अक्षररामायणम्

अक्षररामायणम्

बालिद्वीपलब्धं प्राचीनं अक्षररामायणं कविजानकीयं

मुखवाणी

भारतवर्षस्य प्राचीनेषु उपद्वीपेषु इदानीं इण्डोनेष्याख्येषु बालिद्वीपः ``बलिद्वीप'' इति पूर्वं प्रसिद्ध आसीत् । तत्र प्रायः सार्धसहस्रवर्षेभ्यः पूर्वं कर्णाटराजस्य श्रीधर्मस्य आधिपत्यं आसीत् इति ज्ञायते । किञ्च शैव-वैष्णव-शाक्त-बौद्धादीनां संस्कृतभाषात्मकः व्यवहारः अत्यन्तं उत्तमः आसीत् इति च प्रचीनताळपत्र- पाण्डुलिपिपत्र-खण्डादिभिः ज्ञायते । बरोडामहाराजेन गायकवाडेन स्वकीयपुस्तकभाण्डागारात् प्राचीनाः खण्डत्रुटिताः श्लोकाः टिप्पन्यश्च ``बालिद्वीपग्रन्थाः'' इति सङ्ग्राह्य प्रकाशिताः सन्ति । तेषु ``कविजानकी'' इति नाम्ना स्थिताः खण्डाः त्रुटिताश्च सावधानं परिष्कृत्य, ``अक्षररामायणम्'' इति नाम्ना अत्र प्रकाश्यन्ते । अत्र ओं श्रीपूर्वकैः पञ्चाशद्वर्णमालाक्षरैः आरब्धैः श्लोकैः रामायणकथासङ्ग्रहोऽपि बालानां अत्यन्तं उपयोगाय भवति । लू लृ ङ ञ ट ठ ढ ण अक्षराणां लिपिसुन्दराणां उपमानानां निरूपणेन, ``अं अः'' इत्यादीनां फलितवर्णरूपेण उकारस्य ह्रस्व-दीर्घ- प्लुत-संवादेन लकारत्रयप्रयोगेण च उपयोगचमत्कारः रमणीयोऽस्ति । कविश्च जानकीनाम्नी राजसम्बधिनी पण्डिता च इति ज्ञायते । खण्डत्रुटितानां संयोजनेन कवेरभिप्रायानुसारेण परिष्कारेण च ``अक्षररामायणं'' इदं सम्पादितं संस्कृतशिक्षाभ्यासपराणां सर्वेषां प्रमोदाय भवति । द्वीपान्तसंस्कृतभाषाविज्ञानसंशोधकानां च उपयोगाय भवति । सम्भग्नसन्धानकला प्रशस्ता प्रत्यायनी चापि विनष्टकानाम् । प्रचीनभावानुविवर्तनी सा काव्येषु भाव्या सुधियां महिम्ना ॥ अरैयर् श्रीरामशर्मा रामानुजदासानुदासः २४-२-१९९६

