मुक्तामाला

मुक्तामाला

(* गीतिवृत्तं) (१)पुण्यश्लोकशिखामणिचरणं शरणं सतामतापकरं । वन्दे नतनरकपिसखमखलजितं मखभुजां महः प्रथमम् ॥ १॥ विधाय पञ्चदशेन शतेन गीतिभिः सहृदयेभ्य उपायनीकरोति । (२)निस्पृहनिर्भयवित्तं श्यामलमतिशयितदायितमनिमित्तम् ॥ २॥ बहुभिः(३) कृतं, चतुर्भिः पङ्क्तिरयः पुत्रिणामभूरपथमः । बहुदानामपि, पुत्रौ धर्मार्थमसौ ददौ यदौदार्यात् ॥ ३॥ गाधिज(४)! । भवतोऽधीतं शिष्यैः कतिभिर्न गालवप्रमुखैः वरमेको दाशरथिः पिवतामुदधेरपोऽबुदो ह्यधिकः ॥ ४॥ मातरहल्ये(५) ! । स्पृष्टा येन पदा तमपि पूजयसि बालं । नूनं स तव सतीर्थ्यः पदाहतोऽप्युरसि यो ननाम भृगुम् ॥ ५॥ अबलाकृष्टमपि(६) सदसि धनुरैशं हा कथं नु भग्नमिति । भीतमिवानतकन्धरमाश्लिष्य ददाविवाभयं भगवान् ॥ ६॥ सर्वसहापि(७) धनुषस्तस्य चकम्पे रवेण घोरेण । बालापि भृशं मुमुदे सीता मृदुनेव वेणुनादेन ॥ ७॥ गुरुणा(८) योगं कर्तुं सञ्जीविन्येव सीतयातुलया । सर्वमतेन विनाशश्चापेनाङ्गीकृतः कचेनेव ॥ ८॥ (९)बहुभुजमरिमजयमिति किमनेन दैवं तु हेतुरत्रैकं । ग्रसते सहस्रकरमपि काले राहुर्हि बाहुविकलोऽपि ॥ ९॥ भगवन्वसिष्ठ ! । कथमिदमधुनैव मुहूर्तमीदश दत्तं । क्व वनप्रयाणमहह क्व च युवराज्याभिषेकमेहकालः(१०) ? ॥ १०॥ (११)पङ्केरुहदृशमध्वनि तं केवलमङ्गनानुजानुगतम् । शङ्के धावितमीक्षितुमङ्के विस्मृत्य शिशुमपि स्त्रीभिः ॥ ११॥ (१२)नृत्यन्मयूरपरिवृतमेणकुलानुगतमलिभिरुपस्पृष्टं । तं घनदूर्वापुञ्जश्यामलमब्जाननं भजेऽध्वन्यम् ॥ १२॥ सौरावप्यमृतकरौ(१३) यौ राजवरैः सदा शिरोधार्यौ । गौरासितौ वरमणी पौरा बत! हारितौ प्रमादेन ॥ १३॥ (१४)मात्रा माऽत्राऽऽस्वेति प्रहितो वनमालयान्निजं धर्मं । पित्रापि त्रातुं यस्तं धर्मज्ञोत्तमं जगुः कवयः ॥ १४॥ किमिति(१५) निषाद ! । विषादः पश्य कुमारोऽयमर्ककुलपालः । वनमागतोऽपि वल्क्यपि जटिलोऽपि नृपोत्तमश्रिया श्लिष्टः ॥ १५॥ कुशली(१६) तेऽस्ति कुमारो मा रोदीरम्ब तं बहोः कालात् । वनं गता रामादय ऋषिभिः सत्कृता इत्यर्थः । तृषिताः पिबन्तु वन्याः संन्यासिन उत्सुकाः सुकार्यमिताः ॥ १६॥ (१७)वर्ते पितुरुत्सङ्गे सङ्गे मातुः पुरे पुरेव सुखं । इति भवदात्मजमतमत आस्मानं देवि! काननेऽमंस्थाः ॥ १७॥ नन्दन(१८) वनं व्रजेति त्वमवोचः सत्यमजकुलोत्तंस ! । स तु वनमगात्तमीक्षितुमविचार्य गतोऽसि नन्दनं हन्त! ॥ १८॥ अमृतमपि नाम पिबतस्तापो बहुलीभवत्यदः किमिति । प्रष्टुं नु दशरथ! त्वं (१९)देस्रावस्राकुलक्षणो यातः ॥ १९॥ (२०)स्त्रैणं त्वामूचुरहो रहोगता मन्त्रिणो न मुनयोऽपि । साकममरपतिना के नाकेऽपि भवन्तमागतं वीक्ष्य ॥ २०॥ (२१)शोच्यासि त्वमयोध्ये! ॥अपहृतमटव्या त्वदीयसौभाग्यं । पतिमिच्छन्त्या भाव्यं त्वयापि मातर्विपक्षवेषयुजा ॥ २१॥ (२२)मा मातरमवमंस्था भरत ! । स्वगुणप्रकाशहेतुमिमां । सेकादधिकमशोके कुशलं पादाहतेर्यदि वरं सा ॥ २२॥ विषयविरक्तिर्गुरुपदभक्तिरखिलसज्जनेषु महितत्वम् । क्वत्यं सत्यं वद पदपद्मं मा जातु मातुरवमंस्थाः ॥ २३॥ मातः कैकेयि! । जगति कृतिषु कृतोपकृतिषु स्वमेव वरम् । यदखिललोकहितं कृतमुररीकृत्यापि दुःसहं व्यसनम् ॥ २४॥ (२३)कास्यान्यास्याब्जासवमधुपी त्वत्तो नृपस्य बहुमान्या । दास्या हास्यास्पदतां सरले! नीतासि देवि! मन्थरया ॥ २५॥ उदित(२४) नीतिमदमतं मुदितं सिद्धिं समीक्ष्य भोक्तुमलं । उदितं फलमनयतरो रुदितं बत मन्थरे ! त्वया किमिति? ॥ २६॥ (२५)शोकदवज्वलनावृतशुद्धान्तवनैकसंश्रया मृग्यः? । बाष्पस्रातास्तिष्ठत जीवनदः क्व नु स साम्प्रतं मृग्यः? ॥ २७॥ दीपक इव निःश्वासैर्नहि शोकशिखी(२६) प्रयाति निर्वाणं । बत! वर्धतेऽश्रुसलिलैरपि तूष्णीकैस्त्वयं सुखं जेयः ॥ २८॥ चिन्ते ! । किं ते विषयैर्ध्यातैः क्षणभङ्गुरैर्विषादफलैः । दास्यति लब्ध्वा कामं कामं का मङ्गला मुदं सम्पत् ॥ २९॥ मूर्तः सदयः सदयः सरसः (२७)सुधैकपरिपूर्णात् । शमयन्नमतां ममतां शमलं शमलं ददाति कोऽपि जटी ॥ ३०॥ कापि(२८) तपस्विजनानां तपसां सिद्धिर्महेशगलमाला नीलापीलाधरमुपहसति गुणैरिन्दुमपि पयोधिमपि ॥ ३१॥ अवने(२९) पटुस्त्रिजगतामवनेराद्यः प्रियोऽपि जामाता भवने विधातुरीड्यः स बने सवनेतृनायको जयति ॥ ३२॥ रक्षोबदलनविधौ दक्षो वक्षोजगिरिहरिर्लक्ष्म्याः पक्षो(३०) जयति वलक्षोऽस्माकमधिक्षोणि शक्रनीलनिभः ॥ ३३॥ (३१)अव्ययमदस्युगोचरमुर्वपि न मदप्रदं पदं प्रमुदाम् । वित्तमनीहमनोहरमस्माकं चित्तमात्मसात्कुरुते ॥ ३४॥ अङ्कर(३२)हितममृकरं शङ्करहितमनिशमेधमानकलं मित्रं स्वया श्रियाप्युपकुर्वाणमहं भजे चकोरशिशुः ॥ ३५॥ कति न जटिला वटा इव धन्वधराः कति न कानने शबराः? एकः कोऽप्यजकुलजः (३३)कपर्दिसुमधन्वनोः श्रियं हरति ॥ ३६॥ यामे रजनेश्चरमे या मेघनिभा सुनिस्पृहैश्चिन्त्या । सामेतरैरुपायैः(३४) सा मे भूतिर्न कैश्चिदपि लभ्मा ॥ ३७॥ (३५)द्यावाभूमिभ्यामिव याभ्यां स्त्रीभ्यामपि प्रजाः सुचिरं । निर्भयमराजकेऽपि त्राता वां पादुके नमस्यामः ॥ ३८॥ (३६) भरत ! । भगवता गुरुणा सुशिक्षितनयो युवाप्यधीरस्त्वं । मन्ये धन्ये त्वत्तो जडेऽपि खलु पादुके समे व्यसने ॥ ३९॥ भो (३७)याज्ञवल्क्यशिष्य त्वां नैव यथा जहाति समिष्ठा । जामातरं तथा ते कन्यानन्या सती बने भवने ॥ ४०॥ लब्धा विराध ! । भवता सीताऽपात्रेण(३८) मृत्यवे न मुदे । कपटपटुना क्षणं सुरपङ्क्ताविव राहुणा सुधाधारा ॥ ४१॥ जङ्गमनिर्जरतरुणा(३९) तरुणारुणपादपल्लवेन सह । दृष्टा कनकव्रततिर्व्रततीर्थतपःफलप्रदा वनिभिः ॥ ४२॥ धन्वी जटी फलाशी तन्वीरत्नेन(४०) सादरं सततं । अन्वीयमान ईदृक्सन्वीतभयः सतामगादुटजम् ॥ ४३॥ (४१)अभ्रामलदीप्ति महो बभ्राम चिराय दण्डकाभूमौ । दभ्रामधश्चकार श्वभ्रामयमलिनशशधरज्योत्स्नाम् ॥ ४४॥ (४२)सहसैव पञ्चवव्यां हरिणा हरिणानुयायिना स्वगुहा । सापि च मुक्ता मुक्ता नीता बत! वञ्चकेन केनापि ॥ ४५॥ नीता(४३) शुनाशु नाशायात्मन एवासि पुत्रिके! । मोहात् । हास्यति नो निधनमृते न मृते स्वयमत्र किं तवोत्कर्षः? ॥ ४६॥ (४४)तदिदमुपस्थितमचिराद्यदवोचोऽनागसं किमप्यम्ब! । पात्रे दानं क्षेत्रे बीजं बहु भवति गुप्तमुप्तमपि ॥ ४७॥ तप्तो वाचा लतया विषमय्या भुक्तयेव बालमृगः । शप्तो वाचालतया कथमनघोऽप्येष देवरो देवि! ॥ ४८॥ एकं क्षणमपि धीरैरपि नूनमसह्यवेदना वाचः(४५) स यदपससार सहसा सौमित्रिः साश्रुराश्रमादाशु ॥ ४९॥ दस्यो! । क्व त्वं यास्यसि हृत्वा रत्नं जगन्निवासस्य ? कुत्र(४६) निलीय स्थेयं मत्स्येनागस्कृता पयोराशेः ? ॥ ५०॥ श्रद्दध्यां(४७) कथमनया स्यक्तां छायामिव स्ववत्सलतां । गरलप्रसवां कथयस्यमृतमयीमादितोऽपि वस्स! लताम् ॥ ५१॥ सा(४८) कुत्र पर्णशाले! । मालेहाद्यैव या मया निहिता? लब्धा मिथिलाजानेर्जाने न्यासापहारिणीं त्वाहम् ॥ ५२॥ गोदावरि ! । सा क्व गता? जगता सत्येति संस्तुता त्वमसि । तमसि(४९) च्युतरत्नं जनमञ्जनदानेन मामनुगृहाण ॥ ५३॥ (५०)कासारकुन्दकदलीकीरकेसरिकृष्णसारकेकिपिकैः । अलिचम्पकबन्धूकैः शून्ये बत! सुन्दरी विभज्य हृता ॥ ५४॥ (५१)अयि! । ते दयिते! मयि तेऽमी सन्ति कृतप्रतिक्रियाः कृतिनः । गुणलवजितोऽमृतयुतिहारणः करिणस्तथैव केसरिणः ॥ ५५॥ यद्यपि गणरात्रं गतमद्यैवाह समागतोऽस्मि वनं । यद्रहितो(५२) भद्रहितोत्सवसुवसत्या श्रिया तया सत्या ॥ ५६॥ मृग! । यामीक्षणविजितः शक्ष्यसि नोदीक्षितुं बत! त्रपया । मृगयामि क्व नु तां वद मित्रमहं ते वनेचरो रामः ॥ ५७॥ लीनासि किमेकान्ते कान्ते ! । कां ते व्यलङ्घयं वाचं ? विरहज्वरविपदयि! ते दयिते! दयितेऽतिदुःसहाऽधीरे ॥ ५८॥ सत्यन्तकेऽप्यरातौ सत्यं सोढुं तमप्यहं धीरः । (५३)सत्यञ्चितागि! दूये सत्यञ्चलतोंऽतरेऽपि किं विरहे ? ॥ ५९॥ दृष्टं(५४) यत्सत्यागो वत्स! । त्यागोचितं मयि प्रियया । तत्किं त्वया न लक्षितमक्षि तवाप्यनलसं मदाचरणे? ॥ ६०॥ वीजय मामञ्चलतः (५५)पञ्चलतः पल्लवोऽमृतवततेः । सुदति! शयस्ते व्यजनान्मुदतिशयस्यैकहेतुरब्जकृतात् ॥ ६१॥ कानन! । तदासि नन्दनमधुना पितृकाननं सुविस्पष्टं । अहमपि (५६)हरिरभवं तामृते विदानीं श्रियं महाभूतः ॥ ६२॥ नित्यं निरन्तराभ्यां सुदति ! । गुरुभ्यां निसर्गकठिनाभ्याम् । ध्रुवमुपदिष्टं हृदयं तव स्तनाभ्यां स्वभावमृदुलमपि ॥ ६३॥ किं दोषाकर! । वच्म्यहमिन्दो! निन्दोचितं कुरु स्वैरं । यस्य श्रियासि सुभगस्तस्मिन्मिने गतेऽस्तमुल्लससि ॥ ६४॥ वस्स! । न यदि ललना किं लोलेनालिङ्गिता मया लतिका । अस्तु तद(५७)नुकृतिदयितामहमेनां झटिति नोत्सहे हातुम् ॥ ६५॥ असवः क्व स वः प्रियसख(५८) एकाकी जन इतो गतो दूरं । अलसा जलसारसयोर्नहि शोभा जीवनं मिथो विरहे ॥ ६६॥ (५९)नीता वधूर्न दस्योस्नातेत्यलमार्य! । तेन तापेन । शापेनेव सखा तेऽधर्मेण हतोऽस्यनेन पापेन ॥ ६७॥ कश्चन युवा तपस्वी विरही परिषस्वजे तरुवततीः । व्रततीर्थपरा मुनयोऽनुनयोदारोक्तयस्तमानर्चुः ॥ ६८॥ (६०)अमृतममृतफलमदरं बदरं प्रेरणा बभक्ष चित्रमिदम् । तदपि च शबरीदत्तं मत्तं मन्ध्वं न मामियं मुनिवाक् ॥ ६८॥ किमधिकमतोऽस्ति चित्रं मित्रं विपिनौकसां श्रुतिरहस्यं । (६१)यदृर्शनाय यतिभिः पतिभिः पृथ्व्या मृगायितमरण्ये ॥ ७०॥ वासववैभवमूनं चक्रुः कपयोऽप्यहोऽद्भुतं श‍ृणुत । पपुरमृतमागलं(६२) ददुरगनगखगमृगरिपुभ्य उत्सवतः ॥ ७१॥ पत्युः(६३) करतस्त्वामप्युटजान्मामिव कथं बलाद्धृतवान् । म स मुद्रेऽत्र समुद्रे नौ नौवत्रातुमागतः कस्मात् ? ॥ ७२॥ स्वपतिस्त्वसता हन्ता हन्ताहं तापमनुभवाम्यबला । (६४)तुल्यैवाधिसमुद्रे मुद्रे मुद्रेखया लिखितयाप्सु ॥ ७३॥ अखिलप्रश्रयपात्रं सखि! । लक्ष्मीवान्स लक्ष्मणः कुशली । (६५)नखिलक्षगुरुर्हरिरिव मखिलब्धास्नः स चापि वीरमणिः ॥ ७४॥ स्वं भागमिवादातुं हरिरिव हारणेष्विहागमिष्यति किं । मां सान्त्वयितुमनाथां नूनं त्वं प्रेषितासि दयितेन ॥ ७५॥ द्रष्टुं मातरिह त्वामार्यप्रहितोऽहमागतो दूतः । (६६)सूतः प्रथमं रविणा नलिनीमिव जयति सोऽस्त्रिपुरुहूतः ॥ ७६॥ ग्रीष्मे गज इव सरसीं त्वां सीतां काननेष्वनासाद्य । (६७)श्रान्तस्वान्तः श्रान्तः कान्तः कां तद्यथां ब्रवीम्यम्ब! ॥ ७७॥ गोष्पदमिव तीर्ण उदधिमयमहमबलोऽपि यस्य दासचरः । (६८) कथमर्णवभेकमरिं पत्रिपतिजवस्तरन्न तस्य शरः ॥ ७८॥ (६९)अदहदजभवप्रहितोऽनन्तवलोऽरिपुरमाशुगः स हरिः । अयमपि तथैव दूतः पश्यत पीताम्बरश्रिया श्लिष्टः ॥ ७९॥ कोऽप्याह यतो धर्मस्ततो जयः सत्यमिति कविप्रवरः । (७०) यत्खलु विजितः सदनुगकपिना स पिनाकिवरसुरोन्मत्तः ॥ ८०॥ (७१)न कपिरनुक्तोऽग्निरपि न परवान्वनभङ्गमरीपुरीदाहं । किं तु क्षुब्धाः सत्या निश्वासा एव चक्रुरत्युष्णाः ॥ ८१॥ (७२)असुरप्रियाभिरारात्पाखण्डोक्तिभिरशङ्कमशिवाभिः । चार्वाकादीनामुक्तिभिः परिवृता दूषिता आसीत् । रुद्धा वने कलावुपनिषदिव कुटिलाशयाभिरेकसती ॥ ८२॥ रक्षति कथमपि तन्वी देहादधिकं श्रुती दृशावपि सा । आरिसुन्दरीविलापं मधुरं त्वामपि च पातुममृतमिव ॥ ८३॥ कपयः(७३) स पयः केवलमब्धेस्तीर्णः सखा न बाहुभ्यां । व्यक्तं नक्तञ्चरवरबलमपि कपिसैन्यदैन्यहरतेजाः ॥ ८४॥ आर्यामपश्यमहितस्त्रीरुद्धां तां नितान्ततान्ततनुं । (७४)अधिकण्टकारिकावृति धर्म इवोत्खातरोपितां जातिम् ॥ ८५॥ (७५) दग्धुमना अप्यबला बालतृणानि क्षणादनार्द्राणि । दहनशिखेव सखायं त्वामेवास्ते सती प्रतीक्षन्ती ॥ ८६॥ बन्धुरपि(७६) दस्यवे यः संश्रयदः स जडधी रिपोरिष्टः । किं प्रार्थ्यतेऽतिवेलं बध्यो लङ्घ्यस्त्वया जनैश्चान्यैः ॥ ८७॥ राज्ञा गुरुणा त्यक्तो न विषयसक्तः सतां मतोऽत्यर्थं । दैवात्खलु समशीलव्यसनः प्राप्तः सखा विभीषण! ते ॥ ८८॥ जीवेत्यांशीरुचिता दातुं नमतेऽविचार्य दत्ता श्रीः । न मनापात्रविचारो नमनात्सर्वस्वदानमाश्चर्यम् ॥ ८९॥ राम ! । त्वया स्वयात्खलु समदुःखसुखः सखा(७८) समासादि । व्यसनमुदधिं सुदुस्तरमन्योन्यबलेन यत्सुखं तीर्णैः ॥ ९०॥ (७९)अविलन्धितमर्यादं बबन्ध बन्धुं गुरुं ललङ्घ बली । भक्तं जघान शम्भोर्मुनिसुतमपि कोऽपि हन्त ! दारकृते ॥ ९१॥ वन्दे तं देवीनां हृतशोकं राक्षसीविलापगुरुं । (८०) जगुरुञ्च्छवृत्तयो यं तापापहमनभोगिनामगुरुम् ॥ ९२॥ जटिलस्तमालनीलो वनवासिसखः (८१)पतङ्गकुलपालः । कश्चन ददाह खेचरभूभृतमधिजलधि तापहा दावः ॥ ९३॥ मेधेन केनचिदहो! । धनुष्मता भूगतेन शरवृष्ट्या । जलपूर्णा (८२)वाहिन्यः खगमा निर्जीवनीकृताः सिन्धौ ॥ ९४॥ तृणकाननं ददाह न कीलालनदीः ससर्ज तापहरः । कश्चन पतङ्गकुलजस्तमालनीलस्तनूनपात्तरुणः(८३) ॥ ९५॥ कपिसब एकः कश्चन चके (८४)नाकौकसां क्षणात्कुशलं । यस्कुलिशकरसुदुष्करमकालकूटानशूलशिखिसाध्यम् ॥ ९६॥ आस्तां यद्वधमकरो रक्षोधिपते रणे पणेन त्वं । सोऽपि प्राज्यं राज्यं प्राणान्प्रजही न तु प्रतिज्ञां स्वाम् ॥ ९७॥ आपदमाप्तुं स्पृष्टस्तापदमुग्रं कथं परकलत्रं । पापदवानलदग्धो हा! पदमखिलश्रियां स्वमपि वीर(८५)! ॥ ९८॥ (८६)अन्यकलत्रं विषमं विषवह्नेरपितमां यदामूलं । स्पृष्ट्वैकदैव दग्धो गुणदोषज्ञोऽपि बत! समन्त्रिकुलः ॥ ९९॥ नक्तमिवाशोकवनेऽप्यनिरीक्ष्य प्रियतमं (८७)तमान्तान्ता । दृष्ट्वा तु वह्निकुण्डेऽप्यहनीव सरोजनी बभौ कान्ता ॥ १००॥ (८८)सुहृदो वियोगयोगौ नान्यो स्तस्तापतोषयोर्हेतुः । प्रमदवने ग्लानिमिता तुष्टिं दहनेऽपि यत्प्रिये दृष्टे ॥ १०१॥ विमलकनकमूर्तिरिव ज्वलनेऽप्यसि देवि ! । (८९)लब्धपरभागा । मा गा विषादमधिकां नुतिमाप्ता त्वं जगत्सु यदनागाः ॥ १०२॥ (९०)अवताद्विभीषणस्त्वां लङ्के ! । ये केसरीव मेरुगुहां । आकल्पमचलपदभागेष पतिर्घ्रुवसखस्तवास्तु सुखी ॥ १०३॥ भवमिव दुस्तरमुदधिं तीर्णास्त्वां देवि ! । (९१)सुगतिमिच्छन्तः । अवलम्ब्य स्वोत्पादितमचलात्मानं सुपुत्रमिव सेतुम् ॥ १०४॥ (९२)सुषमाजितघनशम्पे पम्पेयं पेयवाणि चिरमस्यां । सुदति ! रुदितमयि शिखिभिर्नृत्यद्भिरसद्भिरिव भृशं मुमुदे ॥ १०५॥ पञ्चवटि ! । त्वय्युषिताः (९३)शमयोध्यायामिवाम्ब ! लब्धाः स्मः । मामियमितारिकीर्त्या सह सिन्धुं स्वरपगेव कालिन्द्या ॥ १०६॥ भो मातर्गोदावरि! । (९४) यावरिकरिहरिपती सतीसहितौ । सुचिरमुषितौ त्वदङ्के कौसल्याया इवाम्ब ! तावेतो ॥ १०७॥ तुभ्यं बद्धोंऽजलिरयमीशशिरःसारसासने(९५) देवि! । गुर्वीमुल्लम्ब्य त्वां तीर्णाः कथमापदं प्रतिज्ञा स्वाम् ॥ १०८॥ तृषितोऽसि बालचातक(९६)! । तात! करुणयागतोऽद्य जीवनदः । पश्योन्मीलय नयने नय नेहामृतमनेहसं पातुम् ॥ १०९॥ श‍ृणुत मयूरा(९७) यं प्रियमीक्षितुमत्यन्तमुस्सुका मुदिरं । स महाभागत आगत उत्सव एकान्तिकेऽद्य नृत्यध्वम् ॥ ११०॥ सिंहासन किं हा! । स न पतिरद्य स्मर्यते महेन्द्रसखः(९८) येनास्यखिलनृपतिपतिनतिभाजनममृतपायिपतियशः ॥ १११॥ नाके साकेतयशोऽरुचिममृतरसेऽमृतान्धसामकरोत्(९९) सत्ये रस्येकपदं स्वं ताण्डवपण्डितं मृडानीशम् ॥ ११२॥ पस्पर्श पदा साध्वीं विश्वस्तं वीरमपि जघान वने । तस्याज सतीं कोऽपीनवंशजानां सतां मतः कुपतिः(१००) ॥ ११३॥ यदमृतममृतजुषामपि यञ्च सुखं योगसम्पदामतुलं । उपनिषदा यत्तत्वं तदयोध्यावासिनो विधेयमहो(१०१) ॥ ११४॥ (१०२)मातरयोध्ये ! । भुक्ताः पतयः पारेशतं त्वया सत्या । स्मरसि कथं न तदधुना मधुना ननु मोहितामुना पत्या ॥ ११५॥ इति श्रीरामनन्दनमयूरेश्वरकृता मुक्तामाला समाप्ता । टिप्पणि * अष्टोत्तरं शतमपि रामायणानि विरच्य श्रीरामकथागानेऽतृप्त इव मयूरकविर्दाशरथिचरितादेव कियन्तश्चन प्रसङ्गान् क्रमेणोद्धृत्य विधालङ्कारचमत्कृतियुतान् १। तत्रादौ स्वचिकीर्पितखण्डकाव्यस्य निर्विघ्नपरिसमाप्तयेऽवश्यविधेयं मङ्गलमातनोति । पुण्यश्लोकेति । पुण्यश्लोकाः नलयुधिष्ठिरवैदेहजनार्दनाः तेषामन्त्यनिर्दिष्टोऽपि सर्वश्रेष्ठो भगवान् शेषशायी विष्णुस्तस्य चरणं वन्दे । तद्धि सतां सदाचाराणां देवादीनां शरणमाश्रयस्थानम् । न च तेषां कदाचिदपि तापमकरोत् । नतौ भक्ती यौ नरोऽर्जुनः कपिश्च हनूमस्तियोः सखायं मित्रवदुपकारकम् । खलाः दानवाः तैः अजितम् । मखं यज्ञं वरदानव्रतवित्तं वन्दे करुणासुधैकपनचित्तम् । लक्षणया यागीयहविर्द्रव्यं भुञ्जते ते मखभुजो देवास्तेषामाद्यं महस्तेजः । एतादृशं भगवतो विष्णोश्चरणमहं वन्दे । अत्र राक्षसैर्विहतयज्ञत्वादनशना देवा भगवन्तं शरण्यं दानवानामजय्यमादिनारायणमासाद्य तुष्टुवुरिति रामायणकथाभागो व्यज्यते । एवमेवोत्तरत्रापि समुचितैर्विशेषणपदैरेव क्रमेण रामायणी कथोपनिबद्धा मा च रसिकैः स्वयं सुखमूहनीया । २। निस्पृहाः निर्भयाश्च ये साधवस्तेषां वित्तम् । ३। बहुभिर्निर्गुणैः पुत्रैरलं तैर्न कोऽप्यर्थः सम्पद्यतेति भावः । पतिरथो दशरथस्तु चतुर्भिरेव गुणिभिः पुत्रैः पुत्रिणां श्रेष्ठोऽभूत् । तथा बहुदानामुदाराणां त्यागिनामपि श्रेष्ठोऽभूत् । यतो यशरक्षणार्थं विश्वामित्रेण याचितोऽयं पुत्रौ रामलक्ष्मणौ धर्मार्थं यज्ञरक्षणार्थमदात् । ४। विश्वामित्रस्य गालवप्रमुखाः प्रभूताः शिष्या आसन् । सततं गुरुपारचरणबद्धादरैरपि तैर्न तस्माद्बलातिबलाख्ये द्वे विधे अधिगते । रामस्तु सुबाहुप्रमुखान्निहत्य विश्वामित्रमेकवारमेव सन्तोष्य ते अधिगतवान् इति तस्य गालवादिभ्यो बहुगुणत्वं सूच्यते । अनुभूतश्चायमर्थो लोके बहुशः । यथा राम एव विश्वामित्रादेते विद्ये लब्धवान् न गालवादयः । यतः जलनिधेर्जलं पिबतां मेघ एव श्रेष्ठः स एव सर्वेषामधिकतरं वारि लभते इत्यर्थः । ५। कतमो देवानां श्रेष्ठ इति पृष्टो भृगुवैकुण्ठं गत्वा शेषशायिनं परीक्षितुकामस्तं पदा जघान । भगवांस्तु प्रबुध्य तस्य पदं संवाहयितुमारेभे । तं च समुचितयार्चया सम्भावितवान् । एवमेवाहल्याऽपि पदा स्पृष्टं राममर्चन्ती कविना निर्दिश्यते । पदा स्पृष्टस्य पूजनेऽहल्या च भगवान् रामश्च सतीर्थ्यौ एकस्यैव गुरोरन्तेवासिनौ एकाचारौ चास्तामित्यर्थः इति । ६। ईशस्य शिवस्येदमैशं धनुर्बलान्नाकृष्टमपि अबलया सातयाकृष्टमपीति । ध्वनिः । नु वितर्के । कथं नु भग्नमितीशकोपप्रसङ्गाद्भान्तमानतकन्धरं च रामं भगवान विश्वामित्र आलिङ्ग्याभयमिव ददौ धनुःसज्जीकरणाय कृतेनाल्पेनैवायासेन धनुर्भग्नम् । भग्ने