रामकर्णरसायनम्

रामकर्णरसायनम्

श्रीरामभद्रदीक्षितकृतम् । प्रथमो निष्यन्दः । दिशतु स कुशलं जिते दशास्ये विधिविहितस्तुतिवेदितस्वरूपः । उपदिशति शिवो नृणां यदीयं मनुमविमुक्तपुरे विभुक्तिहेतोः ॥ १॥ विहितविधिमपास्यता निषिद्धा- न्यपि चरताप्यकृताक्षनिग्रहेण । यदघमुपचितं मया यतिष्ये रघुवरसंस्मरणेन तन्निमार्ष्टुम् ॥ २॥ चिरपरिचितया मनो विकृष्टं दिशि दिशि वासनया च मे नियाम्यम् । इति कवनपथेऽवतार्य राम - स्मरणविधावनघे करोम्युपायम् ॥ ३॥ प्रकृतिरिति सरस्वतीति लक्ष्मी- रिति गिरिजेति जगन्मयीति वा याम् । गदति मुनिगणः कवित्वसिद्ध्यै कथमपि तां कलये विदेहकन्याम् ॥ ४॥ मधुरभणितये पतिव्रतानां मकुटमणिं कलये महीकुमारीम् । पतिकृतरिपुपातनप्रतिज्ञा- दलनभयादहितेऽप्यदत्तशापाम् ॥ ५॥ हृदय विषयमेव सेवसे किं यदयमुदग्रविषोपमः क्रमेण । मदयति च निहन्ति च प्रकामं तदयनमेत्य गिरां भजस्व रामम् ॥ ६॥ रघुवरचरणारविन्दभक्ति- च्छलमकरन्दनिरन्तराभिषिक्ताः । वकुलपरिमला गिरो मदीयाः कविकुलकर्परसायनानि सन्तु ॥ ७॥ भरतविदितपादुकाप्रभावं धरणिसुतादरणीयनामधेयम् । करतलधृतकार्मुकं पुमांसं मरकतनीलशरीरमाश्रयामः ॥ ८॥ निटिलनयननिर्वृतिप्रदाख्यं कुटिलनिशाचरकुम्भिनां मृगेन्द्रम् । कटिलसदसिमम्बुदाभमेकं ज्जन्तिलपुरीकृतचापबाणमीडे ॥ ९॥ निलयमखिलमङ्गलस्य रक्षो- वलयवसप्रबलायितानलास्त्रम् । कलयति हृदयं विदेहकन्या- वलयपदाङ्कितकन्धरं पुमांसम् ॥ १०॥ विमोहयति विष्टपत्रयजनान्गुणारोपण- क्षपात्रुटितचण्डिकारमणचापचण्डध्वनौ । जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपं परस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११॥ करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधेः निबन्धनमबिन्धनज्वलनबन्धुतूणीशयम् । न कश्चिदपि दृश्यते जगति यस्य शक्तो जये स्मरप्रहितजानकीनयनपद्मबाणं विना ॥ १२॥ कष दलदुत्पलद्युतिरुदारवेषोज्ज्वलः स्वयं विशति मे मनस्त्वरितमाः परिज्ञायते । स एष ननु जानकीकुचतटीपटीरद्रव- प्रसक्तघनवासनाघुमुङ्घुमायमानः प्रभुः ॥ १३॥ भजे शरधनुर्धरं विकटचित्रकूटाटवी- चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् । स्फुटाकलितकुङ्कुमा वदति यस्य वक्षस्तटी मृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४॥ चिरस्य विधुरस्य मे विषयघर्मघोरातपैः पयोदनिचयोदयप्रतिनिधिः किलेयं दशा । नराघमुषि राघवे यदधुना मनः प्रीयते समस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५॥ कटीघटितवल्कलं घनलसज्जटामण्डलं करात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् । तमालदलमेचकं धरणिकन्यकाकामुकं तरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६॥ अचोदितकुलक्रमं पुनरपृष्टजातिक्रियं नयानयविचारणाविधुरमस्तशङ्काकणम् । उपेयुषि विभीषणे झटिति दत्तमस्याभयं मयेति समुदीरिता भगवतो गिरः पान्तु नः ॥ १७॥ कह्लाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृते कूजत्कोकिलबालचूतगहने कूले सरय्वाः शुभे । पश्यान्वेति शुकं शुकीति चुबुके गह्णन्करेण प्रियां चित्ते भाति स कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८॥ माद्यत्केकिनि चित्रकूटकटके मन्दाकिनीमेदुरे प्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले । कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरो नीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९॥ त्रस्तप्रस्थितहंसयूथमभितोनृत्यन्मयूरव्रजं वल्मीकान्तरसम्प्रविष्टभुजगं पङ्क्तीभवच्चातकम् । पुष्प्यन्नीपसिलिन्घ्रकेतकिजनस्थानाटवीमेयुषा कालिम्ना मम केनचित्कवचितं चेतो विराधद्विषा ॥ २०॥ संरम्भस्खलितोत्तरीयमवनिन्यस्ताग्रपादं भुजा- बुद्यम्य श्लथनीवि पुष्पनिचयं सगलतीं जानकीम् । पश्यन्पश्चवटीवने मुहुरपि प्रच्छन्न एवान्तिके हस्तोपात्तधनुःशरः स्फुरतु मे चित्ते रघुग्रामणीः ॥ २१॥ निर्वृत्ते खरदूषणत्रिशिरसामुन्मूलनादाहवे वैदेही परिषस्वजे सपदि यं मूर्तां जयश्रीरिव । उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तैकहस्ताम्बुजे तस्मिन्सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२॥ पायात्पर्णकुटीगतो घनघटासिक्तावनीसौरभ- घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले । केकाकण्ठशिखण्डिताण्डवयुते खेलत्पुरोमारुते नन्दन्प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३॥ अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित- ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् । दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे कन्दर्पायुतसुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४॥ चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्वणन्नूपुपरं चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् । कान्तव्याघ्रनखानुबन्धिकनकग्रैवेयकालङ्कृतं कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५॥ दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन्समे जानुनी । दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं पश्यन्बाणमृजुर्न वेति हृदि मे वीरोऽयमारोहति ॥ २६॥ उन्मीलन्नवमल्लिकापरिमलोदञ्चद्विरेफारवै- रारण्ये तुलसीवने मुखरिते दृश्ये शुकश्यामले । शश्वल्लीनमयूरदृग्वलनया शश्वद्गृहीतं बला- ज्जानक्या सह चित्रकूटकटके देवं मनो धावति ॥ २७॥ सीतादत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकं हर्षावेक्षिविहारबर्ह्युपसृताभ्यर्णं घटोध्न्या गवा । स्वामिन्देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८॥ पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये बिभ्रतीं वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् । पश्यन्कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढो विभुः ॥ २९॥ शैलान्मत्तोऽवतरति करी ज्यास्वनैर्वारयैनं सौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् । तज्ज्वाघोषं मृगपतिरवं व्याहरन्वेपिताङ्ग्या गाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥ ३०॥ हंसी मन्दं चलति हरिणी वीक्षते लोललोलं रम्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ । इत्याश्चर्याद्वनभुवि वधूं दर्शयन्तीं यदि त्वां पश्याम्येतैरलमिति वदन्पातु न वै कौसलेयः ॥ ३१॥ देव त्वां रघुवीर नीरदनिभं सीतातडित्सङ्गतं कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव । किं नृत्यन्ति न चातका इव परे किं वा न गाद्यन्त्यतः स्वामिन्पालय पालयेत्पहमपि क्रोशामि मणडूकवत् ॥ ३२॥ खेलत्केकिनि सञ्चरन्मृगशिशौ चूतस्फुरद्वल्कले नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे । सीतां पुष्पसमित्कुशान्हृतवतीं सम्भावयन्तं दृशा बद्धस्वस्तिकमेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३॥ सम्प्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः सङ्क्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् । मृष्टा नेह मनः शिलेति विसृतां रत्नाङ्गुलीयश्रियं वैदेहीं प्रति दर्शयन्हृदि कृतव्याजो विभुः पातु नः ॥ ३४॥ श्लथकचभरान्नैतद्भूमौ निपातय सुन्दरी- त्युदितहसितं सव्रीडाया महीदुहितुर्दिशन् । वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५॥ दलितदनुजाटोपे चापाधिरोपितसायके मरकतमणिच्छायादायादकायमनोहरे ( होभरे)। प्रपातजनताप्राणत्राणप्रवीणपराक्रमे स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६॥ अविदितनतक्लेशानीशानपास्य दिशामहो सह परिहरन्कालीकेलीसखं मुरलीभृता । वनमृगपरीवारे वीरे वरेषुधनुर्धरे कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७॥ स्फटिकधवलान्मेघश्यामे गृहीतमृगानला- द्धृतधनुरिषौ भूतेशानात्प्लवङ्गमसेविते । मतिरवतरत्यात्तव्याघ्राजिनाद्धृतवल्कले शिखरितनयानाथात्पृथ्वीसुतापरिणेतरि ॥ ३८॥ स्वच्छन्दं व्रजसुन्दरीजनविटाद्बद्धैकदारव्रते लीलावेणुलसत्करात्त्रिभुवनत्राणाय चापस्पृशि । चौर्याकृष्टवधूजनात्परिणतौ कीटादिमुक्तिप्रदे व्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३९॥ कश्चिद्बालो मृत्तिकां भक्षयित्वा कश्चिद्वृद्धश्चूतमूले लुठित्वा । मां रक्षेच्चेन्मास्तु तद्यन्ममास्ते त्राता सीताकेलिलोलो युवैकः ॥ ४०॥ अभिमतफलसिद्ध्यै ध्यातुमेकं सुराणा- मनुसरति मनो मे यावदाबद्धवेगम् । अपहरति निरुन्धन्नन्तरा तावदेत- त्कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१॥ क्षणचलितनिरूढस्वर्णदीकर्णभूषे परिहृतमयकन्यापत्रलेखाप्रसङ्गे । विरचितसुरसुभ्रूविभ्रमप्रातिभाव्ये कुतुकितमतिभव्ये क्वापि कालिम्निचेतः ॥ ४२॥ कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ- स्तनजघननितम्बं पश्यदन्याङ्गनानाम् । मलिनयति मनश्चेन्मन्मथस्तावताल किं विमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३॥ नवकुलवलयदामश्यामलः कोमलाङ्ग्या विरचितमधुरश्रीरेकया विद्युतेव । जलधर इव काले जृम्भमाणो मयूरं कुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४॥ मनसि मम समिन्द्धे पुण्यभाजामवेक्ष्यः कपिसदसि मुनीनां चेतसास्वादनीयः । जनकनृपतिकन्यासस्पृहालिङ्गनार्हः श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५॥ कुवलयदलनीलः कोऽपि रक्षोवधूनां कुचगिरिषु निपातं बाष्पवृष्टेर्विधाता । निखिलभुवनचेतोबर्हिनृत्तैकहेतुः शमयति मम तापं शार्ङ्गचापाम्बुवाहः ॥ ४६॥ निगमशिखरिश‍ृङ्गान्नित्यमागत्य खेलन् मुनिजनहृदरण्ये मोहसारत्वमुक्ते । दशवदनगजेन्द्रे दर्शिताघातलीलो वशयति रधुसिंहो मानसं नः प्रसन्नः ॥ ४७॥ करयोः शरकार्मुकाभिरामं पदयोरश्मविवेककृत्परागम् । कलितेषुधिमंसयोः प्रभुं तं करुणापूर्णमपाङ्गयोरुपासे ॥ ४८॥ अवलम्ब्य शरासमद्रिसारं गुणमाकृष्य गुरुध्वनिं विमुञ्चन् । विशिखानहितेषु रुक्मपुङ्खान्विहरत्याहवसीम्नि वीररामः ॥ ४९॥ चरमाङ्गनिबद्धचारुतूणं सुरमाङ्गल्यधुरीणचापबाणम् । अलिनीलमुपैति मानसं मे नलिनीनायकवंशभागधयेम् ॥ ५०॥ दृशि कारुणिकः करे धनुष्मान्कुशिकापत्यमखस्य रक्षिता यः । रजनीचरतूलचण्डवातो भजनीयो मम सोऽयमेक एव ॥ ५१॥ वदने शबरीफलाभिलाषं वचने सत्यधुराविराजमानम् । नयनेऽप्यनवेक्षितान्यदारं चरणे जीवलमाश्रये नृपालम् ॥ ५२॥ नवनीरदनीलमात्तचापं भवनीहाररविं श‍ृणोतु लोकः । अवनीतनयासखं जगत्यां स्तवनीयं मम दैवमेकमेव ॥ ५३॥ भरिता दयया दृशोः सुराणां परितापक्षतये गृहीतचापा । दुरितानि धुनोतु कापि लीला च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५४॥ सुरचारणसिद्धबद्धसेवः शरचापाभरणो नवाम्बुदश्रीः । अहिमांशुकुलार्णवेन्दुरेको महिमाऽन्तःकरणे ममाविरस्तु ॥ ५५॥ धनुषा सह सायकं दधाने जनुषा भूषितचण्डरश्मिमवंशे । कुचनम्रमहीसुतानुरक्ते क्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५६॥ भयकम्पितसागरप्रशस्ते मयकन्यातनुमण्डनासहिष्णौ । नवगारुडरत्नभासुरे स्यादवगाढं हृदयं क्वचित्प्रभौ मे ॥ ५७॥ निजनामरसज्ञनीलकण्ठं भजनाय प्लवगावृतोपकण्ठम् । बलयन्त्रितसिन्धुमन्तरेकं कलयन्नन्यमुपासितुं त्वरे कम् ॥ ५८॥ विकटभ्रुकुटिर्विलोकतेऽरीन्विशिखान्सुञ्चति विग्रहान्विभिन्ते । अनुलिम्पति शोणितैर्धरित्रीं रणरङ्गे रघुपुङ्गवः समिन्द्धे ॥ ५९॥ स्मयमानमुखेन्दुरिन्द्रनीलद्युतिरम्भोजदलेक्षणो धनुष्मान् । तरलीकृतजानकीदृगन्तस्तरुणः कश्चन मे मनो धिनोति ॥ ६०॥ दलदुत्पलदामकोमलाङ्गी दशकण्ठायुरपायकालभङ्गी । मनसे मम रोचतेऽभिरूपा करुणा काचिदुपात्तबाणचापा ॥ ६१॥ मौलौ निधेहि मकुटं त्यज बर्हिबर्हं बाणं गृहाण धनुषा सह मुञ्च वेणुम् । शाखामृगैर्विहर सन्त्यज गोपबालान् रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६२॥ कृष्णैकसूतरथकेतनभूतदूतः सोऽनूरुसारथिरथात्मजमित्रभूतः । वाणीशयन्तृकरथस्य शरासभङ्क्ता कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६३॥ दृप्यद्दशाननकलत्रकठोरगर्भ- विभ्रंशविभ्रमपरिस्फुटसाहसेन । घण्टा विलुण्ठयतु नः कलुषं रवेण कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६४॥ देवद्विषां विजयि देहभृतां शरण्यं कारुण्यभूषितकटाक्षमुदग्रचापम् । टङ्कत्रुटन्मरकतोपलरत्ननीलं धाम स्मरामि धरणीतनयासहायम् ॥ ६५॥ आस्ते कृतान्त इति पापिषु दपडकारी- त्याकर्णितेऽपि मुहुराप्तपरम्परायाः । रक्षिष्यतीति रघुनन्दनमेव साक्षा- द्विश्वस्य केवलमहं न विचिन्तयामि ॥ ६६॥ तिष्ठन्तु दारुणतरा निरयाः सहस्रं तिष्ठन्तु घोरचरिता यमकिङ्करा वा । पापात्मनोऽपि नियतं परिपालनाय कोदपडपाणिरिति कोऽपि ममास्ति नाथः ॥ ६७॥ लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः । दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहं प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६८॥ सौवर्णीमवसक्थिकामधिवसन्पार्श्वस्थपृथ्वीसुता- हस्ताम्भोजयुगक्रमप्रसृतया जातिस्रजा दीर्घया । पाणिभ्यामधिवेष्टयन्कचभरं मौल्येकपार्श्वोचितं देवो मे हृदि भाति दत्तनयनो दृश्ये तदेकस्तने ॥ ६९॥ चापसंहितशरं चरमाङ्गे बद्धतूणमुपनीवि कृपाणम् । वञ्चनाभृगवधाय वनान्ते सञ्चरन्तमिनमन्तरुपासे ॥ ७०॥ कौणपाधिपकदर्थितामरीकाङ्क्षितप्रणयिबाणकार्मुकम् । कञ्चन श्रुतिकरण्डमौक्तिकं कालिमानमवलोकयामहे ॥ ७१॥ जानकीस्तनतटान्तपालिकाजातुकुङ्कुमविभागपिञ्जरः । दृश्यते हृदि दयाधुरन्धरः कोऽपि कोसलकुलीनकुञ्जरः ॥ ७२॥ मामके हृदि महीकुमारिकाकामकेलिकुतुकी नृपात्मजः । आतनोति पदमस्त्रबन्धुरो नूतनोदयपयोदसुन्दरः ॥ ७३॥ चन्द्रशेखरशरासनच्छिदा चातुरीचणकरारविन्दया । स्वीकृतं मम सुरानुकूलया लीलया हृदयमभ्रनीलया ॥ ७४॥ कौणपालिकदलीविषाणिना बाणचापपरिकर्मपाणिना । चण्डिकारमणचापखण्डने पण्डितेन मम मण्डितं मनः ॥ ७५॥ कृत्तकीर्णकुटिलक्षपाचरे कृत्रिमेतरगिरामगोचरे । धावते हि कुलदेवतेति मे चित्तमेवमिदमुत्तमे नृणाम् ॥ ७६॥ कालिकानिभरुचिः कनीयसा कान्तया च सह कल्पितासिका । कार्मुकाशुगलसत्कराम्बुजा काचिदस्ति करुणा गतिर्मम ॥ ७७॥ मामके मनसि धान्यमालिनीभूषणासहभुजोष्मशालिनी । सा चकास्ति शरचापधारिणी भानुमालिकुलभाग्यधोरणी ॥ ७८॥ याति तेजसि मनः सनातने दूतभूषितकिरीटिकेतने । यामिनीचरचमूभयङ्करे जानकीनयनकेलिकिङ्करे ॥ ७९॥ चङ्क्रमानुगतगन्धसिन्धुरा सिन्धुराजकृतसेतुबन्धना । वासना धृतशरासनाशुगा मेचका मनसि मे चकास्ति सा ॥ ८०॥ वानरक्षपितराक्षसव्रजं दीनरक्षणविचक्षणं प्रभुम् । श्रीमदग्र्यशरचापमेति मे जामदग्न्यमदनिग्रहं मनः ॥ ८१॥ कण्ठे कालशरासभञ्जनचपां कल्याणनानागुणं कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् । पाणिद्वन्द्वगृहीतबाणधनुषं पाथोदनीलत्विषं पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८२॥ कुवलयदलनीलश्रीभृतां भूकुमारी- कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् । दशमुखभुजतेजोदर्पतूलानलानां दशरथसुकृतानां दासभावं भजामः । ८३ करधृतशरचापः कान्तिमत्पङ्कजाक्षो निहितशरधिरंसे नीरदस्निग्धनीलः । वनमृगपरिवारो वन्दनीयो मुनीनां मदयति हृदयं मे मैथिलीप्रापानाथः ॥ ८४॥ मघवदुपलनीले मण्डलीकृत्य चापं मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् । रणधरणिरजोभिर्धूसरे वासरेश- प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८५॥ शुभगुणकलकण्ठस्तोममाकन्दशाखा नियमिनिवहचेतोनीलकण्ठाभ्ररेखा । दशवदनवधूटीचक्रवाकीत्रियामा जनयति कुतुकं मे जानकीप्रेमभूमा ॥ ८६॥ कल्याणमावहतु दाशरथेः कटाक्षः शाखामृगे शतमखादपि सानुकम्पः । आभाति भूमितनयाधरबिम्बलोभ- सम्पातसङ्क्रमितलाक्ष इवारुणो यः ॥ ८७॥ तारुण्यदर्पतरलीकृतगोपकन्या- दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् । काकुत्स्थवीर कमलानयनाभिरामं गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८८॥ स कश्चन गिरीन्द्रजासखशरासनव्रश्चनो मनो हरति मामकं मरकतोपलश्यामलः । धनुः शरलसत्करो धरणिकन्यकाप्रेमभूः धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८९॥ धन्या वयं धरणिकन्यकया सनाथे नाथे स्थिते जगति नः परिपालनाय । यः शीलितो यतिभिरात्मनि निष्कलङ्के लङ्केश्वरं लवितुमात्तमनुष्यरूपः ॥ ९०॥ दीनानुकम्पि दिवसेश्वरवंशरत्नं कर्तृव्यपेतवचसा कथमप्युपेयम् । तापिञ्छनीलरुचि तामरसायताक्षं चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९१॥ आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् । पश्यामि हृदयकमले रामं दूर्वादलश्यामम् ॥ ९२॥ मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रनीलमणिनीले । महिमनि महीकुमारीकुचकुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९३॥ जगदघहरप्रशंसे जनकसुतावलयपदविलसदंसे । निगमान्तनलिनहंसे रमते मम हृदयमिनकुलावतंसे ॥ ९४॥ विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् । निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५॥ सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् । कमपि दलितमयकन्यामङ्गलमालिङ्गति मनो मे ॥ ९६॥ गिरिशधनुस्तरुकरिणं दलितभृगुप्रवरगर्वसर्वस्वम् । कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९७॥ कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः । कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९८॥ कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् । करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९९॥ दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे । धूतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ १००॥ निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे । रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १०१॥ दशकन्धरमदसिन्धुरदलनधुरन्धरनिशातशरनखरम् । पटुमवने निगमवनेचरमवनेः कन्यया हरिं कलये ॥ १०२॥ कपिकुलकलितपरिधये करुणानिधये शरास्तवारिधये । वितनोमि दाशरथये विनतिं सीताविहारसारथये ॥ १०३॥ वन्देऽहं दीनदयावासं देहकृतजलदसन्देहम् । तं जनकजाक्षिरञ्जनतारुण्यमपाङ्गसङ्गतारुण्यम् ॥ १०४॥ रक्षोनीकं दलयन्कन्दलयन्योऽभवन्मुदमृषीणाम् । इषुणा सहसा लवनं सालवनं नीतवान्स मे शरणम् ॥ १०५॥ शशधरखण्डमपडनशरासनिरासकला कुशलकराम्बुजेऽम्बुदकदम्बविडम्बचणे । निशिचरसिंहसंहननलाविशिखं विशिखं दधति दधामि धामनि मनो मुनिमोदपदे ॥ १०६॥ धरणिसुताजयोधरधराधरकूटतटी- घुस-णरजोभिशोभितभुजान्तरबन्धुरया कवचितमेकया करणमन्तर्दं तरुणी- कृतशिलया दिनाधिपकुलोदयया दयया ॥ १०७॥ दशरथसूनवे नवसुधायशसे वसुधा- दुहितृविहारगौरवपुषे करुणावपुषे । प्रणतिमुदारनीरनिधिसाध्वसदाय सदा कुवलयदामकोमलतनूरुचये रचये ॥ १०८॥ दशमुखभङ्गसङ्गमितसर्वसुपर्वचतु- र्वदनसविस्तरस्तवनिवर्तितमर्त्यमतौ । हृदयमरातिभीतिकरणेषुधनुःस्मरणे कलिहरनाम्नि धाम्नि रुणानिलये कलये ॥ १०९॥ भुजगकलापचापपरिभञ्जनसञ्जनित- स्तुति भुजविक्रमक्रमगृहीतमहीतनया । मम हृदि वासना स्मरति सङ्गररङ्गरण- द्दशमुखसर्पदर्पभरशिक्षणपक्षिपतिः ॥ ११०॥ अरविन्दजदलसुन्दरनयनं दरहसितं मणिकुण्डलकृतमपडनमुखमण्डलशशिनम् । रघुपुङ्गवमिदमङ्गजमदभङ्गदवपुषं मम चिन्ततु हृदयं ततमपि कृन्ततु दुरितम् ॥ १११॥ निगमावलिसुगमाकृति गतये रिपुहतये विनतामरजनतावृतजनुषे धृतधनुषे । अनयाशरजनयाम्यनगरवेदनगुरवे तनुमो नतिमनुमोदितयतये रपुषतये ॥ ११२॥ दशकन्धरभृशकम्पितसुमनोभयशमनो नदनायककदनाशुगहृदयो मम हृदये । सुजनोचितभजनो घनरुचिराकृतिरचिरा- दुपयाति स कृपयाऽवनिसुतया सह हितया ॥ ११३॥ क्षणदाचरगणदारणचणदारुणविशिखं करुणारसवरुणालयमरुणान्वयतिलकम् । प्रियया घनदयया सविनयया सह मिलितं स्मर मानस चरमायुषि परमापदि सुखितुम् ॥ ११४॥ भज मानस परिपालितभजमानसमुदयं कपिलक्षण विरहासहकपिलक्षणनिकटम् । रघुनन्दनमघभञ्जनरपुनन्दनवनिके कलितापदममरद्विषि कलितापदकथनम् ॥ ११५॥ गुरुत्वराकृतानतीन्मरुत्वदादिदिक्पती- नतीत्य तीव्रमञ्जनासुतादिमाञ्जनानपि । क्रमेण मेऽयते मनस्तमेव मेघमेचकं करस्थचापसायकं ककुत्स्थवंशनायकम् ॥ ११६॥ करारविन्दयोः शरं शरासनं च बिभ्रती बिसप्रस्तसप्रभा भृशं विशालयोर्दृशोः । तनूकृताभ्रविभ्रमा मनूदितान्वयक्रमा दया महीसुतासखी मया मनस्युपास्यते ॥ ११७॥ दशाननं निबर्हितुं भृशानतामरोक्तिभि- र्गृहीतमर्त्यविग्रहा महीतले सकृन्मया । मदीयवंशदेवता यदीयमीड्यते तदा कृतान्ततो न मे भयं नितान्तभीषणादपि ॥ ११८॥ यमार्यमादिपञ्चकक्रियोपभोगिभीतिदं यमार्यमाहुरागमा महात्मनामिहाश्रये । विभावरीचरेश्वरप्रभावदावपावके विभावरीणवैभवे मनो विनोदमेति च ॥ ११९॥ भजामहे वयं सुधाभुजामहेयसेवनं भुजामहेभहस्तसङ्गृहीतबाणकार्मुकम् । उदारसारराक्षसच्छिदारसाकुलं रणे सदारसानुजस्थितिं सदा रघूद्वहं प्रभुम् ॥ १२०॥ सहस्रं सन्त्यन्ये शतमखशशाङ्कप्रभृतयः । परावृत्तं तेभ्यः प्रसजति मनो मे क्वचिदपि । नवाम्भोदश्यामे नलिनदलसोदर्यनयने धनुर्बाणाकल्पे धरणितनयाविभ्रमपदे ॥ १२१॥ शरासं बिभ्राणां शातमखशरासाभमिषुणा सहारातिग्रीवारुधिरमधुसेवारुचिमता । भजामो जीमूतश्रियमवनिजामोहनतनुं दयावश्यापाङ्गां दशरथतपस्यापरिणतिम् ॥ १२२॥ मदक्षीबक्ष्वेलामुखरखरकीलालघुसृण- द्रवैरालिम्पन्तं रणधरणिमेणीदृशमिव । भजे व्योमस्थानां नयनकुतुकस्थानसमरं जनस्थानारण्यायतनमनरण्यान्वयमणिम् ॥ १२३॥ भ जाने प्राचीने जनुषि सुकृतं किं न्वकरवं सतां वंशे चाहं समजनिषि कीदृङ्महिमनि । अधीशो लोकानां मम हृदयमारोहति यतो जगद्वन्द्यः श्रीमाञ्जनकनृपकन्यासहचरः ॥ १२४॥ स्फुरन्नानाकल्पं भुजपटिमजल्पाकपुरभि- द्धनुष्कं किष्किन्धानवनृपतिसन्धानचतुरम् । कमप्यन्तः कुर्वे करतलगृहीतेषुधनुषं तमालश्यामाङ्गं तपनकुलराजन्यतनयम् ॥ १२५॥ गिरिजापतिगीयमाननाम्ने नलिनीनायकवंशभाग्यभूम्ने । प्रपातोऽस्मि पयोदमेचकिम्ने वनमालाधरवक्षसे महिम्ने ॥ १२६॥ दिक्पालस्मयधस्मरक्रमदशग्रीवग्रहव्यग्रदोः - स्तम्भाडम्बरकार्तवीर्यविजयव्याख्यातमुख्यौजसः । जेतारं जमदग्निजन्मन ऋषेर्वीरस्य सारस्वत- स्रोतः स्यूतघनालिमालिखति मे चेतः शरण्यं नरम् ॥ १२७॥ अङ्के निवेशितविदेहकुमारिकाणां लङ्केशदारललितासहसायकानाम् । आसारवाहिकरुणाभृदपाङ्गितानां कासामपि प्रपदनं कलयामि भासाम् ॥ १२८॥ न हि तन्न करोमि यन्निषिद्धं विहितं यद्यपि कर्म नचाचरामि । धरणीदुहितुस्तथापि नाथं शरणीकृत्य कृतार्थतामुपैमि ॥ १२९॥ अयं शक्रादीनां गणमगणयित्वा दिविषदा- मुपेक्ष्य स्वच्छन्दं द्रुहिणमनवेक्ष्य त्रिनयनम् । पदत्रस्यापि श्रीकरमृषिवङूकल्मषहरं नमस्कारोऽस्माकं रधुपतिपदाब्जं मृगयते ॥ १३०॥ प्रत्यग्राम्बुदजालनीलवपुषं पाणिस्फुरत्कार्मुकं पार्श्वद्वन्द्वनिविष्टपत्न्यवरजं राजन्यमेकं प्रभुम् । नेत्रश्रीनिगृहीतनीरजलदच्छायामदं मे मुदा चेतः शीतमयूखशेखरधनुर्द्रोढारमाढौकते ॥ १३१॥ असुपवनभुजङ्गीभूतबाणामरीणां निगमवनकुरङ्गीं नीरदश्यामलाङ्गीम् । मदनतरलसीतामानसाम्भोजभृङ्गीं कलयति हृदयं मे कामपि प्रेमभङ्गीम् ॥ १३२॥ ज्यावल्लि कारणवशाद्रघुवंशकेतोः कर्णान्तमेष्यसि कदापि विकृष्यमाणा । देवे निवेदय तदा मम दौरवस्थ्यं धर्माश्रितासि यदतः किल ते ब्रवीमि ॥ १३३॥ कृत्वा स्थावरतावहानि कतिचित्पापानि पापप्रियो नाभूवं सरयूतटे तृणमपि प्रागेव कस्मादहम् । यत्तत्रत्यचराचरेभ्य इव मे देवः स्मराविष्कृत- स्वर्गस्त्रैणनिसर्गकेलिमधुरान्सान्तानिकान्दापयेत् ॥ १३४॥ हिन्दोलभूषणमकृत्रिमवाक्तरुण्या मन्दोदरीमदनकेलिसमापनास्त्रम् । केलीसखं जनकराजकिशोरिकाया नालीककार्मुकधरं नरमाश्रयामः ॥ १३५॥ चेतः शतक्रतुमुखेषु मखाशनेषु तिष्ठन्तु निष्ठुरपुराणतपोबलेन । उत्कण्ठतेऽद्य दशकण्ठमदद्विपेन्द्र- कण्ठीरवं कमपि वीरमुपासितुं नः ॥ १३६॥ प्राचीनप्रभवशतार्जितैस्तपोभिः प्रोन्मीलत्कुतुकतरङ्गमन्तरङ्गम् । दिष्ट्या मे दिनकरवंशदीपमेकं कोदषडाभरणमुपैति कोसलेन्द्रम् ॥ १३७॥ कारुण्यामृतपरिवाहभागपाङ्गं वैदेहीस्तनघनसारवासिताङ्गम् । नाराचक्षपितनदीश्वरावलेपं ध्यायामः कमपि करात्तवाणचापम् ॥ १३८॥ लङ्केशद्विरदमृगाधिपो गुणानां सङ्केतस्थलमवनीसुतासहायः । निर्वेलप्रसृदतयोऽस्तु मे शरण्यः सर्वेषामपि जगतां स कश्चिदीशः ॥ १३९॥ अशनिपरुषघोषा जीवितं हर्तुकामा यमभटजनपङ्क्तिर्यावदायाति भीमा । मरकतमणिनीले मैथिलीकेलिलोले महिमनि मम तावन्मग्नमस्त्वन्तरङ्गम् ॥ १४०॥ देहावसानसमये दयया रघूणां वीरः कराम्बुजविराजदभीतिमुद्रः । आरुह्य पुष्पकमलङ्कृतवामभागो देव्या विदेहसुतया मम सन्निधत्ताम् ॥ १४१॥ सुरैः प्रथमः स्तुता तदनु योगिभिर्भाविता ततः प्लवगभल्लुकैर्जय जयेति सम्भाविता । जगत्त्रितयनायिका जनकराजकन्यान्विता मदीयकुलदेवता वसति रत्नसिंहासने ॥ १४२॥ आश्चर्यं न किमनवेक्ष्य लोकपालान् उल्लङ्घ्य द्रुहिणमुपेक्ष्य चन्द्रचूडम् । अस्माभिः सविनयमञ्जलिः कृतोऽयं पादाब्जं भजति पयोधिबन्धनस्य ॥ १४३॥ श्रीकण्ठायुधशिथिलीकृतिप्रवीणो निःशेषीकृतभृगुनन्दनावलेपः । स्रोतस्विन्यधिपतिसूचितप्रतापो देवो मे दशमुखशासनः शरण्यः ॥ १४४॥ सुत्रामप्रमुखसुपर्ववन्द्यलीलं भल्लूकप्रवगपरिष्कृताङ्घ्रिमूलम् । वैदेहीवलयपदाङ्कशोभितांसं चेतो मे स्मरति चिरन्तनं पुमांसम् ॥ १४५॥ सङ्क्रन्दनस्यन्दनभूषणानां नाराचधारार्दितरावणानाम् । वेमानिकाश्चर्यरणक्रमाणा- मध्येमि केषामपि विक्रमाणाम् ॥ १४६॥ आम्नायमौलिमणिमब्जभवादिवन्द्यं नाम्ना विभूषितनगेन्द्रसुतामुखेन्दुम् । द्वैधीकृतेशधनुषं पुरुषं तमेकं नाथं विधाय हृदयं मम नानटीति ॥ १४७॥ सुग्रीवाङ्गदजाम्बवद्धनुमतां सूक्ष्मेक्षिकालक्षितं श्रुत्वा मन्त्रमनन्यतन्त्रहृदये श्च्योतद्दयोर्मीमये । दर्पान्धं दशकन्धरं विजहतस्तद्भ्रातुरभ्यागमं सार्थीकुर्वति निर्वृतिं भजति मे स्वान्तं कबन्धान्तके ॥ १४८॥ पारावारतटे धनुःशरपरिष्काराग्रहस्ताम्बुजं नम्रस्याशरनायकानुजनुषो नाथीभवद्याचतः । मेघश्यामलकान्तिमेदुरकृपामेदस्विनेत्राञ्चलं किञ्चिद्वस्तु निवस्तुमस्तु हृदि मे कीशाच्छभल्लावृतम् ॥ १४९॥ उत्सृज्याग्रजमुग्रजल्पितमपि क्रव्यादभव्याधिपं सम्प्राप्तेन विभीषणेन सचिवैः सार्धं स्थितेनाम्बरे । दीनत्राणधुरीण देव करुणा देया मयीत्यर्थितं भक्तास्मो हृदि राघवं परिवृतं भल्लूकशाखामृगैः ॥ १५०॥ सुग्रीवागतमेनमानय दशग्रीवानुजं वा दश- ग्रीवं वा प्लवगेन्द्र किं गणनया दत्तं मयास्याभयम् । इत्यामन्त्र्य विभीषणाय ददतो लङ्काधिपत्यं प्रभो- र्ध्यायामः प्रतिपन्नसन्नतदयादीक्षान्कटाक्षाङ्कुरान् ॥ १५१॥ दर्भास्तरन्यस्तशरीरभारं सिन्धोः प्रसादाय रघुप्रवीरम् । मदव्यपेतं महति प्रतापेऽप्यन्वेति नन्वेष ममान्तरात्मा ॥ १५२॥ दानोत्कर्षक्षममुपदधद्दक्षिणं बाहुदण्डं दीर्घीकुर्वन्नितरमसितज्याकिणाङ्कप्रकोष्ठम् । प्रान्ते कृत्वा धतुरिषुमपि प्रातुमब्धेः प्रसादं देवो दर्भास्तरणशयितश्चित्तभुत्तम्भते नः ॥ १५३॥ भक्तिप्रह्वविभीषणार्पितकरन्यस्तैकहस्ताम्बुजः सुग्रीवेण पुरो निवारितजनः सौमित्रिणानुद्रुतः । सम्भ्राम्यद्भरतोपनीतचरणत्राणार्पिताङ्घ्रिद्वयो दिष्ट्या सम्प्रति मानसं विशति मे राजैष राज्ञामपि ॥ १५४॥ वयश्चतुरमस्थिरं गुणवती वाधूरद्रुवा न सम्पदविनश्वरा न चिरजीविनो बान्धवाः । इति स्वयमवेत्य चिद्घनसदात्भके शाश्वते रमस्व रघुपुङ्गवे हृदय नान्यदालोचय ॥ १५५॥ उत्तुङ्गभूमितनयाकुचशैलश‍ृङ्ग- काश्मीरगैरिकपरागकरम्बिताङ्गः । भग्नक्षपाचरतरुर्भरताग्रजन्मा मत्तद्विपो विहरतान्मनसि ह्रदे मे ॥ १५६॥ रणभुवि कृतलङ्कातङ्कहुङ्कारगर्भ- भ्रुकुटिविकटव कार्भुकारूढपत्रः । निखिलनिजसपक्षक्षेमकामः पुरो मे स भवतु रधुवीरर साध्वसध्वंसहेतोः ॥ १५७॥ रणप्रवणरावणव्रणदबाणमोक्षक्षण- क्वणद्गुणधनुर्ध्वनित्वरितमारितारिव्रजः । जगद्दुरितजर्जरीकरणजागरूकक्रमो मम व्यपनयेद्भयं मनुकुलप्रवीराग्रणीः ॥ १५८॥ स्फुरदभिनवरत्नश्रेणिरज्यत्किरीटे सुरभिलवनमालालङ्कृतोरःकवाटे । सरति खलु मनो मे सर्वलोकैकनाथे पुरभिदभिमताख्ये पुंसि सीतासनाथे ॥ १५९॥ पुष्पपाण्याक्षिपता फलानि हरता पृथ्वीरुहान्भञ्जता व्याघ्रान्द्रावयता द्विपान्प्रहरता कण्ठीरवान्कर्षता । रक्षःसैन्यजिगीषुणा हरिचमूचक्रेण साकं व्रजन् स्वामी चेतसि मे मुदं स कुरुते भूमीसुतावल्लभः ॥ १६०॥ कदनमरिनगर्याः कर्तुमुद्दामभीमैः कपिभिरनिलसूनुस्कन्धमारुह्य यान्तम् । कनकशिखरिश‍ृङ्गारूढकालाम्बुदाभं कमपि मनसि वीरं कुर्महे शर्महेतोः ॥ १६१॥ उग्रे तपस्यपि पयोधिमुपेक्षमाणं बाणत्रुटत्तिमितिमिङ्गिलरक्तशोणम् । कुर्वन् रुषा मनुकुलीनकुमारवीरः कौतूहलं दिशति मे हृदि कौसलेयः ॥ १६२॥ जलधिजनितकोपजायमानभ्रुकुटिविटङ्कभयङ्कराननाय । गगनचरगणः प्रणाममस्मत्कुलपतये कुरुते स्म राघवाय ॥ १६३॥ जलदनीलतनौ जनकात्मजावदनचन्द्रवशीकृतमानसे । शरशरासनचारुकराम्बुजे रघुपतौ रमतां हृदयं मम ॥ १६४॥ दलदुत्पलदामकोमलाङ्गं दयमानं मनुवंशशैलश‍ृङ्गम् । करपद्मगृहीतचापवाणं कलये कञ्चन पूरुषं पुराणम् ॥ १६५॥ पिपासितास्त्रनिष्पीतप्रेयसीमातृमेखलम् । वस्तु विध्वस्तपौलस्त्यं पुरस्तादाविरस्तु नः ॥ १६६॥ स्मरतरलविदेहराजकन्या- कुचतटकुङ्कुमयोगपिञ्जराय । मनुकुलमणये नमोऽस्तु गौरी- रमणशरासनसालकुञ्जराय ॥ १६७॥ द्वितीयो निष्यन्दः । वन्दे तमिन्दीवरदामनीलं वन्दारुमन्दारपदारविन्दम् । रामं सुरामङ्गलकृद्विरामं क्षेमङ्करामन्दशराभिरामम् ॥ १॥ भजामि देवं भरताग्रजं तं पदाम्बुजं यस्य पवित्रकीर्त्तेः । शिरांसि वा शीलयति द्युतीनां मनांसि वा मत्कुलसम्भवानाम् ॥ २॥ ममान्तरुन्मीलति मानवेन्दुर्महीसुताविभ्रमसूत्रकारः । निपातयामास निशाचरेन्द्रं विदन्बुधानां विधिगौरवं यः ॥ ३॥ देवतासु शरणीकरणार्थं धावता सुचिरमेकतमा मे । चेतसा गतिवशेन गृहीता धूतसागरमदा विशिखैर्या ॥ ४॥ कुम्भजादिमुनिकोटिनुतं चेत्तं भजानि तपनान्वयदीपम् । वासरे न चरमे भविता मे कासरेण सह कालनिरीक्षा ॥ ५॥ आमनेम यदि कोमलवर्णं रामनाम भुवने महनीयम् । व्योमसीमनि वसेम सुखाख्ये धाम डामरमियाम न याम्यम् ॥ ६॥ नूतनागमघनाभशरीरे भूतनाथधनुरक्षमसारे । पूतनामनि मनो यदि रामे यातना न भविता यमतो मे ॥ ७॥ पूर्वजन्मकृतपुण्यमहिम्ना पुञ्जितेन मतिरुज्झितनिम्ना । कुत्रचिद्विहरते गुणतुङ्गे कुम्भकर्णकुमुदैकपतङ्गे ॥ ८॥ पापिनोऽयमिह पावयितेति प्रत्ययेन मम चित्तमुपैति । भूयसा हतनिशाचरलोकं भूसुताहृदयतस्करमेकम् ॥ ९॥ अङ्कितं जनकजाकुचभाजा कुङ्कुमेन च कुरङ्गमदेन । तं कठोरशरकारितलङ्कातङ्कमेव मतिरेति युवानम् ॥ १०॥ उत्पलद्युतिमुदञ्चितयोगं विद्युतेव च विदेहकुमार्या । चातको नवमिवाम्बुदमेकं चापभूषितमुपैति ममात्मा ॥ ११॥ अस्तु मे हृदयमप्यणुभात्रं वस्तुमेव वलते कृपयाऽस्मिन् । कोटिभिः परिवृतः प्लवगानां कोऽ पि कोकनदबन्धुकुलीनः ॥ १२॥ निग्रहे युधि निशाटचमूनामुग्रहेतिभिरुदग्रविहारम् । तापसामरशरण्यमुपासे चापसायकधरं रघुवीरम् ॥ १३॥ हस्तेनाम्बुजकोमलेन चरणाम्भोज्जक्वणन्नूपुरं कौसल्याकरपल्लवाङ्गुलिदलान्यालम्व्य मन्दं चरन् । पश्यत्पङ्क्तिरथाक्षिपङ्कजनवादित्यो हरत्येव मे चित्तं कोऽपि चिरन्तनोक्तियुवतेरुत्तंसभूतः शिशुः ॥ १४॥ चेतः शीतलयत्यधिष्ठितवता सौधस्थलीमुन्नता- मानन्दार्द्रितचेतसा दशरथेनालोकिताभ्यागमः । श्यामाङ्गः शरदिन्दुबिम्बवदवः स्मेरारविन्देक्षणः कोऽपि स्वर्णकुथाभिरामकलभस्कन्धाधिरूढः शिशुः ॥ १५॥ मणिसरधरं कण्ठे मध्ये हिरण्मयकिङ्किणी- नहनसुभगं नालीकाक्षं नवाम्बुदमेचकम् । दशरथनृपस्त्रीणामङ्केषु सङ्क्रमितं क्रमा- द्विचिनुत जनास्त्रय्यन्तार्थं विडम्बितशैशवम् ॥ १६॥ गुरूपरिचरणेनालं कुवलयनीलं गृहीतशिशुलीलम् । द्रक्ष्यथ दशरथनृपतेः शुद्धान्तेष्वागमान्तसिद्धान्तम् ॥ १७॥ प्रतिकलमजसूनुसुन्दरीभिः पृथगुपलालितमङ्कमण्डलेषु । विकचकुवलयद्युतिं विनोदादुपनिषदर्थमुदीक्षितुं यतध्वम् ॥ १८॥ हत्वा चण्डपराक्रमं दशमुखं क्षिप्रं रणप्राङ्गणे वामं न्यस्य करं शरासशिखरे सव्ये शरं बिभ्रतः । बन्धस्रंसिजटाभरस्य निटिलव्याकीर्णघर्माम्भसो देवस्यावतु नस्त्रिभङ्गिललिता धीरोद्धता च स्थितिः ॥ १९॥ केनापि कीशभटकोटिनिषेवितेन मन्दोदरीमधुमदासहमार्गणेन । जीमूतमेचकरुचा जलजेक्षणेन वीरेण तुष्टमपि हृष्टमिदं मनो मे ॥ २०॥ धाराधीश्वरवंशमण्डयितरि क्रोधोत्पतत्ताडका- हन्तर्यध्वररक्षितर्यृषिवधूशापव्यपाकर्तरि । चन्द्रापीडशरासभेत्तरि महीकन्यासमुद्वोढरि क्रुध्यद्भार्गवदर्पभङ्क्तरि मनः कुर्यां नृवर्यात्मजे ॥ २१॥ नवकुवलयश्यामे वामेन बिभ्रति पाणिना धनुषमितरेणाजावाजानसिद्धजयं शरम् । विहर हृदयेदानीमानीलजूटजटाधरे विबुधमकुटीहीरे वीरे विराधविरोधिनि ॥ २२॥ कमपि च पुरुषं कृपाविधेयं गुहजननीगुणनीयनामधेयम् । शरविदलितशाम्बरीकुरङ्गं शरणमुपैति मदीयमन्तरङ्गम् ॥ २३॥ सान्द्रं पुष्यति चम्पकः कुरबको धत्ते नवान्कोरकान् माकन्दः स्तबकान्व्यनक्ति बकुलः पुष्पाणि पुष्णाति च । झङ्कुर्वन्ति मधुव्रता विदधते चारुस्वनं कोकिलाः पश्येति क्षितिकन्यकामनुनयन्दीव्यत्यटव्यां प्रभुः ॥ २४॥ स्वेनालङ्कृतपद्मबान्धवकुलां मेनातनूजापते- र्भङ्क्त्वा चापमवापितां वसुमतीकन्याकराब्जग्रहम् । कामप्यन्वहमाश्रयेम करुणां कादम्बिनीमेचकां काकक्रोष्टुकदम्बसात्कृतखरक्रव्यामटव्यां पुरा ॥ २५॥ कल्याणी मतिरद्य काङ्क्षितपरित्राणा रघूणां प्रभुं सौवर्णत्सरुरच्यमानचलरुच्याक्षेपिकौक्षेयकम् । मायूरच्छदमेचकच्छविमिलत्पुङ्खस्फुरन्मार्गणं कञ्चित्काञ्चनपट्टलाञ्छनबृहत्कोदण्डमाहिण्डते ॥ २६॥ वालास्फालितवारणैः करतलव्याकर्णिकपतीरवैः पादाघातचटच्चटायितपतत्प्रोत्तुङ्गपृथ्यीरुहैः । गर्जद्भिः कपियूथपैः सह दशग्रीवं विजेतुं व्रजन् इन्द्रे चेतसि मे समीरतनयस्कन्धेऽधिरूढो विभुः ॥ २७॥ अंसे निषङ्गमवसज्य करारविन्दे चापं शरं च जनकात्मजया वहन्त्या । साकं प्रसूतहरणाय वने चरन्तं साकेतनाथमनुयाति मनो मदीयम् ॥ २८॥ पुण्ये पञ्चवटीनदीपरिसरे पुष्पावचाये कृते प्रस्विन्नाननपङ्कजः प्रसृमरश्वासालसालोकनः । श्रीखण्डद्रुममूलवर्तिनि शिलापट्टे समन्दानिले विश्राम्यन्सह सीतया मनसि मे विश्राम्यतीव प्रभुः ॥ २९॥ सेवन्तामितरे शशाङ्कशकलोत्तेसं पुमांसं तथा वेणूदञ्चितनादवञ्चितलसद्गोपीजनं वा जनाः । सेव्यः कश्चन निश्चितो मम जनस्थानाटवीसङ्कट- क्रव्याद्योधसहस्रसप्तकयुगच्छेदक्रियासाहसी ॥ ३०॥ चक्रीकृत्य शरासनं धलधलाकुर्वत्सुवर्णाञ्चलं मुञ्चन्दिक्षु विदिक्षु काञ्चनभृतः पुङ्खानुपुङ्खान् शरान् । स्वामी नः खरसेनया निखिलया साकं समीकक्षितौ कृत्तक्षिप्तभुजाशिरश्चरणया क्रूरं परिक्रीडते ॥ ३१॥ यस्याः सन्ति कराः सहस्रमपि वा यस्याः सहस्रं दृशः कृत्त्वा देवतयोर्द्वयोरपि तयोः स्वस्थौ सुतौ विश्रुते । वीरे विश्रवसश्चतुर्ष्वपि सुतेष्वाद्यन्तशेषीक्रिया- विद्याचुञ्चुशिलीमुखे विहरते वीतक्लमं मे मनः ॥ ३२॥ आक्रान्तं हृदयं दयापरवशस्वान्तेन दान्ते जने चापज्यापटुघोषभीषितनमल्कल्लोलिनीकामिना । क्रव्यादेषु कृतान्तकेलिकलनाचातुर्यधुर्येषुणा केनापि प्लवमानसैनिकपरीवारेण वीरेण मे ॥ ३३॥ प्रच्छायद्रुम ऋश्यमूकशिखरे पार्श्वस्थितेनैकशः सुग्रीवेण निवेद्यमानजननस्थानप्रभावाह्वयान् । पश्यन्वानरयूथपानुपगतान्पाथोदनीलाकृति- र्वीरः सावरजः स भाति हृदि मे विश्वत्रयाधीश्वरः ॥ ३४॥ कृपारसपयोधिना खरवरूथिनीयोधिना महामहिमशालिना मुनिहदब्जकोशालिना । मनो मम कृपाणिना शरशरासमृत्पाणिना जटामकुटधारिणा तरलितं विराधारिणा ॥ ३५॥ कन्दर्पकोटिशतसुन्दररूपधेयं कञ्चित्प्रभुं भुवनमङ्गलनामधेयम् । नन्वस्थिरेऽपि हृदये नतिकृद्विधेयं कुर्मः कुशेशयसुहृत्कुलभागधेयम् ॥ ३६॥ मौलिविराजन्मणिमयमकुटीमङ्क्षुनिपातनहृतरिपुगर्वः सर्वसुपर्वस्तुतिपदसमरप्राङ्गणचङ्क्वणदिषुगणलीलः । भल्लुकमल्लप्लवगवरचमूपाणिपदाहतिविरचितलङ्का- गोपुरभङ्गः कुतुकयति मनः कोऽपि कुशेशयदयितकुलीनः ॥ ३७॥ वार्षिकपाथोवहरुचिवपुषा वारितवारिधिबहलमदेन प्रातरुदञ्चत्प्रभकमलदलप्रस्तुतविस्तृतनयनतुलेन । निटिलजटालीनिबिडितशिरसा निस्तुलकार्मुकविशिखधरेण क्रीतमिवान्तःकरणमिदमहो केनचिदाननसुलभकृपेण ॥ ३८॥ सुन्दराकृति यत्कबन्धवसुन्धरारुहखण्डने गन्धसिन्धुरदूमिबन्धुरसिन्धुबन्धधुरन्धरम् । यस्तु निस्तुलमस्तु तद्धृदि शस्त्रशस्तपुलस्त्यभू- हस्तमस्तकमास्तिकस्तुतिविस्तरार्हयशस्ततम् ॥ ३९॥ कृत्तराजसमत्तरावणमुत्तराधरयोः समं दत्तमङ्गलमुत्तमं नृषु चित्तमञ्चति मामकम् । तं कुतूहलि सङ्कुचल्लिकुचस्मयक्षितिजाकुच- द्वन्द्वसङ्गमलग्नकुङ्कुमपिञ्जरं रघुकुञ्जरम् ॥ ४०॥ कल्पकद्रुमदर्पहृत्पदपङ्कजप्रचलद्रजः स्पर्शदर्शितगौतमाप्रियमेतमप्रतिमं नरम् । तुङ्गसङ्गररङ्गसङ्गमितप्लवङ्गमपुङ्गव- प्रेरितद्रुमदारितक्षणदाचरं गतिमाचरम् ॥ ४१॥ ऊर्मिलध्वनिकार्मुकच्छलवार्मुगुज्झितमार्गणा- सारदुर्बलवीरकर्बुरवारनिर्भरकौतुकैः । गृध्रमोदिनि युद्धसीमनि सिद्धचारणकिन्नरैः श्लाघितो हृदि मोघितैनसि राघवो मम भासते ॥ ४२॥ तापसामरगोपसाहसिचापसायकलाञ्छनः चारुगोस्तनजानकीस्तनकौतुकी स्तनयित्नुभाः । क्रुध्यदापतदुद्यतायुधविध्यदन्तककिङ्करे कश्चिदेव हि निश्चितो मम पश्चिमेऽहनि रक्षिता ॥ ४३॥ दिष्ट्या सम्प्रति मे मनः स्पृहयते दुष्टाशरानीकिनी- कष्टापादनतुष्टिकृत्कपिचमूश्रीकामिने स्वामिने । दूरादस्तसुरार्तये दशमुखध्वंसोन्मिषत्कीर्तये तत्कालस्थितलोकलोचनसुधावर्तीभववन्मूर्तये ॥ ४४॥ कलमकणिशपुञ्जपिञ्जराङ्ग- प्लवगकदम्बकरन्धितोपकण्ठम् । उदयदरुणचन्द्रबिम्बचिह्व- प्रभमुपसर्पति मानसं प्रभुं नः ॥ ४५॥ शरहतदशकधरं धरित्रीदुहितृपयोधरपत्रलेखधुर्यम् । कमपि नृपकुमारमेकवीरं भजति मनो मम भानुवंशरत्नम् ॥ ४६॥ विकचकमलपत्रमित्रनेत्रं विकटजटापटलीभृदुत्तमाङ्गम् । कपिकुलकलिताब्धिसेतुबन्धं कमपि कबन्धभुजाभिदं भजामः ॥ ४७॥ आकाशमध्यगतनाकालयप्रकरशोकापनोदनजय- श्रीकामवानरसमीकावपातितमहाकायराक्षसकुलम् । राकामृगाङ्कमधुराकारवक्त्रमगनीकाशकार्मुकधरं काकापराधसहमाकारयामि हृदि लोकाधिपं रघुपतिम् ॥ ४८॥ वन्दारुहृष्यदरविन्दासनप्रभृतिवृन्दारकव्रजशिरः - सन्दानिताभिनवमन्दारदाममकरन्दाभिषिक्तचरणम् । तं दाशरथ्यभिहितं दानवारिमृषिवृदाय मोक्षपदवी- सन्दायिनं भजति मन्दापि गे मतिरियं दाशकीशसुलभम् ॥ ४९॥ सुत्रामपावकपवित्रादिदेवजनवित्रासनक्षमभुजा- मित्रातिघोरदशवक्त्रावखण्डनजचित्रावदातयशसि । सत्रा शरेण धनुरत्त्रासुपञ्चकममित्रावलेर्दधति मे कुत्रापि- धामनि पवित्राभिधेऽनुषजति त्राणलिन्तु हृदयम् ॥ ५०॥ तीराचलोदरविसारानुनादितगुणारावभैरवधनुः दूरापविद्धशरधारानिपातहृतनीराकरस्मयभरम् । आराधनीयमखिलैरादियोगिभिरुदारानुकम्पमधुना धीरादरेण मम वीराग्रगण्यमयते राघवान्वयमणिम् ॥ ५१॥ भूतावसादिति रणे तादृशि च्युततनौ ताडिते दशमुखे गीतापदानमुपयाता सुरैः सह विनीताशयेन विधिना । सीताविहारसखमातातमाविधि च मे तावदन्वयभुवां नेतारमेव भजते तापमुज्झितुमुदीतादरं मन इदम् ॥ ५२॥ पश्यन्तः शबरार्भकाः शुकगणभ्रान्त्या जिघृक्षन्ति यां सारङ्गाश्च नवोन्मिषत्तृणधिया संरुन्धते चर्वितुम् । दूरादेव पलायते फणिकुलं बर्हभ्रमाद्भर्हिणां सैषा पश्चवटीजुषो रघुपतेः शोभा पुरो भाति मे ॥ ५३॥ अस्तामीलनमक्षिनीलनलिनव्यूहेन देहेऽर्चितेः शङ्काऽऽतङ्कविवर्जितेन शबरस्त्रीणां मृगीणामिव । वीरश्चेतसि विश्लथीकृतखरोच्छ्रायो महायोगिनां वन्द्यः पश्चवटीवनान्तरकुटीवासी ममासीदति ॥ ५४॥ पाण्योः कार्मुकमाशुगं च शिरसि श्यामं जटामण्डलं कट्या चीरमुदारमंसफलके तूणीरमाबिभ्रतम् । शाणोल्लीढहरिन्मणिस्मयहरच्छायं कृपायन्त्रितं भूमानं कमपि स्मरन्मरकतश्यामायते मे मनः ॥ ५५॥ अधिरोहतीव हृदयं ममाधुना युधि रोषपातितविभीषणाग्रजः । स्मरचारुतामदहरस्तनुश्रिया शरचापलाञ्छितकराम्बुजः प्रभुः ॥ ५६॥ अवसानहीनभवसागरान्तरे पतितः परेतपतितस्त्रसन्नहम् । शरणीकरोमि धरणीकुमारिकादयितं दयावलयितं दृगञ्चले ॥ ५७॥ किमनेन मेऽन्यनमनेन लभ्यते लघुना यदस्मि रघुनायकं भजन् । कुरुते जनः किमुरुतेजसाऽऽर्जिते कनकाञ्चले क्वचन काचमार्गणम् ॥ ५८॥ मनुराजवंशजनुराजवङ्गवच्छिदुरोऽसदाननदुरासदाभिधः । महता शरेण स हताशरेश्वरः कृपयातिमात्रमुपयाति मानसम् ॥ ५९॥ एकवारमपि नाकवासिषु विवेकवानधिकमेकको धावता न घटतेऽवतारयितुमेव तादृशि कृपां मयि । एहि मान्यगुण पाहि मामिति ततोऽहिमांशुकुलशेखरं चेतसाऽवृणि निशातसायकविघूतसागरमदं प्रभुम् ॥ ६०॥ भैरवाहवविहारवानरचमूरवाकलितराक्षस- त्रासना गिरिसुतासनाथपुरशासनादृतनिजाभिधा । घोरदानवशरीरदारणविशारदाशुगधनुर्धरा भावना परिजनावनानुगुणसेवना मनसि भाति मे ॥ ६१॥ न क्षिणोति खलशिक्षणोऽतिममदक्षिणोदधिमवज्ञया जोषमास्थितमशेषमान्यगतिरेष मार्गणगणः कथम् । इत्यमुं मथितुमत्यमुञ्चदिह नित्यमुञ्छितरिपूनिषून् यस्तमालिखति नस्तमालरुचिमस्तमायिकमृगं मनः ॥ ६२॥ गीर्वाणैरिव कविभिः कृताभिमुख्ये नित्यं च क्षितिसुतया निबद्धसख्ये । मच्चेतः सरति मनुप्रसूतिमुख्ये मैनाकस्वसृमहनीयमङ्गलाख्ये ॥ ६३॥ किं ब्रूमहे तत इतोऽपि गवेषणाया- मालम्बनं क्वचिदपि त्रिज्गत्यलब्ध्वा । हन्त द्रुतं पतति मामकमन्तरङ्गं काकुत्स्थनामनि गभीरकृपाम्बुराशौ ॥ ६४॥ कादम्बिनीनिभरुचा कमलेक्षणेन कात्यायनीकमनकार्मुकभञ्जनेन । केनापि कीलितपयोनिधिना गृहीतं चित्तं तथापि मम चिन्तयते न किञ्चित् ॥ ६५। नक्तञ्चरेन्द्रजयनन्दितविष्टपेन नालीकिनीरमणवंशनवाङ्कुरेण । नाथेन बद्धमपिनद्धनदीश्वरेण नन्वद्य मानसमिदं मम नानटीति ॥ ६६॥ दशग्रीवोदग्रस्मयदलनकेलीचणशरः शरीरश्रीनिर्वापितहरितदूर्वारुचिमदः । स कश्चिन्निश्चिन्तः प्रविशति कठोरेऽपि हृदि मे दृषद्रूक्षारण्यभ्रमणकृतशिक्षाबल इव ॥ ६७॥ भ्रान्त्वा दिक्षु विदिक्षु दुर्लभसुखोपायं मदीयं मनो दिष्ट्या धावति देवताः परिहरद्दीनानुकम्पोज्झिताः । प्राप्ते साप्तपदीनतां करुणया दाशेन कोशेन वा नन्दिग्रामकृताधिपत्यचरणत्राणे पुराणे नरे ॥ ६८॥ उत्प्लुत्य व्रजतां स्फुटभ्रुकुटिकं हुङ्कारमातन्वतां वालाग्राणि विधून्वतां किलिकिलाकोलाहलं कुर्वताम् । योधानामरविन्दकेसररुचां मध्ये तमध्येति मे चेतश्चापशिलीमुखोज्ज्वलकराम्भोजं रघूणां प्रभुम् ॥ ६९॥ प्रायेण चेतसि मम प्रणयेन वस्तु- मस्मत्प्रभुः समुपसर्पति पुष्पकेण । चण्डोन्मिषत्किलिकिलाश्चलदीर्घपुच्छा यच्छादयन्ति गगनं गणशः प्लवङ्गाः ॥ ७०॥ कोऽयं विकर्षति मनो मम कुञ्जरेन्द्रो नालीकनालमिव नन्वयमेव जाने । रक्षोधिराजरमणीहृदयार्पिताग्नि- रक्षौहिणीशतपतिः कपिभल्लुकानाम् ॥ ७१॥ भल्लूकप्रकरेण जङ्गममषीपाषाणखण्डत्विषा गोलाङ्गूलकदम्बकेन वदने नीलाञ्चितश्मश्रुणा । पक्वोदुम्बरपाटलेन च कपिव्यूहेन नीरन्ध्रया वाहिन्या सह वर्तते हृदि स मे स्तोकेऽपि लोकेश्वरः ॥ ७२॥ स्वच्छन्दं कपिभिर्विहृत्य सुतरामाश्लिष्य दिव्यान्मुनी- न्दिक्पालेष्ववतीर्य मन्दमितरान्देवानतीत्याञ्जसा । दीनं दूरत एव साध्वसवशात्तिष्ठन्तमेतीव मां देवस्य क्षणदाचरेन्द्रजयिनो दृष्टिर्दमाशीतला ॥ ७३॥ वेदान्तविभ्रमवने विहितप्रचारः काकुत्स्थवंशमवतीर्य कदापि खेलन् । वाल्मीकिवाङ्निकरवागुरया गृहीतो हृत्पञ्चरं व्रजति कश्चिदयं शुको मे ॥ ७४॥ दशकण्ठकलत्रकण्ठरिक्तीकृतिधौरेयशरे क्वचिन्नरेन्द्रे । कलहंस इव स्फुटेऽरविन्दे कलयत्येष कुतूहलं ममात्मा ॥ ७५॥ विषयेषु विहारि निर्विशङ्कं हृदयं मे हृतवानलीव कीटम् । विभुरेष विदेहराजकन्या- कुचकुम्भच्युतकुङ्कुमारुणाङ्गः ॥ ७६॥ अयि मन्मथ कोप लोभमोहौ मद मात्सर्य वृथायमुद्यमो वः । शरणङ्कुरुते यतो मनो मे शरकृत्ताशरनायकं प्रभुं तम् ॥ ७७॥ पश्यङ्घ्रितापमचिरोज्झितपञ्चबाण- विद्यापुनर्गणनदायिपदारविन्दे । देवे मनश्चरति चन्द्रकलापचाप- द्वैतोपदेशविधिदेशिकबाहुदण्डे ॥ ७८॥ देवतान्तरमपास्य जन्मितादावतान्तजनभुक्तिदायिनम् । जानकीशमवलम्बते दयास्थानकीशनिवहं मनो मम ॥ ७९॥ वारिधिस्मयनिरोधिसायके वासराधिपतिवंशनायके । भक्तलोकभरणक्षमाशये भद्रकाङ्कि हृदयं निवेशये ॥ ८०॥ तिष्ठन्साकमनेकवानरभटैस्तीरेऽम्बुधेरुत्तरे देवश्चेतसि भाति मे कुटिलितभ्रूवल्लिदत्तेक्षणः । आगच्छत्यपगच्छति व्यतिषजत्युज्जृम्भमाणे पत- त्याविध्यत्यभिगर्जति प्रतिमुहुः कल्लोलजाले पुरः ॥ ८१॥ उत्सर्पज्जलसर्पजालकमुपागच्छद्दुलीकच्छपं वल्गत्कर्कटशङ्खसङ्घमुदयत्कुम्भीरडिम्भोत्करम् । उद्धूताण्डजषण्डमुच्चनिनदप्रारम्भमम्भोनिधिं लक्षीकुर्वति वर्वृतीति मम धीरक्षीणसारे प्रभौ ॥ ८२॥ गङ्गादिमेन तटिनीगृहिणीशतेन साकं कृताञ्जलिपुटं शरणं वृणानम् । वैदूर्यवर्णतनुमर्णवमन्वगृह्णा- द्दीनैकबन्धुरहिमद्युतिवंशदीपः ॥ ८३॥ द्रागुन्मूलितनीतशैलशिखरप्रक्षेपशीर्णध्वन- त्कल्लोलोत्पतदम्बुशीकरकुलक्लिन्नैः प्लवङ्गव्रजैः । नीरन्ध्रीकृततीरसैकततले नीराकरे कौतुक- न्यस्ताक्षो हृदि भाति मे धृतधनुर्बाणो रघूणां प्रभुः ॥ ८४॥ खेयाम्भांसि मुखैः पिबाम चरणैर्मथ्नाम सालं गृहा- न्प्लोषाम ज्वलनेन विभ्रमवनान्युत्पाटयामौजसा । रक्षांसि प्रहराम पाणिभिरिति व्याहारिभिर्वानरै- र्लङ्कां रोधयति स्म राथवकुलालङ्कारभूतः प्रभुः ॥ ८५॥ मा चेतस्त्वरितं गमः परिसरे देवस्य यद्दूरत- स्तौ सुग्रीवविभीषणावपि समं सौमित्रिणा तिष्ठतः । हस्ताग्रापिहिताननं हनुमता कर्णे गिरं जल्पता द्वन्द्वं मन्त्रयते प्लवङ्गमचमूमध्यस्थितोऽयं प्रभु-॥ ८६॥ पामरसार्थदुरापं तामरसार्थनपदाक्षिसौलभ्यम् । मानसमुद्धतमयते दीनसमुद्धरणदक्षिणं रामम् ॥ ८७॥ पातकराजिहराख्यं शीतकराजिक्षमाननं देवम् । कुञ्जरयानमुपासे पिञ्जरयानद्धकार्मुकं मौर्व्या ॥ ८८॥ सुग्रीवेण यवाग्रशोभिकणिशश्रेणीपिशाङ्गश्रिया कालोन्मीलितकर्णिकारकलिकागौरेण सौमित्रिणा । साकं वानरसैनिकेषु निवसन्सान्द्रानुबद्धातसी- सच्छायः कुतुकं करोति हृदि मे साकेतपृथ्वीपतिः ॥ ८९॥ सन्नह्यद्भटकोटिकौणपपुरीसन्दर्शने कौतुका- दारूढेन सुवेलशैलशिखरं श्यामाम्बुवाहश्रिया । चापं वासवचापचारु दधता शाखामृगानीकिनी- सम्बाधान्तिकभूमिना हृतमिव स्वान्तं मम स्वामिना ॥ ९०॥ आरूढभ्रुकुटीविटङ्कनिटिलामारक्तनेत्राम्बुजां गाढोन्नद्धजटाभरां कपिचमूकल्याणदानोन्मुखीम् । बाणानुत्सृजतीं रणे निशिचरप्राणापहारक्षमां लीलां कामपि चिन्तयामि मनसा नीलाम्बुदश्यामलाम् ॥ ९१॥ प्रसर्पदनुपप्लवप्लवगसैनिकप्रेक्षण- क्षणप्रहृतनैरृतद्रुतगृहीतधूतायुधे । रणे पटुरणद्गुणप्रहितबाणबाणासन- प्रसन्नकरपुष्करे रघुवरे विरूढं मनः ॥ ९२॥ बाणच्छिन्नविकीर्णरावणशिरः श्रेणीभुरीणीकृते घोरे सङ्गरचत्वरे क्रतुभुजां यः प्रीतये तत्त्वरे । तस्यातस्यसितश्रियः श्रितजनश्रेयस्कृतो धन्विनः स्मारं स्मारमये क्षिपेम समये दुर्वारसर्वापदः ॥ ९३॥ नाराचेन समं निशाचरचमूवाराशिकुम्भीभुवा प्रावृण्मेघमुहूर्तलाञ्छनधनुऽ पुण्यं दधानो धनुः । लङ्कातङ्कनिदानवानरभटव्रातानपेतान्तिको वीरः कोऽपि विकर्षतीव हृदयं विष्वक्प्रचारप्रियम् ॥ ९४॥ सालग्राम इवार्कमण्डल इव क्षीराम्बुराशाविव श्रीवैकुण्ठ इवागमाञ्चल इव प्राचेतसोक्ताविव । निर्व्याजेन कृपाभरेण नितरां निर्धूय मोहांहसी काङ्क्षत्येष ककुत्स्थवंशतिलकः कर्तुं पदं मे हृदि ॥ ९५॥ निहतवति कबन्धं नीरधौ सेतुबन्धं विहितवति विचित्रं वीक्षकाणां पवित्रम् । जगदुपकृतिनिष्ठे ज्याकिणाङ्कप्रकोष्ठे मम हृदयमुदारे मज्जति क्वापि वीरे ॥ ९९॥ शरस्फुरदुषर्बुधक्वथितजृम्भदम्भोवह- द्बृहत्तरतरङ्गसङ्कुलितकूलशैलोदरे । उदन्वति वितन्वति स्तुतिमवक्रिमप्रक्रमः क्रमेत हृदि मे तरण्यभिजनप्रदीपः प्रभुः ॥ ९७॥ जगत्त्रयपवित्रया जनितचित्रचारित्रया महीभवकलत्रया महितभानुमत्पुत्रया । दयारुचिरशीलया दमितताडकाबालया कयापि घननीलया कवचितं मनो लीलया ॥ ९८॥ निरर्गलधनुर्गुणप्रहितनिर्गलन्मार्गण- प्रपञ्चहतवञ्चनासमरचुञ्चुनक्तञ्चरम् । चिरत्नमुनिरत्ननत्युचितयत्नमात्मा मम स्मरत्ययमनत्ययं प्रभुमदित्यपत्यान्वयम् ॥ ९९॥ बिभ्रत्प्रत्यवपन्नसर्वभुवनश्वःश्रेयसश्रीपुनः प्रत्युत्थापनविभ्रमैकरसिकौ पापयोर्धनुःसायकौ । स्थान्यादेशपदाधिरोपितदशग्रीवेदमेकान्तर- भ्रातृव्यञ्जितशक्तिरस्तु हृदि मे वीराग्रणी राघवः ॥ १००॥ समीकभुवि चण्डया सरणधूतवेतण्डया भुजाविजितशुण्डया भुजगभीमकोदण्डया । प्रतिद्विषमकुण्ठया प्रथमवासवैकुण्ठया प्रविद्धदशकण्ठया प्रसृतमन्तरुत्कण्ठया ॥ १०१॥ प्रभूतगुणभूषणा प्रबलरक्षसां भीषणा प्रमोदितविभीषणा प्रदरजाब्धिसंशोषणा । मखाशिषु कृतावना महदमुक्तसंसेवना महीदुहितृसेवना मनसि भाति मे भावना ॥ १०२॥ दयारसधुरीणया दमिषु दत्तकल्याणया दरीसदृशतूणया दलितरावणप्राणया । मलीमसविदूरया मनुकुलोदिताकारया मनः सुकृतधारया मम हृतं महोदारया ॥ १०३॥ कृच्छ्रादन्तःसुरपरिषदः प्राप्य मार्गं प्रविश्य ब्रह्मर्षीणां गणमथ चलत्कीशसम्बाधखिन्नम् । राजन्ये मे लगति हृदयं कापि पृथ्वीकुमारी- पीनोत्तुङ्गस्तनमकरिकालेखविद्याधुरीणे ॥ १०४॥ निःशब्दस्तिमितप्लवङ्गमभटश्रेण्यन्तरालस्थली- विक्रान्ताङ्गदहूतदर्शितविभुक्तैकैकदिक्पालकाम् । आस्थानीमवलोकितस्मितशिरः कम्पादिसंवाहनां सन्तुष्यत्सकलामरां रघुपतेरन्तश्चिरं चिन्तये ॥ १०५॥ इति श्रीरामभद्रदीक्षितकृतं रामकर्णरसायनं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran@gmail.com
% Text title            : rAmakarNarasAyanam
% File name             : rAmakarNarasAyanam.itx
% itxtitle              : rAmakarNarasAyanam (rAmabhadradIkShitakRitam)
% engtitle              : rAmakarNarasAyanam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Author                : rAmabhadradIkShita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : Vishnustutimanjari volume 2 print pages 311-399 niShyandaH 1-2
% Indexextra            : (Scanned)
% Latest update         : May 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org