प्रमाणदीपिका

प्रमाणदीपिका

अथ प्रथमो मयूखः

रामं सीतां तथाचार्यं श्रियानन्दं प्रणम्य च । प्रमाणानां प्रकाशाय कुर्वे प्रमाणदीपिकाम् ॥ १॥ अथ प्रत्यक्षप्रमाणमयूखः चिदचिदीशतत्वानां ज्ञानं प्रामाणिकं च यत् । मोक्षस्य साधनं तद्धि भोक्ता भोग्यमिति श्रुतेः ॥ २॥ प्रमायाः करणं तत्र प्रमाण सम्मतं बुधैः । अबाधव्यवहारस्यानुगुणा तु मतिः प्रमा ॥ ३॥ करणं चावगन्तव्यं व्यापारशालि कारणम् । त्रिधा प्रमाणमध्यक्षानुमानशब्दभेदतः ॥ ४॥ सम्भवस्योपमानस्य चार्थापत्तेस्तथैव हि । अन्तर्भावोऽनुमाने तु तत्त्वज्ञैरुररीकृतः ॥ ५॥ ऐतिह्यमाप्तमूलं यच्छब्दे चान्तर्भवत्यदः । अनुमानाङ्गतर्कस्य मन्यते स्वाङ्गिरूपता ॥ ६॥ भावान्तरेण चाभावप्रतीतिरुपपद्यते । अभावाख्यः पदार्थश्चातिरिक्तो मन्यते न तत् ॥ ७॥ अतिरिक्तं प्रमाणं तन्नानुपलब्धिनामकम् । अभावसाधकत्वेन प्रमाणज्ञैर्हि मन्यते ॥ ८॥ अनुमाध्यक्षशाब्दीतिभेदात् त्रिधा मता प्रमा । ज्ञानाकरणकं ज्ञानं प्रत्यक्षत्वेन सम्मतम् ॥ ९॥ प्रत्यक्षं द्विविधं चाथ तत्राद्यं निर्विकल्पकम् । अनेकवृत्तिजात्याद्यविषया शेमुषी हि तत् ॥ १०॥ प्रत्यक्ष चापरं प्रोक्तं विद्वद्भिः सविकल्पकम् । अनेकवृत्तिजात्यादिविषया शेमुषी च तत् ॥ ११॥ प्रत्यक्षं द्विविधं चैतद् द्वैविध्यं च गतं पुनः । अर्वाचीनमथाऽनर्वाचीनञ्श्वेति विभेदतः ॥ १२॥ एकमिन्द्रियसापेक्षमपरं तद्विलक्षणम् । स्वयंसिद्धं च दिव्यं च द्विविधमादिमं तथा ॥ १३॥ योगजन्यं च तत्राद्यं परञ्चेशप्रसादजम् । प्रत्यक्षानुभवे तत्र करणमिन्द्रियं मतम् ॥ १४॥ व्यापारस्तत्र संयोगः संयुक्ताश्रयणं तथा । अर्वाचीनेतरद् बोध्यं प्रत्यक्षमीशमुक्तयोः ॥ १५॥ पूर्वानुभवतश्चात्र संस्कृतिरुपजायते । सदृशादृष्टचिन्ताद्यैरुद्बुद्धा संस्कृतिर्भवेत् ॥ १६॥ उद्बुद्धसंस्कृतेर्जाता स्मृतिः प्रत्यक्षमेव हि । प्रतिभा प्रत्यभिज्ञे च प्रत्यक्षे एव सम्मते ॥ १७॥ यथार्थ सर्वविज्ञानमिति वेदविदां मतम् । शुक्तावपि हि रौप्यांशाः पञ्चीकरणतो मताः ॥ १८॥ शुक्तिरौप्यमतेस्तस्मात् सत्यालम्बनता मता । शुक्तिरौप्यमतिर्भ्रान्ता रौप्यांशाल्पत्वहेतुतः ॥ १९॥ - इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायां प्रत्यक्षप्रमाणनिरूपणाख्यः प्रथमो मयूखः ॥ १॥

