन्मनि जन्मनि । सन्तुष्टा अमरास्तेभ्यो दास्यन्त्यग्निरुचिं मुदा ॥ ४१॥ ततस्तेऽग्निं समाराध्य भक्तियुक्ता निरन्तरम् । तुष्टं तं वै करिष्यन्ति नानायज्ञपरायणाः ॥ ४२॥ ततस्तस्य कृपायोगात् देवीभक्तियुता नराः । भविष्यन्ति च ते सर्वे तां भजिष्यन्ति संयताः ॥ ४३॥ एवं बहौ गते काले सन्तुष्टा सा प्रदास्यति । तेभ्यः सौरीं महाभक्तिं भजिष्यन्ति तया रविम् ॥ ४४॥ ततो बहौ गते काले सूर्यस्तोषसमन्वितः । उग्रां दास्यति भक्तिं तु वैष्णवीं तेभ्य आदरात् ॥ ४५॥ तया युक्ता भजिष्यन्ति विष्णुं भावसमन्विताः । नरास्ततः स सन्तुष्टो बहुकाले भविष्यति ॥ ४६॥ तुष्टो विष्णुः स्वयं तेभ्यो दाता स्याद्भक्तिमुत्तमाम् । शैवीं तया ततस्ते तं भजिष्यन्ति सदाशिवम् ॥ ४७॥ ततो बहौ गते काले तुष्टः शम्भुः प्रदास्यति । भक्तिं गाणेश्वरीं तेभ्यो भजिष्यन्ति तया च माम् ॥ ४८॥ नराः शान्तिं समालभ्य मत्तो योगपरायणाः । ब्रह्मीभूता भविष्यन्ति भजिष्यन्ति तथाऽपि ते ॥ ४९॥ एवं क्रमेण मद्भक्ता भविष्यन्ति नरादयः । त्वद्युक्ता मां भजिष्यन्ति तेषां वश्यो भवाम्यहम् ॥ ५०॥ न भक्ते ते समं मे वै प्रियं किञ्चिद्भविष्यति । यत्र भक्तिर्गता तत्र यथा स्थास्यामि किङ्करः ॥ ५१॥ स्वानन्दं लक्षलाभौ च सिद्धिं बुद्धिं मदीयकम् । सर्वं तेभ्यः प्रदास्यामि भक्तेभ्यो नात्र संशयः ॥ ५२॥ अयं मदीयदेहश्च भक्त्यधीनो भविष्यति । भक्ताग्रे भक्तरूपेण सदा स्थास्यामि दासवत् ॥ ५३॥ कर्मभ्यश्चाधिकं भक्ते तपः परमदुश्चरम् । तपोभ्यश्चाधिकं ज्ञानं निःसङ्गपददायकम् ॥ ५४॥ ज्ञानाद्योगः समाख्यातोऽधिकः शान्तिप्रदायकः । तस्माच्च त्वं महाभक्ते भविष्यस्यधिका प्रिया ॥ ५५॥ भक्तेः परं न किञ्चिन् मे ह्यधिकं शास्त्रसम्मतम् । भविष्यति महाभागे मा चिन्तां कुरु सर्वथा ॥ ५६॥ अन्यद्वाणी मदीयं यद् गूढं रूपं वदिष्यति । तदर्थं ते प्रियं भक्ते करोमि श‍ृणु मे वचः ॥ ५७॥ मदीयभुजसंस्थोऽयं मुद्गलः सर्वदर्पहा । स एव ब्राह्मणो भूत्वा चरिष्यति निरन्तरम् ॥ ५८॥ कृतं तेन मदीयं वै पुराणं वेदबृंहितम् । गूढार्थद्योतनं भावि सर्वेभ्यो भक्तिदायकम् ॥ ५९॥ स्वरूपं तत्र मे भक्ते प्रकटं पश्यतां नृणाम् । श‍ृण्वतां तत्तदा पूर्णं भविष्यति न संशयः ॥ ६०॥ तथापि दुर्लभा भक्तिर्मदीया त्वं भविष्यसि । अतोऽल्पज्ञा न मां देवि भजिष्यन्ति कदाचन ॥ ६१॥ (Page खं. ९ अ. १६ पान ५३) विघ्नं मौद्गलशास्त्रेऽहं करिष्यामि भ्रमप्रदम् । अश्रद्धं तेन नष्टं तद्भविष्यति कदा कदा ॥ ६२॥ तव भावस्य रक्षार्थं मौद्गलं निर्मितं मया । अतः परं महाभक्ते वद किं ते करोम्यहम् ॥ ६३॥ एवं तस्य वचः श्रुत्वा हर्षिता सा ननाम तम् । गणेशं भावगम्भीरा न किञ्चित् पुनरब्रवीत् ॥ ६४॥ एतत्ते कथितं दक्ष गुह्यं विघ्नेश्वरस्य यत् । अतो गुप्तं प्रकर्षेण शास्त्रं कुरु मदीयकम् ॥ ६५॥ त्वं दक्षः सर्वभावेषु दक्षाद्दक्षो न विद्यते । अतस्तुभ्यं मया सर्वं कथितं शास्त्रमुत्तमम् ॥ ६६॥ हृदिस्थेन गणेशेन प्रेरितोऽहं प्रजापते । तदाज्ञया हृदिस्थं मे कथितं शास्त्रमुत्तमम् ॥ ६७॥ अनेन विधिना दक्ष भज त्वं गणनायकम् । तेनेप्सितं समासाद्य गाणपत्यो भविष्यसि ॥ ६८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन गणेशरहस्ययोगो नाम पञ्चदशोऽध्यायः ॥ ९.१५ ॥ इति योगगीतासूपनिषत्सु सुगमासु एकादशोऽध्यायः ॥ ९(दत्तगीता).११

९.१६ भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वद्य महामते । त्वदाज्ञावशगः स्वामिन् गुप्तं ग्रन्थं करोमि ते ॥ १॥ अधुना वद मे भक्तिं गणेशस्य तया परम् । भजिष्यामि विशेषेण सदा भक्तिपरायणः ॥ २॥ मुद्गल उवाच । साङ्ख्ययोगौ प्रजानाथ श‍ृणु ते कथयाम्यहम् । ताभ्यां युक्तस्ततो भक्तिं करिष्यसि परां मुदा ॥ ३॥ चित्तं पञ्चविधं प्रोक्तं पञ्चसङ्ख्याविवर्जितम् । कुरु चिन्तामणौ लीनभावेन त्वं सुयोगतः ॥ ४॥ एतत् साङ्ख्यं समाख्यातं गणेशाभेददायकम् । तेन योगी भवेत् सद्यः शान्तियुक्तो विशेषतः ॥ ५॥ पञ्चचित्तोद्भवेषु त्वं भोगेष्वसि सुसंस्थितः । बिम्बरूपेण तान् भुङ्क्ष्व शान्त्या रससमन्वितः ॥ ६॥ चित्तेषु चित्तभूतेषु कर्म ज्ञानादिकं भवेत् । तद्गणेशार्पणं सर्वं कुरु त्वं नित्यमादरात् ॥ ७॥ स्वधर्मसंस्थितं देहं चित्तं शान्तिसमन्वितम् । कुरुष्व सततं दक्ष ब्रह्मभावपरायणः ॥ ८॥ अयं योगः समाख्यातः शास्त्रे वै सर्वसम्मतः । वेदेषु च पुराणेषु ब्रह्मभूयप्रदायकः ॥ ९॥ साङ्ख्ययोगौ समाराध्य भजस्व गणनायकम् । योगाकारं समाध्याय तन्निष्ठस्तत्परायणः ॥ १०॥ श्रवणं गणनाथस्य गुणानां नित्यमादरात् । कीर्तनं तस्य तद्वत्त्वं कुरुष्वैतद्रसैर्युतम् ॥ ११॥ (Page खं. ९ अ. १६ पान ५४) गाणेशस्य च भावस्य विस्मृतिं मा कुरु प्रभो । गणेशपादजं मोहं धारयेः सत्यभावतः ॥ १२॥ साङ्गं गणेश्वरस्यैव कुरु सर्वं विशेषतः । गणेशान्न परं श्रेष्ठं तस्मात्तन्निष्ठको भव ॥ १३॥ गाणपत्यस्य मार्गस्य सेवनं कुरु सर्वदा । साक्षिरूपं गणेशानं ज्ञात्वा हृत्स्थं भजस्व च ॥ १४॥ गणेशान्नैव भिन्नोऽहं भावयस्व निरन्तरम् । एवं नवप्रकारैस्तं भज त्वं भक्तिसंयुतः ॥ १५॥ बाह्यान्तरं गणेशार्थं कुरु त्वं कर्म चादरात् । नवधा खण्डभावेन पूर्णभक्तो भविष्यसि ॥ १६॥ अथो चतुर्विधां भक्तिं कथयामि श‍ृणुष्व ताम् । कायिकां वाचिकां पूर्णां मानसीं नित्यदा कुरु ॥ १७॥ तथा सांसर्गिकिं दक्ष तस्याश्चिह्नं वदाम्यहम् । गणेशार्थं सदा देहश्रमं कुरु महामते ॥ १८॥ गणेशभावहीनां यां वाचं मा त्वं वदस्व ताम् । गणेशचिन्तनं तद्वद्गणेशे भावकस्य वा ॥ १९॥ गणेशभक्तियुक्तानां सङ्गतिं कुरु सर्वदा । एवं भजस्व भक्त्या त्वं भक्तराजो भविष्यसि ॥ २०॥ भक्तिः सा द्विविधा दक्ष मानवैः क्रियते परा । पाखण्डसंयुता पूर्णा देवप्रीत्यर्थमेव वा ॥ २१॥ देहे विषयभोगार्थं भजनं सम्प्रवर्तते । पाखण्डिनां सदा दक्ष लोकमोहकरं परम् ॥ २२॥ पाखण्डभजनस्यैव चिह्नं मुख्यं वदाम्यहम् । तच्छृणु त्वं हितार्थाय लोकानां लोकतारक ॥ २३॥ सर्वाहङ्कारनिर्मुक्तः पाखण्डी दृश्यते जनैः । जना मोहयुता येन भवन्ति भजनं यतः ॥ २४॥ यत्र येषां रुचिर्दक्ष यादृशी तादृशं सदा । करोति तत्र यत्नेन सर्वभावं प्रदर्शयन् ॥ २५॥ येनैव विषयाणां च प्राप्तिः सञ्जायते परा । तादृशं भजनं तस्य परं भवति सर्वदा ॥ २६॥ अथवा चैकनिष्ठः स भवति देवतत्परः । स्वदेवभक्तान् सम्मोह्य भुङ्क्ते दुष्टोऽर्थलालसः ॥ २७॥ स्वदेवभजने सक्ता जनाः स्वल्पमतो बहु । तेषां रुचिप्रमाणेन भवति भजनं यतः ॥ २८॥ जनानां मोहदा भक्तिः कथिता ते प्रजापते । पाखण्डिभिः सदा पूर्णा सेव्यते सा रुचिप्रदा ॥ २९॥ पाखण्डसंयुता नित्यं भक्तिं कुर्वन्ति शाश्वतीम् । चाण्डालास्ते मताः शास्त्रे देवानां दुःखदायकाः ॥ ३०॥ सत्यसङ्कल्पसिद्ध्या ते संयुतं देवमुत्तमम् । सङ्गृह्य भिक्षुकं दुष्टाः कुर्वतेऽधः प्रगामिनः ॥ ३१॥ अथ देवप्रियां भक्तिं श‍ृणुष्व सुसमाहितः । विचार्य हृदये भक्तिं कुरुते देवतुष्टये ॥ ३२॥ सदा देवपरो भूत्वा भजतेऽनन्यमानसः । लोकानां तत्र सम्भूयाद्रुचिर्वा ह्यरुचिः कदा ॥ ३३॥ लोका निन्दन्ति तं भक्तमुत्तमाश्च स्तुवन्ति वा । ताननादृत्य देवस्य प्रीत्यर्थं भजते सदा ॥ ३४॥ स्वकीये हृदये सोऽपि विचार्य कुरुते सदा । भक्तिं यां तां प्रजानाति देवस्तस्य हृदि स्थितः ॥ ३५॥ यदा दैवस्य मार्गस्यापमानं वा ह्यनादरम् । कुर्वन्ति तान् परित्यज्य तदा भजति सर्वदा ॥ ३६॥ लोकानां रुचिदं तस्य भजनं जायते कदा । कदा तेषां विरुद्धं वा भक्त्या तद्देवतुष्टिदम् ॥ ३७॥ (Page खं. ९ अ. १६ पान ५५) अनेन विधिना दक्ष भजस्व गणनायकम् । गाणपत्यो न सन्देहो भविष्यसि परात् परः ॥ ३८॥ पञ्च चित्तेषु यज्ज्ञानं तद्विद्धि विषयात्मकम् । तत्र रुचिविहीनस्त्वं भजस्व गणनायकम् ॥ ३९॥ सदा गणेश्वरे दक्ष रसोत्पत्तिः प्रजायते । चित्तस्य नान्यभावेषु यस्य भक्तः स उच्यते ॥ ४०॥ एतद्भक्तिरहस्यं ते कथितं भक्तिदायकम् । समासेन भजस्वैव गणेशं ब्रह्मनायकम् ॥ ४१॥ इमं योगं नरो यस्तु श‍ृणुयाच्छ्रावयेत् परम् । योगिभ्यो वाऽन्यजन्तुभ्यः स ईप्सितमवाप्नुयात् ॥ ४२॥ नानेन सदृशं किञ्चिद्योगदं शास्त्रसम्मतम् । अस्य श्रवणमात्रेण ब्रह्मीभूतो भवेन्नरः ॥ ४३॥ महापापोपपापेभ्यो मुच्यते पठनात् किल । श्रवणादस्य योगस्यान्ते ब्रह्म प्राप्नुयात् परम् ॥ ४४॥ पुत्रपौत्रादिसंयुक्तो धनधान्यसमन्वितः । आरोग्यादिसमायुक्तो लभेदन्ते परं पदम् ॥ ४५॥ सकामको लभेद्भोगान् पठनादस्य निश्चितम् । अन्ते ब्रह्ममयो भावी श्रवणान्नात्र संशयः ॥ ४६॥ योगगीतां पठेद्यस्तु निष्कामः श‍ृणुयादथो । स विघ्नहीनतां प्राप्य ब्रह्मीभूतो भविष्यति ॥ ४७॥ योगगीतां पठेद्यस्तु स भवेत् शान्तिसंयुतः । श‍ृणुयाद्ब्रह्मभूतश्च ज्ञानवान् स्थितिसंयुतः ॥ ४८॥ कर्मनिष्ठैरियं सेव्या तपोनिष्ठैः प्रजापते । तत्तत्सिद्धिसमायुक्तैरिहान्ते ब्रह्म चाप्यते ॥ ४९॥ नित्यं पठेदिमां गीतां स गणेशो धरातले । दर्शनात् पावनो नॄणां सर्वसिद्धिप्रदायकः ॥ ५०॥ एककालं द्विकालं वा त्रिकालं यः पठेदिमाम् । कृत्वाऽवश्यं गणेशानं स भवेत् सर्वदायकः ॥ ५१॥ शुक्लकृष्णचतुर्थ्योस्तु पेठदेतां नरोत्तमः । स भुक्त्वा सकलान् भोगानन्ते ब्रह्म लभेत् परम् ॥ ५२॥ अथवा शुक्लजायां स चतुर्थ्यां भाद्रमाघयोः । ज्येष्ठे माघे च कृष्णायां पठेदीप्सितमाप्नुयात् ॥ ५३॥ अथवा गणराजस्य तीर्थक्षेत्रादिके गतः । पठेदिमां सुभावेन स ईप्सितमवाप्नुयात् ॥ ५४॥ वेदशास्त्रपुराणेषु यत् सारं समुदाहृतम् । योगगीतामयं तुभ्यं सर्वसिद्धिप्रदायकम् ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन भक्तिरहस्यवर्णनयोगो नाम षोडशोऽध्यायः ॥ ९.१६ ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वादशोऽध्यायः ॥ ९(दत्तगीता).१२ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ गीताश्लोकसङ्ख्या ॥ ९९८॥

