श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं

श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं

कुर्वे मुमुक्षुसर्वस्वं नत्त्वा च ब्रह्म राघवम् । टीलाचार्यं च श्रीरामानन्दाचार्यं तथा गुरुम् ॥ १॥ रक्षति रक्षितो धर्मो रक्षणीयस्ततश्च सः । वक्ष्यमाणगुणानां च रक्षणाद् रक्ष्यते हि सः ॥ २॥ मनसा कर्मणा वाचा हिंसा कार्यान कस्यचित् । सत्यं हितं प्रियं वाच्यमहन्तां ममतां त्यजेत् ॥ ३॥ न्यायार्जितधनेनेह सन्तोष्टव्यं च सर्वदा । परद्रव्यस्पृहा नैव कर्त्तव्या पुरुषेण हि ॥ ४॥ प्रसन्नचेतसा कार्यं यज्ञोदानं तपस्तथा । अप्रशस्तं परित्याज्यं प्रशस्तं चाचरेन्नरः ॥ ५॥ उपकार्या जना नित्यं नापकार्याः कदाचन । असूया नैव कर्त्तव्या कस्यचित् पुरुषस्य हि ॥ ६॥ जात्याश्रयनिमित्तैश्च दुष्टमन्नं हि वर्जयेत् । कुसङ्गतिं विहायेह कुर्यात् सत्सङ्गतिं सदा ॥ ७॥ अन्यधर्ममनाश्रित्य स्वधर्मे निश्चलो भवेत् । अन्तर्बहिश्च संशुद्धः सर्वथा हि भवेन्नरः ॥ ८॥ असत्यं न जनो ब्रूयाच्चौर्यं कार्यं न कर्हिचित् । विरक्तस्य तु गार्हस्थ्ये प्रायश्चित्तं न विद्यते ॥ ९॥ दुःखदे च मनुष्येऽपि क्रोधः कार्यो न कर्हिचित् । सर्वदा सर्वभूतेषु दयां कुर्वन्ति साधवः ॥ १०॥ अर्चनीयौ जगद्धेतू सीतारामौ परेश्वरौ । वन्द्यौ सुकीर्त्तनीयौ च चिन्तनीयौ हि मानवैः ॥ ११॥ स्वाचार्यो वैष्णवाश्चात्र सेवनीयाः प्रयत्नतः । सुचिन्त्याः पठनीयाश्च प्रबन्धाः साम्प्रदायिकाः ॥ १२॥ सीतारामस्तुतिः कार्या प्रातः सायं विशेषतः । वृद्धानां वन्दनं कार्यमायुर्विद्यायाशःप्रदम् ॥ १३॥ कर्त्तव्यं जन्मसाफल्यं श्रीसीतारामभक्तितः । विशिष्टाद्वैतसिद्धान्तो मन्तव्यो वैदिकः सदा ॥ १४॥ भक्त्यैव लभ्यते मुक्तिर्भक्तिर्ज्ञानात् प्रजायते । चिदचिदीशतत्त्वानामाचार्याज्ज्ञानमर्जयेत ॥ १५॥ चिदर्थस्तत्र जीवात्मा ज्ञाता चाणुर्मतो बुधैः । ज्ञानेन धर्मभूतेन व्याप्तः सोऽखिलवर्मणि ॥ १६॥ तत एव स पादादौ वेत्ति सर्वं सुखादिकम् । जीवात्मनो विभुत्वे तु गत्यागत्योरसम्भवः ॥ १७॥ मध्यमपरिमाणत्वे त्वनित्यत्वं घटादिवत् । अकृताभ्यागमश्चाथ कृतनाशस्तदा पुनः ॥ १८॥ सुखिदुःखिप्रतीतिभ्यां जीवा भिन्ना मिथो मताः । अणुत्वादेव चात्मानो ब्रह्मभिन्ना मता बुधैः ॥ १९॥ ईश्वराधीनकर्त्तारो जीवात्मानः प्रकीर्तिताः । देहेन्द्रियादितो भिन्ना जीवा नित्या मतास्रिधा ॥ २०॥ स्वकर्मफलभोक्तारस्तत्र बद्धा हि सम्मताः । छिन्नबन्धास्तथा भक्तया मुक्ताः श्रीरामकिङ्कराः ॥ २१॥ सर्वदा कर्मभिर्मुक्ता नित्या हनुमदादयः । ब्रह्मदेहाः श्रुतौ जीवास्तेषां हि ब्रह्मता न तत् ॥ २२॥ अचिदचेतनं तत्त्वं चतुर्धाऽभिहितं च तत् । कालः प्रकृतितत्त्वं च शुद्धसत्त्वं तथा मतिः ॥ २३॥ ब्रह्मदेहो विभुः कालः सत्वादिगुणवर्जितः । कालाधीनं जगत् कालः सर्वाधारो जडस्तथा ॥ २४॥ प्रकृतिर्जडतत्त्वं हि सत्त्वादित्रिगुणाश्रयः । नित्या चाच्छादिका सा हि जीवब्रह्मस्वरूपयोः ॥ २५॥ साम्ये स्वस्य गुणानां सा समविकारकारिणी । वैषम्ये त्वीशसङ्कल्पाद् विषमसृष्टिसर्जिका ॥ २६॥ महाँश्च प्रकृतेराद्यो विकारस्रिविधः स्मृतः । अहङ्कारास्रयस्तस्य विकाराः सात्विकादयः ॥ २७॥ सात्विकात् खल्वहङ्काराज्जातानि त्विन्द्रियाणि च । मतानि मन आदीनि ज्ञानेन्द्रियाणि तत्र षट् ॥ २८॥ कर्मेन्द्रियाणि विद्वद्भिर्वागादीनि मतानि हि । सहकारी मतश्चाथाहङ्कारो राजसः किल ॥ २९॥ शब्दतन्मात्रकं जातमहङ्काराच्च तामसात् । ततो व्योम ततो जातं तन्मात्रं स्पर्शनामकम् ॥ ३०॥ स्पर्शतन्मात्रतो जातं भूतं हि वायुसंज्ञकम् । जातं च वायुभूताद्धि तन्मात्रं रूपसंज्ञकम् ॥ ३१॥ रूपतन्मात्रतस्तेजस्ततस्तन्मात्रकं रसः । रसादापस्ततो गन्धस्तस्माद् भूमिरजायत ॥ ३२॥ भूतगुणाश्च शब्दाद्या इन्द्रियविषया मताः । तान् विसृज्य गुरोः शक्तं चरणं शरणं ब्रजेत् ॥ ३३॥ श्रीरामशरचापाभ्यामङ्कनं भुजमूलयोः । विधेयस्तापसंस्कारो गुरुणा पापनाशकः ॥ ३४॥ श्रीरामपादपद्माभं श्रीयुतं रामतोषकम् । कार्यं द्वादशसङ्ख्याकमूर्ध्वपुण्ड्रं हि मुक्तिदम् ॥ ३५॥ रामदास्यपरं रम्यं पवित्रं चाघनाशकम् । शिष्यस्य नाम कर्त्तव्यं गुरुणा मुक्तिदायकम् ॥ ३६॥ ग्रीवायां गुरुणा दत्ते मोक्षानन्दप्रदायिके । तुलसीमालिके पुण्ये धारणीये मुमुक्षुणा ॥ ३७॥ सद्रहस्यद्वयेनाथ राममन्त्रस्य दीक्षया । गुरुः शिष्यं प्रपन्नं हि तारयेद् भववारिधेः ॥ ३८॥ भक्त्या कर्मविनाशे हि देहं त्यक्त्वाऽर्चिरादिना । नित्यधामनि सम्प्राप्ते सायुज्यं लभ्यते नरैः ॥ ३९॥ शुद्धसत्वाश्रयो द्रव्यं शुद्धसत्वं प्रकीर्त्तितम् । नित्यधामादयः शब्दाः पर्यायास्तस्य सम्मताः ॥ ४०॥ तत् परागजडं बोध्यं न कालस्तत्र वै प्रभुः । नित्यमुक्तेश्वरादेस्तद् भोग्यदेहादिकं मतम् ॥ ४१॥ ज्ञानमर्थप्रकाशस्तद् धर्मो जीवेशधर्मिणोः । प्रभावत् स्वप्रकाशं च विभु नित्यं परागथ ॥ ४२॥ ईश्वरस्त्ववतारी हि सर्वेषां च नियामकः । सच्चिदानन्दरूपः स नित्यः सर्वशरीरकः ॥ ४३॥ विभुश्च दोषशून्यश्च कल्याणगुणसागरः । रामब्रह्मादिवाच्यश्च जगज्जन्मादिकारणम् ॥ ४४॥ सर्वाराध्यश्च सर्वज्ञः सर्वशक्तिश्च सर्वदः । भक्त्या तथा प्रपत्त्या च जीवानां मुक्तिदायकः ॥ ४५॥ उपादानं निमित्तं च जगतो वेदवेदितः । भगवानव्ययः साक्षी विभूतिद्वयनायकः ॥ ४६॥ परो व्यूहस्तथाऽन्तःस्थो विभवोऽर्चावतारकः । इति पञ्चविधः प्रोक्तः सीतानाथः परेश्वरः ॥ ४७॥ वासुदेवादयो व्यूहा साकेतस्थः परः स्मृतः । व्याप्तोऽन्तस्थश्च सर्वात्मा योगिध्येयश्च राघवः ॥ ४८॥ मत्स्यकूर्मादिरूपश्च विभवो जानकीपतिः । भक्तेष्टमूर्तिरूपो हि रामश्चार्चाऽवतारकः ॥ ४९॥ भागीरथ्याशिष्यश्रीरामरङ्गिविनिर्मितम् । भूयान्मुमुक्षुसर्वस्वं मुमुक्षूणां हितावहम् ॥ ५०॥ इति श्रीरामरङ्गिदेवाचार्यनिर्मितं मुमुक्षसर्वस्वं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Ramarangidevacharyanirmitam Mumukshasarvasvam
% File name             : mumukShasarvasvaMrAmarangidevAchArya.itx
% itxtitle              : mumukShasarvasvam (rAmaraNgidevAchAryanirmitaM)
% engtitle              : mumukShasarvasvaM
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : rAmaraNgidevAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org