द्विपञ्चाशद्वाराचार्या विरचिता भजनरत्नावली

द्विपञ्चाशद्वाराचार्या विरचिता भजनरत्नावली

योगानन्तसुखास्तथानहरिर्भावस्तथागालवो, ह्यानन्देतिपदान्तकाः सुरसुरश्शिष्याश्चसप्ताभवन् । पीपासेनधनारमाश्च कबिरःपद्मावती चापरे, सार्दैर्द्वादशशिष्यकैस्तुगुरवः कुर्वन्तुनो मङ्गलम् ॥ १॥ रामानन्दो निम्बादित्योविष्णुस्वामीश्रीमाधवः । चत्वारोभगवद्भक्ताजगतीधर्मस्थापकाः ॥ २॥ एतेषामनुयायिनोद्विपञ्चाशद्विजज्ञिरे । अनन्तश्चा लखरामौ सुखानन्दोनरहरिः ॥ ३॥ कीलाग्रौसुसुरान्दो भावानन्दस्तथैवच । देवकरानुभानन्दौपीपाविरमथम्मणाः ॥ ४॥ नाभाटीलोतथाखोजीकूबालालतुरङ्गिणौ । मलूकश्चेतनस्वामी योगा नन्दभडङ्गिनौम् ॥ ५॥ श्रीभगवन्नारायणौ रामरङ्गीचतुर्भुजः । पूर्णविराठी हनुमान् रामरावल एवच ॥ ६॥ कबीरदेवमुरारी हुँदुरामस्तथैवच । माधवोज्ञानिनामाश्च श्रीतनतुलसी तथा ॥ ७॥ राघोचेतनकालुश्च रामरमणिरेवच । रामानन्दानुयायिनान्द्वाराः सप्तत्रिंशन्मताः ॥ ८॥ नागाख्यश्शोभुरामश्च वनखण्डीघमण्डीच । परशुरामश्चगोविन्दस्त्यागी कर्मचन्दस्तथा । आत्मारामाश्च नवमोनिम्बार्कस्यानुयायिनाम् ॥ ९॥ नित्यानन्दः श्यामानन्दः श्रीराधाबल्लभस्तथा ॥ १०॥ श्रीमाध्वसम्प्रदायिनान्त्रयोद्वाराः सताम्मताः ॥ ११॥ सुभक्तोनामदेवोवै गोकुलो विठ्ठलस्तथा । विष्णुस्वाम्यनुयायिना त्रयोद्वाराः सताम्मताः ॥ १२॥ रामनारायणेनेमेन्द्वारा अयोध्यावासिना । चतुर्णांसम्प्रदायिनां वर्णिताहि विभागशः ॥ १३॥ अथसप्त, अखाडा- अखण्डसंज्ञासङ्केतः कृतोधर्मविवर्द्धये । लानन्दप्रभृतिभिः सम्प्रदायानुसारिभिः ॥ १॥ नाहमादिखण्डोयत्र साखण्डौहाहृतःः । चतुर्णांसम्प्रदायिनामखण्डा ः सप्तवैमताः ॥ २॥ तत्तदन्तर संज्ञानामर्थश्चैव यथाश्रुतः । वर्णयामि वैष्णवानां पाद पद्मप्रणम्यवै ॥ ३॥ दिगम्बर- केवलंस्वेष्टदेवस्यस्मरणेवर्त्ततेसदा । दिशोम्बराणियस्यस्यात्सम्मतस्सदिगम्बरः ॥ ४॥ निर्वाणा - वानंविषयरूपंयच्छुष्कं फलमुदाहृतम् । यस्मात्तु निर्गतं वानं सनिर्वाणस्समीरितः ॥ ५॥ निर्मोही - स्वस्यहानुवर्तिषु पुत्रवित्तगृहादिषु । मोहोहिनिर्गतो यस्मात्स निर्मोहौदाहृतः ॥ ६॥ खाकी - खम्ब्रह्मण्यास्मरणचकं सुखेचप्रकीर्तितम् । ब्रह्मणस्स्मरणेयस्यसुखं खाकीमतोबुधैः ॥ ७॥ निरालम्ब- देवान्तरेष्ववलम्बायेश्चाल्पसुखसाधनः । सनिश्शेषगतो यस्मान्निरालम्बोमतोहिसः ॥ ८॥ सन्तोषी - स्वारब्धस्यतु संयोगात्स्वल्पेलब्धेऽपि वस्तुनि । सन्तोषोविद्यतेयस्य ससन्तोषी सदामतः ॥ ९॥ महानिर्वाण- निर्वाणं निवृत्तौनाशे मोक्षेचैवप्रकीत्तितम् । महन्मोक्षसुखंयस्य समहानिर्वाणोमतः ॥ १०॥ अखाडे में शामिल होने वाले की संज्ञायें- छोरोबनगिरेर्दारो होडदङ्घस्तृतीयकः । मुदाठयश्चनागोवै षष्ठोऽतीतोमतोबुधैः ॥ ११॥ प्रत्यखण्डं च षट्संज्ञाविद्यन्त्तेद्युत्तरोतराः । तत्तत्सेवाविभागेन कृताः पूर्वैर्मुन्दावहाः ॥ १२॥ तथात्र्यब्दान्तन्त्र्यब्दान्तमेकैकातुप्रवर्त्तते । पञ्चमीरविवर्षान्ता मताश्रीसुजनैस्सदा ॥ १३॥ अन्तिमायास्तुसंज्ञाया मरणावधिर्मतोबुधैः । अस्याम्भजननिष्ठाच हितादिशश्चवर्त्तते ॥ १४॥ छोरा - स्वपूर्वेषान्तुसेवायै दन्तकाष्ठादिकं तथा । छुरतितेन छोरेति संज्ञातस्यप्रकीर्तिता ॥ १५॥ बनगीदार- सबनगिरिदारोवैरागद्येववनञ्चयः । दृणातिप्रभुकैङ्कर्यैः कल्मषस्यगिरिन्तथा ॥ १६॥ हुडदङ्घा- अन्नापाकादिकैङ्कर्येदुर्जनानामनादरात् । पालयत्यात्मानंयस्तु होडदङ्घोमतो बुधैः ॥ १७॥ मुदाठिया- मुदमाप्नोतिसर्वत्रयतोदेवस्ततोमुदाठू । सेवार्थमयतेतं यो मुदाठयमतोहिसः ॥ १८॥ नागा - नगवदुपकारेयोवर्त्तते महतां सदा । सम्यग्वचन चातुर्यैस्तेननागाउदाहृतः ॥ १९॥ अतीत- पञ्चसंज्ञोक्तकैङ्कर्यमतिक्रम्यस्थितस्तुयः । केवलंरामस्मरणेयत्तोऽतीतो मतो बुधैः ॥ २०॥ अखाडमल्ल- गुरुस्थानम्मया सेव्यमित्यभिमानंसन्त्यजन् । अखण्डधरतेयश्चाखण्डमल्लमतोहिसः ॥ २१॥ स्थानधारी- गुरुस्थानम्मयासेव्यमितिधर्मन्तुह्यत्यजन् । गुरुकृपावलम्बीयः सहिस्थान धरोमतः ॥ २२॥ महानिर्वाण सन्तोषौ निर्मोहस्यानुयायिनौ । निरालम्बश्चखाकीच निर्वाणस्यानुयायिनौ ॥ २३॥ दिगम्बरश्चमध्यस्थोगमने वर्त्तते सदा । निर्वाणश्चाग्रतोगच्छेन्निर्मोंहस्तुप्रष्ठतः ॥ २४॥ त्र्यनीकमेवंसम्बन्धं सर्ववैष्णवसम्मतम् । वर्णितञ्चमयातत्तु पूर्वेभ्यश्चयथाश्रुतम् ॥ २५॥ रामनारायणेनायं सुज्ञानायसतांसदा । अखण्डसंज्ञासिद्धान्तो वर्णितोवैमुदावहः ॥ २६॥ इति द्विपञ्चाशद्वाराचार्याकृता भजनरत्नावली सम्पूर्णा । Encoded and proofread by Mrityunjay Pandey
% Text title            : Bhajana Ratnavali
% File name             : bhajanaratnAvalI.itx
% itxtitle              : bhajanaratnAvalI
% engtitle              : bhajanaratnAvalI
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : dvipanchAshadvArAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org