९.१७ दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एतत्ते कथितं सर्वं रहस्यं परमं मया । गणेशस्य प्रजानाथ समासेन शुभप्रदम् ॥ १॥ अतो भज गणाध्यक्षं सर्वेप्सितमवाप्स्यसि । मा शोकं कुरु दक्ष त्वं यज्ञध्वंसभवं परम् ॥ २॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् । विधियुक्तं विधानेन मुनिर्दक्षाय मुद्गलः ॥ ३॥ तेन सम्पूजितो योगी ह्यभवद्गन्तुमुद्यतः । तस्मिन् काले गणाध्यक्षः प्रकटोऽभूच्छुभप्रदः ॥ ४॥ मूषकोपरिसंस्थं तं सिद्धिबुद्धिसमन्वितम् । पाशाङ्कुशरदैर्युक्तमभयं धारकं प्रभुम् ॥ ५॥ गजास्यं रक्तवस्त्रैः सञ्छादितं भूषणैर्युतम् । नाभिशेषं गणैर्युक्तं प्रमोदाद्यैः सुसेवितम् ॥ ६॥ त्रिनेत्रमेकदन्तं च महाकुक्षिं परात्परम् । दृष्ट्वा समागतं दक्षो मुद्गलो हर्षितोऽभवत् ॥ ७॥ उत्थाय सर्वसंयुक्तो ननाम द्विरदाननम् । दक्षश्च मुद्गलो विप्रो दण्डवत् पृथिवीतले ॥ ८॥ ततोऽतिहर्षसंयुक्तो दक्षस्तं प्रजगाद ह । गणेशं भक्तिसंयुक्तः सरोमाञ्चोऽश्रुसंयुतः ॥ ९॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च दर्शनात्ते गजानन । वेदान्तागोचरोऽसि त्वं ब्रह्मरूपः समागतः ॥ १०॥ धन्योऽयं मुद्गलो योगी पुराणं धन्यमुत्तमम् । मौद्गलं येन विघ्नेशो मया प्राप्तः परात्परः ॥ ११॥ मुद्गलेन समाख्यातं भक्त्याधीनो गजाननः । तदद्य सत्यरूपं यन् मया ज्ञातं प्रमाणतः ॥ १२॥ मुद्गलस्यैव भक्त्या त्वं मोहितः सहसाऽऽगतः । त्वत्तः श्रेष्ठो गणेशान मुद्गलो नात्र संशयः ॥ १३॥ एवं प्रवदतस्तस्य दक्षस्यासीन् महात्मनः । भक्ते रसः समुत्पन्नो ननर्त स हि विह्वलः ॥ १४॥ भ्रान्तस्तन्न स्म जानाति कृत्यं विघ्नेश्वराय सः । जय हेरम्ब विघ्नेश गणेश मूषकध्वज ॥ १५॥ गजानन परेशान जय लम्बोदर प्रभो । उच्चरन् सास्त्रनेत्रश्च देहातीत इवाऽभवत् ॥ १६॥ एतस्मिन्नन्तरे सर्वे समाजग्मुः सुरेश्वराः । शिवविष्णुमुखास्तत्रागतं ज्ञात्वा गजाननम् ॥ १७॥ मुनयो भृगुमुख्याश्च नारदाद्याः सुरर्षयः । शुकाद्याः सनकाद्याश्च कपिलाद्या महामुने ॥ १८॥ वसवः साध्यरुद्राश्च गन्धर्वाप्सरसस्तथा । अश्विनौ शेषमुख्याश्च नागाः पर्वतनायकाः ॥ १९॥ सिद्धाश्चारणमुख्याद्या असुरा धर्मपालकाः । विद्याधराः कामदुधा गावो विप्रा अनेकशः ॥ २०॥ प्रणेमुर्गणराजं ते हर्षयुक्ताः प्रतुष्टुवुः । भक्तियुक्ता विशेषेणात्मानं धन्यं च मेनिरे ॥ २१॥ ततः स मुद्गलो योगी विस्मितः प्रबभूव ह । पुराणश्रवणस्यैतत् दृष्ट्वा फलमनन्तकम् ॥ २२॥ बोधयामास दक्षं स ततो दक्षोऽतिहर्षितः । हर्षं नियम्य विघ्नेशं यथाविधि पुपूज ह ॥ २३॥ ततो देवेश्वरान् देवान् विप्रादीन् योगिमुख्यकान् । पूजयित्वा पुनः सोऽपि प्रणनाम गजाननम् ॥ २४॥ साश्रुनेत्रः प्रतुष्टाव भक्तिनम्रात्मकन्धरः । अनु तं देवविप्राद्यास्तुष्टुवुस्तं परेश्वरम् ॥ २५॥ सदेवर्षिर्दक्ष उवाच । नमस्ते गणेशाय सर्वात्मने ते सदा भक्तिमोहेन मोहात्मकाय । (Page खं. ९ अ. १७ पान ५७) महेशादिदेवैः शुकाद्यैः स्तुताय ह्ययोगाय संयोगधारिन्नमस्ते ॥ २६॥ गजाननाय वै तुभ्यं नमः परशुपाणये । गदाधराय शङ्खं वै धारिणे ते नमो नमः ॥ २७॥ विघ्नेशाय परेशाय महाविघ्नविदारिणे । अनाथाय सनाथाय हेरम्बाय नमो नमः ॥ २८॥ नमो नमस्तेऽस्तु महोदराय स्वभक्तसंरक्षणतत्पराय । अभक्तकामान् विनिहन्तृकाय सदा सुशान्तिप्रद ते नमो वै ॥ २९॥ ब्रह्मेशाय नमस्तुभ्यं सदा स्वानन्दवासिने । सिद्धिबुद्धिवरायैव मूषकध्वजिने नमः ॥ ३०॥ दैत्यमस्तकधाराय दितिपुत्राय ते नमः । कण्ठाधो देवकायाय नमो सुरसुराय ते ॥ ३१॥ योगाय सर्वात्मकसर्वपूज्य मायाविनां मोहकराय तुभ्यम् । मायाप्रचालाय सुसिद्धिदाय धर्मस्थपालाय तु शूलपाणे ॥ ३२॥ अनन्तलीलया नाथ स्वयं खेलसि मायया । तत्र किं वर्णयाम्येवाऽतो ब्रवीमि नमो नमः ॥ ३३॥ सदा योगस्वरूपाय भक्तिभावप्रदाय ते । भक्तिप्रियाय पूर्णाय भक्तवत्सल ते नमः ॥ ३४॥ प्रसीद पाहि विघ्नेश दासं ते भक्तिलालसम् । मां मुद्गलस्य शिष्यं वै भक्तराजस्य मानद ॥ ३५॥ एवमुक्त्वा गणेशानं प्रणनाम प्रजापतिः । अनु तं देवविप्राद्याः प्रणेमुस्तं परात्परम् ॥ ३६॥ तमुत्थाप्य गणाधीशो जगाद वच उत्तमम् । दक्षं मुद्गलमालोक्य स्वभक्तं भक्तपालकः ॥ ३७॥ श्रीगणेश उवाच । वरान् वृणु प्रजानाथ दास्ये ते तुष्टिमागतः । श्रवणेन पुराणस्य स्तोत्रेण मनसीप्सितान् ॥ ३८॥ त्वया कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः ॥ ३९॥ ब्रह्मप्रदं सुशान्तेश्च दायकं भक्तिवर्धनम् । भविष्यति महाप्राज्ञ परं मत्प्रीतिवर्धनम् ॥ ४०॥ गणेशवचनं श्रुत्वा दक्षो हर्षसमन्वितः । प्रणम्य तं जगादाऽथ भक्तिनम्रात्मकन्धरः ॥ ४१॥ दक्ष उवाच । वरदोऽसि गणाध्यक्ष तदा ते भक्तिमुत्तमाम् । देहि मे यच्च कृत्यं तदादिशेः करवाणि किम् ॥ ४२॥ तच्छ्रुत्वा गणनाथस्तं जगाद वच उत्तमम् । ज्ञात्वा भक्तिप्रियं दक्षं हृष्टरोमा महामुने ॥ ४३॥ श्रीगणेश उवाच । मदीयां भक्तिमत्यन्तं करिष्यसि महामते । दक्षाऽद्यप्रभृति प्राज्ञो भविष्यसि यथार्थगः ॥ ४४॥ यज्ञं कुरु महेशेन मया ध्वस्तं समन्वितः । किञ्चित् कृष्टं प्रदत्तं ते शापैः शैवैः सुखी भव ॥ ४५॥ योगशान्तियुतो नित्यं मां भजिष्यसि सर्वदा । सर्वमान्यः सर्वमुख्यो भविष्यसि प्रजापतिः ॥ ४६॥ एवमुक्त्वा गणेशानो विरराम च शौनक । दक्षो हृष्टमना भूत्वा स चक्रे यज्ञमुत्तमम् ॥ ४७॥ सम्पूज्यादौ गणाध्यक्षं ततः शम्भुमुखान् सुरान् । मुनीन्नागादिकान् सर्वान् विससर्ज सुहर्षितः ॥ ४८॥ ततो मुद्गलविप्रेशं पूजयन् भक्तिसंयुतः । उवाच तं सरोमाञ्चो दक्षो दक्षगणाग्रणीः ॥ ४९॥ दक्ष उवाच । किं ददामि महायोगिन् शिष्योऽहं ते नमाम्यतः । शरीरं पादपद्मे ते समर्पितमिदं प्रभो ॥ ५०॥ ततो दक्षं समानन्द्य मुद्गलः प्रययौ मुने । स्वाश्रमं गाणपत्यैः संसेवितं गणपप्रियः ॥ ५१॥ इदं दक्षस्य माहात्म्यं कथितं ते समासतः । मुद्गलस्य तथा श्रेष्ठं सर्वसिद्धिप्रदायकम् ॥ ५२॥ पुराणं मौद्गलं पूर्णं कथितं योगभावितम् । सर्वमान्यं विशेषेण सर्वसंशयनाशनम् ॥ ५३॥ पुराणश्रवणस्यापि फलं प्रोक्तं मया परम् । श्रवणेन प्रजानाथो दक्षो दक्षो बभूव ह ॥ ५४॥ अधुनाऽहं गमिष्यापि स्वाश्रमं विप्रनायक । त्वदाज्ञया वद स्वामिन् किं करोमि हितं पुनः ॥ ५५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते दक्षसिद्धिप्राप्तिवर्णनं नाम सप्तदशोऽध्यायः ॥ ९.१७

९.१८ गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । धन्योऽसि सूत सर्वेभ्यो भवान् ज्ञानाधिको मतः । समस्त्रिभुवने नैव संशयानां विनाशकः ॥ १॥ सर्वसंशयहीनोऽहं धन्यश्चाद्य त्वया कृतः । अधुना कृतकृत्यश्च जातो मुनिसमन्वितः ॥ २॥ न मुद्गलसमं किञ्चिन् मया ज्ञातं परात्परम् । तेनोक्तं मौद्गलं सूत मुद्गलेन सदृक् परम् ॥ ३॥ वेदशास्त्रपुराणानां नानामतनिकृन्तनम् । मौद्गलं मुद्गलाकारं सर्वसारप्रकाशकम् ॥ ४॥ त्र्यैलोक्ये मुद्गलो योगी मान्यः सर्वैः प्रकीर्तितः । सर्वाभिमानहीनत्वाद्यथार्थकरणात् किल ॥ ५॥ मुद्गलेन कृतं यद्वै पुराणं मुद्गलाकृति । तस्यापमानभावेन नारकी जायते नरः ॥ ६॥ यामा मुद्गरहस्तास्तं मारयिष्यन्ति निश्चितम् । न वक्ता कुत्र योगीन्द्रो मुद्गलेन सदृक् भवेत् ॥ ७॥ न भूतो नाधुना कुत्र वर्तते सूत निश्चितम् । निरंहकारसंयुक्तं भाषणं मुद्गलस्य च ॥ ८॥ पुराणानि च सर्वाणि स्वस्वब्रह्मपराणि वै । अभिमानेन सङ्गोप्य स्वदोषं प्रवदन्ति हि ॥ ९॥ यथार्थभाषणं सर्वं पुराणानां न संशयः । मुनीनां देवतादीनां स्थितस्तत्राप्यहं किल ॥ १०॥ तेन भिन्नमतादीनां प्रकाशस्तेषु जायते । मौद्गलं सर्वमान्यं वै निरहङ्कारभावतः ॥ ११॥ अभिमानो महाघोरो ह्यजेयो देवयोगिभिः । मुद्गलेन समाचूर्ण्य कृतो जीवविवर्जितः ॥ १२॥ अतोऽयं मुद्गलः प्रोक्त एक एव महर्षिभिः । तत्र चित्रं न वै सूत सर्वमान्यं वदेत् परम् ॥ १३॥ अहो गणेशहस्तस्थो मुद्गलः पतितो भुवि । नराकारस्वरूपेणाङ्गिरसेन प्रपालितः ॥ १४॥ स एव मुद्गलो योगी योगरूपप्रकाशकः । तत्र किं चित्रकं मन्येऽभिमानैर्वर्जितात्मकम् ॥ १५॥ मुद्गलस्य च दक्षस्य संवादेन युतं परम् । पुराणं चाङ्गिरःप्रोक्तं श्रुतं शान्तिप्रदं मया ॥ १६॥ अधुना वद सूत त्वं पुराणस्य प्रविस्तरात् । (Page खं. ९ अ. १८ पान ५९) माहात्म्यं श्रवणं चास्य कीदृशं क्रियते जनैः ॥ १७॥ विधिना केन कर्तव्यं श्रवणं कैः पुरा कृतम् । के के सिद्धियुता जाताः श्रवणादस्य मानद ॥ १८॥ पारायणं पुराणस्य कर्तव्यं कीदृशैः परम् । श्रवणं भिन्नखण्डस्य कैः कृतं तद्वदस्व मे ॥ १९॥ गणेशस्य पुराणानि चत्वारि कथितानि तु । तेषां श्रवणमात्रेण फलं किं नु लभेत् समम् ॥ २०॥ अथवा भिन्नभावाख्यं फलं भवति तद्वद । येन संशयहीना वै भजिष्यामो गजाननम् ॥ २१॥ सूत उवाच । एकविंशतिभेदैः स गणेशो ब्रह्मनायकः । क्रीडति प्रणवाकारो ब्रह्माण्डस्थे पुराणके ॥ २२॥ ब्राह्मे द्वादशभेदैः स क्रीडते बुद्धिचालकः । निर्गुणः सगुणाधारः प्रणवस्य प्रचालकः ॥ २३॥ गाणेशे मूर्तिमान् मुख्यः क्रीडति द्वन्द्वभावतः । बुद्धिस्थः प्रणवस्थः स तयोर्योगात्मका कृतिः ॥ २४॥ प्रणवात्मकभावस्योपासनाकाण्ड उच्यते । हृदि खेलकरस्यैव क्रीडाकाण्डः प्रकीर्तितः ॥ २५॥ मौद्गलेऽष्टविधः सोऽपि वर्णितो योगधारकः । संयोगायोगयोर्योगाकारः पूर्णः सुशान्तिगः ॥ २६॥ तेषां फलं प्रवक्ष्यामि गणेशज्ञानकारकम् । तच्छ्रुत्वा मुनयः सर्वे संशयेन विवर्जिताः ॥ २७॥ त्रिगुणमयकायाश्च देवाः पञ्च प्रकीर्तिताः । ब्रह्मा विष्णुः शिवः सूर्यः शक्तिः सर्वत्र पठ्यते ॥ २८॥ अपूज्यो विधिरेके तु वदन्ते शास्त्रसम्मतौ । मध्यस्था ये नरा विप्र ब्रह्मणो लोकगामिनः ॥ २९॥ चतुर्णां भजने सक्ताः शिवादीनां नरादयः । ये ते तेषां तु लोकेषु भक्त्या गच्छन्ति संयुताः ॥ ३०॥ सगुणोपासका येऽत्र शिवादीनां गुणात्मनाम् । ते तेषां लोकमासाद्य भुञ्जते भोगकान् परान् ॥ ३१॥ पुनः पतन्ति भूमौ ते जन्म भाग्यसमन्विताः । भवन्ति कृपया तेषां प्रणवे रुचिसंयुताः ॥ ३२॥ ततस्ते प्रणवाकारं भजन्ते गणराजकम् । ब्रह्मप्राप्त्यर्थमानन्दाद्यत्नवन्तो न संशयः ॥ ३३॥ ततस्तत्कृपया युक्ता भवन्ति ज्ञानसंयुताः । त्यक्त्वा प्रणवसंस्थं ते भजन्ते बुद्धिधारकम् ॥ ३४॥ हृदि बुद्धिपतिं पूर्णं भजन्ते यत्नसंयुताः । शमे दमे परा नित्यं नानाभावैर्विवर्जितम् ॥ ३५॥ बुद्धिस्थं तं समाराध्य तत्कृपायुक्तचेतसः । भजन्ते गणनाथं वै शुण्डादण्डविराजितम् ॥ ३६॥ एकनिष्ठस्वभावेन तत्परा नित्यमादरात् । योगप्राप्त्यर्थमानन्दाच्छमदमपरायणाः ॥ ३७॥ गणेशोपासनायुक्ता मन्त्रध्यानपरायणाः । गाणपत्याभिमानस्य धारकाः सम्भवन्ति ते ॥ ३८॥ न गणेशात् परं भावं मानयन्ति कदाचन । वेदशास्त्रपुराणेषु विचार्य मनुजोत्तमाः ॥ ३९॥ ततस्तस्य कृपायोगान् मौद्गलस्थं भजन्ति ते । योगशान्तिपरा भूत्वा योगीशाः सम्भवन्ति वै ॥ ४०॥ एवं क्रमेण विप्रेन्द्र भवन्ति गणपप्रियाः । विभिन्नफलसंयुक्ताः पुराणोपासका मताः ॥ ४१॥ प्रणवोपासका ये वै परं ते देहधारिणम् । सर्वसामान्यभावेन मानयन्ति गजाननम् ॥ ४२॥ सत्यं प्रणवरूपं यत्तत्र देहधरः कथम् । तिष्ठेत्तु गणनाथोऽवयवादिभिरयं युतः ॥ ४३॥ सर्वमोङ्कार एवेदं न भिन्नं तत्र वर्तते । अनेन विधिना तेषां भजनं तस्य जायते ॥ ४४॥ ततः परं बुद्धिसंस्थं ये भजन्ति महामुने । गणेशानं सर्वसमं भावयन्ति न संशयः ॥ ४५॥ बुद्धेः परं बुद्धिसंस्थं बुद्धेः प्राकाश्यदायकम् । ब्रह्म तत्र कुतो भाति प्रणवो ह्यर्थसंयुतः ॥ ४६॥ मनोवाणीविहीनं यद्ब्रह्म ब्रह्मणिगं परम् । गणेश्वरोऽन्ये तु तत्र तिष्ठन्ति भ्रान्तिजाः कुतः ॥ ४७॥ एवं भजन्ति विघ्नेशं परं प्रणववर्जितम् । ब्राह्मे पुराणे संस्थं ते जानीहि मुनिसत्तम ॥ ४८॥ ततः परं गणेशानं गाणेशस्थं भजन्ति ये । गणेशार्थरहस्यं ते ज्ञात्वा विश्वाससंयुताः ॥ ४९॥ प्रणवः प्रणवाकारो गणेशः सगुणः स्मृतः । ओङ्कारवर्जितोऽयं तु बुद्धिस्थो निर्गुणः स्मृतः ॥ ५०॥ प्रणवो बुद्धिसंस्थस्तु तत्परो ब्रह्मदो भवेत् । तयोः प्रीत्यर्थमानन्दाद्देहधारी बभूव ह ॥ ५१॥ गकारः प्रणवाकारो णकारो बुद्धिचालकः । तयोः स्वामी गणेशोऽयं गजवक्त्रादिचिह्नितः ॥ ५२॥ गाणपत्यस्वभावेन भजन्ते तं निरन्तरम् । एकनिष्ठतया भक्त्या भवन्ते विप्रयोगिनः ॥ ५३॥ ततस्ते मौद्गले पूर्णं सेवन्ते भक्तिसंयुताः । त्रयाणां द्योतकं पूर्णं तेषां योगे गजाननम् ॥ ५४॥ योगरूपो गणेशोऽयं त्रिरूपधारकोऽभवत् । कार्यार्थं खेलसंयुक्तो मायाभ्यां नात्र संशयः ॥ ५५॥ प्रणवो जगदाकारश्चिदाकारो हि धीस्थितः । तयोरात्मा ततश्चायं गजवक्त्रादिचिह्नितः ॥ ५६॥ एवं ज्ञात्वा गणेशानं भजन्ते त्रिषु संस्थितम् । मौद्गलस्था सदा विप्र योगज्ञा योगरूपिणम् ॥ ५७॥ तत्र ते भजनं मुख्यं पञ्चधा कथयाम्यहम् । येन भक्त्येन्द्र भूपस्त्वं भविष्यसि महामते ॥ ५८॥ मूर्तिसंस्थं गणेशानं भजेत् पूजादिमार्गतः । मन्त्रस्तवनकाद्यैश्च देहधारिसुखप्रदैः ॥ ५९॥ प्रणवं जगदाकारं तत्र जीवमयं प्रभुम् । भजेत् सर्वत्र संस्थं तं सर्वेषां हितमाचरन् ॥ ६०॥ कस्यचित्त्वशुभं विप्र न कुर्यात् स नरोत्तमः । अनेन विधिना सोऽपि तोषयेद् गणनायकम् ॥ ६१॥ द्वन्द्वभावं समालोक्य साक्षिवद्भाववर्जितः । बुद्धिस्थं तोषयेत् देवं विघ्नेशं भक्तिवत्सलम् ॥ ६२॥ धर्माधर्मादिकं सर्वं भ्रमं त्यक्त्वा महामतिः । बुद्धिभावं परित्यज्य निःसङ्गः स भवेत् सदा ॥ ६३॥ नाहं कर्ता कारयिता न देहस्थो न निश्चितम् । न बुद्धिस्थोऽहमानन्दाद्ब्रह्माऽहं निर्मलः सदा ॥ ६४॥ निर्लिप्तलिप्तहीना या भक्तिः सा परिकीर्तिता । तया गणेश्वरः प्रीतो भवेदात्मा सदाऽमलः ॥ ६५॥ न गणेशादहं भिन्नो देहधर्मः प्रवर्तते । गणेशभक्तिसंयुक्तो मौद्गलस्थो भजेत् परम् ॥ ६६॥ स्वयं गणेश्वरो भूत्वा त्रिविधस्थं गजाननम् । त्रिभिर्मार्गैर्भजेन्नित्यं शान्त्या भक्तिसमन्वितः ॥ ६७॥ त्रयाणां योगभावे यो गणेशस्त्रिविधो मतः । (Page खं. ९ अ. १८ पान ६१) स्वयं त्रिविधकं पश्यन् भजेच्चानन्यचेतसः ॥ ६८॥ त्रिभिर्भावैः समायुक्तो भजेद्योगी महायशाः । गणेशं गणपाकारो मौद्गलज्ञो विचक्षणः ॥ ६९॥ एवं गणेश्वरस्यैव भजनं कुरु मानद । तेन योगीन्द्रवन्द्यस्त्वं गाणपत्यो भविष्यसि ॥ ७०॥ आदौ देहधरान् शम्भुमुख्यान् संसेव्य वै नरः । ततो जीवस्वरूपस्थान् प्रणवाकृतिधारकान् ॥ ७१॥ ततो बुद्धिगतान् विप्र ततो भक्तिं लभेत् पराम् । गणेशं देहगं सोऽपि सेवतेऽनन्यभावतः ॥ ७२॥ ततो मौद्गलकं ज्ञात्वा योगी योगपरायणः । भजते त्रिविधे संस्थं गणेशं गणपप्रियः ॥ ७३॥ एतत्ते कथितं सर्वं भजनं गणपस्य च । स्वरूपं त्रिविधं पूर्णं त्रिमार्गद्योतनं मुने ॥ ७४॥ शौनक उवाच । अष्टादश पुराणानि कथितानि विशेषतः । अन्यान्युपपुराणानि व्यासेनामितबुद्धिना ॥ ७५॥ यथा वेदास्तथा सूत उपवेदाः प्रकीर्तिताः । नहि वेदसमा विप्रैर्मन्यन्ते वै विशेषतः ॥ ७६॥ तथैवोपपुराणानि तेषु गाणेश्वरं परम् । मौद्गलं कथितं विप्रैः कथं तत्राधिकं भवेत् ॥ ७७॥ सूत उवाच । यथा देवपतिः प्रोक्त इन्द्रः सर्वत्र विप्रपैः । उपेन्द्रो विष्णुराद्यो वै कथ्यते च विनायकः ॥ ७८॥ इन्द्रादधिकभावेन मतौ विष्णुविनायकौ । तथैवोपपुराणानि ब्रह्मसायुज्यदानि तु ॥ ७९॥ आदौ श्रुत्वा पुराणानि ततः साधनसंयुतः । साधयित्वा भवेद्विप्र पात्रं चोपपुराणके ॥ ८०॥ एवं जानीहि सर्वत्र पुराणेषु विशेषतः । वेदोपवेदवच्चात्र नैव ब्रह्मविनिश्चयात् ॥ ८१॥ मोहनार्थं जनानां वै भ्रान्तिभावप्रकाशनात् । गणेशस्य स्वरूपं यद्वर्ण्यते गूढकं परम् ॥ ८२॥ अतो गणेश्वरस्यैव मता भक्तिः सुदुर्लभा । पूर्णपुण्यबलेनाढ्यैर्लभ्यते योगिभिः परा ॥ ८३॥ मौद्गलेन गणेशस्य स्वरूपं ज्ञायते जनैः । परिपूर्णं न सन्देहोऽन्यथा भ्रान्तिर्भविष्यति ॥ ८४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगामतार्थशास्त्रे नवमे खण्डे दक्षमुद्गलसंवादे गणेशस्वरूपक्रमवर्णनं नाम अष्टादशोऽध्यायः ॥ ९.१८