बालिद्वीपप्रसिद्धं अक्षररामायणम्

कविः - जानकी ॐ रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ । वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥ १॥ श्रीः धन्यं मङ्गल्यमायुष्यं अलक्ष्मीकलिनाशनम् । रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥ २॥ अ अयोध्याधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः । राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥ आ आचारविनयोपेताः सत्यसन्धा दृढव्रताः । शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥ ४॥ इ इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया । दृढव्रतो राज्ञ इष्टो रामस्संप्रस्थितो वनम् ॥ ५॥ ई ओहितेनाभिषेकेन रामस्संप्रस्थितो वनम् । सीता चानुगता साध्वी लक्ष्मणश्च महाबलः ॥ ६॥ उ१ उपवासपरो रामः तपस्वी दण्डके वने । सभार्यस्सभ्रातृकश्च चचार मुनिभिस्स्तुतः ॥ ७॥ उ२ ऊनशूर्पणखादोषात् रामस्य च पराक्रमात् । तत्र पाराभवः कालो राक्षसानामुपस्थितः ॥ ८॥ उ३ ऊनस्तु रामवीर्येण रावणो नाम राक्षसः । तेन दुष्टात्मना सीता छलेनापहता वने ॥ ९॥ ऋ ऋषिधर्मसमायुक्तं मारीचं नाम मातुलम् । आगम्य रावणः पापः ततस्तद्वाक्यमब्रवीत् ॥ १०॥ ऋ कृतिं कृत्वा छलेन त्वं दूरं गच्छ वनेषु मे । दशरथात्मजं हत्वाऽरामं तत्र करोम्यहम् ॥ ११॥ ऌ लोम्ना काञ्चनरूपेण मृगो भूत्वा स श‍ृङ्गऌः । लोभयित्वा तु वैदेही व्यहरद् दण्डकावने ॥ १२॥ ॡ सीतां कमलपत्राक्षी उपासीनां वने तदा । लृकारकुटिलो हत्वा रावणोऽगान्नभस्तलम् ॥ १३॥ ए एतस्मिन्नन्तरे गृध्रो जटायुर्नाम धार्मिकः । तेन ताभ्यां समाख्यातं सीतायाः परिमार्गणे ॥ १४॥ ऐ ऐश्वर्य-मद-मत्तेन रावणेन खगाधिपम् । हत्वा तस्मिन् वने गृधं सीता लङ्कां प्रवेशिता ॥ १५॥ ओ ओघशोकनिमग्नस्सः सीतावत्सलराघवः । कपिना हीनराज्येन सुग्रीवेण समागतः ॥ १६॥ औ औषधं परमं प्राप्तः सुग्रीवो रामदर्शनात् । हत्वा च वालिनं रामः सुग्रीवं चाभ्यषेचयत् ॥ १७॥ अम् महाकपिं हनूमन्तं सत्यसन्धं दृढव्रतम् । सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ॥ १८॥ अः हनूमान् वानरश्रेष्ठो जाम्बवान् कृतनिश्चयः । तारेयः कपिभिस्सार्धं भ्रमन्तो दक्षिणां दिशम् ॥ १९॥ क कथयन्तस्स्ववृत्तान्तं कुत्रचित् कालपर्ययात् । अलब्ध्वाऽन्तश्च वैदेहीं चक्रुः प्रायोपवेशनम् ॥ २०॥ ख खगस्तु सिद्धकार्यार्थः सम्पातो नाम धार्मिकः । तेन तेषां समाख्यातं सीतायाः परिमार्गणे ॥ २१॥ ग गत्वा पारं समुद्रस्य वेगेन गरुडो यथा । दृष्ट्वा लङ्कां च नगरीं सीतां च जनकात्मजाम् ॥ २२॥ घ घनेऽशोकवने देशे समागत्य स मैथिलीम् । हनूमान् लब्धसन्देशो राक्षसान् विन्यसूदयत् ॥ २३॥ ङ ङकारसदृशीं कृत्वा ललाटे भृकुटिं तथा । क्रुद्धनेन्द्रजिता धीरो गृहीतो हनुमान् कपिः ॥ २४॥ च चन्द्रमण्डलसङ्काशं लाङ्गुलं तस्य राक्षसाः । शुक्लैरावेष्टितं वस्त्रैः तैलाभ्यङ्गमदीपयन् ॥ २५॥ छ छलयित्वा ततस्सर्वान् राक्षसान् विपुलो हरिः । लाङ्गूलेन प्रदीप्तेन लङ्कामादीपयत् पुरीम् ॥ २६॥ ज जलमध्ये स निर्वाप्य लाङ्गूलं प्लवगेश्वरः । कृतामयं पुरं दग्ध्वा पुनरागमनोत्सुकः ॥ २७॥ झ झषालयं समुत्प्लुत्य हरिरुत्तम आगतः । सिद्धकार्योऽतित्वरितः प्रदेशं यत्र राघवः ॥ २८॥ ञ ञकारवदनो भूत्वा हनूमान् स हरीश्वरः । न्यवेदयदशेषेण राघवाय महात्मने ॥ २९॥ ट टकारसदृशं चापं सशरं रघुनन्दनः । गृहीत्वा प्रस्थितस्तूर्णं सीतायाः परिमार्गणे ॥ ३०॥ ठ ठकाराकारनेत्राणां हरीणामयुतव्रताः । सुग्रीवस्याग्रतो यान्ति प्रीताः कर्तव्यलालसाः ॥ ३१॥ ड डयन्त इव वेगेन गत्वा पारं महोदधेः । राघवश्शरमुद्यम्य पश्चात्तत्रोपयाचितः ॥ ३१॥ ढ ढकारसदृशीं कृत्वा ललाटे भ्रुकुटीं तदा । हनुमानग्रतो याति राघवस्य हिते रतः ॥ ३३॥ ण णकारसदृशैः पद्मैः प्राञ्जलिः प्रत्युपस्थितः । उवाच सागरो रामं सेतुं मम जले कुरु ॥ ३४॥ त तस्य तद्वचनं श्रुत्वा सुग्रीवो नळमब्रवीत् । नळ! भद्रं कुरुष्व त्वं सेतुं तत्र महार्णवे ॥ ३५॥ थ स्थूलं मृष्टोपमं दिव्यं विश्वकर्मसुतो नलः । चकार सेतुं धर्मात्मा सागरे मकरालये ॥ ३६॥ द दशयोजनविस्तीर्णं आयतं शतयोजनम् । येन वानरसेनाऽगात् समुत्पत्य महोदधिम् ॥ ३७॥ ध धनुर्वीर्यं समाश्रित्य राघवस्सह वानरैः । राक्षसान् योधयामास क्रोधसंरक्तलोचनः ॥ ३८॥ न नगर्यां मोघयुद्धायां रावणस्सह राक्षसैः । ततो द्वाराद् विनिष्क्रम्य चकारायोधनं महत् ॥ ३९॥ प पनसश्शरभो मैन्दो नीलो मारुतिरङ्गदः । नानावृक्षैश्शिलाभिश्च राक्षसान् विन्यसूदयन् ॥ ४०॥ फ फलितैः पादपैः कूले रोषिताश्शक्तितोमरैः । राक्षसाः खण्डनं चक्रुः वानराणां चमूमुखे ॥ ४१॥ ब बलवान् राघवश्श्रीमान् दशग्रीवं जघान सः । निहतं रावणं दृष्ट्वा विभीषणमथाब्रवीत् ॥ ४२॥ भ भक्तोऽसि मयि रक्षेन्द्र! धार्मिकश्चापि सुव्रतः । अराक्षसमिदं कर्म कृतं तुष्टोऽस्मि ते विभो! ॥ ४३॥ म मया दत्तं राज्यमिदं भुङ्क्ष्व पूलस्त्यनन्दन ! सपुत्रभृत्यानुचरो भुङ्क्ष्व राज्यमकण्टकम् ॥ ४४॥ य यदर्थमयमारम्भः कृतो मे राक्षसेश्वर! तामहं द्रष्टुमिच्छामि गच्छ त्वं सहलक्ष्मणः ॥ ४५॥ र रक्तः प्रियहिते युक्तो लक्ष्मणेन विभीषणः । आरोचयञ्च वैदेहीं काकुत्स्थाय महात्मने ॥ ४६॥ ल लङ्कां प्रविश्य नगरी ददर्श जनकात्मजाम् । कृशां विवर्णां मलिनां दर्शयामास सुप्रियाम् ॥ ४७॥ व वरारोहां तदा दृष्ट्वा रामश्चिन्तासमन्वितः । अग्नौ विशुद्धामादाय पुष्पकेण ययौ ततः ॥ ४८॥ श शत्रून् हत्वाऽतिवेगेन पूर्वमागम्य राघवः । नन्दिग्रामे समादाय भरतं मित्रवत्सलम् ॥ ४९॥ ष षाङ्गण्यसुगतिश्श्रीमान् राघवस्सह सीतया । षड्गुणस्सु सङ्गतो भ्रातृभिस्सार्धं मातृभिस्स समागतः ॥ ५०॥ स समेत्य हृष्टहृदयः पौरजानपदैस्सह । गवां शतसहस्राणि ब्राह्मणेभ्यः प्रदत्तवान् ॥ ५१॥ ह हतशत्रुर्महेन्द्राण्या शतक्रतुरिवापरः । शतं वर्षसहस्राणां रामो राज्यमवासयत् ॥ ५२॥

