प्रपन्नसर्वस्वं

प्रपन्नसर्वस्वं

सीतानाथसमारम्भां व्यासबोधायनान्विताम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥ श्रियानन्दं गुरुं नत्वा कृत्वा श्रीरामवन्दनम् । प्रपन्नसर्वस्वं हि कुर्वे सर्वार्थसाधकम् ॥ २॥ पुत्रे च रक्षकत्वस्य विश्वासो नैव जायते । स्वपितुः प्रतिकूले हि रुद्रादौ व्यभिचारतः ॥ ३॥ भ्रातृणां रक्षकत्वेऽपि सन्देहो विद्यते खलु । भ्रातरि रावणादेश्च रक्षकत्वाविलोकनात् ॥ ४॥ प्रह्लादजनके यस्माद् व्यभिचारः प्रदृश्यते । पुत्रस्य जनके तस्मात् सन्दिग्धं रक्षणं मतम् ॥ ५॥ जनन्यां भरतस्याथ दृष्टं न पुत्ररक्षणम् । सन्दिग्धा पुत्ररक्षा तत् मातुश्चापि मता बुधैः ॥ ६॥ दमयन्त्यादिरक्षाया नलादौ व्यभिचारिता । पत्नीरक्षापि पत्यौ तत् सन्दिग्धत्वमुपैति हि ॥ ७॥ रक्षा न निश्चिता तस्माद् विद्यते सूर्यचन्द्रयोः । ईशस्य रावणादेश्च तयोर्यद् वशवर्तिता ॥ ८॥ ब्रह्महत्याभिभूतत्वाच्छप्तत्वाद् भीतितोऽपि च । याति सन्देहमिन्द्रस्य रक्षणं सुररक्षिणः ॥ ९॥ स्वपितुश्च शिरश्छेदाद् रुद्रस्य क्रूरकर्मणः । रक्षणे न हि विश्वासो जायतेऽथ कथञ्चन ॥ १०॥ रुद्रेण छिन्नशीर्षत्वाद् दैत्याभ्यां क्लेशनादथ । परमं संशयं यातं ब्रह्मणश्चापि रक्षणम् ॥ ११॥ तस्करैरपहार्यत्वाद् रक्षणं न मतं घने । व्याधिभिश्चाभिनाश्यत्वाद् बलं चापि न रक्षकम् ॥ १२॥ प्रह्लादमुनिसीतासु सुग्रीवे च विभीषणे । अन्यत्रापि च दृष्टं ते रक्षणं राम निश्चतम् ॥ १३॥ ज्ञानं नास्ति न कर्मास्ति भक्तिश्चापि न विद्यते । भाजनं चास्मि दोषाणां पाहि मां रघुनन्दन ॥ १४॥ त्वां विना मे गतिर्नास्ति राम ! दुःखविघातक । प्रपद्याहं स्थितो नाथ यथेच्छसि तथा कुरु ॥ १५॥ श्रियानन्दार्यशिष्यश्रीहर्यानन्दार्यनिर्मितम् । इदं प्रपन्नसर्वस्वं भूयात् सर्वस्वदायकम् ॥ १६॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि प्रणीतं प्रपन्नसर्वस्वं सम्पूर्णम् । Proofread by Parashara Ranganathan
% Text title            : Prapannasarvasvam
% File name             : prapannasarvasvaM.itx
% itxtitle              : prapannasarvasvaM (haryaAnandAchAryavirachitA) 
% engtitle              : prapannasarvasvaM
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org