९.१९ पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । शुचिः स्वधर्मनिष्ठः स एकभुक्तपरायणः । ब्रह्मचर्यसमायुक्तो रात्रौ सुप्यात्तथा भुवि ॥ १॥ अनृतादिकमेवं सन्त्यजेत् सर्वं समाहितः । हविष्यान्नं च भुक्त्वा तु श‍ृणुयादिदमुत्तमम् ॥ २॥ गणेशसन्निधाने वै वने वा स्वगृहे स्थितः । श‍ृणुयान् मौद्गलं पूर्णं योगभक्तिपरायणः ॥ ३॥ अथवा कामनायुक्तो निःकामो वा भवेन्नरः । श‍ृणुयान्नियमे संस्थः स सद्यश्च फलं लभेत् ॥ ४॥ यत्र वक्ता भवेदस्य तत्र गत्वा महामतिः । श‍ृणुयादथवा विप्र पुराणमिदमुत्तमम् ॥ ५॥ ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा श‍ृणुयादिदम् । शूद्रश्चेत् ब्राह्मणं कञ्चित् पुरस्कृत्य समाहितः ॥ ६॥ भाद्रशुक्लप्रतिपदमारभ्य च चतुर्दिनम् । पारायणं मौद्गलस्य श्रोतव्यं तैरुपोषितैः ॥ ७॥ माघसंज्ञे तथा मासे तथा ज्येष्ठे प्रकीर्तितम् । पारायणं मौद्गलस्य श्रोतव्यं सर्वसिद्धये ॥ ८॥ अथवा भाद्रमासस्य प्रतिपत्तः समारभेत् । आश्विन्यां पूर्णिमायां तत् पुराणं च समापयेत् ॥ ९॥ एवं माघे तया ज्येष्ठे सार्धमासैकमानतः । श्रोतव्यं मौद्गलं पूर्णं सर्वभावपरायणैः ॥ १०॥ अथवा भाद्रमासे च प्रतिपत्तः समारभेत् । पुराणं मौद्गलं विप्र श‍ृणुयाद्वर्षमात्रतः ॥ ११॥ पुनर्भाद्रपदं प्राप्य चैकभुक्तपरायणः । प्रतिपद्यां निराहारो भवेद्यावच्चतुर्थिका ॥ १२॥ पञ्चम्यां मौद्गलं पूर्णं समापयतु तन्नरः । एवं श्रुत्वा फलं सद्यो लभेदीप्सितमञ्जसा ॥ १३॥ विधिं तत्र प्रवक्ष्यामि मण्डपं कारयेन्नरः । तोरणादिसमायुक्तं नानाशोभासमन्वितम् ॥ १४॥ आदौ गणेश्वरं तत्र पूजयेत् पुस्तकं ततः । ततो मुद्गलविप्रेन्द्रं शुकं योगविशारदम् ॥ १५॥ पठते मौद्गलं तत्र संस्थितौ शुकमुद्गलौ । ततः पौराणिकं शान्तं पूजयेद्भावसंयुतः ॥ १६॥ ततः श्रोतृगणान् पूज्य प्रार्थयेत् स्नेहसंयुतः । पौराणिकं ततः पुण्यं श‍ृणुयादिदमुत्तमम् ॥ १७॥ अर्थेन संयुतं सर्वं मौद्गलं श‍ृणुयान्नरः । सर्वार्थनिपुणस्तेन सर्वसिद्धियुतो भवेत् ॥ १८॥ यदा चतुर्दिनैः श्राव्यं तदार्थपरिवर्जितम् । पारायणं समाख्यातं सर्वसिद्धिप्रदायकम् ॥ १९॥ नित्यमुत्सवसंयुक्तो भवेद्धर्मपरायणः । नानादानरतो भूत्वा ब्राह्मणादींश्च भोजयेत् ॥ २०॥ गणेशप्रीतये सर्वं कुर्याद्धीमान्निरन्तरम् । विदित्वा धन्यमात्मानं श‍ृणुयादिदमुत्तमम् ॥ २१॥ अन्ते गणेश्वरं सोऽपि पुराणं पूजयेत् परैः । राजोपचारकाद्यैस्तु भक्तिभावसमन्वितः ॥ २२॥ ततः पौराणिकं पूज्य तोषयेत्तं धनादिभिः । रत्नाद्यैर्हर्षसंयुक्तः प्रार्थयेन्नम्रकन्धरः ॥ २३॥ तारितोऽहं त्वया नाथ पुराणश्रावकेन वै । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥ २४॥ एवं प्रार्थ्य नमस्कृत्य ततः सर्वान् समागतान् । दक्षिणाद्यैः समातोष्य ततस्तं स विसर्जयेत् ॥ २५॥ पौराणिकं ततो भूयः समानीय महायशाः । (Page खं. ९ अ. २० पान ६३) श्रोतॄनन्यान् द्विजादींश्च भोजयेन् मोदकादिभिः ॥ २६॥ ततस्तान् स नमस्कृत्य पारणं यः समाचरेत् । एवमीप्सितकं प्राप्येहान्ते ब्रह्ममयो भवेत् ॥ २७॥ अथवा मौद्गलं विप्र श‍ृणुयान्नित्यमादरात् । यथेच्छया समायुक्तः स्वेच्छाभोजनकारकः ॥ २८॥ ब्रह्मचर्यादिहीनः स भक्तिभावसमन्वितः । गणेशप्रीतये हर्षात् सर्वसिद्धिं लभेत् पराम् ॥ २९॥ अकिञ्चनोऽपि विप्रेश श‍ृणुयाद्भक्तिसंयुतः । यथाशक्तिविधानेन स पूजादिकमाचरेत् ॥ ३०॥ शमीमन्दारदूर्वाद्यैरथवा यः समर्चयेत् । फलं सर्वं लभेत् सोऽपि पूजादानादिजं परम् ॥ ३१॥ यादृशो विभवः स्वस्य तादृशं स समाचरेत् । तेन विघ्नेश्वरः प्रीतो भवेत् सर्वप्रदायकः ॥ ३२॥ श्लोकार्धं श्लोकपादं वा पदं श्लोकस्थमेव वा । श‍ृणुयान्मौद्गलस्यापि स धन्यो नात्र संशयः ॥ ३३॥ किं पुनः श्रद्धया युक्तः पुराणं श‍ृणुयात् परम् । सम्पूर्णं तस्य विप्रेश सफलं जननं भवेत् ॥ ३४॥ नित्यं यः श‍ृणुयाद्भक्त्या सर्वमाप्य स विप्रप । दर्शनात् सर्वजन्तूनां तारको भवति प्रभुः ॥ ३५॥ यथा गणेश्वरो देवस्तथाऽसौ नात्र संशयः । ब्रह्मीभूत इव प्राज्ञस्तिष्ठेद्वै भूमिमण्डले ॥ ३६॥ एतत्ते सर्वमाख्यातं सविधिश्रवणं परम् । पठनं तु पुराणस्य मौद्गलस्य समासतः ॥ ३७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे पुराणश्रवणादिविधिवर्णनं नाम एकोनविंशोऽध्यायः ॥ ९.१९

९.२० पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । श्रुत्वा मौद्गलकं पूर्णं के के सिद्धिं प्रलेभिरे । तेषां चरित्रमेवं मे ब्रूहि सूत समासतः ॥ १॥ सूत उवाच । आदौ मुद्गलयोगीशाच्छ्रुत्वा दक्षो महामतिः । स सर्वदोषहीनश्च बभूवे शान्तिधारकः ॥ २॥ ततो दक्षेण विघ्नेश नियमः स कृतो भवेत् । मौद्गलं नित्यमेवेदं पठनीयं निरन्तरम् ॥ ३॥ अवकाशानुसारेण अजपन्नित्यमादरात् । अध्यायादेस्तथा तत्र नियमं न चकार ह ॥ ४॥ भाद्रशुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥ ५॥ एवं माघे तथा पारायणं ज्येष्ठे महामतिः । चकार देवविप्राद्यैः संयुतो वार्षिकं परम् ॥ ६॥ एवं क्रमेण भक्त्या स गजाननपरायणः । मौद्गलं सेवतेऽद्यापि गाणपत्यस्वभाववान् ॥ ७॥ तेनैव बोधिताः सर्वे वसिष्ठाद्या महामुने । सेवन्ते मौद्गलं नित्यं प्रजापतय आदरात् ॥ ८॥ तैश्चान्ये बोधिता विप्रा योगमार्गपरायणाः । नानाभावसमायुक्ता असेवन्निदमुत्तमम् ॥ ९॥ (Page खं. ९ अ. २० पान ५०) एवं परम्पराप्राप्तं विदुः सर्वे च जन्तवः । नानाभावसमायुक्ता असेवन् मौद्गलं परम् ॥ १०॥ दक्षयज्ञे समायातैः शिवविष्णुमुखामरैः । तैर्ज्ञातं मौद्गलं पूर्णं योगदं सर्वसिद्धिदम् ॥ ११॥ यज्ञं समाप्य सर्वे ते स्वं स्वं धाम ययुर्मुदा । ततः शिवेन योगीशः प्रार्थितस्तत्र मुद्गलः ॥ १२॥ पुराणश्रवणार्थं स प्रणम्यापूज्य भक्तितः । तुष्टस्तेन समायुक्तो जगाम शिवमन्दिरम् ॥ १३॥ ततः पुराणमाहात्म्यं ज्ञात्वा विष्णुमुखाऽमराः । आययुः श्रवणार्थं ते कैलासं पर्वतेश्वरम् ॥ १४॥ शिवेन संयुताः सर्वे ब्रह्माद्याः शुश्रुवुः परम् । पुराणं मौद्गलं पूर्णं मुद्गलाद्योगिसागरात् ॥ १५॥ वर्षेणैकेन ते श्रुत्वा पुपूजुस्तं शिवादयः । विसृज्य मेनिरे सर्वे सस्त्रीकाः कृतकृत्यताम् ॥ १६॥ गणेश्वरस्य तत्रांशः शिवपुत्रः स्थितोऽभवत् । स एव मौद्गलं नित्यं जजाप गणपप्रियः ॥ १७॥ मूर्तिस्थं गणनाथं स पूज्य नित्यं महायशाः । तत्सन्निधानगो भूत्वा जजाप त्विदमुत्तमम् ॥ १८॥ विश्वनाथः शिवः साक्षात् काश्यां नित्यं महामुने । जजाप नियमे संस्थो ढुण्ढिराजस्य सन्निधौ ॥ १९॥ माघे शुक्लप्रतिपदि प्रारभ्योपोषणान्वितः । चतुर्थ्यां तत् समाप्तं पारायणं स चकार ह ॥ २०॥ तथा भाद्रपदे मासि मुद्गलः शुकसंयुतः । मयूरेशस्य सान्निध्ये चक्रे पारायणं मुदा ॥ २१॥ नित्यं जजाप भावेन गाणपत्यैः समन्वितः । महाभक्तश्च सर्वेषां तारकस्तारकाकृतिः ॥ २२॥ ज्येष्ठे मासि स्वयं पारायणं शेषश्चकार ह । मूषकस्थस्य सान्निध्ये नागासुरसमन्वितः ॥ २३॥ जजाप नित्यमेवं स सर्वभावसमन्वितः । भक्तियुक्तो महाभक्तः सर्वेषां हितकारकः ॥ २४॥ तथा दत्तः स्वयं साक्षाज्ज्ञानेशस्य प्रतुष्टये । ज्येष्ठे परायणं पूर्णं चक्रेऽसौ भक्तिसंयुतः ॥ २५॥ नित्यं जपपरो भूत्वा जजाप त्विदमुत्तमम् । नानायोगिसमायुक्तः शङ्करेण समन्वितः ॥ २६॥ विष्णुर्भानुर्विधिः शक्तिरिन्द्रश्चाग्निमुखाऽमराः । नित्यं स्वस्वगृहे संस्थाः सेवन्ते मौद्गलं परम् ॥ २७॥ कश्यपाद्या मुनीन्द्राश्च मुनयः सिद्धमुख्यकाः । कपिलाद्या इदं नित्यं सेवन्ते भक्तिसंयुताः ॥ २८॥ सनकाद्याश्च संवर्तो योगिनो नव एव च । नित्यं जपपराः पूर्णं सेवन्ते मौद्गलं मुदा ॥ २९॥ नारदो गानसंयुक्तश्चचार भुवनेषु च । गायन्नित्यमिदं विप्र मौद्गलं योगशान्तिदम् ॥ ३०॥ एवं नाना जनाः सर्वे मनवश्व महर्षयः । सेवन्ते नित्यमेवेदं सर्वसिद्धिप्रदायकम् ॥ ३१॥ व्यासः स्वयं महाभागः सेवते नित्यमादरात् । गाणेशं मौद्गलं चैव भक्तिभावसमन्वितः ॥ ३२॥ एवं मया न शक्यं तत् कथितुं मुनिसत्तम । भाग्यवन्तो विशेषज्ञाः सेवन्ते मौद्गलं सदा ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणप्रशस्तिमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥ ९.२० (Page खं. ९ अ. २१ पान ६५)

९.२१ पारायणवर्णनं नामैकविंशतितमोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । अथ कामयुतानां यत् पुराणश्रवणे फलम् । कथयामि समासेन सर्वसिद्धिप्रदायकम् ॥ १॥ अत्रिगोत्रोद्भवः कश्चिद्विप्रः सर्वार्थकोविदः । त्यक्त्वा स्वधर्मजं कर्म पापकर्मपरोऽभवत् ॥ २॥ तं ज्ञात्वा पितरौ तस्य दुःखयुक्तौ बभूवतुः । सुशीला सुमुखौ नाम्ना सुमतिं वीक्ष्य दुर्मतिम् ॥ ३॥ सुमतिं वीक्ष्य पुत्रं तौ शिक्षयन्तौ निरन्तरम् । स तयोर्वचनं दुष्टो न चकार कदाचन ॥ ४॥ ततस्तौ दुःखसंयुक्तौ स्थितौ स्वस्याश्रमे कदा । साक्षान् मुनिवरस्तत्र भरद्वाजः समाययौ ॥ ५॥ सम्पूज्य मुनिशार्दूलं दुःखवन्तावपृच्छताम् । पुत्रं सुशीलं कर्तारमुपायं सुखदायकम् ॥ ६॥ ततः स करुणाविष्टस्तौ जगाद महामतिः । पुत्रस्ते मौद्गलं श्रुत्वा सुशीलोऽयं भविष्यति ॥ ७॥ एवमुक्त्वा ययौ स्थानं भरद्वाजो महामुनिः । सुमुखः पुत्रसंयुक्तः स्त्रियाऽत्रिं प्रजगाम ह ॥ ८॥ तं प्रणम्य महाभागं योगीन्द्रं योगदायकम् । पप्रच्छ मौद्गलं कुत्र लभ्यते तद्वदस्व मे ॥ ९॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तो महामुनिः । अत्रिः सम्मान्य विप्रेशं जगाद वचनं हितम् ॥ १०॥ अत्रिरुवाच । मा चिन्तां कुरु पुत्र त्वं स्थीयतामाश्रमे मम । पारायणं करिष्यामि भाद्रमासेऽहमादरात् ॥ ११॥ तत्र त्वं मौद्गलं श्रुत्वा गच्छ पश्चात् स्वमाश्रमम् । तथेति सुमुखो हर्षात्तं प्रणम्य चकार ह ॥ १२॥ अथ स्वल्पेन कालेन भाद्रनामा समाययौ । मासो मुनिगणास्तत्र श्रवणार्थं समाययुः ॥ १३॥ क्षत्रियान् वैश्यकान् शूद्रांस्तान् दृष्ट्वा हर्षसंयुतः । सुमुखो विधिवत्तत्र शुश्रुवे विधिसंयुतः ॥ १४॥ उपोषणपरो भूत्वा पञ्चम्यां ब्राह्मणैः सह । चकार पारणं सोऽपि भक्तियुक्तेन चेतसा ॥ १५॥ ततस्तस्य सुतः सोऽपि सुमतिः शीलसंयुतः । बभूव धर्मसंयुक्तः स्वाचारस्थो महामतिः ॥ १६॥ तत् दृष्ट्वा परमाश्चर्यं सस्त्रीकः पुत्रसंयुतः । गणेशभजने सक्तो योगिवन्द्यो बभूव ह ॥ १७॥ अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतोऽभवत् द्विजः । एतत्ते कथितं विप्र श‍ृण्वन्यच्चित्रमुत्तमम् ॥ १८॥ तत्र पारायणे कश्चिद् वृषभो दुःखसंयुतः । अशक्तत्वात् स्थितो दूरं शुश्रुवे किञ्चिदादरात् ॥ १९॥ ममार तत्र तं नेतुं गाणपत्याः समाययुः । तान् दृष्ट्वा विस्मिताः सर्वे प्रपच्छुः परिपूज्य वै ॥ २०॥ विप्राद्या ऊचुः । केन पुण्येन युष्माभिर्वृषभो नीयतेऽमराः । वदन्तु गाणपवराः स्वानन्दे चित्रमुत्तमम् ॥ २१॥ गाणेशा ऊचुः । अयं भवत्सन्निधाने पतितो दुःखसंयुतः । शुश्राव मौद्गलं पारायणमेव महर्षयः ॥ २२॥ मध्ये ममार दुःखेन पीडितोऽतितरां वृषः । अधुना ब्रह्मभूतं तं करिष्यामो न संशयः ॥ २३॥ मौद्गलस्य पदं श्रुत्वा लोकस्थश्चेन् मृतो भवेत् । न तस्य पुनरावृत्तिर्भविष्यति न संशयः ॥ २४॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्ता महर्षयः । पप्रच्छुस्तान् पुनश्चित्रं संशयेन समन्विताः ॥ २५॥ (Page खं. ९ अ. २२ पान ६६) विप्रा ऊचुः । अयं वृषभयोनिस्थो वयं मानवदेहजाः । अस्माभिः कथितं सर्वं ज्ञायते वृषभेण न ॥ २६॥ वृषभेण यदुक्तं तद्वचनं मानवैः कदा । ज्ञायते न विशेषेण योनिभिन्नप्रभावतः ॥ २७॥ अयं वृषभयोनिस्थः परं पारायणं कथम् । श्रुत्वा स तस्य माहात्म्यं फलभोक्ता भवेत् पराः ॥ २८॥ गाणेशा ऊचुः । श्रवणं वृषभेणैव कृतं ज्ञानविवर्जितम् । अन्यच्छब्दप्रमातृत्वं श्रद्धाहीनेन निश्चितम् ॥ २९॥ ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् । सम्पृष्टश्चेन् महाभागा मौद्गलं तु तथा स्मृतम् ॥ ३०॥ योगामृतमयं पूर्णं मौद्गलं सर्वसम्मतम् । सर्वसिद्धिप्रदं प्रोक्तं ब्रह्मीभूतकरं तथा ॥ ३१॥ एवमुक्त्वा ययुः सर्वे गाणेशा गणपालयम् । वृषभं गृह्य ते चित्रं ब्राह्मणा विस्मिता जगुः ॥ ३२॥ एवं मौद्गलजं चित्रं माहात्म्यं मुनिसत्तम । तस्य प्रभावजं तेजो वर्णितुं कः क्षमो भवेत् ॥ ३३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगमृतार्थशास्त्रे दक्षमुद्गलसंवादे पारायणवर्णनं नामैकविंशतितमोऽध्यायः ॥ ९.२१