अथानुमान प्रमाणमयूखः

अनुमाकरणं चाथानुमानं परिकीर्त्तितम् । साधकतममेवात्र करणं प्राज्ञसम्मतम् ॥ १॥ ततो लिङ्गपरामर्शोऽनुमायां करणं मतम् । व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामिका ॥ २॥ तज्जा चानुमितिः पक्षे साध्यबुद्धिर्मता बुधैः । साध्याधारस्थता हेतौ व्याप्तिः प्राज्ञैः प्रकीर्त्तिता ॥ ३॥ साहचर्यस्य भूयिष्ठदर्शनाद् व्याप्तिधीर्भवेत् । तद्दर्शनं सपक्षे हि भवेन्निश्चितसाध्यके ॥ ४॥ साध्यशून्यो विपक्षश्च पक्षः सन्दिग्धसाध्यकः । अन्वयव्यतिरेकी हि हेतुश्च केवलान्वयी ॥ ५॥ यत्सत्त्वे खलु यत्सत्त्वमन्वयव्याप्तिरीरिता । यच्छून्यत्वं च यच्छून्येऽभाव्याप्तिर्हि साधने ॥ ६॥ अन्वयव्याप्तितश्चाथान्वयी हेतुर्बुधैर्मतः । अभावव्याप्तितो हेतुर्व्यतिरेकी समीरितः ॥ ७॥ सिद्धान्ते द्विविधश्चैव सद्धेतुर्बुधसम्मतः । केवलव्यतिरेकी तु सिद्धान्ते मन्यते न हि ॥ ८॥ उभे चात्रानुमानाङ्गे व्याप्तिश्च पक्षधर्मता । द्वयोरन्यतरस्याथ विरहे हेतुदुष्टता ॥ ९॥ व्यभिचारी विरुद्धोऽथासिद्धः सत्प्रतिपक्षकः । बाधितश्चेति पञ्चापि हेत्वामासाः प्रकीर्त्तिताः ॥ १०॥ हेतुश्च व्यभिचारी हि स्वस्थानातिक्रमे भवेत् । स ह्यनैकान्तिकश्चाथ द्विविधः परिकीर्त्तितः ॥ ११॥ विपक्षेऽपि स्थितश्चेत् स साधारणो मतस्तदा । बुधैः स पक्षमात्रस्थोऽसाधारण उदाहृतः ॥ १२॥ साध्याभावेन स व्याप्तो विरुद्धत्वेन सम्मतः । आदिमस्त्रिष्वसिद्धेष्वाश्रयासिद्धः समीरितः ॥ १३॥ पक्षश्च पक्षताऽवच्छेदकशून्यश्च तत्र हि । पक्षे च हेतुराहित्यं स्वरूपासिद्धता स्मृता ॥ १४॥ व्याप्यत्वासिद्धता चात्र द्विधा प्राज्ञैः समर्थिता । व्याप्तिग्राहकमानस्य शून्यत्वात् तत्र चादिमा ॥ १५॥ हेतावुपाधिसत्त्वाच्च द्वितीया सम्मता बुधैः । साध्यव्यापकतायां च साधनाव्यापकत्वकम् ॥ १६॥ उपाधित्वेन सम्प्रोक्तं हेतोः परमदूषणम् । प्रतिपक्षस्य सत्त्वे तु हेतोः सत्प्रतिपक्षता ॥ १७॥ यस्य प्रबलमानेन साध्याभावो विनिश्चितः । दार्शनिकैः स हेतुर्हि बाधितः सम्प्रकीर्त्तितः ॥ १८॥ अनुमानं द्विधा स्वार्थं परार्थं चेति भेदतः । स्वार्थेन स्वानुमा चात्र परार्थेन परानुमा ॥ १९॥ न्यायजस्तु परामर्शः परानुमितिकारणम् । न्यायस्तत्र प्रतिज्ञाद्यवयवपञ्चकं मतः ॥ २०॥ मतिज्ञा साध्यनिर्देशो हेतूक्तेर्हेतुता तथा । व्याप्तिनिर्देशपूर्वा हि दृष्टान्तोक्तिरुदाहृता ॥ २१॥ व्याप्यस्य पक्षवृत्तित्वबोधश्चोपनयो मतः । निगमनं तु साध्यस्योपसंहारवचः खलु ॥ २२॥ नैयायिका भवन्त्येतत्पञ्चावयववादिनः । वेदान्तिनो वदन्त्येष्वनुमासिद्धौ यथारुचि ॥ २३॥ - इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणिप्रणीतायां प्रमाणदीपिकायामनुमानप्रमाणनिरूपणाख्यो द्वितीयो मयूखः ॥ २॥