च तस्मिन् शिवकोपमुत्प्रेक्ष्य भीतं रामं विश्वामित्रः साधुवादन समाश्वासयदित्यर्थः । ७। सर्वसहापि भूमिस्तस्य धनुषो घोरेण निनादेन चकम्पे । किन्तु बालापि सीता मुमुदे । रामस्योत्तीर्णपणत्वमालोक्य तस्या आनन्दातिशयोऽभूत् । बालापात्यनेन सुलभभयत्वं द्योत्यते । ८। यथा कचेन गुरुणा बृहस्पतिना सञ्जीविन्या योग कर्तुं विनाशोऽङ्गीकृतस्तथा चापेनापि शर्वस्य मतेन गुरुणा रामेणातुलया सीतया योगं कर्तुं विनाशोऽङ्गीकृतः । चापभङ्गानन्तरं रामः सीतां पर्यणयदित्यर्थः । ९। हे जामदग्न्य, बहुभुज सहस्रबाहुं कार्तवीर्यमहमजयीमीत गर्वं मा कृथाः । तत्कुलविनाशे च दैवमेव केवलं हेतुः । अत्र दृष्टान्तः । बाहुरहितोऽपि केवलं शिरःस्वरूपोऽपि राहुः सहस्रकरमपि सवितारं पर्वण्यमावास्यायां ग्रसते। जितेऽपि कार्तवीयें रामस्ते जेतुमशक्य इत्यर्थः । १०। महः उत्सवः । ११। केवलमङ्गनया शुभाङ्ग्या सीतया अनुजेन लक्ष्मणेन चानुगतं पङ्केरुहदृशं कमललोचनं राम वनगमनोद्यतं वीक्षितुं द्रष्टुमङ्के स्थितं शिशुमपि विस्मृत्य स्त्रीभिर्धावितमित्यहं (कविः)शङ्के । धावितमित्यत्र भावे निष्ठाप्रत्ययः । १२। अहं अध्वन्य वनेचर नापमवेष रामं भजे । कीदृशम् । धनवन्मेघवत् श्यामलं नीलकान्तिम् । अत एव घनभ्रान्त्या प्रमोदानृत्यद्भिर्मयूरैः परिवृतम् । तथा च दुर्वापुञ्जवत् हरिनीलमत एव यवसपुञ्जभ्रान्त्या एणकुलैर्हरिणसमूहैरुपमृतम् । तथा च अब्जाननं पद्ममुखमत एव पद्मभ्रान्त्या भ्रमरवृन्देनोपमृष्टम् । १३। सूर्यवंशोद्भवावपि अमृतकरी चन्द्राविति विरोधः । अमृतं नाम मोक्षः हस्ते ययोस्ताविति परिहारः । गौरो लक्ष्मणः स्फटिकश्च । असितस्तु रामः इन्द्रनीलश्चेति द्वौ वरमणि । १४। यो मात्रा कैकेय्या अत्र मा आस्स्व मा तिष्ठत्यालयाद् गृहाद्वनं प्रहितः प्रषितः । यश्च पित्रापि आत्मनो धर्मं दत्तपूर्वस्य वरद्वयस्यानुष्ठानात्मकं त्रातुं पालयितुं वन प्रेषितः । तं रामं कवयः पण्डिता धर्मज्ञेपु श्रेष्ठं जगुः । पित्राज्ञापालनात्मकस्य धर्मस्यानुष्ठानाय रामो वनं वव्राजेति भावः । अत्र आस्व इत्येकसकारं रूपं सर्वत्र दृश्यमानमशुद्धम् । १५। हे निषाद गुह रामो राज्यं परित्यज्य वनमागतः इत्यत्र किमिति किमर्थं ते विषादः । विषाद मा भजस्वेति भावः । यतः पश्यायमककुलपालः सूर्यवंश्यानां धुर्यः राज्यं परित्यज्य वनमागतोऽपि वल्कलधरोऽपि बद्धजटोऽपि नृपोत्तमश्रिया राजलक्ष्म्या श्लिष्टोऽविरहित एव । वनं गतं जटावल्कलधारिणमपि राजलक्ष्मीर्न त्यक्तवतीतिभावः । १६। सीतारामलक्ष्मणान् वनं प्रापय्य निवृत्तः सुमन्त्रः कौसल्यामाह । हे अम्ब तपश्चरणेन कार्श्यं गता वनवासितपस्विनो रामदर्शनमेव परमं जीवितफलं मन्वाना एतावन्तं कालमवातिष्ठन्त । तत्तेषां तपश्चरणं सफलं भवतु । १७। वने स्थितोऽप्यहं पितुरुत्सङ्गे वर्ते । मातुः सङ्गे सन्निधौ चास्मि । पुरे स्थित इव च सुखमनुभवामि । इति भवत्पुत्रो मन्यते । तत्किमिति हे देवि, आत्मानं कानन इव शून्ये गृह वर्तमानमर्मस्थाः अमनुथाः । १८। हे अजकुलोत्तंस दशरथ, त्वं पुत्रं रामं ``नन्दनवनं व्रज'' इत्यादिष्टवान् । सोऽपि नन्दनशब्द सम्बुद्धौ वर्तमानमवगत्य वनं गतः । त्वं तु नन्दनवनं गतो मे पुत्रो भवेदित्याशयाविचार्यव नन्दन स्वर्ग गतः । वनं गते रामे दशरथः पञ्चत्वमगमदिति भावः । १९। दस्रावश्विनौ देवभिपजौ । अस्रमश्रु तेन आकुले आक्षिणी यस्य तादृशः । २०। रहोगता मन्त्रिणो मुनयोऽमराधिपेन सहिता देवा अपि त्वां स्त्रैणं स्त्रीवशङ्गतं वदन्ति । २१। हे अयोध्ये ! त्वं शोच्या शोचनीया सम्पन्ना । यतस्त्वदीयं सौभाग्यं प्रकृष्टमैश्वर्यं श्रीरामरूपमटव्याऽपहृतम् । यदि त्वं पुनरात्मनः पतिमिच्छसि तर्हि त्वमपि विपक्षस्य सपल्या अटव्या वेषं धारय । रामेण परित्यक्ता अयोध्या वनवन्निर्जना शून्या च समभूदिति भावः । २२। हे भरत स्वगुणानां भ्रातृप्रेमादीनां प्रकाशस्य हेतुं कारणभूतामिमां ते मातरं मावमन्यस्व । यद्यशोकस्य सेकात्पादाहतेः प्रमदापादताडनेनाधिकं कुशलं सद्यो विकसनरूपं भवनि तर्हि सा पादाहतिरेव वरम् । एवमेव मातुस्ते रामस्य वनं प्रति प्रव्राजनं ते गुणानां प्रकाशस्य कारणमभूदतस्त्वया नेयमवमन्तव्येति भावः । २३। अस्य नृपस्य का अन्या अब्जासवमधुपी न कापि त्वदन्येत्यर्थः । किन्तु हे देवि सरले, त्वमनया दास्या मन्थरया हास्यास्पदतां नीतेति योजना । २४। नीतेः कुटिलनीतेर्यो मदस्तस्य मतं त्वयोदितनुक्तम् । सिद्धिं