रामायणसारसङ्ग्रहरघुवीरस्तवः

रामायणसारसङ्ग्रहरघुवीरस्तवः

वेधोवितीर्णविशदान्नविवर्ततां स्वा- मप्रस्मरन् रघुपते कुलतन्तुमस्य । मन्ये ररक्षिय विभीषणमप्रमत्तो निःशेषयन्नपि कुलं रजनीचराणाम् ॥ १॥ यज्ञं ररक्षिथ मुनेर्यदि कौशिकस्य यज्ञात्मनस्तव तु तां विदुरात्मरक्षाम् । कीर्ति यदीच्छसि कृतार्थय मामनाथं काकुत्स्थ वीर करुणामसृणैरपाङ्गः ॥ २॥ आरोपितं प्रथममेव धनुः पुरारे- र्यन्निष्क्रयं निगमवाच उदाहरन्ति । आप्तैव भूमितनयाप्यनपायिनी ते मानुष्यकाभिनयमात्रमिदं तदूहे ॥ ३॥ तेजोनिधौ त्वयि समुद्र इवोदबिन्दु- स्तेजो यदि स्वयमलीयत भार्गवस्य । किं तावता त्वयि रघूद्वह पूर्णमासीत् किं त्वेष तापसवटुः कृपणो बभूव ॥ ४॥ राज्याभिषेचनविधिः शिरसि प्रसक्तः पित्राज्ञया परिहतोऽप्यसकृत्त्वयायम् । काकुत्स्थ पर्यवसितस्तव पादुकायां कीर्तिस्तु धीर इति पूरयति त्रिलोकीम् ॥ ५॥ आज्ञा गुरोरहृदयामपि साधयिष्यन् सत्यव्रतप्रियतया विपिनं गतस्त्वम् । ब्रह्मार्पणोपहृतकर्मफलोऽपि लोकै- र्गृह्णीय नाहमिति किं मुनिमात्थ मिथ्या ॥ ६॥ शत्रोः खसारमुपलब्धवतः स्फुटं प्राक् शङ्के तवाजनि कियानयमित्यवज्ञा । नो चेच्चतुर्दशसहस्रिकया भटानां प्राप्तं द्विषं व्यजयथाः कथमेक एवम् ॥ ७॥ नेतुस्तवापि जगतामभवत् कदाचि- न्नेता विराध इति नाथ यथा तथैव । व्यामोहयन्नपि जगन्निजमायया त्वं व्यामोहितोऽसि हरिणेन हिरण्मयेन ॥ ८॥ तत्तत्फलः स स विधिः सकलास्तु लोकाः स्वात्मानुचिन्तनवतः सुलभा भुवीति । व्यक्तं जटायुषि चिराद्दिवमेव सर्वां काकुत्स्थ लब्धवति ते घटितामपाङ्गैः ॥ ९॥ हत्वा कबन्धमटवीमभिपर्यटन् य- च्छ्रान्तः क्षुधा बुभुजिषे सदने शबर्याः । त्वय्येकमात्रकबलार्पणजं फलं वा भुङ्क्तामियं कथमलं न जगन्ति यस्य ॥ १०॥ मर्त्यात्मतामभिनिनीषसि चेतवस्तु मर्त्येषु किं भुवि न सन्ति परावरज्ञाः । बोद्धुं स्वतोऽपि निलयं तदरेर्विनैव दैन्यं रघूद्वह कियत्कियदन्वकार्षीः ॥ ११॥ एकेन सप्त च तरूनिषुणापविध्यन् पादाञ्चलेन दशयोजनमस्थि धून्वन् । मथ्नन् सुतं मुरपतेरपि लीलयैव किं मन्यसे मनुजता प्रकटीकृतेति ॥ १२॥ प्रस्थापिता मृगयितुं रविजेन सीतां दूताः समं रघुकुलोद्वह यद्यपीमे । भारस्तथापि निहितो भवताञ्जनेये कस्तां परां चितमबैतु परः शिवांशात् ॥ १३॥ दृष्ट्वाभिलप्य परितोष्य च सेवया त्वं नाबोधि यत्सुखमबोधि तदात्मतत्वम् । यद्दर्शनोद्यमत एव हनूमता तां त्वत्तोऽपि सेव्यचरणां क्षितिजामुपासे ॥ १४॥ उत्तीर्य सिन्धुमुपलभ्य सुतामवन्याः निर्दग्धशात्रवपुरो निहतारिसैन्यः । ब्रह्मास्त्रतोऽपि हनुमानभवन्न बद्धः किं विश्वमातृभजनात्परतोऽपि बन्धः ॥ १५॥ नित्यं सुषुप्तिषु परिष्वजसे न राम भूतानि किं निखिलभूतगृहाशयस्त्वम् । आसाद्य तत्प्रकटमर्थमवाप कीर्ति- माचन्द्रतारविमलामनिलात्मजन्मा ॥ १६॥ सिन्धुं विशोषयितुमाददिषे किलेषुं प्रज्वालिते शयनवेश्मनि पावकेन । कान्तासखः क्व विहरिष्यसि तात पश्चा- दित्थं हि नाम धिषणां जहति स्मरान्धाः ॥ १७॥ स्वैरं तरन्त इतरानपि तारयन्ति प्राञ्चस्त्रिलोकगुरवो गतशोकहर्षाः । इत्याहुरागमविदो यदिदं त्वदीये सेतौ निरैक्षिषि चिराय महोपलेषु ॥ १८॥ त्वामेव नाथमुपयातयतोररातेः सोदर्ययोः सममविन्दत राज्यमेकः । अन्या तु निष्करुणमेव विरूपितासी- दीदृग्विधानि हृदयानि महेश्वराणाम् ॥ १९॥ हस्ते विलग्नमपि रावणमाद्ययुद्ध देवो मुमोच दययेति परिष्टुवन्ति । त्वां बालिशास्तनुभृतो न तु तेऽवयन्ति निःशेषराक्षसवधाभिनिवेशरौक्ष्यम् ॥ २०॥ नागास्त्रबन्धपरुषां स्मर नाथ वेला कीदृग्व्यथा तव तदास कियद्विधेति । नित्या दशा चलति सा भवन्धितो मे ज्ञातव्यथे सकरुणे किमितो वदेयम् ॥ २१॥ सभ्रातृबान्धवसुतं सबलं सभृत्यं लङ्केश्वरं त्वयि जिघांसति लब्धबोधः । आगः प्रमार्ष्टुमविचार्य वरार्पणोत्थं स्वास्त्रं गतस्तमवधीत्स्वयमेव वेधाः ॥ २२॥ अग्नौ विशेति शबरीशरभङ्गयोर्य- दाज्ञामवास्त्वमनिषिध्य गिरापि किंञ्चित् । दृष्टा ततो रघुपते दयिता त्वयापि ज्वालाकलापजटिलं ज्वलनं विशन्ती ॥ २३॥ अब्जैव सा प्रथमतो धरणेस्ततोऽभू- ज्जाता ततो ज्वलनतोऽपि यतस्तदूहे । सर्वागमान्तपरिघुष्टसदाख्यमूर्त- भूतत्रयावतरणादभवत्सतीति ॥ २४॥ दत्तां पुरैव जनसंसदि पाटुकायै राज्यश्रियं पुनरुपेत्य यदग्रहीस्त्वम् । दत्तापहाररसिकेन ततस्त्वयैषा दत्तापि देहिषु मृषैव रघूद्वह श्रीः ॥ २५॥ दाता बभूविथ कपीन्द्रविभीषणाभ्यां स्वं स्वं पदं त्वमनुमत्य यतस्ततोऽहम् । मह्यं मदीयमपि तात्त्विकमेव रूपं किञ्चित् प्रदर्श्य भज कीर्तिमिति स्तुवे त्वाम् ॥ २६॥ मिथ्यापवादकलयापि विहाय शुद्धः सद्यः प्रियां सुदृढमात्मनि सम्प्ररूढे । स्वामिन् जगज्जनयितृत्वमृषापवादे स्मरं प्रवर्तयसि किं भवमीदृशं नः ॥ २७॥ लङ्कारणोपहृतराक्षसराजकोऽसौ विप्रार्भकं तु कमपि त्वयि लिप्समाने । प्रातिस्विकं प्रतिनिधिं पुनराचकाङ्क्ष कालस्तपस्विनमहो वृषलं कठोरः ॥ २८॥ प्रान्ते क्वचिद्धिमगिरेर्हिमवर्षदग्धे प्राप्तं श्रमेण महता भरतेन राज्यम् । पश्यन् भुवं च लवणस्य कनिष्ठलब्धां सौमित्रिरैहत न राज्यकथां सुमेधाः ॥ २९॥ प्राचेतसग्रथितकाव्यनिवेद्यमान- निःसीमभव्यचरितापि भवन्निदेशात् । या प्रत्ययाय यतते स्म सतां समक्षं साविन्दत प्रकृतिमेव सुता धरण्याः ॥ ३०॥ प्रस्थाप्य भूमितनयां परमं पदं प्राक् सौमित्रिमप्यनुपदं भुजगावतारम् । सद्यस्त्यजन्निव दिवं गमयन्नुपायात् सज्जीचकर्थ शयनीयमिति प्रतीमः ॥ ३१॥ द्यौरर्पिता खगवराय महोपकर्त्रे दत्तं पदं तदधिकं विषयाश्रितेभ्यः । नामापि ते सकृदकीर्तयते तु मह्यं सायुज्यमेव रघुपुङ्गव दातुमर्हम् ॥ ३२॥ सत्यप्रियाय शरणागतवत्सलाय सर्वापदां प्रशमनाय सकृत्प्रपत्त्या । श्रीरामनामपरिपूतजगत्त्रयाय सीतासखाय पुरुषाय नमो नमस्ते ॥ ३३॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभ-श्रीकण्ठमतप्रतिष्ठापनाचार्य- चतुरधिकशतप्रबन्धनिर्वाहक श्रीमन्महाव्रतयाजि- श्रीमदप्पय्यदीक्षितसोदर्य-श्रीमदाञ्चादीक्षितपौत्रेण नारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसम्भवेन श्रीनीलकण्ठदीक्षितेन विरचितासु कृतिषु रामायणसारसङ्ग्रहरघुवीरस्तवः समाप्तः ॥ Proofread by Rajesh Thyagarajan
% Text title            : Ramayana Sarasangraha Raghuvira Stavah by Neelakantha Dikshita
% File name             : rAmAyaNasArasangraharaghuvIrastavaH.itx
% itxtitle              : raghuvIrastavaH rAmAyaNasArasaNgraha (nIlakaNThadIkShitavirachitAni)
% engtitle              : rAmAyaNasArasangraharaghuvIrastavaH by nIlakaNThadIkShita
% Category              : raama, nIlakaNThadIkShita
% Location              : doc_raama
% Sublocation           : raama
% Author                : Nilakantha Dikshitar
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan)
% Latest update         : March 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org