अथ शब्दप्रमाणमयूखः

अनाप्तानुक्तवाक्यस्य शब्दप्रमाणता मता । द्वारं पदार्थबुद्धिश्च शक्तिधीः सहकारिणी ॥ १॥ वाक्यं पदसमूहश्च शक्तं पदतया मतम् । अभिधाख्या च शक्तिर्हि वेदस्यार्थावबोधिता ॥ २॥ मुख्या वृत्तिः पदस्यार्थे सैव प्राज्ञैरुदीरिता । घटे घटेत्युक्ते हि शक्तिर्घटपदस्य च ॥ ३॥ सम्बन्धोऽभिहितः प्राज्ञैर्वृत्तिः पदपदार्थयोः । मुख्यार्थस्य हि बाधे तु वृत्तिर्मतौपचारिकी ॥ ४॥ गौणी च लक्षणा चेति भेदात् सा द्विविधा पुनः । शक्यस्य गुणवत्त्वेन त्वाद्या वृत्तिर्मता बुधैः ॥ ५॥ लक्षणा शक्यसम्बन्धः साऽन्वयानुपपत्तितः । जहदथाजहच्चेति द्विधा सा परिकीर्त्तिता ॥ ६॥ आकाङ्क्षायोग्यताऽऽसत्तिमद् वाक्यं हि प्रमाणकम् । प्रमाणमखिलो वेदः सिद्धे व्युत्पत्तिसम्भवात् ॥ ७॥ भागद्वयं हि वेदस्य कर्मब्रह्माभिधायकम् । तत्राद्ये कथितं कर्म ब्रह्माराधनलक्षणम् ॥ ८॥ शास्त्रे हि पूर्वमीमांसाऽऽख्येऽस्य शङ्काः समाहिताः । ब्रह्मणो वर्णितं चान्त्ये स्वरूपं च गुणादिकम् ॥ ९॥ एतच्छङ्कासमाधानं मीमांसा चोत्तरा मता । मता मीमांसयोस्तस्मादुभयोरेकशास्त्रता ॥ १०॥ विध्यर्थवादमन्त्रेतिभेदाद्वेदस्त्रिधा मतः । सम्मतस्तत्र विद्वद्भिर्विधिवाक्यं प्रवर्त्तकम् ॥ ११॥ विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते ॥ १२॥ इत्येवं हि विधिः प्राज्ञैस्त्रिविधः सम्प्रकीर्त्तितः । नित्यो नैमित्तिकः काम्यश्चापि भेदा विधेर्मताः ॥ १३॥ प्रवृत्त्युत्तम्भकं वाक्यमर्थवादतया मतम् । मन्त्रत्वेन मतो वेदोऽनुष्ठेयार्थप्रकाशकः ॥ १४॥ शिक्षा व्याकरणं छन्दो निरुक्तं ज्जोतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्योक्तानि वैदिकैः ॥ १५॥ पूर्वक्रमविशिष्टा हि वेदाश्चेशसमीरिता । नित्या अपौरुषेयास्ते तस्माद् बुधैश्च सम्मताः ॥ १६॥ नित्यो वेदश्च निर्दोषो वक्त्रभावाद्धि सम्मतः । प्रामाण्यं हि बुधैर्वेदे स्वीकृतं स्वत एव तत् ॥ १७॥ स्मृत्यादेस्तु प्रमाणत्वं वेदमूलतया मतम् । शास्त्र वेदविरुद्धं च नैव याति प्रमाणताम् ॥ १८॥ देहस्य वाचकाः शब्दाः पर्यवस्यन्ति देहिनि । सर्वशब्दैकवाच्यस्तद् रामः सर्वशरीरकः ॥ १९॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धान्तशिरोमणि प्रणीतायां प्रमाणदीपिकायां शब्दप्रमाणनिरूपणाख्यस्तृतीयो मयूखः ॥ ३॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता । प्रकाशिका प्रमाणानां भूयात् प्रमाणदीपिका ॥ २०॥ (श्रीहर्यानन्दाचार्य शताब्द्यां श्री हर्यानन्दाचार्योपदिष्टः प्रबन्धः) Proofread by Parashara Ranganathan
% Text title            : Pramanadipika
% File name             : pramANadIpikA.itx
% itxtitle              : pramANadIpikA (haryaAnandAchAryavirachitA) 
% engtitle              : pramANadIpikA
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org