अनुबन्धः

क्ष क्षत्रं ब्रह्माच्युतं जीयात् जीवनं जगतां परम् । ज्ञानानन्दमयं ज्योतिः ईळे तन्मातृकाक्षरम् ॥ १॥ सपञ्चशतसाहस्रसंवत्सरसनातनम् । प्राङ्मातृकाक्षरैश्श्लोकैः सार्धपञ्चाशता स्थितम् ॥ २॥ बलिद्वीपान्तरे लब्धं जानकीकविनिर्मितम् । रामेण संस्कृतं जीयात् श्रीरामायणमक्षरम् ॥ ३॥ इदं बरोडानगरे राज्ञा मुद्रापितं पुरा । स्वीकृतं बालबोधार्थं बालिद्वीपप्रबन्धगम् ॥ ४॥ नष्टवर्ण-विसंवादं शमयन् वर्णसङ्करम् । ऊप्लुतं ऌविकारान्कं अभेदं रलयोर्दिशन् ॥ ५॥ व्युदस्यन् क्वचिदेवात्र श्लोकलक्षणभञ्जनम् । ओं श्रीमदक्षरं रामायणमित्यभिधां दिशन् ॥ ६॥ प्रथमाक्षरयोगेन मातृकाक्षरयोजनात् । षष्टिवर्णपरीवर्तात् नवत्यक्षरयोजनात् ॥ ७॥ तत्र तत्र च संरक्षन् साभिप्रायं वचः कवेः । अष्टश्लोकीं ततः कुर्वन् रामस् संस्कृतवानिदम् ॥ ८॥ इतीदं अनुबन्धसहितं बालिद्वीपप्रसिद्धं अक्षररामायणं सम्पूर्णम् । रोहिणी - पत्रिका ॥ १९९५-९६ द्वीपान्तरसंस्कृतविज्ञानं सम्पादकः - परिष्कारकः - प्रकाशकश्च अरैयर् श्रीरामशर्मा, उभयन्यायवेदान्तालङ्कारः पञ्चभाषाकवितावल्लभः प्रांशुपालः सर्वकारीयसंस्कृतकालेजः मेलुकोटे । Encoded and proofread by Surya Maruvada
% Text title            : akShararAmAyaNam
% File name             : akShararAmAyaNam.itx
% itxtitle              : akShararAmAyaNam (kavijAnakIvirachitam)
% engtitle              : akShararAmAyaNam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Author                : jAnaki
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Surya Maruvada
% Translated by         : Surya Maruvada
% Indexextra            : (Scan)
% Latest update         : May 30, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org