९.२२ माघपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । क्षत्रियो माधवः कश्चिन् मालवे सम्बभूव ह । अवन्तीनगरीपालः स्वधर्मनिरतः सदा ॥ १॥ काम्बोजः कर्णको राजा तत्र युद्धार्थमाययौ । जित्वा भूपमवन्त्यां वै राज्यं चक्रे स हर्षितः ॥ २॥ सस्त्रीकः पुत्रसंयुक्तः प्रधानैर्वीरमुख्यकैः । बभ्राम स वने राजा यत्र तत्र सुदुःखितः ॥ ३॥ ततो महावनं वीरो ददर्श व्याघ्रसंयुतम् । नानापशुयुतं तत्र प्रविवेश सुदुःखितः ॥ ४॥ दृष्ट्वा मुनिवरं तत्र कश्यपं सर्वदायकम् । प्रणनाम स साष्टाङ्गं स रुरोद हि विह्वलः ॥ ५॥ तं तथा दुःखसंयुक्तं दृष्ट्वा पप्रच्छ कश्यपः । जगाद स यथापूर्वं वृत्तान्तं शोकसङ्कुलः ॥ ६॥ ततस्तं कश्यपः प्राह मा कुरु त्वं महीपते । चिन्तां श‍ृणु स्वराज्यस्य प्रापकं तत् कुरुष्व च ॥ ७॥ समीपे माघमासः समागतश्च श‍ृणुष्व तत् । मौद्गलं सिद्धिदं पारायणं पूर्णं करोम्यहम् ॥ ८॥ तस्य तद्वचनं श्रुत्वा हर्षयुक्तश्च माधवः । सर्वैः साकं स्थितस्तत्र पुराणश्रवणाय सः ॥ ९॥ तथा मुनिगणाद्यांश्च श्रवणार्थं समागतान् । क्षत्रियाद्यान् स तान् दृष्ट्वा हर्षयुक्तो बभूव ह ॥ १०॥ विनायकं प्रतिपदि तदा पूज्य महामुनिः । उपोषणसमायुक्तः शुक्ले स्त्रीभिः समारभत् ॥ ११॥ पारायणं मौद्गलस्य मण्डपे विधिसंयुतः । (Page खं. ९ अ. २२ पान ६७) भक्तियुक्तो महायोगी कश्यपः सर्वतत्त्ववित् ॥ १२॥ तत्र चित्रं समुत्पन्नं तच्छृणुष्व महामुने । नकुलो भूमिसंस्थश्च शुश्राव भयसङ्कुलः ॥ १३॥ अकस्माद् दुःखसंयुक्तो ममार स च गाणपाः । आययुस्तान् समालोक्य मुनिः पप्रच्छ कश्यपः ॥ १४॥ कश्यप उवाच । किमर्थमागता नाथाः कार्यं वदत चोत्तमम् । वयं दासा गणेशस्य करिष्यामो जवान्विताः ॥ १५॥ कश्यपस्य वचः श्रुत्वा जगुस्तं गणपप्रियाः । नकुलं भूमिसंस्थं तु मृतं नेतुं समागताः ॥ १६॥ पारायणस्य विप्रेश मौद्गलस्याधुना द्विज । अध्यायः संश्रुतः पूर्णोऽज्ञानतो नकुलेन वै ॥ १७॥ द्वितीयेऽत्र समारब्धे ज्वरेण बहुपीडितः । मृतोऽधुना ब्रह्मभूतं करिष्यामो वयं किल ॥ १८॥ मौद्गलं सिद्धिदं पूर्णं श्रुतं तेन महात्मना । अन्ते तेन प्रभावेण जानीहि मुनिसत्तम ॥ १९॥ तेषां वचनमाकर्ण्य कश्यपः सर्वसंयुतः । विस्मितस्तान् प्रणम्यैव पारायणपरोऽभवत् ॥ २०॥ गाणेशा नकुलं गृह्य ययुः स्वानन्दकं पुरम् । गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव सः ॥ २१॥ चतुर्भिर्दिवसैः पारायणं योगी महामतिः । कृत्वा समाप्तं विघ्नेशं पूजयामास यत्नतः ॥ २२॥ ततः स पारणं चक्रे पञ्चम्यां सर्वसंयुतः । षष्ठ्यां स्वं स्वं स्थलं जग्मुर्ब्राह्मणाद्या महामुने ॥ २३॥ माधवस्तं प्रणम्यादौ प्रधानादिभिरावृतः । निर्जगाम ततः सोऽपि महाराष्ट्रं समाययौ ॥ २४॥ तत्र तस्य सखा राजा भद्रको बलसंयुतः । राज्यं चकार देशस्य स्वकीयस्य महाबलः ॥ २५॥ तेन सार्धं पुनः सोऽपि माधवः शस्त्रधारकः । सैन्येन संयुतः क्रुद्धः सङ्ग्रामाय समाययौ ॥ २६॥ गणेशं मनसि स्मृत्वा कश्यपं स्वगुरुं परम् । जिग्ये काम्बोजराजं तं युद्धं कृत्वा सुदारुणम् ॥ २७॥ पपाल भयसंयुक्तोऽभवत् कर्णः पराजितः । माधवः स्वस्य राज्यं तु चकार स सुहृद्गणः ॥ २८॥ भोगान्नानाविधान् राजा बुभुजे पुत्रपौत्रवान् । गणेशमभजन्नित्यं मौद्गलं तत्तथाऽश‍ृणोत् ॥ २९॥ अन्ते जगाम विघ्नेशं ब्रह्मीभूतो बभूव ह । पारायणस्य संश्रावमाहात्म्यात् स नरोत्तमः ॥ ३०॥ एवं नाना जना विप्र सिद्धिं प्राप्ता न शक्यते । वक्तुं केनापि कोऽहं तु मौद्गलश्रवणेन वै ॥ ३१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माघपारायणचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ ९.२२

९.२३ ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणः सुमतिर्नाम कुष्ठयुक्तो बभूव ह । सम्भूतो गालवे वंशे पीडां लेभे सुदारुणाम् ॥ १॥ सर्वाङ्गे भक्षितः कीटैः सदा दुर्गन्धसंयुतः । पूयशोणितघर्माद्यैर्व्याप्तः सर्वत्र विप्रप ॥ २॥ ततः सोऽपि स्वदेहस्य घातार्थं उद्यतोऽभवत् । सस्मार गणपं चित्ते विघ्नहीनार्थमादरात् ॥ ३॥ एतस्मिन्नन्तरे तत्राजगाम द्विजसत्तमः । धौम्यः सर्वार्थवित् साक्षाज्जातवेदा इवापरः ॥ ४॥ तं दृष्ट्वा प्रणनामादौ रुरुदे दुःखसंयुतः । सुमतिं तं प्रदृश्यैव धौम्योऽगादीत् स सौख्यदम् ॥ ५॥ धौम्य उवाच । मा चिन्तां कुरु मा देहघातं कुरु महामते । मौद्गलं श‍ृणु भावेन रोगहीनो भविष्यसि ॥ ६॥ सर्वसिद्धिकरं पूर्णं ब्रह्मीभूतत्वदायकम् । मौद्गलं श्रवणेनैव चल शीघ्रं मया सह ॥ ७॥ एवमुक्त्वा जनैस्तस्य तं गृह्य मुनिसत्तमः । जगाम पुलहं धौम्यो नानामुनिजनैर्वृतम् ॥ ८॥ तत्र ज्येष्ठः समायातो मासः सर्वार्थसिद्धिदः । स्वल्पकालेन योगीशः पुलहो हर्षितोऽभवत् ॥ ९॥ शुक्लप्रतिपदि पारायणं प्राज्ञः समारभत् । मौद्गलस्य पुराणस्य नानाजनसमन्वितः ॥ १०॥ उपोषणसमायुक्ता बभूवुस्ते महामुने । श्रवणे तत्पराः सर्वे पुलहश्च तथाऽभवत् ॥ ११॥ सुमतिर्धौम्यसंयुक्तस्तथाभूतो महामतिः । गणेशं मनसि ध्यात्वा परं शुश्राव मौद्गलम् ॥ १२॥ चतुर्भिर्दिवसैः सोऽपि समाप्तं तच्चकार ह । पञ्चम्यां पारणं सर्वैश्चकार गणपे रतः ॥ १३॥ सुमतिः कुष्ठहीनः स बभूवे तत्क्षणान् मुदा । तं दृष्ट्वा हर्षसंयुक्ता विस्मितास्ते बभूविरे ॥ १४॥ धौम्येनानम्य पुलहं स्वाश्रमं स समाययौ । तत्र धौम्यं प्रपूज्यादौ जगाद सुमतिर्वचः ॥ १५॥ सुमतिरुवाच । अस्य देहस्य कर्ता च पिता माता महामुने । त्वमेव मे न सन्देहः किं करोमि त्वदीप्सितम् ॥ १६॥ देहोऽयं मे मया विप्र तवाधीनः कृतः सदा । शाधि मां तदहं नित्यं करिष्यामि विशेषतः ॥ १७॥ धौम्य उवाच । गणेशं भज भावेन मौद्गलेन समन्वितम् । तेन मां कृतकृत्यं त्वं करिष्यसि न संशयः ॥ १८॥ एवमुक्त्वा महायोगी धौम्यः स्वाश्रमगोऽभवत् । सुमतिर्गणनाथं स मौद्गलेनाऽभजत् सदा ॥ १९॥ अन्ते ब्रह्ममयो जातो भुक्त्वा भोगान् यथेप्सितान् । एवं ज्येष्ठाभिधे मासे पारायणफलं परम् ॥ २०॥ अथान्यच्छृणु धर्मज्ञ वृत्तान्तं तत्र सम्भवम् । पुलहो हर्षसंयुक्तश्चक्रे पारायणं परम् ॥ २१॥ तत्र कश्चित्तु चाण्डाल आययौ स यदृच्छया । दूर स्थितः पश्यति स्म किमिदं कौतुकं महत् ॥ २२॥ दूरस्थेन श्रुतं तेन श्लोकस्य पदमुत्तमम् । एकं सम्पूर्णभावेन भक्तसंरक्षकस्य च ॥ २३॥ ततः स विस्मितो भूत्वा जगाम स्वेच्छयेरितः । पापकर्मा पुनः पापं चकार विविधं मुने ॥ २४॥ मृतं तं यमदूताश्च गृह्य सर्वे त्वरान्विताः । जग्मुर्देवं प्रणम्यादौ ददुस्तं पापकारकम् ॥ २५॥ (Page खं. ९ अ. २४ पान ६९) तत्रोवाच महाबुद्धिश्चित्रगुप्तो यमं वचः । महापापी महाभाग चाण्डालोऽयं विशेषतः ॥ २६॥ न पुण्यस्य कदा लेशश्चाण्डालेन कृतः प्रभो । मौद्गलस्य पदं नाथ श्रुतमेकमनेन च ॥ २७॥ एतत् सर्वं मया तुभ्यं कथितं तस्य चेष्टितम् । कुरु यद्धर्मसंयुक्तं दण्डरूपं महामते ॥ २८॥ चित्रगुप्तवचः श्रुत्वा धर्मो ध्यात्वा गजाननम् । विचारमकरोच्चित्ते किं करोमि सुखप्रदम् ॥ २९॥ एतस्मिन्नन्तरे तत्र सत्या वाक् तमुवाच ह । प्रदृश्य नरकानेव चाण्डालाय महामते ॥ ३०॥ सन्तर्ज्य स्वर्गभूमीषु स्थापयस्व यथा सुखम् । तथा चकार संहर्षाद्धर्मराजः प्रतापवान् ॥ ३१॥ स्वस्थाने भोगसंयुक्तं कृत्वा तं स्थाप्य सूर्यजः । संस्थितस्तत्र चित्रं वै बभूवे परमाद्भुतम् ॥ ३२॥ गाणेशास्तं प्रगृह्यैव ययुः स्वानन्दकं पुरम् । धर्मादयस्ततः सर्वे विस्मिताः सम्बभूविरे ॥ ३३॥ एवमेकपदस्यैव मौद्गलश्लोकगस्य यत् । श्रवणेन फलं प्रोक्तमतः किं वर्णयाम्यहम् ॥ ३४॥ एवं ज्येष्ठाभिधे मासि श्रुत्वा पारायणं नराः । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ॥ ३५॥ तत्र वक्तुं मया विप्र शक्यते न कदाचन । वर्षायुतैस्ततस्तुभ्यं कथितं लेशतः परम् ॥ ३६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे ज्येष्ठमासपारायणमाहात्म्यवर्णनं नाम त्रयोविंशोध्यायः ॥ ९.२३

९.२४ दक्षमुगलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चित्रं त्वं सूत वदसि न श्रुतं कुत्रचिन् मया । एकं श्लोकपदं श्रुत्वा नरो ब्रह्ममयोऽभवत् ॥ १॥ अहो पापसमाचारश्चाण्डालः श्लोकसम्भवम् । मौद्गलस्य पदं श्रुत्वा ब्रह्मभूतो बभूव ह ॥ २॥ अतो मौद्गलजं पूर्णं माहात्म्यं कीदृशं भवेत् । तद्वदस्व दयासिन्धो सर्वसंशयनाशनम् ॥ ३॥ सूत उवाच । चाण्डालं गृह्य गाणेशा ययुः स्वनगरं प्रति । तत् दृष्ट्वाऽऽश्चर्यसंयुक्तो यमो वेधसमागमत् ॥ ४॥ प्रणम्य स विधातारं जगदे वाक्यमुत्तमम् । विनयेन समायुक्तस्तेन सम्मानितो यमः ॥ ५॥ धर्म उवाच । मौद्गलस्य च माहात्म्यमद्भुतं दृश्यते मया । न दृष्टं न श्रुतं नाथ कुत्रचित् सर्वसिद्धिदम् ॥ ६॥ चाण्डालः पापकर्मा कः श्रुत्वैकं श्लोकजं पदम् । ब्रह्मभूतो बभूवाऽपि किमिदं कौतुकं विधे ॥ ७॥ एवं सर्वजना ब्रह्मन्नज्ञानेन समन्विताः । ज्ञानयुक्ता गमिष्यन्ति स्वानन्दं विविधात्मकाः ॥ ८॥ विश्वं चराचरं श्रुत्वा क्षीणं सद्यो भविष्यति । (Page खं. ९ अ. २४ पान ७०) अतो यत्नपरो भूत्वा विश्वं रक्ष सुखप्रदम् ॥ ९॥ माहात्म्यं कीदृशं चास्य मौद्गलस्य त्वया कृतम् । न ज्ञायते मया स्वामिन् वदाऽपारं किमात्मकम् ॥ १०॥ धर्मस्य वचनं श्रुत्वा तं जगाद पितामहः । निःश्वस्य श‍ृणु विप्रेश वचनं देवपालकम् ॥ ११॥ ब्रह्मोवाच । गणेशेन स्वभक्त्यर्थं रचितं मौद्गलं परम् । भक्त्या सम्प्रार्थितेनेदं सर्वसिद्धिप्रदायकम् ॥ १२॥ तस्य माहात्म्यमुख्यं वै को जानाति रवेः सुत । किं करोमि न जानामि मौद्गलस्य प्रखण्डनम् ॥ १३॥ एवमुक्त्वा स्वयं ब्रह्मा देवान् सस्मार मुख्यकान् । विप्रेन्द्रांस्ते समायाताः पप्रच्छुः कारणं परम् ॥ १४॥ तेषामग्रे यथावृत्तं कथयामास विस्तरात् । धर्मेण संयुतो ब्रह्मा वृत्तान्तं मौद्गले भवम् ॥ १५॥ श्रुत्वा ते खेदसंयुक्ता बभूवुर्मुनिसत्तम । तत्र विष्णुश्च तान् प्राह विचार्य हितकारकम् ॥ १६॥ विष्णुरुवाच । तुलां कुरु विधातस्त्वं मौद्गलेन समं भवेत् । साधनेषु यथा सर्वं हितमात्रं भविष्यति ॥ १७॥ तच्छ्रुत्वा विविधान्येव साधनानि प्रगृह्य सः । एकत्र स्थापयामासैकत्र मौद्गलकं परम् ॥ १८॥ तानि सर्वाणि तेनैव न समानि बभूविरे । मौद्गलेन महाभाग एकभावप्रधारणात् ॥ १९॥ ततः खेदयुताः सर्वे विचारं चक्रुरादरात् । मौद्गलेन जितं सर्वं करिष्यामः किमञ्जसा ॥ २०॥ अस्य सेवनमात्रेण जन्तवो विविधात्मकाः । भुक्त्वा भोगान् गमिष्यन्ति यथा ब्रह्मणि योगिनः ॥ २१॥ स्वल्पकालेन विश्वं वै नष्टं सर्वं भविष्यति । विहारेण विहीनाश्च भवाम ह वयं ततः ॥ २२॥ को विघ्नो मौद्गलस्यैव कर्तव्यो येन मानवाः । त्यक्त्वा पुराणं देवाद्याः भविष्यन्त्यन्यचेतसः ॥ २३॥ ततः शम्भुः स्वयं प्राह भावि यत्तद्भविष्यति । मा कुरुध्वं महाविघ्नं मौद्गलस्य विचक्षणाः ॥ २४॥ अस्मै विघ्नप्रदाने तु क्रोधयुक्तो गजाननः । सन्धक्ष्यति जगत् सर्वं सेश्वरं नात्र संशयः ॥ २५॥ शिवस्य वचनं श्रुत्वा भययुक्ताः सुरर्षयः । बभूवुस्तत्र जीवस्तानुवाच गणपं स्मरन् ॥ २६॥ बृहस्पतिरुवाच । गणेशेन महेशाद्या इदं रचितमुत्तमम् । विश्वं नानास्वभावस्थं मौद्गलं तु न संशयः ॥ २७॥ मौद्गले गणनाथस्य वचनं वर्तते परम् । महालयान्तमेवेदं विश्वं भाति निरन्तरम् ॥ २८॥ अन्यच्च मौद्गलस्यैव कदा विघ्नं भविष्यति । तदेव न भवेन्मिथ्या वचनं मुनिसत्तमाः ॥ २९॥ अतो गणेश्वरं प्रार्थ्य विघ्नं कुरुत देवपाः । मौद्गलस्य गणेशानः क्षुब्धो नात्र भविष्यति ॥ ३०॥ बृहस्पतेर्वचः श्रुत्वा देवा हर्षसमन्विताः । मुनयस्तं महाभागं साधु साध्वब्रुवन् वचः ॥ ३१॥ ततस्तं विघ्नराजं ते तुष्टुवुः करसम्पुटाः । नानास्तोत्रैर्गणाध्यक्षं प्रसन्नं चक्रुरादरात् ॥ ३२॥ जगाद तान् स्वयं देवः खवाणीमयरूपधृक् । सृष्ट्वा विकल्पं देवेशा भविष्यथ सुखे रताः ॥ ३३॥ ततो ब्रह्मा गणेशानं स्मृत्वाऽसृजत तत्क्षणात् । (Page खं. ९ अ. २५ पान ७१) विकल्पं संशयाकारं महातेजोयुतं खलम् ॥ ३४॥ तं दृष्ट्वा देवमुख्या ये देवा विप्रादयोऽपरे । सद्यस्ते संशयेनैव युक्ता विप्र बभूविरे ॥ ३५॥ किं मौद्गलेन विघ्नेशः प्रसन्नो वा भविष्यति । गणेशो ब्रह्मणां नाथः कथं देहधरोऽभवत् ॥ ३६॥ रुच्यर्थं कथितं सर्वं वेदादिषु न संशयः । ब्रह्म ब्रह्मणि संस्थं तत् सर्वमान्यं विशेषतः ॥ ३७॥ एवमुक्त्वा ययुः सर्वे स्वे स्वे स्थाने महामुने । मोहिता मायया तस्य विकल्पस्य महाद्भुतम् ॥ ३८॥ किमर्थमागताः सर्वे किं कृतं सस्मरुर्न ते । विकल्पेन समायुक्ता बभूवुर्भ्रान्तचेतसः ॥ ३९॥ ततस्ते मौद्गलं त्यक्त्वा स्थिताः सर्वे विशेषतः । नानाभावपरा विप्र चक्रुः स्वस्वक्रियां पुनः ॥ ४०॥ विकल्पस्तान् विलोक्यैव हर्षयुक्तो बभूव ह । प्रससार त्रिलोकेषु नानासंशयकारकः ॥ ४१॥ तेन सर्वे जनास्त्यक्त्वा मौद्गलं विप्र संस्थिताः । एवं क्रमेण नष्टं तत् पुराणं प्रबभूव ह ॥ ४२॥ अन्यानि तु पुराणानि वेदाः सर्वाणि मुख्यकाः । नष्टानि नष्टवत् कुत्र स्थितानि स्वल्पभावतः ॥ ४३॥ ततः कर्मविहीनं तु बभूव सचराचरम् । देवा दुःखयुताः सर्वे विकल्पं योद्धुमाययुः ॥ ४४॥ विकल्पेन जिताः सर्वे नष्टवीर्या बभूविरे । ततो गजाननं देवं तुष्टुवुस्तद्वधाय ते ॥ ४५॥ पुनराकाशवाणीस्थो जगादैतान् गजाननः । मुद्गलाज्ञावशा भूत्वा क्रियां कुरुत मा चिरम् ॥ ४६॥ विकल्पो वशगस्तेन भविष्यति न संशयः । एवमुक्त्वा गणाधीशो विरराम च शौनक ॥ ४७॥ ततस्ते हर्षसंयुक्ताः शिवविष्णुमुखाऽमराः । कश्यपाद्या ययुस्तं तु मुद्गलं योगिनां वरम् ॥ ४८॥ प्रणम्य भावसंयुक्ताः पप्रच्छुः करसम्पुटाः । विकल्पजयदं पूर्णमुपायं स्वहितप्रदम् ॥ ४९॥ तेषां वचनमाकर्ण्य प्रहस्याऽऽपूज्य तान् स्वयम् । जगाद वचनं योगी मुद्गलो मायया युतान् ॥ ५०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादे विकल्पविजयो नाम चतुर्विंशोऽध्यायः ॥ ९.२४

