श्रीअनन्ततत्त्वामृतम्

श्रीअनन्ततत्त्वामृतम्

रामं सूत्रकृतं व्यासं वृत्तिकृत्पुरुषोत्तमम् । आनन्दभाष्यकृद्रामानन्दाचार्यं नमाम्यहम् ॥ १॥ पूर्वाचार्यान् नमस्कृत्यानन्तानन्दं गुरुं तथा । कुर्वेऽनन्तपदं प्राप्तुं श्रीअनन्ततत्त्वामृतम् ॥ २॥ प्रमाणप्रतिपन्नं हि वस्तु तत्त्वतयोच्यते । चिदचिदीशभेदात् तत् त्रिधा नित्यं तथाऽमृषा ॥ ३॥ ``सर्वं खल्विदमे'' तस्य, ``सदेवे'' त्यादिकस्य च । प्रामाण्याद् ब्रह्म श्रीरामो विशिष्टो हि चिताऽचिता ॥ ४॥ विज्ञेयश्चित्पदार्थौ हि जीवोऽणुश्चेतनस्तथा । बद्धमुक्तविभेदात् स जीवात्मा द्विविधो मतः ॥ ५॥ कर्ममुक्तश्च मुक्तोऽथ बद्धो बद्धो हि कर्मणा । अचिदचेतनो ज्ञेयो प्रकृत्यादिचतुर्विधा ॥ ६॥ उपादानं निमित्तं च जगतो ब्रह्म निश्चितम् । तत्रावस्थाश्रयो द्रव्यमुपादानं प्रकीर्तितम् ॥ ७॥ निमित्तं चाथ सम्प्रोक्तं तत्त्वं कार्यविधायकम् । ``यतो वे'त्यादितो ब्रह्म जगतः कारणद्वयम् ॥ ८॥ स्थूलाचिच्चिद्विशिष्टं हि ब्रह्मैव राघवो जगत् । विशेष्यो राघवस्तत्र चिदचित्तौ विशेषणे ॥ ९॥ अपृथक्सिद्धधार्यत्वाच्छेषत्वाच्चिदचिद्द्वयम् । रामस्य ब्रह्मणो यस्माच्छरीरं सम्मतं बुधैः ॥ १०॥ लीलाविभूतिभूतानि ब्रह्माण्डान्यखिलानि च । ब्रह्मणः पादमात्राणि ``पादोऽस्य विश्वे᳚तिश्रुतेः ॥ ११॥ दिव्यधाम्नस्तु विज्ञेया ब्रह्मत्रिपादरूपता । साकेतमुक्तिधामादि तस्य नामान्तरं मतम् ॥ १२॥ सूक्ष्माचिच्चिद्विशिष्टं हि कारणं ब्रह्म गद्यते । सूक्ष्मताऽचिच्चिदोरत्र नामरूपाविभागिता ॥ १३॥ विकारस्तु स्वरूपेऽथ स्वभावे चाचितो मतः । सृष्टौ चितो मतः सोऽथ स्वभाव एव केवलम् ॥ १४॥ ब्रह्मणश्च स्वरूपेऽथ स्वभावे विकृतिर्न हि । हेयप्रतिभटो ब्रह्म रामः सद्गुणसागरः ॥ १५॥ सच्चिदानन्दरूपं तद् ``सत्यं ज्ञानमि'' तिश्रुते । ज्ञानशक्तिबलैश्वर्यवीर्यतेजांसि तद्गुणाः ॥ १६॥ स्वाभाविकगुणाश्चैते तस्य भगपदेरिताः । सर्वज्ञः सर्वशक्तिश्च सर्वव्यापी च राघवः ॥ १७॥ परश्च विभवो व्यूहोऽन्तर्यामी चाथ पञ्चमः । भेदश्चार्चावतारो हि रामस्य ब्रह्मणो मतः ॥ १८॥ श्रीरामश्च बुधैः प्रोक्तः साकेतस्थः परेश्वरः । वासुदेवादयो व्यूहा मत्स्याद्या विभवा मताः ॥ १९॥ अन्तर्यामी च विज्ञेयः सर्वान्तःस्थश्च राघवः । मूर्तिरूपेण श्रीरामस्त्वर्चावतारतां गतः ॥ २०॥ संसारितामवाप्नोति जीवश्चानाद्यविद्यया । शरीरादेश्च सम्बन्धो जीवसंसारिता मता ॥ २१॥ पुण्यपापात्मकं कर्म ह्यविद्या चात्र सम्मता । तस्या नाशं विना जीवः स्वरूपं स्वस्य नैति हि ॥ २२॥ प्रकृतिस्तु सावयवा सत्त्वादित्रिगुणाश्रयः । गुणानां प्रलये साम्यात् तद्विकाराः समा मताः ॥ २३॥ सृष्टौ तु गुणवैषम्याद् विकारा विषमाः किल । प्रकृतेर्गुणवैषम्यमीशस्य हि सिसृक्षया ॥ २४॥ उक्ता कारणतत्त्वस्य चान्यावस्था हि कार्यता । कार्यस्य कारणावस्था बुधैर्नाशः प्रकीर्त्तितः ॥ २५॥ मृत्पिण्डस्य घटत्वाप्तिर्मृत्पिण्डस्य हि कार्यता । घटस्य चूर्णताऽवाप्तिर्घटस्यैवं विनाशिता ॥ २६॥ उत्पत्तिरसतो नास्ति यस्माद् बुधैर्हि सम्मता । सूक्ष्मस्थूलेशयोस्तस्मादद्वैतं ब्रह्मणोः खलु ॥ २७॥ सर्वेषु च मतेष्वत्र निर्दोष तत एव हि । विशिष्टाद्वैतमित्येव वैदिकं यौक्तिकं मतम् ॥ २८। देहः करादिमत् पिण्डं जीवस्य पाञ्चभौतिकम् । तथैव चिदचिन्मिश्रं जगद् ब्रह्मवपुर्मतम् ॥ २९॥ धार्यते प्राकृतो देहो यथा जीवात्मसत्तया । ब्रह्मणः सत्तया तद्द्वज्जगच्चैतद्धि धार्यते ॥ ३०॥ ``अन्तः प्रविष्टः शास्ते'ति श्रुत्या जगच्छरीरकः । अन्तः प्रविश्य सर्वात्मा रामः सर्वनियामकः ॥ ३१॥ कर्मानुसृत्य जीवानां नियमनं स करोति हि । ततो वैषम्यनैघृण्ये न च रामे परात्मनि ॥ ३२॥ बाल्यादिदेहदोषाश्च मन्यन्ते न यथात्मनि । तथैव चिदचिद्दोषा नान्तर्यामिणि राघवे ॥ ३३॥ तिरोहितं स्वरूपं हि जीवस्यानादिकर्मणा । आविर्भूतस्वरूपत्वं कर्ममुक्तस्य चात्मनः ॥ ३४॥ आविर्भावः स्वरूपस्य रामस्यानुभवस्तथा । मोक्षा जीवस्य विज्ञेयः स चाप्राकृतधामनि ॥ ३५॥ भक्त्यैव लभ्यते मुक्तिरिति वेदविदां मतम् । प्रारब्धस्य फलं भुक्त्वा भक्त्या कर्मणि नाशिते ॥ ३६॥ अर्चिराद्यध्वना जीवो मुक्तिदेशमुपैति हि । उपासनं च कैमर्यं भक्तिभेदौ प्रकीर्तितौ ॥ ३७॥ अविच्छिन्ना हि रामस्य तैलधारेव संस्मृतिः । उपासनतया बोध्या प्रत्यक्षसदृशी च सा ॥ ३८॥ श्रीमद्भागवतानां च भगवज्जानकीपतेः । आचार्याणां तथा सेवा कैर्यत्वेन सम्मता ॥ ३९॥ विद्वद्भिः सम्मतं चात्र ज्ञानमर्थप्रकाशकम् । धर्मधर्मिस्वरूपं च ज्ञानं हि द्विविधं मतम् ॥ ४०॥ ज्ञानं धर्मिस्वरूपं हि जीवस्तथाऽखिलेश्वरः । ज्ञानं धर्मस्वरूपं हि नित्यं प्रज्ञाऽभिधं विभु ॥ ४१॥ शुद्धसत्त्वाश्रयो द्रव्यं शुद्धसत्वं प्रकीर्त्तितम् । रजसा तमसा हीन सत्वं शुद्धतया मतम् ॥ ४२॥ चतुर्विधानि चैतानि तत्त्वानि त्वजडानि हि । स्वयम्प्रकाशद्रव्यं हि जाडत्वेन सम्मतम् ॥ ४३॥ चतुर्विंशतिभेदा हि मूलाद्याः प्रकृतेर्मताः । ईश्वराधिष्ठिता चेह करोति प्रकृतिर्जगत् ॥ ४४॥ तत्त्वामृतमदः श्रीमदनन्तानन्दशिक्षितम् । पठतां मुक्तिदं भूयान्नृहर्यानन्दनिर्मितम् ॥ ४५॥ इति जगद्गुरुश्रीनरहर्यानन्दाचार्यप्रणीतं श्रीअनन्ततत्त्वामृतं सम्पूर्णम् । Proofread by Aaditya Kalyanaraman
% Text title            : Ananta Tattva Amritam
% File name             : anantatattvAmRRitam.itx
% itxtitle              : anantatattvAmRitam (shrInaraharyAnandAchAryapraNItaM)
% engtitle              : anantatattvAmRRitam
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : naraharyAnandAchArya 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : From Chatuh Sampraday Dig-Darshan
% Indexextra            : (Scan)
% Latest update         : November 10, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org