अनुभवानन्दाचार्यप्रणीता श्रीगीतार्थसुधा

अनुभवानन्दाचार्यप्रणीता श्रीगीतार्थसुधा

उत्पत्त्यादिविधायकं च जगतो हेतुं परं चेश्वरं जीवाजीवाशरीरिणं सुशरणं भक्त्यैव सायुज्यदम् । निर्दोषं सुगुणाकरं निखिलविद्वेदान्तगम्यं विभुं गीतोक्तं वरदं नतोऽस्मि करुणाम्भोधिं प्रभुं राघवम् ॥ १॥ नत्त्वा गुरुं तथाऽऽनन्दभाष्यकारं जगद्गुरुम् । करोयनुभवानन्दः सुधां मृत्युविनाशिनीम् ॥ २॥ कर्मज्ञानप्रसाध्या भगवति परमा भक्तिरेकोभ्युपायः श्रेष्ठो मोक्षस्य वाच्यो मतमितिविदितं ज्ञापयिष्यन्मुकुन्दः । धर्माधर्मप्रसङ्गाद् विकलितमनसं पार्थमुद्दिश्य गीता- माहोपोद्धातरूपः सुदृढमभिहितस्तत्र चाद्यः प्रपाठः ॥ ३॥ प्रोक्तौ देहात्मबुद्धयास्वजनममतया बालिशे मोहशोकौ क्षीयेते तौ च बोधात् फलमतिरहितात् कर्मणः सोऽपि सिध्येत । तस्माद् भक्तिः परेशे नियमितमनसा प्राप्यते सत्ववृद्धया तस्याः शान्तिर्ध्रवात्मा फलमिदमशिषत् कृष्ण चन्द्रो द्वितीये ॥ ४॥ ज्ञानं कर्मेति निष्ठाद्धयमिह जगति प्राहुराम्नायविज्ञाः कर्मारम्भं विहाय क्षणमपि भजते नैव कश्चित् प्रशान्तिम् । तस्मात् कर्मानुवृत्तिर्भगवति मनसा न्याय कर्माणि सम्यक् कर्तव्या पुण्यपुंसा गलितफलतृषा प्रोक्तमेतत् तृतीये ॥ ५॥ प्रोक्ता कर्मप्रसङ्गान्निजविभवकथा नित्यकर्माणि पश्चात् कर्माकर्मस्वरूपं मतिसृतिमशिष्त कर्मभिः सम्प्रवृत्ताम् । यज्ञानां द्वादशानामनुकथनमितो ज्ञानयज्ञस्य मौख्यं ज्ञानाग्निर्नाशयत्येववृजिननिचयं तूर्य इत्यभ्यधत्त ॥ ६॥ ज्ञानाकारं विधत्ते श्रुतिविदितफलं कर्म सम्पच्यमानं सन्यासस्तस्य नेष्टः सममतिरुदिता ह्यात्मलब्धेरुपायः । भोगानां दुःखदत्त्वाद्विरतिरतितरां पण्डितैस्तेभ्य इष्टा स्वर्थानेतानवादीत् प्रणतसुरतरुः पञ्चमे वासुदेवः ॥ ७॥ योगाभ्यासस्य रीतिर्विरतिरतिशया संसृतेर्मोहजाला- च्चातुर्विध्यं प्रतीतं सममतिरधिको योगिनां तत्र चोक्तः । योगस्योस्कृष्टसिद्धिः परगतिफलिका श्रद्धया यः स युक्तो योगिष्वेतेषु चेड्यं भजति हरिमितिप्राह षष्ठे पदार्थान् ॥ ८॥ याथार्थ्यं स्वस्य चोक्तं जगति जनचयो मायया मोहमाप्त- स्तार्मतां तर्तुकामैः खररिपुचरणे सुप्रपत्तिर्विधेया । सेवा देवान्तराणां परिमितफलदा नैव कार्या प्रपन्नै- र्ज्ञानी श्रेष्ठः समेषामितिमतमवदत् सप्तमे श्रीमुकुन्दः ॥ ९॥ प्रश्नाः पार्थस्य सप्त प्रतिवचनमथो वर्णनं चान्तिमस्य ब्रह्माऽनुध्यानतोऽद्धा ह्मसुगतिसमये ब्रह्मभावं सदैति । क्षेत्रज्ञस्याप्युपास्तौ प्रकृतिविरहिणः सद्गतिः सैव शुक्ला हेतुर्नैवागतेः सा सृतिरितिभगवानष्टमे स्पष्टमाख्यत् ॥ १०॥ माहात्म्यं स्वस्य दिव्यं जगति भगवतो व्याप्तिरन्तः समस्मिन् भक्त्याराध्यः परेशः सुमहितमनसां लक्षणं कार्यमेषामा । आवृत्तिश्चात्र भूयो विलयमुपगते कर्मिणां स्वर्गलोके श्रीशोपास्तेः स्वरूपं ततमिति नवये प्रादिशद् देवदेवः ॥ ११॥ व्याप्तं विश्वं समस्तं किल चरमचरं येन सर्वाधिपेना- त्रासीमैश्वर्यशाली विमलगुणनिधिर्यः स्वतन्त्रः परात्मा । यत्स्वायत्तस्वरूपस्थितिगतिरुदिता यद्विभूतिस्त्वनन्ता सर्वात्मा सोऽयमेकः प्रभुरितिदशमे निश्चिकायादिदेवः ॥ १२॥ पार्थश्चैशं दिदृक्षुर्हिं वपुरतिततं चर्मचक्षुर्न योग्यं तस्मै दत्त्वा तु दिव्यं स्मयभयजनकं दर्शयामास कृष्णः । मेघान् विद्युन्महीधान् क्षितिजलधियुतान् सूर्यचन्द्रादिदेवान् दृष्ट्वा देवस्य देहे शरणमुपगतोऽवोचदेकादशेऽर्थान् ॥ १३॥ श्रेष्ठोपायस्तु मुक्तेर्भगवति सुदृढा प्रीतिरेकैव शुद्धा तत्राशक्तस्य कर्मण्यभिरुचिरुचिता ह्यात्मनिष्ठस्य पुंसः । आत्मोपास्तेः प्रकारा अतिरतिमदिशत् स्वस्य भक्ते परेशः स्वार्थानेतानवादीच्छ्रितजनरतिकृद् द्वादशे च प्रपाठे ॥ १४॥ क्षेत्रक्षेत्रज्ञरूपं प्रकृतिपुरुषयोर्भेद आत्मस्वरूप- ज्ञानोपायास्तथाऽत्र त्रिगुणपुरुषयोर्योगतो विश्वसृष्टिः । कर्तृत्वे हेतुरेका प्रकृतिरथ पुमान् भोक्तृभावे च हेतु- र्बन्धोच्छेदो विवेकात् त्रिसहितदशमे शौरिणोक्ताइमेऽर्था ॥ १५॥ सूते विश्वं समस्तं प्रकृतिरनुपमा ब्रह्मस्वायत्तमूर्तिः सत्वादीनां त्रयाणां प्रकृतिगुणतया देहिनो बन्धकत्वम् । लिङ्गं कार्यञ्च तेषां खलु मतिकृतिभिर्दर्शितं तत्कृतोऽयं बन्धो भक्त्या प्रहेयो द्विगुणित उदिताः सप्तकेऽर्था मुदैते ॥ १६॥ संसारोऽश्वत्थवृक्षः श्रुतिविदितपदोऽव्यक्तमूलश्च तं वै छित्त्वाऽसङ्गाख्यहेत्या प्रपदनमनिशं राघवेशे विधेयम् । बद्धान्मुक्तात् परश्चोत्तमपुरुष इति ख्यात ईशः स्वतन्त्रो भर्ता चास्म्येक एवावददिति दशमे पञ्चयुक्तेऽर्थजातम् ॥ १७॥ दैवी सम्पज्जनानां भवति सुकृतिनां मुक्तये कर्मबन्धा- न्नित्यं बन्धाय लोके कुटिलमतिजुषामासुरी सा दुरन्ता । कार्याकार्यव्यवस्थां दिशति हिततमं शास्त्रमेतस्य त्याग- श्चासुर्या मूलमुक्तं निरयफलमिमे षोडशे वर्णितार्थाः ॥ १८॥ वैधं शास्त्रीयकर्म त्रिगुणपरवशं यज्ञदाने तपश्च त्रैविध्यं तस्य वेद्यं सुकृतियुतनरैः सात्त्विकैः सात्त्विकं वै । ग्राह्यं नैवासुरं तत् खलु फलरहितं लक्षणं तस्य सम्यक् श्रीमत्कृष्णेन चोक्तं वरमिह दशमे सप्तयुक्ते प्रपाठे ॥ १९॥ सन्यासः त्यागरूपो जगति मनुजैः सत्वमालम्बनीयं सीतानाथः परेशोऽमलगुणजलधिर्दिव्य देहोऽक्तारी । सर्वज्ञः सर्वशक्तिः कृतिचयफलदः कर्मणां संविधाता सायुज्यं तत्प्रपत्त्या भवति तनुभृतां प्रोक्तमन्त्येऽत्र चैतत् ॥ २०॥ श्रीगीतार्थसुधा चैषाऽनुभवानन्दनिर्मिता । जन्ममृत्युविनाशाय भूयान्मननशालिनाम् ॥ २१॥ इति श्रीमद् अनुभवानन्दाचार्यप्रणीता श्रीगीतार्थसुधा सम्पूर्णा । Encoded and proofread by Mrityunjay Pandey
% Text title            : Anubhavanandacharyapranita Shrigitarthasudha
% File name             : gItArthasudhAanubhavAnandAchArya.itx
% itxtitle              : gItArthasudhA (anubhavAnandAchAryapraNItA)
% engtitle              : gItArthasudhA
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : anubhavAnandAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org