९.२५ विकल्पप्रतापखण्डनं नाम पञ्चविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकम् । तेजस्विनं महाभागाः कथं नेच्छथ तं पुनः ॥ १॥ शरणं मां प्रपन्नानां करिष्यामि प्रियं हि वः । स्थीयतां सन्निधानेऽत्र विकल्पः किं करिष्यति ॥ २॥ महर्षयः कश्यपाद्या मुद्गलेन शिवादयः । आश्वासिताः स्थितास्तत्र सुखयुक्ता बभूविरे ॥ ३॥ मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते । विकल्पस्य महाभाग तेन निःसंशया बभुः ॥ ४॥ विकल्पेन च वृत्तान्तो ज्ञातो देवर्षिसम्भवः । क्रोधयुक्तः स्वयं हन्तुमाययौ मुद्गलाश्रमम् ॥ ५॥ (Page खं. ९ अ. २५ पान ७२) आगतं तं समालोक्य विकल्पं भयदायकम् । देवेन्द्रा मुद्गलं तत्र जगुर्भयसमन्विताः ॥ ६॥ देवेन्द्रा ऊचुः । विकल्पः क्रोधसंयुक्त आगतः स महामते । तवाश्रमेऽधुना विप्र यत्करिष्यसि तत् कुरु ॥ ७॥ तेषां वचनमाकर्ण्य मुद्गलस्तानथाब्रवीत् । चिन्तां मा कुरुत प्राज्ञा हनिष्यामि विकल्पकम् ॥ ८॥ एवमुक्त्वा स्वयं योगी मुद्गलस्तमथाऽऽययौ । विकल्पं तेजसा युक्तं सर्वसंशयकारकम् ॥ ९॥ उवाच तं महायोगी मुद्गलः परमार्थवित् । दयायुक्तः स्वभावेन प्रेरितो गणपेन सः ॥ १०॥ मुद्गल उवाच । किमर्थमागतोऽसि त्वं विकल्पं ब्रूहि साम्प्रतम् । तत्र गच्छ रुचिर्यत्र नोचेद्भस्म भविष्यसि ॥ ११॥ मुद्गलस्य वचः श्रुत्वा विकल्पः क्रोधसंयुतः । जगाद स महाविप्रं प्रदहन्निव तेजसा ॥ १२॥ विकल्प उवाच । मां दृष्ट्वा विष्णुशम्भ्वाद्या वसिष्ठाद्या महर्षयः । संशयेन समायुक्ता बभूवुस्तत्क्षणान् मुने ॥ १३॥ त्वां न जानामि योगीन्द्रं स्थितः कुत्रासि वाडव । विजेतारं वदसि मां सर्वेषां मूर्खवद्वचः ॥ १४॥ मया चराचरं सर्वं मदधीनं कृतं किल । अधुना त्वां हनिष्यामि परं मद्द्वेषकारकम् ॥ १५॥ त्वया देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः । विकल्पेन विहीना वै कृताः कस्माद्वदस्व माम् ॥ १६॥ गर्वं हन्तुं समायातं त्वदीयं मुद्गलाश्रमम् । जानीहि त्यज सर्वांस्त्वं नोचेद्भस्म भविष्यसि ॥ १७॥ विकल्पस्य वचः श्रुत्वा क्रोधयुक्तो महामुनिः । सस्मार गणपं चित्ते विकल्पस्य वधाय सः ॥ १८॥ तस्य स्मरणमात्रेण चित्तान् मुद्गलयोगिनः । अग्निः प्रलयकृत्तत्र निःसृतः सर्वदाहकः ॥ १९॥ अग्निर्ययौ महाक्रूरं विकल्पं क्रोधसंयुतः । खलं दर्शनमात्रेण दाहयुक्तं चकार सः ॥ २०॥ ततः शान्त्यर्थमत्यन्तं यत्नं चक्रे स शौनक । विकल्पश्च ततोऽत्यन्तमग्निस्तेजोयुतोऽभवत् ॥ २१॥ अतिदाहयुतः सोऽपि विकल्पः खेदसंयुतः । गर्वं त्यक्त्वा महाविप्रमनमन् मुद्गलं पुरः ॥ २२॥ जगाद भयभीतः स रक्ष मां मुनिसत्तम । तेजसा ते प्रदग्धं तु शरणागतवत्सल ॥ २३॥ शिवविष्णुमुखाः सर्वे विप्रा वासिष्ठमुख्यकाः । जिता मया न सन्देहः स्वल्पायासेन योगिप ॥ २४॥ त्वं किं साक्षाद्गणेशान आगतोऽसि न संशयः । त्वां जेतुं न समर्थोऽहमतस्ते शरणं गतः ॥ २५॥ रक्ष रक्ष दयासिन्धो दाहयुक्तं विशेषतः । तेजसा ते प्रणष्टं मां कृतमागः क्षमस्व मे ॥ २६॥ विकल्पं व्याकुलं दृष्ट्वा दयायुक्तो बभूव ह । मुद्गलो गणपाज्जातमग्निं शान्तं चकार ह ॥ २७॥ ततः संज्ञासमायुक्तो विकल्पस्तमुवाच ह । स्वस्थचित्तः प्रणम्यादौ मुद्गलं योगिनां वरम् ॥ २८॥ विकल्प उवाच । जितोऽहं च त्वया विप्र रक्षितोऽग्नेर्भयात्तथा । अधुना ते समाधीनस्तिष्ठामि त्वत्समीपगः ॥ २९॥ स्थानं देहि महाभाग तत्र स्थास्यामि निश्चलः । तवाज्ञावशगो भूत्वा तव दासोऽहमञ्जसा ॥ ३०॥ (Page खं. ९ अ. २६ पान ७३) तस्य तद्ववचनं श्रुत्वा ध्यानयुक्तो बभूव ह । ज्ञात्वा विघ्नेश्वरस्यैव कृत्यं तं स मुदाऽब्रवीत् ॥ ३१॥ मुद्गल उवाच । योगाकारं गणेशानं न जानन्ति नराधमाः । देहधारिसमं तं ये मानयन्ति गुणोद्भवम् ॥ ३२॥ तेषां हृदि बहिः स्थित्वा तिष्ठ त्वं सर्वदा मुदा । नानासंशयसंयुक्तांस्तान् कुर्वन् सविशेषतः ॥ ३३॥ मौद्गलं संशयेनैव युक्तं कुरु मदाज्ञया । तेषां हृदि समास्थाय योगिनां गणपद्विषाम् ॥ ३४॥ गणेशं योगरूपं ये मानयन्ति विकल्पक । योगिनोऽयोगिनो वाऽपि ते त्याज्याः सर्वदा त्वया ॥ ३५॥ मौद्गले श्रद्धया युक्ता भविष्यन्ति सदा मुदा । गाणेशा योगिनो नान्ये जानीहि मम वाक्यतः ॥ ३६॥ एवमुक्त्वा महायोगी मुद्गलो विरराम ह । विकल्पस्तं तथेत्युक्त्वा प्रणम्य स्वस्थलं ययौ ॥ ३७॥ ततो हर्षयुता देवा मुनयस्तं प्रणम्य च । मुद्गलं स्वस्थलं जग्मुः कर्मयुक्ता जना बभुः ॥ ३८॥ तदहान् मौद्गलं विप्र सेव्यते नैव जन्तुभिः । दोषयुक्तैर्विशेषेण विकल्पेन समन्वितैः ॥ ३९॥ कलावत्यन्तभावेन मौद्गलं नष्टकं भवेत् । दोषयुक्ता जनास्तत्र भविष्यन्ति गृहे गृहे ॥ ४०॥ योगिनो मौद्गलं नित्यं सेवन्ते भावसंयुताः । गणेशरूपबोधे ये चतुराः सर्वपावनाः ॥ ४१॥ नान्ये पाखण्डिनो लुब्धा नाना छद्मधरा भुवि । मोहयुक्ता विशेषेण भविष्यन्ति तु मौद्गलम् ॥ ४२॥ एवं देवैः कृतो विघ्नो गणेशानेन प्रेरितैः । मुनिभिर्मौद्गले तेनाऽभवन् जन्मयुता नराः ॥ ४३॥ एतत्ते कथितं सर्वं रहस्यं परमाद्भुतम् । श‍ृणुयाच्छ्रावयेद्यस्तु विकल्परहितो भवेत् ॥ ४४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे विकल्पप्रतापखण्डनं नाम पञ्चविंशोऽध्यायः ॥ ९.२५

९.२६ मौद्गलपुराणश्रवणमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । भीमो नामाऽभवद्वैश्यः सर्वधर्मविवर्जितः । अङ्गदेशे महापापी दर्शनात् पुण्यनाशकृत् ॥ १॥ स कदाचिद्वने संस्थो बभूवे चौर्यकारणात् । तत्राऽऽजगाम राजर्षिः सैन्ययुक्तो विदर्भपः ॥ २॥ तं दृष्ट्वा त्यज्य शस्त्राणि भीमः पापपरायणः । महावनान्तरं गत्वा तस्थौ प्राणपरीप्सया ॥ ३॥ तत्र मेधातिथिर्माघशुक्लप्रतिपदि द्विजः । प्रारभ्य मुनिसंयुक्तो मौद्गलं कथितुं रतः ॥ ४॥ तत्राऽऽजगाम तान् दृष्ट्वा वैश्यः पापरतो मुने । भयात् समीपगस्तेषां संस्थितः शस्त्रवर्जितः ॥ ५॥ राजा समाययौ तत्र ननाम मुनिपुङ्गवम् । मेधातिथिं ततः सर्वान् मुनीन् भावसमन्वितः ॥ ६॥ पुनः प्रणम्य स्वस्थानं ययौ भानुर्विदर्भपः । (Page खं. ९ अ. २७ पान ७४) वैश्यो मुनिवने तत्र सुष्वाप विनयान्वितः ॥ ७॥ प्रातः काले पुनः स्नात्वा कृत्वा नित्यक्रियां द्विजाः । मौद्गलं श्रोतुकामास्ते आययुर्हषसंयुताः ॥ ८॥ तैः साकं भीमवैश्योऽपि राजभीत्या समाययौ । शुश्राव मौद्गलं तत्र पुराणं विस्मितोऽभवत् ॥ ९॥ मौद्गलस्य पुराणस्य श्रवणेन दुरात्मनः । बुद्धिभेदो बभूवाऽपि स तत्रैव स्थितोऽभवत् ॥ १०॥ विचारमकरोच्चित्ते भीमः पापपरायणः । अहो वैश्योऽहमानन्दात् किं करोमि दुरात्मवान् ॥ ११॥ पापिनो नरकं यान्ति नरा नास्त्यत्र संशयः । नरदेहं समासाद्य धर्मं कुर्यात् स मानवः ॥ १२॥ एवं विचार्य तत्रैव मौद्गलश्रवणे रतः । त्यक्त्वा स्त्रीपुत्रकाद्यं स गणेशे लालसोऽभवत् ॥ १३॥ फाल्गुन्यां पूर्णिमायां तत् पुराणं पूर्णमाभवत् । मेधातिथिः प्रतिपदि द्विजान् सम्भोज्य हर्षितः ॥ १४॥ स कृत्वा पारणं सर्वान् विसृज्य गणपे रतः । नित्यं गणेश्वरं भक्त्या पूज्य भक्तिपरोऽभवत् ॥ १५॥ भीमः स्वगृहमागत्य त्यक्त्वा पापात्मकं परम् । कर्म स्वधर्मसंयुक्तो बभूव गणपे रतः ॥ १६॥ मौद्गलश्रवणेनैव सर्वपापविवर्जितः । बभूव धर्मशीलश्च गाणपत्यो महायशाः ॥ १७॥ शरीरान्ते गणेशानमगमद्वैश्यजः परम् । ब्रह्मभूतो बभूवाऽपि दृष्ट्वा विघ्नेश्वरं मुने ॥ १८॥ मौद्गलं सततं श्रुत्वा चैवं नानाजनादयः । बभूवुः पुण्यशीलाश्च किल ब्रह्मणि तन्मयाः ॥ १९॥ तत्राऽहं कति ते ब्रूयां शक्तो वक्तुं न को भवेत् । नानेन सदृशं किञ्चिज्जानीहि त्वं महामुने ॥ २०॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे माघादिसार्धमासे मौद्गलपुराणश्रवणमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ ९.२६

९.२७ भाद्रपदादिसार्धैकमास श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । महायोगी भाद्रपदे पुलस्त्यो गणपे रतः । प्रतिपत्तो गणेशं सम्पूज्यारभत मौद्गलम् ॥ १॥ तत्र विप्रादयो विप्र श्रवणार्थं समाययुः । यथाविधि जनाः सर्वे शुश्रुवुर्भक्तितत्पराः ॥ २॥ अर्थेन संयुतं नित्यं मौद्गलं मुनिसत्तमः । कथयामास हर्षेण गणेशार्थविचक्षणः ॥ ३॥ तत्र सर्पो बिले संस्थः शुश्राव भयसंयुतः । कस्मिंश्चिद्दिवसे विप्र भाग्येन प्रेरितः पुरा ॥ ४॥ मुनयः सुष्वुपुः सर्वे रात्रौ सर्पो बहिः शनैः । निर्जगाम ययौ मार्गे स्वेच्छया सुखसंयुतः ॥ ५॥ (Page खं. ९ अ. २७ पान ७५) वनस्थो नकुलः कश्चित्तं ददर्श भुजङ्गमम् । आययौ हन्तुमावेशात्तयोर्युद्धं बभूव ह ॥ ६॥ नकुलेन बलाढ्येन हतं सर्पं वनान्तरे । तं गृह्य गाणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे ॥ ७॥ तं ज्ञात्वा विस्मिताः सर्वे देवेन्द्राद्या महामते । परस्परं समूचुस्ते साश्रुनेत्रा महर्षयः ॥ ८॥ अहो मौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते । सर्पोऽज्ञानाच्च स श्रुत्वा किञ्चिद्ब्रह्ममयोऽधुना ॥ ९॥ सम्पूर्णं मौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते । न ज्ञायते विशेषेण किं विशिष्टमतः परम् ॥ १०॥ सम्पूर्णं मौद्गलं यैश्च संश्रुतं ते गणेश्वराः । ज्ञातव्या लोकनाथा वै पावनार्थं भवन्त्यतः ॥ ११॥ नरजन्मधरो यः स्यान् मौद्गलं न श‍ृणोति चेत् । वञ्चितो मायया पूर्णो वृथा धिक् तस्य जीवितम् ॥ १२॥ विघ्नराज नमस्तुभ्यं देहि जन्म धरातले । नित्यं मौद्गलसंसक्तान् कुरु नो मानवान् किल ॥ १३॥ धिक् स्वर्गं देवदेवेशान् यत्र कर्मफलं न च । क्रियते देवदेवेशैः कर्म तद्व्यर्थतां ययौ ॥ १४॥ अहो कीटपतङ्गादि योनौ जन्मधरो भवेत् । भारते साधुसङ्गेन ब्रह्मीभूतो भविष्यति ॥ १५॥ सर्पोऽयं नरवाक्-हीनो न जानाति किमप्यहो । मनुष्यवाग्भवं भावं तथा शुश्राव मौद्गलम् ॥ १६॥ तेनैव ब्रह्मभूतोऽयं ततः स्वानन्दके पुरे । किं पुनर्नरजातिस्थो प्राप्नुयान्न गजाननम् ॥ १७॥ एवमुक्त्वाऽमराद्यास्तं स्वं स्वं स्थानकमाययुः । अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् ॥ १८॥ आश्विन्यां पूर्णिमायां च तत् समाप्तं बभूव ह । मौद्गलं हर्षसंयुक्ताः श्रोतारस्तं पुपूजिरे ॥ १९॥ सर्वैः साकं महायोगी पारणं स चकार ह । ततः सर्वान् प्रतिपदि विससर्ज महायशाः ॥ २०॥ तदाज्ञया ययुः सर्वे स्वस्वमाश्रमकं मुने । गणेशभजने सक्ता बभूवुः सर्वभावतः ॥ २१॥ इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः । बभूवुर्ब्रह्मभूतास्ते परं दृष्ट्वा गणेश्वरम् ॥ २२॥ इति ते सर्वमाख्यातं यशः सार्धैकमासजम् । मौद्गलश्रवणाज्जातं भाद्रमासादिसम्भवम् ॥ २३॥ एवं त्वनन्तरूपाश्च जन्तवो ब्रह्म लेभिरे । न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॥ २४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे भाद्रपदादिसार्धैकमास श्रवणमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ ९.२७

९.२८ महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । ब्राह्मणो वन्ध्यभावेन पीडितः कर्मणा पुरा । गार्ग्यवंशभवः कोऽपि नाम्ना शम्भुरितीरितः ॥ १॥ नानोपायाः कृतास्तेन वान्ध्यदोषप्रहारिणः । तथापि तस्य पुत्रो वा पुत्री द्विज बभूव न ॥ २॥ ततोऽतिदुःखसंयुक्तो गौतमं स जगाम ह । सस्त्रीकः पुत्रकामार्थं तं ननाम महामतिम् ॥ ३॥ गौतमेन मुनीन्द्रेण सत्कृतः शम्भुरावसत् । सेवार्थं स्वगुरोस्तत्र यत्नयुक्तो बभूव ह ॥ ४॥ एकदा सुखमासीनं गौतमं तं च भक्तितः । जगाद पुत्रप्राप्त्यर्थं वचनं स्वहितावहम् ॥ ५॥ शम्भुरुवाच । नाना यत्नाः कृताः स्वामिन् पुत्रप्राप्त्यर्थमादरात् । लभ्यते नैव सन्तानो मया किं वद कारणम् ॥ ६॥ येनोपायेन मे पुत्रो भविष्यति महामते । तमुपायं वद स्वामिन् करिष्यामि त्वदाज्ञया ॥ ७॥ त्वं गुरुर्मे परा काष्ठा परं त्वत्तो न विद्यते । तारयस्व महाभाग वान्ध्यदोषसमन्वितम् ॥ ८॥ तस्य तद्वचनं श्रुत्वा तं जगाद महामुनिः । गौतमः सर्वतत्त्वज्ञः शम्भुं दुःखसमन्वितम् ॥ ९॥ गौतम उवाच । मा कुरुष्व वृथा चिन्तां तव पुत्रा द्विजोत्तम । भविष्यन्ति त्रयः प्राज्ञा वेदज्ञा गणपप्रियाः ॥ १०॥ श‍ृणु त्वं मौद्गलं मत्तः सर्वसिद्धिप्रदायकम् । तेनानन्तभवस्थं ते पापं नश्येच्च तत्क्षणात् ॥ ११॥ पुण्यराशिः स्वयं साक्षाद्भविष्यसि च तारकः । अन्येषां नात्र सन्देहः सर्वसिद्धियुतस्तथा ॥ १२॥ अन्ते गणेश्वरं प्राप्य ब्रह्मीभूतो भविष्यसि । तिष्ठात्र ज्येष्ठमासेऽहं कथयिष्यामि मौद्गलम् ॥ १३॥ एवं तस्य वचः श्रुत्वा हर्षयुक्तो बभूव ह । सुशीलया स्त्रिया सार्द्धं तत्रैवं संस्थितोऽभवत् ॥ १४॥ ततः स्वल्पे गते काले ज्येष्ठमासः समाययौ । अन्ये मुनिगणास्तत्र श्रवणार्थं समाययुः ॥ १५॥ तान् दृष्ट्वा स्त्रीसमायुक्तः शम्भुश्चातीव हर्षितः । विधियुक्ततया सर्वे श्रोतारस्तत्परा बभुः ॥ १६॥ ज्येष्ठे शुक्ले प्रतिपदि गौतमो योगिनां वरः । समारभत् स हर्षेण मौद्गलं सर्वसिद्धिदम् ॥ १७॥ व्याख्यां चकार सर्वज्ञो मौद्गलस्य यथार्थतः । तच्छ्रुत्वा विस्मिताः सर्वे बभूवुः श्रवणे रताः ॥ १८॥ नित्यं नियमसंयुक्ताः शुश्रुवुर्भक्तिसंयुताः । तत्र कस्मिन् दिने विप्र बभूव परमाद्भुतम् ॥ १९॥ गर्दभस्तत्र दैवेन ह्याययौ त्वतिदुःखितः । ज्वरेण पीडितोऽत्यन्तं दूरे तस्थौ महामुने ॥ २०॥ शुश्राव मौद्गलस्यैव श्लोकं ज्ञानविवर्जितः । पीडाहीनो बभूवाऽपि तत्र किञ्चित् स रासभः ॥ २१॥ हृदा समन्वितो भूत्वा तस्थौ श्रवणलालसः । ततो गौतमविप्रेण समाप्तं तत्कृतं मुदा ॥ २२॥ सर्वे स्वस्वक्रियां चक्रुः पुनः प्रातः समाययुः । गर्दभो दुःखहीनः स बभूवे तत्क्षणान् मुने ॥ २३॥ स ययौ स्वेच्छया युक्तः कालवेगान् ममार सः । तस्मिन् काले च तं नेतुं गाणेशाः प्रययुर्मुदा ॥ २४॥ तं गृह्य ब्रह्मभूतं ते चक्रुः श्रवणपुण्यतः । तं दृष्ट्वा देवविप्राद्याः स्वर्गस्था विस्मयं ययुः ॥ २५॥ (Page खं. ९ अ. २९ पान ७७) अथो श‍ृणु महाभाग गौतमो हर्षनिर्भरः । आषाढ्यां पूर्णिमायां स समाप्तं तच्चकार ह ॥ २६॥ द्विजाद्यैः स प्रतिपदि चक्रे वै पारणं पुरा । सर्वे हर्षयुतास्तं ते नत्वा स्वस्वाश्रमं ययुः ॥ २७॥ शम्भुः सुशीलया सार्धं जगाम स्वाश्रयं ततः । गणेशमभजन्नित्यं ज्ञात्वा योगवपुर्धरम् ॥ २८॥ ततः स्वल्पे गते काले सुशीला गर्भसंयुता । बभूव तां प्रदृश्यैवाभवच्छम्भुः सुविस्मितः ॥ २९॥ ततः शुभे मुहूर्ते सा सुषुवे पुत्रमुत्तमम् । सर्वलक्षणसंयुक्तं सुता एवं त्रयोऽभवन् ॥ ३०॥ वेदज्ञान् सर्वमान्यांश्च गाणपत्यपरायणान् । तान् दृष्ट्वा विस्मितः शम्भुर्गुरुं सस्मार गौतमम् ॥ ३१॥ मौद्गले तत्परः सोऽपि बभूवे नित्यमादरात् । अन्ते विघ्नेश्वरं प्राप तल्लीनः प्रबभूव ह ॥ ३२॥ नाना जना गणेशानं लेभिरे मौद्गलस्य च । श्रवणेन च पाठेन मुने तेषु कति ब्रुवे ॥ ३३॥ एतत्ते कथितं विप्र ज्येष्ठात् सार्द्धैकमासके । मौद्गलश्रवणस्यैव माहात्म्यं स्वल्पभावतः ॥ ३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे महोदरचरितमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥ ९.२८