च प्रारिप्सितस्य दृष्ट्वा त्वया मुदितम् । अधुना त्वस्यानयतरोर्भोक्तुमलं पर्याप्तं फलमुदितं प्रादुर्भूतम् । हे मन्थरे किमिति त्वया रुदितमिति प्रश्नः । २५। शोक एव दवज्वलनो वनवह्निस्तेनावृतं व्याप्तं शुद्धान्तः अन्तःपुरमेव वनं तदेव एकः संश्रयः आश्रयस्थानं यासां तत्सम्बुद्धौ । मृग्यः कौसल्यादयः । जीवनं ददातीति तादृशो मेघः । मृग्योऽन्वेष्यः । २६। शोकशिखी शोकाग्निर्निश्वासनेव निर्वाप्यते । किन्तु तूष्णीकैः शनैः शनैः प्रवर्तमानैरश्रुभिरेव शमं याति । ``शोकक्षोभे च हृदयं प्रलापैरेव धार्यते'' इतिवत् । २७। सुधैकपरिपूर्णात्सरसस्तडागादपि सरसो मधुरः आह्लादक इति यावत् । शमलं कल्मषम् । द्वितीयत्र शं अलं इति पदच्छेदः । २८। काप्यनिर्वचनीया तपसां सिद्धी रामरूपा नीलापि श्यामापि इला पृथ्वी तस्या धरं शेषमिन्दुं पयोधि च गुणैः सामार्थ्याह्लादकत्वगाम्भीर्यादिभिरुपहसति तानतिशय्य वर्तते इत्यर्थः । २९। अवनेः पृथिव्याः प्रियोऽपि भर्ताप्याद्यो जामाता सीतापाणिग्रहणेनेति विरोधाभासः । सवस्य यशस्य नेतारः फलभोक्तारो देवास्तेषां नायको मुख्यः । ३०। पक्षः सुहृत् । वलक्षो यशसा धवलः । अधिक्षोणि पृथिव्याम् । ३१। अव्ययं विकारं क्षयं चागच्छत् । उर्वपि प्रभूतमपि मदप्रदम् । अनीहानां वीतस्पृहाणां मुनीनां मनो हरतीति तादृशम् । ३२। चकोरशिशुर्बालचकोरोऽहं अमृतकरं अमृतं मोक्षो हस्ते यस्य तं श्रीरामचन्द्रं चन्द्रं च भजे इत्यन्वयः । अयं रामचन्द्रोऽङ्करहितो लाञ्छनरहितः स तु सलाञ्छनः । अयमनिशमेधमाना वर्धमानाः कला यस्य तादृशः स तु कृष्णपक्षे क्षीयमाणकलः । तथा चायं स्वया श्रिया मित्रमपि सुहृदमप्युपकुर्वाणः स तु मित्रात्सूर्यादाप्तश्रीर्न तस्योपकरोतीति व्यतिरेकः। शङ्करहितमित्युभयत्रापि समानम् । ३३। कपर्दी शङ्करः सुमधन्वा कुसुमधम्वा मदनस्तयोः श्रियं हरति तावपि श्रियातिशेते इत्यर्थः । ३४। सा मेघनिभा घनश्यामा मे भूतिरैश्वर्यं रामरूपं सामेतरैः सामादिभ्यः शमध्यानादिभ्योऽन्यैरुपायैर्न सुलभेति योज्यम् । ३५। पादुके इति सम्बुद्धौ द्विवचनम् । वां युवां नमस्यामः । अराजके दशरथे दिवं गतेऽयोध्यायां राजाभावात् । स्त्रीभ्यामपीति प्रायः स्त्रीणां ज्यपालनानर्हत्वम । सुचिरं चतुर्दश समाः । ३६। अत्राधीतनीतिशास्त्रोऽपि युवापि भरतः आत्मानं प्रजापालनकर्मण्यसमर्थममन्यत । पादुके तु जडे अपि तदनुष्ठितवत्याविति भरतस्य व्याजनिन्दा ध्वन्यते । व्यसने श्रीरामविरहाख्ये उभयोः समे तुल्येऽपि ३७। भो याज्ञवल्क्यशिष्य जनक, यथा सति ब्रह्मणि निष्ठा त्वां न जहाति तथा ते कन्यापि भवने वा वने वानन्यपरायणा सती जामातरं रामचन्द्रं न मुञ्चति । ३८। अपात्रेणानर्हेण । ३९। वनिभिस्तपस्विभिः व्रततीर्थतपसां फलप्रदा तरुणौ नूतनौ अरुणावाताम्रौ पादौ पल्लवाविव यस्य तादृशेन जङ्गमेन चलेन निर्जरतरुणा सुरद्रुमेण रामेण सह काऽपि कनकव्रततिः स्वर्णलता सीताख्या दृष्टेत्यर्थः । ४०। तन्वीरत्नेन रमणीमणिना सीतयान्वीयमानोऽनुगम्यमानः । ४१। अभ्रं-मेघस्तद्वदमला कान्तिर्यस्य तत् । घनश्यामं महो रामचन्द्राख्यं श्वभ्रैर्गतैरामयेन राजयक्ष्मणा व मलिना कान्तिर्यस्य तस्य शशलाञ्छनम्य ज्योत्स्नां प्रकाशं दम्रामल्पामधश्चकार तिरश्चकार । चन्द्रादप्यतिसुन्दरो राम इति व्यतिरेकः । ४२। हरिणानुयायिना मायामृगमनुसरता केनापि हरिणा सिहेन रामचन्द्रेण च आत्मनो गुहा निवासस्थानं सापि मुक्ता मौक्तिकं सीतारूपं मुक्ता हारिता । सा च मुक्ता केनापि वञ्चकेन जम्बुकेन रावणेन च नीता । ४३। हे पुत्रिके सीते! शुना रावणेन त्वमात्मनो आशु नाशायैव नीतासि । स श्वा रावणस्त्वां निधनमृते मरणादृते न हास्यति न परित्यक्ष्यति । स्वयमेवास्मिन्न मृते सति तव गुणानामुत्कर्षः सम्भवेत्किम् । नैवेत्यर्थः । अननुष्ठिते हि रावणेन मरणापादके सीतापहरणाख्ये तद्विलोभनाख्ये च कर्मणि तव गुणानामुत्कर्षोऽविदित एव स्यादित्यर्थः । ४४। हे अम्ब सीते । त्वमनागसं निरपराधमपि लक्ष्मणं यद्दुरुक्तमवोचस्तस्येवेदमुपस्थितं फलम् । यतो गुप्तं पात्रे दानं क्षेत्रे गुप्तमप्युक्तं निक्षिप्तं बीजं बहुलीभवति । ४४। शपो निन्दितः । देवरो भर्तुर्भ्राता । ४५। वाचो दुष्टवाचः । ४६। पयोराशेः समुद्रस्यापराप विधाय मत्स्यः क स्थास्यतीत्यर्थः । ४७। रामो लक्ष्मणं वक्ति । हे वत्स, अनया मीतया छायेव सदा सन्निहिता स्ववत्सलता त्यक्ता इत्यहं कथं श्रद्दध्यां कथं