ब्रह्मकृता श्रीरामस्तुतिः

ब्रह्मकृता श्रीरामस्तुतिः

ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥ १॥ ततो वैश्रवणो राजा यमश्चामित्रकर्शनः । सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ॥ २॥ षडर्धनयनः श्रीमान् महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ ३॥ एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥ ४॥ ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवन्स्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम् ॥ ५॥ कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां प्रभुः (वरः) । उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥ ६॥ कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे । ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥ ७॥ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामपि (सि)पञ्चमः ॥ ८॥ अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी । अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥ ९॥ उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा । इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ॥ १०॥ अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः । आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥ ११॥ योऽहं यस्य यतश्चाहं भगवान् प्र(तत्)ब्रवीतु मे । इति ब्रुवाणं काकुत्स्थं ब्रह्मा लोकपितामहः ॥ १२॥ अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम । भवान्नारायणो देवः श्रीमांश्चक्रधरो हरिः ॥ १३॥ एकश‍ृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् । अक्षरं ब्रह्म सत्त्वं त्वं (सत्यं च)त्वं मध्येऽन्ते च राघव ॥ १४॥ लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥ १५॥ अजितः खड्गभृद्विष्णुः कृष्णश्चैव बृहद्बलः । सेनानीर्ग्रामणीश्च त्वं त्वं बुद्धिस्त्वं क्षमा दया ॥ १६॥ प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः । इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रथाङ्गभृत्(रणान्तकृत्) ॥ १७॥ शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः । सहस्रश‍ृङ्गो वेदात्मा शतजिह्वो महर्षभः ॥ १८॥ त्वं त्रयाणां हि लोकानामादिकर्ता स्वयम्प्रभुः । सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥ १९॥ त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परन्तप । प्रभवं निधनं वा ते न विदुः को भवानिति ॥ २०॥ दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥ २१॥ सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि वसुधां च सपर्वताम् ॥ २२॥ अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगैः । त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥ २३॥ अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणा प्रभो ॥ २४॥ निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा । संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥ २५॥ जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ॥ २६॥ त्वया लोकाः समाक्रान्ताः पुराणे विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥ २७॥ सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥ २८॥ तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर । निहतो रावणो राम प्रविष्टो(प्रहृष्टो) दिवमाक्रम ॥ २९॥ अमोघं बलवीर्यं ते न ते मोघः पराक्रमः । अमोघं दर्शनं राम न च मोघस्तव स्तवः ॥ ३०॥ अमोघास्ते भविष्यन्ति भक्तिमन्तस्तु ये जनाः । ये त्वां देव ध्रुवं प्राप्ताः पुराणपुरुषोत्तमम् ॥ ३१॥ प्राप्नुवन्ति सदा कामानिह लोके परत्र च । इममार्षं स्तवं नित्यमितिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥ ३२॥ इति श्रीब्रह्मकृता रामस्तुतिः सम्पूर्णा । Proofread by Aruna Narayanan
% Text title            : Shri Rama Stuti by Brahma
% File name             : rAmabrahmastutiH.itx
% itxtitle              : rAmastutiH 2 (brahmakRitA tato hi durmanA rAmaH)
% engtitle              : Ramastuti 2 by Brahma
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org