९.२९ वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽऽसीत् पुण्ड्रदेशस्य सुग्रीवः सर्वशास्त्रवित् । नानाधर्मपरः सोऽपि शास्त्रार्थज्ञो विचक्षणः ॥ १॥ तस्य देशे ह्यनावृष्टिर्बभूवे दुःखवर्धिनी । न ववर्ष कदा मेघस्ततो राजाऽतिदुःखितः ॥ २॥ इन्द्रस्य वरुणस्यैवानुष्ठाने तत्परोऽभवत् । ब्राह्मणैर्नित्यमत्यन्तं तोषयामास मेघपम् ॥ ३॥ ततो वै नव वर्षापि मेघः पापेन चेरितः । वीक्ष्यातिदुःखसंयुक्तः सुग्रीवोऽभूत्ततो नृपः ॥ ४॥ राजा राज्यं परित्यज विश्वामित्रं जगाम ह । पप्रच्छ तं प्रणम्याऽसौ मेघवृष्टिकरं परम् ॥ ५॥ तेन सङ्कथितं विप्र मौद्गलं श‍ृणु भूमिप । देशे वृष्टिश्च सम्पूर्णा भविष्यति न संशयः ॥ ६॥ ततो राजा द्विजैस्तत्र लेखयित्वा च मौद्गलम् । ययौ स्वनगरं हृष्टस्तच्छुश्राव महामतिः ॥ ७॥ जनैः सार्धं समीपस्थैस्ततो वृष्टिर्बभूव ह । प्रारब्धे मौद्गले तत्र तत् दृष्ट्वा विस्मितो नृपः ॥ ८॥ सर्वे हर्षयुता लोका जाता पुण्ड्रनिवासिनः । राजा गणेश्वरं नित्यमभजद्भक्तिसंयुतः ॥ ९॥ (Page खं. ९ अ. २९ पान ७८) भाद्रे शुद्धप्रतिपदि समारभ्य स मौद्गलम् । शुश्राव नित्यमानन्दात् पुराणं सर्वसिद्धिदम् ॥ १०॥ पुनर्भाद्रपदं प्राप्य परां शुक्लचतुर्थिकाम् । समाप्तं तत् स पञ्चम्यां चक्रे वै हर्षसंयुतः ॥ ११॥ अतिसंहर्षितो राजा श्रावणं प्राप्य सौख्यदम् । शुक्लप्रतिपदि प्राज्ञैः प्रारभन्मौद्गलं पुनः ॥ १२॥ नित्यं शुश्राव सुग्रीवो गाणपत्यपरायणः । आषाढ्यां स समाप्तं तदमायां प्रचकार ह ॥ १३॥ पुनः प्रारभ्य सुग्रीवो जनैः श्रेष्ठैः समन्वितः । शुश्राव वर्षमध्ये स एवं वार्षिकमाचरत् ॥ १४॥ प्रतिवर्षं महाभक्त्या शुश्रुवुः सर्वनागराः । भक्तियुक्ता गणेशानमभजन् दुःखवर्जिताः ॥ १५॥ न तत्र वान्ध्यदोषेण युक्तः कश्चिद्बभूव ह । न रोगशोकसंयुक्तः सुग्रीवे राज्यकर्तरि ॥ १६॥ सर्वसम्पत्समायुक्ता जनास्तत्र बभूविरे । रोगदोषादिभिर्भावैर्हीनाश्च भयवर्जिताः ॥ १७॥ ततः सर्वैः स राजर्षिर्जगाम नगरस्थितैः । गणेशं ब्रह्मभूतस्तैर्बभूवे परमद्युतिः ॥ १८॥ गच्छतो निजलोकं वै तस्याङ्गाद्वायुनाऽपरे । स्पृष्टा रौरवसंस्थास्ते पीडाहीना बभूविरे ॥ १९॥ तान् गृह्य गाणपा विप्र ब्रह्मीभूतान् प्रचक्रिरे । यमाद्या विस्मिताः सर्वे प्रशशंसुश्च मौद्गलम् ॥ २०॥ विप्रवार्षिकमेवं ते कथितं श्रवणस्य यत् । मौद्गलस्य हि माहात्म्यं सर्वसिद्धिप्रदायकम् ॥ २१॥ सुग्रीवदेशगः कश्चिच्छ्रुत्वा वृत्तान्तमद्भुतम् । कुष्ठयुक्तो ययौ तत्र पुराणश्रवणार्थतः ॥ २२॥ वार्षिकं राजशार्दूलो समारभत भक्तितः । सोऽपि नित्यं प्रशुश्राव कुष्ठनाशार्थमुत्तमम् ॥ २३॥ श्रुत्वा कुष्ठविहीनः स बभूवे हर्षसंयुतः । जगाम स्वगृहं पद्भ्यां गृहकार्यरतोऽभवत् ॥ २४॥ भुक्त्वा भोगान् मनोज्ञान् सोंऽते जगाम गजाननम् । ब्रह्मीभूतो बभूवाऽपि श्रवणस्य फलेन वै ॥ २५॥ एवं सकृत् समाश्रुत्य मौद्गलं विविधा जनाः । इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाययुः ॥ २६॥ तत्रैव कति ते ब्रूयां नालं वर्षशतैरपि । अतः सङ्क्षेपतः प्रोक्तं वर्षश्रवणजं फलम् ॥ २७॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वर्षेण मौद्गलश्रवणमाहात्म्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ ९.२९ (Page खं. ९ अ. ३० पान ७९)

९.३० मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । राजाऽभूच्चाक्षुषे कश्चिन् सुमेधो नाम धारकः । नानाधर्मपरो यज्वा दाता मानी महाबलः ॥ १॥ सर्वशास्त्रार्थतत्त्वज्ञो द्विजदेवातिथिप्रियः । सप्तद्वीपाधिपो भूत्वा स चक्रे राज्यमुत्तमम् ॥ २॥ एवं राज्यपरो राजा सर्वेषां हितकारकः । वान्ध्यदोषसमायुक्तो बभूवातीव दुःखितः ॥ ३॥ नानोपायांश्चकाराऽसौ पुत्रप्राप्त्यर्थमादरात् । नालभत् पुत्रमानन्ददायकं दुःखितोऽभवत् ॥ ४॥ पत्न्या विचार्य राजाऽसौ त्यक्त्वा राज्यं तया सह । प्रधानेषु वनं घोरं ययौ शोकसमन्वितः ॥ ५॥ बभ्राम भ्रान्तचित्तोऽसौ सुमेधा यत्र तत्र च । ततो महावनं राजा ददर्श भयदायकम् ॥ ६॥ मरणे निश्चयं कृत्वा प्रविवेश महावनम् । तत्र व्याला मृगा व्याघ्राः पपलुस्तं निरीक्ष्य ते ॥ ७॥ ततो राजा प्रियायुक्तो बभ्राम भ्रान्तवद्यथा । तत्र क्रतुं ददर्शापि महायोगीन्द्रमुत्तमम् ॥ ८॥ कृताञ्जलिः स्त्रिया विप्रं प्रणनाम पुरः स्थितः । तुष्टाव तं विधेः पुत्रं तेजोयुक्तं प्रजापतिम् ॥ ९॥ सन्तुष्टस्तं महीपालं समाश्वास्य जगाद ह । दुःखं किं ते महीपाल किमर्थं वद चागतः ॥ १०॥ राजा तस्मै स्ववृत्तान्तं कथयामास विस्तरात् । तच्छ्रुत्वा ध्यानसंयुक्तो बभूव मुनिसत्तमः ॥ ११॥ जगाद नृपतिं विप्र क्रतुस्तं हर्षयन्निव । मौद्गलं श‍ृणु राजंस्त्वं पुत्रयुक्तो भविष्यसि ॥ १२॥ मुदितो राजशार्दूलस्तं प्रणम्य तदाज्ञया । ययौ स्वनगरं चित्रं पुरोहितमुवाच ह ॥ १३॥ श्रुत्वा वृत्तं गुरुस्तस्य शाण्डिल्यः सर्वशास्त्रवित् । जगाद तं महीपालं हर्षनिर्भरमानसः ॥ १४॥ शाण्डिल्य उवाच । मौद्गलं चानयिष्यामि सर्वसिद्धिप्रदायकम् । श्रावयिष्यामि ते राजन् मा चिन्तां कुरु निश्चितम् ॥ १५॥ एवमुक्त्वा ययौ सोऽपि क्रतुं योगीन्द्रवन्दितम् । तं प्रणम्य यथान्यायं मौद्गलं श्रुतवान् परम् ॥ १६॥ लेखयित्वा स्वयं विप्रः शाण्डिल्यः सर्वतत्त्ववित् । ययौ सुमेधसं भूपं जगाद वचनं हितम् ॥ १७॥ शाण्डिल्य उवाच । मौद्गलेन समं राजन्न किञ्चिद्वर्तते परम् । शास्त्रं योगीन्द्रवन्द्यं तत् सर्वसिद्धिप्रदायकम् ॥ १८॥ क्रतोः प्रसादमाहात्म्यान् मया ज्ञातमिदं परम् । श‍ृणु नित्यं महाराज मौद्गलं सर्वमुद्गलम् ॥ १९॥ एवमुक्त्वा स्वयं विप्रः समारभत हर्षितः । मौद्गलं तं प्रणम्याऽऽदौ जगाद नृपसत्तमः ॥ २०॥ सुमेधा उवाच । मुहूर्तं पश्य विप्रेश शुभदं तत्पुनः प्रभो । मौद्गलं कथयस्व त्वं सर्वसिद्धिकरं परम् ॥ २१॥ शाण्डिल्य उवाच । क्षणभङ्गुरदेहोऽयं न विश्वास्यो महीपते । विघ्नराजं स्मर त्वं वै तेन कालः शुभो भवेत् ॥ २२॥ गाणेशं नृपशार्दूल यत्किञ्चित् सर्वसिद्धिदम् । तत्र द्विविधभावेन स नरोत्तम आचरेत् ॥ २३॥ मुहूर्तं शुभमालोक्याथवा तं गणपं स्मरन् । समारभेन्न सन्देहो मान्यत्वं तु विचारय ॥ २४॥ एवमुक्तो नृपस्तेन तथेत्युक्त्वा स्त्रिया सह । शुश्राव मौद्गलं नित्यं शाण्डिल्याद्धर्मसंयुतः ॥ २५॥ ततः स्वल्पे गते काले गर्भयुक्तां निरीक्ष्य ताम् । पत्नीं महीपतिः सर्वैर्हर्षयुक्तो बभूव ह ॥ २६॥ पुत्रं सा सुषुवे साध्वी सर्वलक्षणसंयुतम् । राजा नित्यं सुहर्षेण शुश्रुवे मौद्गलं परम् ॥ २७॥ तदेकनिष्ठभावस्थो बभूवे नित्यमादरात् । अन्ते नगरसंयुक्तो जगाम गणपं परम् ॥ २८॥ तत्र दृष्ट्वा गणेशानं ब्रह्मीभूतो बभूव ह । जनैः सार्द्धं सुमेधास्तु पुराणश्रवणेन वै ॥ २९॥ शाण्डिल्योऽपि वनं गत्वा नित्यं विघ्नेशमाभजत् । गणेशाग्रे पुराणं स कथयामास मौद्गलम् ॥ ३०॥ नित्यं भावसमायुक्तो मौद्गले तत्परोऽभवत् । शान्तियोगयुतो भूत्वाऽसेवत्तं गणनायकम् ॥ ३१॥ सर्वत्र सर्वमान्यः स बभूव ब्राह्मणाग्रणीः । अन्ते गणेश्वरं प्राप योगिवन्द्यो महायशाः ॥ ३२॥ तस्याश्रमो गणेशस्य क्षेत्रमाभूच्च सिद्धिदम् । दर्शनाद्यैर्महाविप्र सर्वसौख्यकरं परम् ॥ ३३॥ एवं नित्यजपे सक्ता मौद्गलस्य महामुने । इह भुक्त्वा प्रभोगांस्ते ब्रह्मभूता बभूविरे ॥ ३४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे मौद्गलनित्यश्रवणमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ९.३०

९.३१ वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । नानातपःपरः कुत्सः साक्षाद् द्विजवरोऽभवत् । तपसा शुद्धभावः स ब्रह्मश्रद्धापरायणः ॥ १॥ शमी दमपरो भूत्वा जडोन्मत्तादिकं परम् । चचार स ततः शाक्तेऽभवत् ब्रह्मणि तन्मयः ॥ २॥ नामरूपात्मकानां तद्ब्रह्मासत्संज्ञकं मतम् । तज्ज्ञात्वा शान्तिहीनश्च बभूवे खेदसंयुतः ॥ ३॥ तत्रागतं स योगीन्द्रं याज्ञवल्क्यं प्रतापिनम् । ननाम तं महाभागं कुत्सो धर्मविदुत्तमः ॥ ४॥ सम्पूज्य हर्षसंयुक्तः प्रपच्छ विनयान्वितः । वद योगं महायोगिन् शान्तिदं योगिनां मतम् ॥ ५॥ याज्ञवल्क्य उवाच । पञ्चचित्तमयी बुद्धिः संयोगायोगरूपिणी । तस्यां भ्रान्तिप्रदा सिद्धिर्नानासिद्धिप्रदर्शिनी ॥ ६॥ तत्र बिम्बं गणेशस्य पतितं मोहधारकम् । बिम्बभावं परित्यज्य ब्रह्मीभूतो भविष्यसि ॥ ७॥ तदर्थं वक्रतुण्डस्याऽऽराधनं कुरु सर्वदा । तेन शान्तिसमायुक्तो भविष्यसि न संशयः ॥ ८॥ बिम्बं मायायुतं प्रोक्तं मोहितं सिद्धिबुद्धिगम् । (Page खं. ९ अ. ३२ पान ८१) तद्भावं हन्ति तुण्डेन तेनायं वक्रतुण्डकः ॥ ९॥ मायासुखं नराकारं तस्माद्वक्रं परं मुखम् । तयोर्ब्रह्मसमायोगे वक्रतुण्डोऽयमुच्यते ॥ १०॥ कण्ठाधो मायया युक्तो मस्तकं तद्विवर्जितम् । वक्राख्यं तस्य विप्रेश तेनाऽयं वक्रतुण्डकः ॥ ११॥ अनेनार्थेन संयुक्तं वक्रतुण्डं भजस्व च । तेन शान्तिसमायुक्तो गाणपत्यो भविष्यसि ॥ १२॥ एवमुक्त्वा ययौ योगी याज्ञवल्क्यो महायशाः । कुत्सो हर्षसमायुक्तो वक्रतुण्डपरोऽभवत् ॥ १३॥ ततः स्वल्पेन कालेन शान्तिं लेभे महामुनिः । गाणपत्यस्वभावेनाभजत्तं वक्रतुण्डकम् ॥ १४॥ कुत्सो नित्यं महायोगी वक्रतुण्डचरित्रकम् । खण्डं पपाठ भक्त्या स मौद्गलस्य सुहर्षितः ॥ १५॥ तस्य गेहे कदाचित्तु अगमत् शूलसंयुतः । भगन्दरयुतः पापी द्विज आङ्गिरसोद्भवः ॥ १६॥ दुःखयुक्तो ननामाऽसौ कुत्सं योगविदां वरम् । स्नात्वा सुष्वाप विप्रेश तत्सान्निध्येऽतिदुःखितः ॥ १७॥ कुत्सो गणेशं सम्पूज्याऽपठत्तं वक्रतुण्डगम् । चरितं सोऽपि शुश्रावानायासेन गृहे स्थितः ॥ १८॥ सम्पूर्णे संश्रुते तत्र रोगहीनो बभूव ह । प्रणम्याङ्गिरसस्तं च ययौ स्थानं स्वकीयकम् ॥ १९॥ भुक्त्वा स विविधान् भोगान् जगामान्ते गणेश्वरम् । चित्रमाङ्गिरसोद्भूतं पश्य शौनक ते नमः ॥ २०॥ एवं नाना जनाः सिद्धिं ययुः श्रवणमात्रतः । वक्रतुण्डचरित्रस्य मौद्गलस्थस्य मानद ॥ २१॥ तत्रैवं कति ते ब्रूयां मया वक्तुं न शक्यते । अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं श्रवणे भवम् ॥ २२॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ९.३१

९.३२ एकदन्तचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । पिप्पलादः पुरा कश्चिद्बभूव ब्राह्मणोत्तमः । स शैवमार्गसंयुक्तोऽभजत्तं शङ्करं सदा ॥ १॥ गौतमीतीरसंस्थः स क्रमतो योगसंस्थितः । बभूव सहजे संस्थः स्वाधीनत्वपरायणः ॥ २॥ ततो वेदार्थजं योगं ज्ञात्वा शान्तिधरं परम् । सहजं मोहहीनं तत् दृष्ट्वा दुःखयुतोऽभवत् ॥ ३॥ जगाम गौतमं विप्रो भक्तिसंयुत आनमत् । पप्रच्छ योगशान्त्यर्थमुपायं ब्रह्मदं परम् ॥ ४॥ जगाद गौतमो विप्रं स पृष्टश्चैकदन्तकम् । ब्रह्म तस्यैव भक्त्या त्वं शान्तियोगमवाप्स्यसि ॥ ५॥ यद्यन्मायाविकारैश्च संयुक्तं मुनिसत्तम । मायया सह तद्विद्धि एकशब्दप्रवाचकम् ॥ ६॥ मायाहीनं स्थितं यत्तन्मायिकं वा द्विजोत्तमम् । दन्तसंज्ञं विजानीहि पश्य वेदे विचक्षण ॥ ७॥ तयोर्योगे गणेशान एकदन्त इति श्रुतः । तं भजस्व विधानेन शान्तियुक्तो भविष्यसि ॥ ८॥ एवमुक्त्वा महायोगी गौतमो विरराम ह । पिप्पलादश्च सन्नम्य ययौ स्वस्याश्रमं परम् ॥ ९॥ तत्रस्थश्चैकदन्तं सोऽभजद्भक्तिसमन्वितः । गणेशकृपया विप्रो योगशान्तियुतोऽभवत् ॥ १०॥ ततो नित्यं महाविप्र एकदन्तचरित्रकम् । अपठमौद्गले संस्थं गाणपत्यस्वभावतः ॥ ११॥ कस्मिंश्चित् समये योगी पूजयित्वैकदन्तकम् । अपठच्चरितं तस्य तत्सान्निध्ये सुभक्तितः ॥ १२॥ तत्र पल्ली स्थिता काचित् सा शुश्राव चरित्रकम् । ज्वरयुक्ता महाभाग ज्वरहीना बभूव ह ॥ १३॥ देहान्त गणनाथं तु जगाम चरितश्रवात् । तं दृष्ट्वा ब्रह्मभूता सा बभूवे चित्रमद्भुतम् ॥ १४॥ एवमेकरदस्यैव चरितस्य च सेवने । श्रवणेन नरा नार्यो ब्रह्मीभूता बभूविरे ॥ १५॥ तेषां न शक्यते वक्तुं चरितं केनचिन् मुने । अतः सङ्क्षेपतः प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे एकदन्तचरितमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ९.३२