विश्वस्याम् । यतस्त्वं हि आदितः प्रभृति जन्मन आरभ्यामृतमयीं लतां गरलप्रसवां विषमयीं कथयसि । निदर्शनालङ्कारः । ४८। सीतामपहृतां विज्ञाय विलपन् रामः पर्णशालां सीतागतं पृच्छति । या माला सीतारूपा मिथिलाजानेर्जनकादधिगता मया अद्यैवात्र निहिता त्वयि न्यस्ता सा क्व वर्तते ? अहं त्वा त्वां न्यासापहारिणीं न्यासमपहरति तच्छीलां जाने । त्वयैव मे न्यासोऽपहृत इत्यहं तर्कयामीत्यर्थः । ४९। नमस्यन्धकारे च्युतं रत्नं सीताख्यं यस्य तं मामाञ्जनस्य दिव्यदृष्टिप्रदस्य दानेनानुगृहाण मय्यनुग्रहं कुरु । ५०। कासारादिषु वर्तमाना गुणास्तैः सीताया अपहृता इति द्योतयन विलपति । अस्मिन् शून्ये विपिने सा सीता कासारादिभिर्विभज्य हृता । कासारे गम्भीराशयत्वं, कुन्दकलिकासु दन्तपङ्क्तिसाम्यं, कदल्यामूरुद्वयसादृश्य, कारणि गमनं, केसरिणि कटी, कृष्णसारे आयतलोचनत्वं, केकिनि केशपाशानुकारिता, पिके स्वरः, अलिषु कटाक्षनीलिमा, चम्पके नासिकावंशसारल्यं, बन्धूके चाधरराग इति गुणानां दर्शनात् । ५१। तेऽमी कासारादयो मयि कृतप्रतिक्रियाः कृतवैरनिर्यातनाः कृतिनो धन्याः सम्पन्नाः । ५२। भद्रं कल्याणं हितोत्सवः आनन्दसमयस्तयोः सुवसत्या सीतया रहित इति योजना । ५३। सति अञ्चितानि प्रशस्तान्यङ्गानि यस्याः सा तत्सम्बुद्धौ । पदद्वयमपि सम्बोधने । अञ्चलतः वस्त्रतोऽप्यन्तरे सति अहं दूये इति योजना । ५४। हे वत्स लक्ष्मण! अपि दृष्टं त्वया यत्सत्या पतिव्रतयापि प्रियया मयि त्यागोचितमागो दृष्टं इति योजनीयं। तदागस्त्वयापि न लक्षितं किं। यतस्त्वदीयमपि नयनं मदाचरणे सदा बद्धलक्ष्यम् । ५५। हे सुदति ते शयस्तव पाणिरमृतवल्ल्य्याः पञ्चलतः पञ्चशाखः पल्लवः अब्जकृतात् पद्मनिर्मितादपि व्यजनान्मुदोऽतिशयस्य हेतुः इति योज्यम् । ५६। हरिरिन्द्रः । ५७। तस्याः सीताया गुणानां मार्दवादीनामनुकरणेन दयिता प्रिया । ५८। प्रियः सखा प्रियमित्रम् । अलसा इति सम्बुद्धिपदम् । जलं च सारसं कमलं च तयोः । ५९। आर्य हे जटायो ! नीता वधूः स्नुषा सीता दस्यो रावणान्न त्रातेत्यलं सन्तापितेन । यतस्त्वमात्मनः सखा दशरथो यथा शापेन हतस्तथा पापेन रावणेनाधर्मेण त्वं हतः । ६०। अमृतं रामो मोक्षरूपः। अदरं भीतिरहितम् । बभक्षेत्यपाणिनीयम् । मन्ध्वमित्यप्यपाणिनीयम् । मुनिवाग् वाल्मीकिवचः । ६१। यतिभिः पृथिव्याः पतिभिर्नृपैश्च यद्दशनायारण्ये मृगवदाचरितम् । ६२। गलं मर्यादाकृत्यागलमाकण्ठम् । उत्सवतो मुदा । ६३। राममुद्रां वीक्ष्य हनूमन्तं चादृष्ट्वा सीता मुद्रां प्रति ब्रूते । हे मुद्रे, यथा रावण उटजान्मां हृतवांस्तथा त्वामपि पत्युः करतः कथं हृतवानिति प्रश्नः । स श्रीरामः समुद्रे नौवत् नौ आवां त्रातुं कस्मान्नागतः इति योजना । ६४। आधिसमुद्रे मनोव्यथासमुद्रे मुद् आनन्दः अप्सु लिखितया रेखया तुल्यः इत्यन्वयः । ६५। नखिनां लक्षं तत्र गुरुः श्रेष्ठो हरिरिव सिंह इव । मखिनो विश्वामित्राल्लब्धान्यस्त्राणि येन सः । ६६। सूतोऽरुणः । अस्त्रिषु पुरुहूतः इन्द्रः श्रेष्ठ इत्यर्थः । ६७। श्रान्तस्वान्तः खिन्नचेताः । ६८। पत्रिपतिर्वैनतेयस्तस्येव जवो यस्य सः शरः अर्णवस्थं भेकमिव क्षुद्रमरिं कथं न जयेदित्यर्थः । ६९। आशुगो हरिर्बाणरूपधारी विष्णुरजो यो भवः शिवस्तेन प्रहितः पुरा मयासुरनिर्मितं पुरमदहत् । तथैवायं हरिर्वानरो हनूमान् अजभवेनाजकुलोत्पन्नेन रामेण प्रहितो लङ्कापुरमदहत् । एवमयमपि पीताम्बरस्य विष्णोः श्रिया युक्तः । ७०। सन्तः अनुगा कपयो यस्य तेन रामेण। पिनाकिवरः एव सुरा तयोन्मत्तः । ७१। कपिरशोकवनिकाभङ्गं नाकरोद्यतः सोऽनुक्तः अनादिष्टः । रामेणेत्यर्थात् । नाप्यग्निः शत्रुपुरीमदहत् । सोऽप्यस्वतन्त्रो भगवदिच्छावृतित्वादस्येति भावः । किन्त्वेतद् द्वयमपि क्षुब्धाः सत्याः सीताया निश्वासा एव चक्रुरिति योजनीयम् । ७२। एकसती पतिव्रताश्रेष्ठा सीता आरात्समन्तात् कुटिलायाभिर्दुर्मतिभिः अशिवाभिरमगङ्लाभिः पाखण्डा दुष्टा उक्तिर्यासां ताभिरसुरस्त्रीभिर्वने रुद्धा परिवृतातिष्ठत् । अत्रौपम्यं कलावुपनिषदिव । सापि परमपवित्रा कुटिलाशयाभिरसुरप्रियाभिर्दुष्टमतिभिः पाखण्डानां ७३। कपय इति सम्बुद्धिः । स सखा हनूमान् कपिसैन्यस्य दैन्यहरं तेजो यस्य तादृशो बाहुभ्यां न केवलमब्धेः पयस्तीर्णः । अपि तु राक्षससैन्यमपीत्यन्वयः । ७४। कण्टकारिकावृतावित्यधिकण्टकारिकावृति । घर्मे निदाघे उत्खातरोपितां जातीलतामिव नितान्तं