९.३३ महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । माध्यन्दिनो महाभागो मुनिः सर्वार्थकोविदः । स्वधर्मनिरतो नित्यं नानाबलतपोन्वितः ॥ १॥ स शान्त्यर्थं जगामैव व्यासं सर्वज्ञमुत्तमम् । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ २॥ माध्यन्दिन उवाच । शान्त्यर्थं किं नरैः कार्यं तन्मे वद महामते । येन योगयुताः सर्वे ब्रह्मीभूता बभूविरे ॥ ३॥ व्यास उवाच । संयोगाऽयोगयोर्योगे ब्रह्मभूतो नरो भवेत् । तेन शान्तियुतो भावी सा शान्तिः सर्वसम्मता ॥ ४॥ स एव गणनाथस्तु महोदर इति स्मृतः । तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ ५॥ संयोगाऽयोगरूपः सन् तयोरुदरगान् परान् । भुनक्ति सकलान् भोगान् स्मृतस्तेन महोदरः ॥ ६॥ ब्रह्मसु ब्रह्मसौख्यं यद्भोगरूपं प्रकीर्तितम् । भुक्तो भोगः स्थितो यत्र तदेव जठरं स्मृतम् ॥ ७॥ जगतां ब्रह्मणां विप्र जठरे संस्थितः सदा । (Page खं. ९ अ. ३४ पान ८३) गणेशो भोगभोक्ता वै कोऽपि तस्योदरे न तु ॥ ८॥ प्रोक्तो महोदरस्तेन वेदेषु गणनायकः । एकस्तं भज भक्त्या वै तया शान्तिमवाप्स्यसि ॥ ९॥ एवमुक्त्वा महायोगी व्यासो योगीन्द्रसत्तमः । विरराम स तं नत्वा आश्रमं स्वं जगाम च ॥ १०॥ महोदरचरित्रं स मौद्गलस्थं विशेषतः । सेव्ययोगपरो भूत्वाऽभजत्तं तु महोदरम् ॥ ११॥ तस्मै तुष्टो गणाधीशो ददौ योगं सुशान्तिगम् । ततः शान्तियुतो नित्यमभजद्गणनायकम् ॥ १२॥ महोदरचरित्रं यदपठन्नित्यमादरात् । महायोगी स्वयं तत्र स्थापयामास विघ्नपम् ॥ १३॥ कदाचिद्गणराजं स पूजयित्वा पपाठ तत् । महोदरस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ १४॥ मण्डूको दैवयोगेन शुश्रावाज्ञानसंयुतः । निर्माल्ये संस्थितस्तत्र भयभीतः समन्ततः ॥ १५॥ ततो बहौ गते काले मृतं तं कुत्रचित् स्थले । मण्डूकं च समानेतुमगमन् गाणपा मुदा ॥ १६॥ सङ्गृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परम् । पाठस्य पश्य विप्रेश माहात्म्यं परमाद्भुतम् ॥ १७॥ एवं नाना जना विप्र महोदरचरित्रकम् । संसेव्य भुक्तभोगास्तेऽभवन् ब्रह्ममयाऽमृताः ॥ १८॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ९.३३

९.३४ गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा । नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥ १॥ नानायोगक्रमे सक्तः शमी दमपरायणः । चचार योगचर्यां तामन्ते सहजगोऽभवत् ॥ २॥ तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् । स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥ ३॥ सुरुचिरुवाच । वद योगं महायोगिन् शान्तिदं सर्वभावतः । अस्माकं त्वं परा काष्ठा गुरुर्वंशधरः प्रभुः ॥ ४॥ आश्वलायन उवाच । पैलेन कथितो योगो मह्यं शान्तिप्रदः परः । तं तेऽहं कथयिष्यामि ब्रह्मीभूतप्रदायकम् ॥ ५॥ चित्तं पञ्चविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः । सरसं तेन शान्तिस्थो भविष्यसि न संशयः ॥ ६॥ सरसं चित्तकं यस्मात् सम्भूतं यन्मयं मतम् । अन्ते यत्र गतं तत्त्वं गजं जानीहि मानद ॥ ७॥ तदेवाननकं यस्य तं भजस्व विधानतः । गजाननं सुशान्तिस्थो भविष्यस्यधुना मुने ॥ ८॥ एवमुक्त्वा महाविप्र आश्वलायन आदरात् । तूष्णीं स्थितः स तं नत्वा ययौ स्वस्याश्रमं पुनः ॥ ९॥ गजाननपरो भूत्वाऽभजत्तं नित्यमादरात् । गजाननचरित्रं सोऽपठन् मौद्गलसंस्थितम् ॥ १०॥ तेन तुष्टो गणाधीशो ददौ योगं प्रशान्तिदम् । भक्ताय वै सुरुचये भक्तवाञ्छाप्रपूरकः ॥ ११॥ ततस्तेन रहस्यं यच्चतुर्वेदसमुद्भवम् । ज्ञातं गजाननाख्ये तत् संस्थितं ब्रह्मणोदितम् ॥ १२॥ गच्छन्ति यत्र सर्वाणि विश्वानि ब्रह्मकाणि तु । योगरूपेण यस्तेषु स गच्छतिग उच्यते ॥ १३॥ सर्वगं ब्रह्म सत्प्रोक्तमृग्वेदे सारगं परम् । तदेव गश्च विज्ञेयो मुने नाम्नि गजानने ॥ १४॥ जायन्ते विविधान्येव विश्वानि ब्रह्मकाणि च । तस्माददः स जः ख्यातोऽद्वितीयात्मक एककः ॥ १५॥ आदिमध्यान्तभावेषु यादृशं तादृशं भवेत् । यजुषि ब्रह्म सम्प्रोक्तं स्मृतोऽजः स गजानने ॥ १६॥ पञ्चचित्तमयं सर्वं नाशवन्नात्र संशयः । नष्टं नकारगं विद्ध्याऽऽसमन्तादा च तत्र वै ॥ १७॥ नष्टभावेषु यस्तिष्ठेदासमन्तात्तदेव तत् । ब्रह्म साम्ना समाख्यातं स्थित आनो गजानने ॥ १८॥ पञ्चचित्तमयं सर्वं नष्टं ज्ञातव्यमञ्जसा । तदेव योगभावेन ब्रह्मरूपं प्रकीर्तितम् ॥ १९॥ अथर्वणसमाख्यातमहमात्मा न संशयः । अज्ञानेन विनाशाख्यो न स्मृतः स गजानने ॥ २०॥ एतद् ब्रह्ममुखेभ्यश्च चतुर्भ्यः सारमीरितम् । गजाननो महाविप्र चतुर्वेदात्मकः स्मृतः ॥ २१॥ एवं गजाननं ज्ञात्वाऽभजत्तं सुरुचिः सदा । अपठत्तस्य माहात्म्यं तत्र चित्रं बभूव ह ॥ २२॥ कपोतो वृक्षसंस्थः कः तत् शुश्राव चरित्रकम् । स रोगसंयुतः पापी रोगहीनो बभूव ह ॥ २३॥ अन्ते गजाननं गत्वा ब्रह्मीभूतोऽभवन् मुदा । अज्ञानश्रवणेनैवाऽतः फलं किं वदामि ते ॥ २४॥ एवं नाना जना खण्डं यद्गजानननामकम् । श्रुत्वा पठित्वा भुक्त्वान्ते भोगान् ब्रह्म प्रलेभिरे ॥ २५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुगलसंवादे गजाननचरितश्रवणपठनमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ९.३४ (Page खं. ९ अ. ३६ पान ८५)

९.३५ लम्बोदरचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । भार्गवः कपिलो नाम सर्वशास्त्रविशारदः । कपिलस्य वरेणैव समुत्पन्नः सुधर्मवित् ॥ १॥ नानातपःसमायुक्तो योगनिष्ठो बभूव ह । तदर्थं शुनकं सोऽपि जगाम विनयान्वितः ॥ २॥ तं प्रणम्य माहात्मानं स्थित आर्जवसंयुतः । कदाचित्ते महाभागं पप्रच्छ पितरं मुदा ॥ ३॥ कपिल उवाच । योगशान्तिप्रदं नाथ वद ब्रह्मणि तन्मयम् । त्वं नो गुरुः समाख्यातस्तारयस्व भवार्णवात् ॥ ४॥ शुनक उवाच । विश्वानि विद्धि तं योगं ब्रह्माणि निःसृतानि च । यदाधारेण वर्तन्ते ते गच्छन्ति यदात्मनि ॥ ५॥ तदेव योगदं ब्रह्म लम्बोदरप्रवाचकम् । तस्योदरे स्थितं ब्रह्म विश्वं च भज तं सदा ॥ ६॥ तेन शान्तिसमायुक्तो ब्रह्मीभूतो भविष्यसि । नान्यथा त्वं महाभाग सिद्धिबुद्धिविमोहितः ॥ ७॥ एवमुक्त्वा महायोगी शुनको विरराम ह । तं प्रणम्य ययौ सोऽपि स्वाश्रमं हर्षसंयुतः ॥ ८॥ लम्बोदरचरित्रं स मौद्गलस्थं जजाप ह । गणेशं पूजयामास नित्यं भक्तिपरायणः ॥ ९॥ तेन तुष्टो गणाधीशो ददौ योगं सुशान्तिदम् । कपिलाय स्वभक्ताय भक्तवात्सल्यकारणात् ॥ १०॥ शान्तियुक्तः स्वयं योगी तज्जजाप चरित्रकम् । नित्यं पूजापरो भूत्वा लम्बोदरसमीपगः ॥ ११॥ तत्र चित्रं कदाचिद्वै बभूव श‍ृणु शौनक । बलीवर्दः स्थितः कश्चिद्रोगाक्रान्तः पपात ह ॥ १२॥ शुश्राव तच्चरित्रं स सम्पूर्णं ज्ञानहीनतः । सद्यो वै रोगनिर्मुक्तो बभूवे हर्षसंयुतः ॥ १३॥ नाजानंस्तन् महत् पुण्यं बलीवर्दः कदाचन । कालेन स मृतस्तत्र ब्रह्मीभूतो बभूव ह ॥ १४॥ एवमज्ञानतो वाऽपि ज्ञानतो विविधा जनाः । ब्रह्मीभूता बभूवुश्च मया वक्तुं न शक्यते ॥ १५॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे लम्बोदरचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ९.३५

९.३६ विकटखण्डमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । अश्वत्थामा महाभागो द्रोणपुत्रः प्रतापवान् । कृपेण मातुलेनैव जगाम वनमुत्तमम् ॥ १॥ भारते संस्थितं सारं ज्ञात्वा कृष्णमुखाच्च्युतम् । बुद्धेः परतरं ब्रह्माऽभवत्तत्रैव लालसः ॥ २॥ बुद्धेः पत्युर्गणेशस्य हृदि ज्ञानं कथं भवेत् । परिपूर्णं तदर्थं स गौतमं शरणं ययौ ॥ ३॥ कृपस्तं विनयेनैव प्रणम्याश्रमसंस्थितः । सेवार्थं भागिनेयेन संयुक्तः परमार्थवित् ॥ ४॥ कदाचिद्योगिनां मध्ये गौतमः संस्थितोऽभवत् । कथयामास योगं स शान्तिदं योगसेवया ॥ ५॥ तत्र हर्षेण संयुक्तोऽश्वत्थामा विनयान्वितः । पप्रच्छ कृपसंयुक्तः संशयस्यापनुत्तये ॥ ६॥ अश्वत्थामोवाच । योगप्राप्त्यर्थमानन्दात् कस्योपासनमाचरेत् । योगरूपस्य योगीश बद सर्वज्ञ ते नमः ॥ ७॥ गौतम उवाच । गणेशोपासनं मुख्यं पूर्णं शान्तिप्रदायकम् । योगाकारः स वै वेदे नरे गजमयत्वतः ॥ ८॥ पञ्चचित्तात्ममोहेन तेन सर्वं विमोहितम् । न जानाति परं भावं योगदं गणनायकम् ॥ ९॥ समोहं चित्तमुत्सृज्य स्वयं चिन्तामणिर्भवेत् । तस्माद्विकटभक्त्या स लभ्यते विकटः प्रभुः ॥ १०॥ पञ्चचित्तमयं यद्यत्तस्माद्विकटभावतः । भ्रमं त्यक्त्वा स्वचित्तस्थं तं भजस्व गजाननम् ॥ ११॥ तच्छ्रुत्वा विस्मिताः सर्वे मुनयस्तं प्रणम्य च । स्वस्वाश्रमं समागम्य विकटे भजने रताः ॥ १२॥ अश्वत्थामा कृपश्चैव तं प्रणम्य महामतिम् । स्वस्वाश्रमं समागत्य विकटे भजने रतौ ॥ १३॥ मौद्गलस्थं चरित्रं तौ विकटस्य महात्मनः । प्रपेठतुर्महाभक्त्या पूज्य नित्यं गणेश्वरम् ॥ १४॥ ततः स्वल्पेन कालेन सन्तुष्टो विकटोऽभवत् । ददौ योगं स ताभ्यां वै पूर्णशान्तिप्रदायकम् ॥ १५॥ तथापि तौ महाभागौ पाठं चक्रतुरादरात् । खण्डस्य विकटस्यैव विकटं पूज्य नित्यदा ॥ १६॥ एकदा पाठसंयुक्तावभूतां च द्विजोत्तमौ । तत्र श्वा च कृपस्याग्रे शुश्रुवे संस्थितो महान् ॥ १७॥ अश्वत्थाम्नश्च मार्जारः समीपस्थित आश‍ृणोत् । तौ रोगाद्यैर्विहीनौ च जातावज्ञानतः श्रवात् ॥ १८॥ अन्ते स्वानन्दगौ जातावेकश्रवणपुण्यतः । अतः कं महिमानं ते कथयामि ह्यपारकम् ॥ १९॥ अश्वत्थामा कृपश्चैव स्वस्वांशे सङ्गतौ मुदा । अन्ते योगयुतौ विप्र विकटे भजने रतौ ॥ २०॥ शौनक उवाच । योगयुक्तौ कथं सूत स्वांशगौ तौ बभूवतुः । गणेशेन तदाकारौ महच्चित्रं वदस्व माम् ॥ २१॥ सूत उवाच । देवाः कलांशभावेन भूभारहरणाय वै । भवन्ति मानवाद्यास्ते नानासामर्थ्यसंयुताः ॥ २२॥ इह पापं यदा कृत्वा गच्छन्ति यमपं मृताः । पतन्ति नरकेष्वेव यथा दशरथादयः ॥ २३॥ अथवा पुण्यमुग्रं ते कृत्वांऽते स्वर्गगा मुदा । भवन्ति भोगसंयुक्ता यथा रामो यमस्थले ॥ २४॥ भवन्ति योगयुक्तास्ते यदा स्वस्वांशगास्तदा । तदाकारा गणेशानं कल्पान्ते सङ्गता मुदा ॥ २५॥ यथा विदूरकः सद्यः कौरवे यमदेहगः । यमाकारो गणेशानमभजद्भक्तिसंयुतः ॥ २६॥ अन्ते योगसमायुक्तो यमः परमपावनः । ययौ गणेश्वरं विप्र ब्रह्मभूतः स्वभावतः ॥ २७॥ एतत्ते कथितं पूर्णं चरित्रं श्रवणात्मकम् । विकटस्यैव खण्डस्य सर्वसिद्धिप्रदायकम् ॥ २८॥ एवं नानाजनाद्याश्च श्रुत्वा खण्डं महाद्भुतम् । विकटस्य सुखं भुक्त्वा ब्रह्मीभूता बभूविरे ॥ २९॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते दक्षमुद्गलसंवादे योगामृतार्थशास्त्रे विकटखण्डमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ९.३६ (Page खं. ९ अ. ३७ पान ८७)

९.३७ विघ्नराजखण्डश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । विभीषणो महाभागो लङ्कां प्राप्य सुहृद्धृतः । रामं पूज्यं स्वयं नित्यं भक्तियुक्तोऽभजत् परम् ॥ १॥ तत्रादौ गणनाथस्य पूजनं वेदसम्मतम् । विचार्य विस्मितः सोऽपि दुःखयुक्तो बभूव ह ॥ २॥ धारयामास मनसि गणेशं ब्रह्मनायकम् । सर्वपूज्यं गणेशस्योच्छिष्टभुजोऽमरान् परान् ॥ ३॥ कदाचित्तत्र योगीशो नारदः स्वेच्छयाऽऽगतः । तं प्रणम्य प्रपूज्यैव परं पप्रच्छ हृत्स्थितम् ॥ ४॥ विभीषण उवाच । गणेशोच्छिष्टभोक्तारो देवा विष्णुमुखा मुने । अग्रपूज्यप्रभावत्वात् किमिदं वेदसम्मतम् ॥ ५॥ नारद उवाच । ब्रह्माकाराः शिवाद्याश्च नानायोगप्रधारकाः । ब्रह्माण्यन्नमुखान्येव वेदेषु कथितं बुधैः ॥ ६॥ तेषां स्वामी गणेशानो ब्रह्मणस्पतिसंज्ञितः । ब्रह्मणां पातृभावाद्वै पालयितृप्रभावतः ॥ ७॥ तेषां योगप्रदानार्थं देहधारी बभूव ह । गजाननादिचिह्नैः स संयुक्तो ब्रह्मरूपकैः ॥ ८॥ विघ्ना सत्तात्मकाः प्रोक्तास्तेषां स्वामी गजाननः । विघ्नैः सर्वान् प्रमर्द्यैव खेलते योगरूपधृक् ॥ ९॥ ब्रह्माणि विघ्नयुक्तानि भवन्ते राक्षसाधिप । सत्यसङ्कल्पहीनानि तदा तमभजन् परम् ॥ १०॥ पराधीनस्वभावं च जानन्ते तानि नित्यदा । स्वकीयं च ततः प्रीतो गणेशो जायते परः ॥ ११॥ ददाति योगमुख्यं स्वं गणेशस्तेभ्य आदरात् । तदा विघ्नविहीनानि भवन्ते वीर्यवन्ति तु ॥ १२॥ अतो गणेश्वरः पूर्णः सर्वेषां पूर्णतां गतः । पूर्णसर्वादितां वेदे ज्येष्ठराजप्रभावतः ॥ १३॥ एवं विघ्नेश्वरं नित्यं भज त्वं शान्तिदायकम् । रामः स एव विघ्नेशः कलांशेन न संशयः ॥ १४॥ गणेशभजने कस्य व्यभिचारो भवेन्न वै । समूहानां पतित्वात्तु समूहा विष्णुमुख्यकाः ॥ १५॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । ययौ सोऽपि महाबुद्धिर्विचार्य गणपे रतः ॥ १६॥ पपाठ विघ्नराजस्य स खण्डं मौद्गलस्थितम् । नित्यं भक्तिप्रयुक्तः सम्पूज्य तं गणनायकम् ॥ १७॥ ततः शान्तिसमायुक्तो बभूवेह विभीषणः । गणेशमभजन्नित्यं परं रामैक्यमार्गतः ॥ १८॥ एकदा राक्षसाधीशो ह्यगमत् सेतुबन्धनम् । महोदरं प्रपूज्यैव तत्रस्थः पाठमाकरोत् ॥ १९॥ तत्र भेकी जले संस्था शुश्रुवे खण्डमुत्तमम् । विघ्नराजस्य तेनैव सुखयुक्ता बभूव ह ॥ २०॥ एतस्मिन्नन्तरे तत्र सा सर्पेण धृताऽभवत् । ग्रस्ता ममार गाणेशैर्नीता स्वानन्दके पुरे ॥ २१॥ भेकीं गृह्य ब्रह्मभूतां चक्रुर्हर्षसमन्विताः । एवमज्ञानतः पुण्यं विघ्नेशचरितोद्भवम् ॥ २२॥ नाना जनादयो विप्र श्रुत्वा खण्डं ययुर्मुदा । स्वानन्दं भुक्तभोगाश्च मया वक्तुं न शक्यते ॥ २३॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुदलसंवादे विघ्नराजखण्डश्रवणपठनमाहात्म्यवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ९.३७ (Page खं. ९ अ. ३८ पान ८८)

९.३८ धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । वरतन्तुर्मुनिश्रेष्ठो नानाविधतपः परः । शान्तिं न तपसा लेभे ततः खेदयुतोऽभवत् ॥ १॥ नश्वरं विश्वमेवं स ज्ञात्वा ब्रह्मपरोऽभवत् । तत्राऽऽजगाम पौलस्त्यो विश्रवा मुनिसत्तमः ॥ २॥ तं दृष्ट्वोत्थाय विप्रेशं प्रणनाम पुपूज ह । पप्रच्छाऽऽभोज्य हर्षेण युक्तः परमपावनम् ॥ ३॥ वरतन्तुरुवाच । त्वं साक्षाद्योगिनां वन्द्यः पावनो हि समागतः । महापुण्येन ते पादपद्मं दृष्टं मया प्रभो ॥ ४॥ योगशान्तिप्रदं ब्रूहि येन शान्तो भवाम्यहम् । नश्वरं सर्वमुत्सृज्य तदर्थं लालसोऽधुना ॥ ५॥ विश्रवा उवाच । ब्रह्मज्ञानं विना तात न शान्तिं लभते नरः । ब्रह्म नानाविधं वेदेषु प्रोक्तं वेदवादिभिः ॥ ६॥ तेषां पतिं गणाधीशं ब्रह्मणस्पतिसंज्ञितम् । तं भजस्व विधानेन तदा शान्तो भविष्यसि ॥ ७॥ विश्वं वपुः शिरो ब्रह्म गजं योगे तयोर्मतः । सिद्धिबुद्धिपतिः साक्षात् परः स्वानन्दवासकृत् ॥ ८॥ वर्णा धूम्रायिता यत्र मनसा मुनिसत्तम । तेन धूम्राक्षरः प्रोक्तो ब्रह्मभूयप्रदायकः ॥ ९॥ धूम्रवर्णं गणाधीशं भज यत्नेन मानद । तस्यैव भजनं कृत्वा शान्तिं प्राप्तोऽहमुत्तमाम् ॥ १०॥ नान्यथा पूर्णशान्तिं तु लभते कोऽपि निश्चितम् । वेदादिभिर्मुनीन्द्रैश्च वेदाद्यैः पश्य तं विभुम् ॥ ११॥ पुलस्त्येनोपदिष्टोऽहं नानायोगपरायणः । त्यक्त्वा ब्रह्माणि तन्निष्ठः सदाऽभूवं न संशयः ॥ १२॥ एवमुक्त्वा महायोगी विश्रवाः स्वस्थलं ययौ । वरतन्तुर्विचार्यैवं गणेशभजने रतः ॥ १३॥ खण्डं मौद्गलसंस्थं स धूम्रवर्णात्मकं परम् । जजाप नित्यमानन्दात् पूज्य विघ्नेश्वरं परम् ॥ १४॥ पूर्णशान्तियुतो जातो योगीन्द्रः सर्वपारगः । गणेशकृपया नित्यमभजद्गणनायकम् ॥ १५॥ एकदा तीर्थसंस्थः स धूम्रवर्णं पुपूज ह । तस्याग्रे नित्यकं पाठं स चक्रे धौम्रवर्णकम् ॥ १६॥ तत्र काकः स्थितः सोऽपि वृक्षशाखापरायणः । शूलयुक्तः स शुश्राव धूम्रवर्णचरित्रकम् ॥ १७॥ सद्यश्च शूलहीनः स बभूवे हर्षसंयुतः । उड्डीय प्रययौ तस्माद् वृक्षात् स्वेच्छापरायणः ॥ १८॥ अन्ते गणेश्वरं गत्वा ब्रह्मभूतो बभूव ह । अज्ञानश्रवणात् पुण्यं पश्य किं कथयाम्यहम् ॥ १९॥ एवं नाना जनाः श्रुत्वा धूम्रवर्णचरित्रकम् । ब्रह्मीभूता बभूवुस्ते भुक्त्वा भोगान् विशेषतः ॥ २०॥ तेषु किं ते महाविप्र कथ्यते तन्न शक्यते । अतः सङ्क्षेपतः प्रोक्तं श्रवणस्य चरित्रकम् ॥ २१॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे धूम्रवर्णचरितमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः ॥ ९.३८ (Page खं. ९ अ. ३९ पान ८९)

९.३९ नवमखण्डमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रह्लादो नाम विख्यातो योगी योगपरायणः । मयूरेशं समाश्रित्याऽभजत्तं भक्तिसंयुतः ॥ १॥ स्वप्ने ददर्श देवेशं मयूरोपरि संस्थितम् । सिद्धिबुद्धिसमायुक्तं गजास्यं भक्तवत्सलम् ॥ २॥ तं प्रणम्य ननर्ताऽसौ साश्रुनेत्रो महायशाः । तं जगाद मयूरेशो वरयस्व वरान् परान् ॥ ३॥ स तं प्रणम्य विघ्नेशमगदद्धर्षसंयुतः । योगशान्तिप्रदां देहि भक्तिं तेऽतितरां प्रभो ॥ ४॥ तस्य तद्वचनं श्रुत्वा तं जगाद गजाननः । मौद्गले नवमं खण्डं पश्य योगप्रदायकम् ॥ ५॥ तेन योगीन्द्रवन्द्यस्त्वं भविष्यसि महामते । भक्तिर्मे भविता ते तु दृढा सम्पूर्णभावतः ॥ ६॥ एवमुक्त्वांऽतर्दधेऽसौ मयूरेशो महामतिम् । सञ्जागृतोऽभवत् सोऽपि स्मृत्वा स्वप्नं सुविस्मितः ॥ ७॥ ततो मौद्गलसंस्थं स खण्डं योगात्मकं परम् । पपाठाऽलिख्य भक्त्या स नवमं नित्यमादरात् ॥ ८॥ योगगीतार्थकं योगमलभत्तत्प्रसादतः । ततोऽतिहर्षसंयुक्तोऽभजत्तं नवधा प्रभुम् ॥ ९॥ क्षेत्रसंन्याससंयुक्तो नित्यं भक्तिसमन्वितः । पपाठ पाठकृत् पूर्णं नवमं मौद्गले स्थितम् ॥ १०॥ कदा दैत्येन्द्रमुख्यश्च बहुधा सिन्धुसंज्ञितः । क्षेत्रमूर्तिं गणेशस्य खण्डयामास संस्थिताम् ॥ ११॥ सिन्धोश्च प्रतिमां तत्र स्थापितां दैत्यपैः पुरा । प्रह्लादो दुःखसंसक्तोऽभवद् दृष्ट्वा च शौनक ॥ १२॥ क्षेत्रवासिजनाः सर्वे त्यक्त्वा क्षेत्रं मयूरकम् । प्रपेलुर्भयसंयुक्ता यत्र तत्र सुदुःखिनः ॥ १३॥ प्रह्लादो योगिवन्द्यः स क्षेत्रसंन्यासभक्तितः । उपोषणपरो भूत्वाऽतिष्ठत्तत्रैव नित्यदा ॥ १४॥ मानसीमकरोत्तत्र पूजां विघ्नेश्वरस्य सः । तस्योच्छिष्टं बुभोजैव मनसा भक्तिसंयुतः ॥ १५॥ दृढाऽऽग्रहं तस्य दृष्ट्वा मयूरेशोऽमृतं सदा । भक्ततालुस्थं तु कृत्वा तोषयामास तेन तम् ॥ १६॥ एवं बहौ गते काले शिवपुत्रो बभूव ह । मयूरेशोऽवधार्याय सिन्धोर्देवर्षिभिस्तुतः ॥ १७॥ स समागत्य सिन्धोश्च खण्डयामास मूर्तिकाम् । तत्रस्थां स्वयमेवं तु निवासमकरोत् प्रभुः ॥ १८॥ दृष्ट्वा तं पूजयामास प्रह्लादो योगिनां वरः । पारणं स चकारैव हर्षनिर्भरमानसः ॥ १९॥ प्रत्यक्षं गणराजस्तं प्रसन्नो वरदोऽभवत् । स वव्रे सन्निधानस्थो भजामि त्वां तथा कुरु ॥ २०॥ ब्रह्मैव ब्रह्मकल्पान्ते मयूरेशश्चकार तम् । अन्यं सन्निधिवासस्थं गणं ब्रह्मप्रियाख्यकम् ॥ २१॥ अन्यच्च श‍ृणु विप्रेश विश्वामित्रो महामुनिः । चकार मौद्गलस्यैव भक्त्या पारायणं परम् ॥ २२॥ सरठस्तत्र वृक्षस्थः शुश्रावाज्ञानभावतः । ज्वरयुक्तः कदाचिद्वै नवमं खण्डमुत्तमम् ॥ २३॥ सद्यो हि ज्वरहीनः स बभूवे पुण्यगौरवात् । यथेष्टं विषयान् भुक्त्वांऽते स्वानन्दगतोऽभवत् ॥ २४॥ गणेश्वरं तत्र दृष्ट्वा ब्रह्मीभूतो बभूव ह । एवं नाना जना ब्रह्म लेभिरे खण्डसंश्रवात् ॥ २५॥ कति तेषु ब्रवीम्येव केन वक्तुं न शक्यते । भुक्तिमुक्तिप्रदश्चायं खण्डो नवमसंज्ञितः ॥ २६॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ९.३९

९.४० नवमखण्डमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ सूत उवाच । अयं ते कथितः पूर्णः खण्डो योगात्मकः परः । नवमः सर्वदः साक्षात् पूर्णयोगप्रदायकः ॥ १॥ एकस्य श्रवणेनैव खण्डस्यास्य महामते । सम्पूर्णं मुद्गलस्थं यत् फलं प्राप्नोति मानवः ॥ २॥ न शक्यते मया विप्र माहात्म्यं खण्डसम्भवम् । यत्र योगपतिः पूर्णो वर्णितो गणनायकः ॥ ३॥ चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति । साङ्गैः साधनकैश्चास्य खण्डस्यात्र न संशयः ॥ ४॥ अष्टादश पुराणान्युपपुराणानि यस्तथा । श‍ृणुयात् स नरस्तस्मादनन्तं त्वस्य संश्रवात् ॥ ५॥ शब्दब्रह्ममयान्नाना शास्त्राणि निःसृतानि तु । तेषां श्रवणतो जन्तुरस्यानन्तं फलं लभेत् ॥ ६॥ तीर्थानि सकलान्येव यः कुर्याद्विधिसंयुतः । तेभ्योऽनन्तगुणं पुण्यमस्य श्रवणतो लभेत् ॥ ७॥ क्षेत्राणि विविधान्येव यः कुर्याद्भक्तिसंयुतः । तेभ्योऽस्य श्रवणेनैव लभेतासङ्ख्यकं फलम् ॥ ८॥ दानानि विविधान्येव यः कुर्यान् मानवोत्तमः । अस्य श्रवणमात्रेणानन्तं तेभ्यः फलं लभेत् ॥ ९॥ यज्ञान् कुर्याच्च सम्पूर्णान् यथा शास्त्रप्रमाणतः । तेभ्योऽनन्तं फलं प्रोक्तमस्य श्रवणमात्रतः ॥ १०॥ इष्टापूर्तादिकान्येव नाना सत्कर्मकानि यः । प्रकुर्यात् स फलं तेभ्यो नरोऽनन्तं लभेच्छ्रवात् ॥ ११॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं भवेत् । साधनं योगखण्डेन योगो यत्र निरूपितः ॥ १२॥ सम्पूर्णो योगखण्डस्ते कथितो व्यासवर्णितः । अतः परं गमिष्यामि स्वाश्रमं त्वाज्ञया च ते ॥ १३॥ सम्पूर्णं मौद्गलं तुभ्यं कथितं सर्वसिद्धिदम् । अतः परं पुराणं च नास्ति शौनक ते नमः ॥ १४॥ ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे नवमखण्डमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ९.४० (Page खं. ९ अ. ४१ पान ९१)

९.४१ पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः

॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पुराणेषु महाभाग संशयैर्विविधैः परैः । प्राप्तैस्तैः संयुतोऽहं च संस्थितः खेदसंयुतः ॥ १॥ अन्यस्यैव पुराणस्य संशयाः श्रवणेन मे । गमिष्यन्ति महाबुद्धे विचार्यैवं स्थितोऽभवम् ॥ २॥ आन्त्यं मौद्गलकं श्रुत्वा संशया मे गताः पुरा । निःसंशयः कृतः सूत त्वयाऽहं नात्र संशयः ॥ ३॥ एको मे संशयश्चैव हृदि तिष्ठति तं नुद । गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु शान्तिद ॥ ४॥ गणेशस्य रहस्यं यज्ज्ञातं व्यासेन धीमता । सर्वातिगं मौद्गलस्थं महच्चित्रं परात्परम् ॥ ५॥ ततो व्यासेन शास्त्रं तत् कृतं भारतकं परम् । धर्माधर्मव्यवस्थानं ब्रह्मसायुज्यदायकम् ॥ ६॥ तत्राऽऽदौ गणनाथस्य पूजनं स्मरणं कृतम् । पश्चाद्गणेश्वरस्यैव वर्णनं न कृतं किल ॥ ७॥ सम्पूर्णे भारते जाते कृतकृत्यो महामुनिः । अभवन्नात्र सन्देहः किमिदं कौतुकं वद ॥ ८॥ शौनकस्य वचः श्रुत्वा सूतः सस्मार तं गुरुम् । तत्क्षणात्तत्र योगीशोऽभवत् व्यासः समागतः ॥ ९॥ तं दृष्ट्वा हर्षसंयुक्ताः सूतशौनकमुख्यकाः । उत्थायाऽऽपूज्य ते नेमुः स्थाप्य प्राञ्जलयोऽभवन् ॥ १०॥ ततः समीपे संस्थाप्य जगाद मुनिसत्तमः । व्यासः शौनकमुख्यांस्तु ज्ञात्वा सूतप्रयोजनम् ॥ ११॥ व्यास उवाच । मया शास्त्रं कृतं विप्र भारतं नात्र संशयः । तत्रायं बुद्धिगः साक्षाद्वर्णितो ब्रह्मसंज्ञितः ॥ १२॥ सिद्धिदो ब्रह्मरूपोऽयं मुख्यं तदेव सम्मतम् । विकुण्ठादय एवं वै नाशयुक्ताः प्रकीर्तिताः ॥ १३॥ सिद्धिबुद्धिवरेणैव मोहितोऽहं न संशयः । गणेशं सर्वभावेन वर्णितुं विस्मृतोऽभवम् ॥ १४॥ अन्यं ग्रन्थं ततः कर्तुमुद्यतो ह्यभवं मुने । तत्राऽऽकाशभवा वाणी मामुवाच श‍ृणुष्व तत् ॥ १५॥ गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै । मोहनार्थं गणेशेन जनानां रचितं त्विदम् ॥ १६॥ मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनीन्द्रकाः । स्पष्टं गणपते रूपं वर्णितुं न क्षमाः कदा ॥ १७॥ श्रुत्वाऽहं तां नमस्कृत्य संस्थितो मौद्गले रतः । अतः संशयहीनस्त्वं मौद्गलं भज भक्तितः ॥ १८॥ पुराणेषु गणेशस्य स्वरूपं वर्णितं परम् । ब्रह्मणस्पतिबोधस्य दायकं नात्र संशयः ॥ १९॥ तथापि मोहिताः सर्वे विप्राद्या न गजाननम् । जानन्ति तादृशं तेषु सिद्धिबुद्धिवरेण ते ॥ २०॥ गणेशवरदानेन भक्त्यै मौद्गलकं परम् । दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यन्ते नान्यथा क्वचित् ॥ २१॥ अतो मौद्गलमेकं त्वं भज वै नित्यमादरात् । कलिदोषेण हीनः सन् सर्वं च लभसे परम् ॥ २२॥ एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः । विरराम च तत्रैव धूम्रवर्णः समाययौ ॥ २३॥ तं दृष्ट्वोत्थाय नेमुस्ते गणेशं भक्तिसंयुताः । सम्पूज्य तुष्टुवुस्ते वै गाणेशैर्गणपप्रियैः ॥ २४॥ धूम्रवर्णः सञ्जगाद तुष्टस्तान् हास्यसंयुतः । स्वभक्तान् गणनाथस्तु वचनं सुखदायकम् ॥ २५॥ धूम्रवर्ण उवाच । कलेः पराक्रमः सर्वो मया सम्पूर्णभावतः । खण्डितो मुनिमुख्याश्चाऽधुना चरत निर्भयाः ॥ २६॥ एवमुक्त्वा गणाधीशस्तान् गृह्य धरणीतले । स्थापयामास धर्मेण युक्तांश्चक्रे स मानवान् ॥ २७॥ जगाद मुनिमुख्यांस्तान् मौद्गलं मे रहस्यदम् । जपध्वं नित्यमानन्दात्तेनाऽहं वशगो भवे ॥ २८॥ नानेन सदृशं किञ्चित् प्रियं चोपनिषत् परम् । यत्राऽहं पञ्चधा संस्थो योगाकारस्वरूपधृक् ॥ २९॥ पञ्चधा मे स्वरूपं तु मौद्गलेन प्रकाश्यते । श्रवणेन पुराणस्य पठनेन तदर्थतः ॥ ३०॥ मौद्गलं यत्र विप्रेशाः पठ्यते श्रूयते जनैः । तत्राहं संस्थितः सर्वैर्भक्तिग्रहणलोलुपः ॥ ३१॥ ब्राह्मे बुद्धिस्थितं रूपं वर्णितं मे तदंशतः । तत्राऽहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ॥ ३२॥ ब्रह्माण्डे प्रणवाकारो नानाखेलसमन्वितः । विश्वाकारप्रभावेणांऽशेन तत्र स्थितो मुदा ॥ ३३॥ गाणेशे मूर्तिगोऽहं तु तयोर्ज्ञानप्रकाशकः । गजवक्त्रादिचिह्नैः संयुक्तस्तिष्ठामि सर्वदा ॥ ३४॥ अन्येषु च पुराणेषु शिवविष्ण्वादिरूपधृक् । संस्थितस्तत्कलांशेन नानाभेदविहारतः ॥ ३५॥ मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्रतः । सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः ॥ ३६॥ तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् । मौद्गलं मे प्रियं तस्मात्तत् समं नैव विद्यते ॥ ३७॥ भक्त्या सम्प्रार्थितोऽहं तु सृष्ट्याऽऽदौ मुनिसत्तमाः । तदा मया वरो दत्तो भक्त्यै भक्तिविवर्धनः ॥ ३८॥ तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा । मुद्गलस्य हृदि क्षिप्तं सर्वसौख्यप्रदायकम् ॥ ३९॥ मयाऽसौ प्रेरितो योगी परं दक्षाय मौद्गलम् । कथयामास सम्पूर्णं पुराणं मे मुदाकृती ॥ ४०॥ ततः शिवादिभिर्दैवैर्मरीचादिमहर्षिभिः । शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् ॥ ४१॥ न मौद्गलं विना विप्राः स्वरूपं मे यथार्थतः । ज्ञायते केनचित् क्वापि पूर्णं सर्वप्रकाशकम् ॥ ४२॥ अन्यत्र मे स्वरूपं तु वर्णितं पूर्णभावतः । तत्र मोहो भवेन्नूनं सिद्धिबुद्धिकृतः परः ॥ ४३॥ सृष्ट्याऽऽदौ सिद्धिबुद्धिभ्यां प्रार्थितोऽहं विशेषतः । जगतां मोहनार्थं च ब्रह्मणां खेलकारणात् ॥ ४४॥ तदा मया वरो दत्तो मौद्गलं त्यज्य मां कदा । ज्ञास्यन्ति न च विश्वानि तेषु ब्रह्माणि संस्थितम् ॥ ४५॥ अतो मां मौद्गले संस्थं भजध्वं त्वेकचेतसः । तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरन्तरम् ॥ ४६॥ नानेन सदृशं किञ्चिन् मत्प्राप्तौ साधनं परम् । सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमाः ॥ ४७॥ अस्य श्रवणमात्रेण कृतकृत्यो नरो भवेत् । न शक्यते फलं वक्तुमपारत्वान् मया कदा ॥ ४८॥ मौद्गलश्रवणेनैव सन्तुष्टोऽहं महर्षयः । दास्यामि सकलाभीष्टं वृणुध्वं निर्विशङ्कया ॥ ४९॥ शौनकाद्या ऊचुः । भक्तिं देहि त्वदीयां नौ योगं शान्तिप्रदायकम् । यद्यदिच्छामहे नाथ तत्तत् सिद्ध्यतु सर्वदा ॥ ५०॥ गाणपत्यांश्च नः सर्वान् कुरु त्वं सर्वदा परान् । इमान् वरान् गुणाध्यक्ष प्रार्थितान् देव देहि नः ॥ ५१॥ तथेति तानथोक्त्वाऽसौ गणेशो ब्रह्मनायकः । व्यासादींश्च जगादाऽसौ वृणुध्वं वाञ्छितान् वरान् ॥ ५२॥ तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः । तथेति तानथोक्त्वा च सूतमूचे च विघ्नपः ॥ ५३॥ वरान् ब्रूहि महाभाग त्वया संश्रावितं परम् । द्विजेभ्यस्तेन सन्तुष्टो दास्यामि स तथाऽब्रवीत् ॥ ५४॥ तथेति तमथोक्त्वाऽसौ धूम्रवर्णो गजाननः । अन्तर्धाय स्वमात्मानं स्वानन्दस्थो बभूव ह ॥ ५५॥ सर्वे सन्तुष्टचित्तास्ते स्वं स्वं स्थानं ययुस्ततः । मौद्गलं तत् समाश्रित्य गणेशमभजन् परम् ॥ ५६॥ इमां मुद्गलजां श्लोकैः संहितां वेदबृंहिताम् । त्रयोविंशतिसाहस्त्रैः सार्धैकशतसंयुतैः ॥ ५७॥ अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुः शतैः । खण्डैश्च नवभिः पूर्णां सर्वसिद्धिमयीञ्चिताम् ॥ ५८॥ मुद्गलः कथयामास सर्वेषां हितकारणात् । शब्दब्रह्मरहस्याख्यां साक्षाद्ब्रह्मप्रदायिनीम् ॥ ५९॥ (Page खं. ९ अ. ४१ पान ९३) ॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ९.४१ ॥ श्रीगजाननार्पणमस्तु ॥ ॥ श्रीवक्रतुण्डाद्यष्टमूर्तिधरः गणेशः प्रसन्नो वरदो भवतु ॥ ॥ इति श्रीमुद्गलपुराणे नवमः खण्डः समाप्तः ॥ ॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥ Proofread by Yash Khasbage
% Text title            : Mudgala Purana Khanda 9 Yogacharitam
% File name             : mudgalapurANam9.itx
% itxtitle              : mudgalapurANaM khaNDaH 9 yogacharitam
% engtitle              : Mudgala Purana Khanda 9 Yogacharitam
% Category              : purana, ganesha
% Location              : doc_purana
% Sublocation           : purana
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : September 18-19, 2023 Ganeshachaturthi
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org