तान्ता ग्लानिमुपगता तनुर्यस्यास्तां सीतामपश्यमिति योजना । ७५। अबला असमर्था दहनशिखा यथा अनार्द्राणि शुष्काणि बालतृणानि दग्धुमिच्छन्त्यपि सखायं वायुं प्रतीक्षते तथैव सीता रावणादीन् भस्मसात्कर्तुमिच्छन्त्यपि त्वामेव प्रतीक्षमाणा तिष्ठतीत्यर्थः । ७६। बन्धुरपि सगरपुत्रैर्यज्ञियमश्वं मृगयमाणैः खातत्वात् यो जलधिः डलयोरभेदाज्जडथीः । दस्यवे रावणाय संश्रयं लङ्कारूपमदात् । अतः स रिपोरिष्टः शत्रुपक्ष्यः । अतः सोऽतिवेलं भृशं किमिति प्रार्थ्यते । प्रार्थ्यमानोऽपि नायं मार्गं त दद्यादिति भावः । ७७। नमते प्रणामं कुर्वते बिभीषणाय जीवेत्याशीर्दातुमुचिता । अभयदानमव केवलं युक्तम् । किन्तु राघवेणाविचार्य श्रीरपि दत्ता । सर्वस्य स्वस्य सम्पदो दानमाश्रयम् । रावणस्य सम्पद एव बिभीषणाय प्रतिश्रुतं दानमिति विरोधपरिहारः । ७८। सखा मित्रं विभीषणः । समासादि लब्धः । ७९। अविलङ्घिता मर्यादा वेला गुरुजनादरश्च येन तादृशं बन्धुं सागरं बबन्ध । गुरुं च सागरमनुलङ्घनीय ललङ्घ । शम्भोर्भक्तमपि मुनेः पुलस्त्यस्य सुतं रावणं च कोऽपि राम इत्यर्थात् । दारकृते सीताया अधिगमार्थ जघान । सर्वत्र विरोधाभासः । ८०। उञ्च्छः कणशः क्षेत्रस्थस्य धान्यस्यादानं स एव वृत्तिर्येषां ते उच्छवृत्तयो मुनयः । अस्त्राण्येव भोगिनः सर्पास्तेषामगुरुवत् कृष्णचन्दनवदाश्रयो रामः । ८१। पतङ्गः सूर्यः । खेचरा राक्षसास्तेषां भूभृतं रावणम् । ८२। वाहिन्यो नद्यः सेनाश्च । निर्जीवनीकृताः निरुदकाः कृताः हताश्च । विरोधाभास आश्चर्यहेतुः । ८३। तनूनपादग्निः। तृणकाननं न ददाह किन्तु कीलालनदीः शोणितनदीः ससर्ज प्रवर्तयामास । विरोधाभासः । ८४। नाकौकसां देवानाम् । कुलिशकरो महेन्द्रः । कालकूटाशः शिवः । * तु अयात् इति पदच्छेदः । अयः शुभावहो विधिः । ८५। हे वीर रावण । ८६। विषवह्नेरतितमां विषमं परकलत्रं स्पृष्ट्वा स आमूलं दग्ध इत्यन्वयः । अपितमामिति लिपिकरप्रमादः । ८७। ``तमान्तान्ता'' इति लिपिकरप्रमादः । तं आतान्ता आक्लान्ता इति पदच्छेदः । सरोजनी सरसो जनी जन्म यस्याः सा । ``जनी इतीदन्तः कृदिकारादक्तिन।'' इतीषूविधानात् । ८८। सुहृदो वियोगयोगावेव तापतोषयोर्हेतुर्नान्यावित्यन्वयः । ८९। लब्धः परभागः उत्कर्षो यया सा । ९०। अवतादित्याशिषि लोट् । ध्रुवस्य सखा तद्वदचल इति भावः । ९१। सुगतिं मोक्षस्वरूपां त्वामिच्छन्त इति योजना । स्वोत्पादितमात्मजम् । ९२। अयोध्यां प्रति प्रस्थितो राम चन्द्रः सीतां वक्ति । सुषमया परमया शोभया जिता धनस्था मेघमध्यवर्तिनी शम्पा विद्युद्यया तत्सम्बुद्धौ । विद्युत्प्रभे सीते । पेया वाणी यस्यास्तत्सम्बुद्धौ । मयि अस्यां पम्पायां चिरं रुदति शिखिभिरसद्भिरित नृत्यद्भिर्भृशं मुमुदे । भावे लिट । ९३। शं सुखम् । -इता गता । स्वरपगेत्यत्र स्वरापगेति भाव्यम् । स्वर्धनीत्यर्थः । ९४। अरय एव करिणस्तेषां हरिपती सिहाविव रामलक्ष्मणौ सतीसहितौ । पतिव्रतया सीतया सहितौ । अत्र प्राप्तौ स्तः इति शेषः । ९५। ईशस्य शिरःसारसं शिरःकमलं आसनं यस्यास्तत्सम्बुद्धौ हे गङ्गे । कथं कथमपि । ९६। बालचातक भरत । अमृतं पातुमनेहसं कालं मा नयेत्यन्वयः ९७। मयूराः पौराः। महाभागतो महता भागधेयेन । मुदिरं मेघं रामं च । ९८। महेन्द्रस्य सखा दशरथः । येनाधिष्ठितं त्वं अखिलानां नृपतिश्रेष्ठानां नतेर्नमनस्य पात्रमसि । यस्य ते यशोऽमृतपायिभिर्देवैः पीतं तं दशरथमद्य स्मरसीति प्रश्नः । ९९। अमृतमन्धो भोजनं येषां तेषां देवानाम् । रतेरानन्दस्यैकं स्थानम् । १००। इनः सूर्यः । कोः पृथिव्याः पतिः कुत्सितः पतिश्च । विरोधाभासः । १०१। विधेयं भृत्यः । राजा प्रजानां भृत्यः कार्यकरोऽस्तीति प्रसिद्धिमाश्रित्ययमुक्तिः । १०२। हे अयोध्ये ! परःशता नपतयस्त्वया भुक्ताः। तानधुना कथं न स्मरसि । अमुना पत्या त्वं मोहिता ननु । ``सरघेव लोभिता'' इति पाठान्तरम् । मधुना सरषा मधुमक्षिकेवामुना पत्या रामेण मोहितेत्यर्थः । Proofread by Rajesh Thyagarajan
% Text title            : Muktamala
% File name             : muktAmAlA.itx
% itxtitle              : muktAmAlA (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : muktAmAlA
% Category              : raama, moropanta, shataka
% Location              : doc_raama
% Sublocation           : raama
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org