श्रीराममङ्गलाशासनम् २
श्रीमन्मार्ताण्डवंशे दशरथनृपतेरात्मजत्वं प्रपन्नः
साकं शेषारिसङ्गैर्निशिचरनिवहं संहरिष्यन् सुरार्थे ।
गुर्वादेशेन हत्वा पथि रजनिचरीं प्राप्य सिद्धाश्रमं यः
चक्रे यज्ञस्य रक्षां स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ १॥
राज्यं गच्छन् मुनीनामथ पथि विगलच्छापशल्यामहल्यां
कृत्वा भङ्क्त्वा भवानीरमणभुजसरोजालयं चापदण्डम् ।
पाणौ कृत्वावनेयीं भृगुसुतविजयी भ्रातृभिः प्राप्तदारैः
योऽवात्सीदात्मपुर्यां स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ २॥
मातुर्वाचा सुमित्रातनयजनकजामात्रमित्रप्रविष्टः
कान्तारं शान्तचेताः कलशभवमुनेराश्रमं प्राप्य भूयः ।
प्रीत्यै तस्य प्रतिज्ञां निशिचरकुलनिर्मूलनायात्तरोषः
चक्रे यो विश्ववीरः स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ३॥
यस्या भ्राता दशास्यो निशिचरतरुणीं कामुकीं कारयित्वा
भ्रात्रा तां कृत्तनासां झटिति खरमुखं राक्षसौघं च हत्वा ।
मायाशक्त्यैव रक्षोमुषितजनकजः क्लृप्तसुग्रीवसख्यः
यो जघ्ने वानरेन्द्रं स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ४॥
नष्टां कान्तां विचेतुं दिशि दिशि चलिते वानराणां निकाये
श्रुत्वा कान्ताप्रवृत्तिं पवनसुतगिरा प्राप्तपाथोधितीरः ।
आग्नेयास्त्रानुभावक्षपितमदभरं दीनदीनं नदीनं
तेने यो मानशाली स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ५॥
मध्येपाथोधि बद्धां झटिति गिरिशतैः सेतुमाढैक्य लङ्कां
हत्वा सभ्रातृमित्रं रणशिरसि रुषा रावणं दारचोरम् ।
कान्तां स्वीकृत्य शुद्धां ज्वलनपतनतः प्राप्य रम्यामयोध्यां
योऽवात्सीदात्तमोदः स दिशतु भगवान् मङ्गलं रामचन्द्रः ॥ ६॥
यो नित्यं रामचन्द्रस्तुतिमिति जपति ध्वस्तसर्वारिसङ्घो
भुक्त्वा भोगानभीष्टानभिनवयशसा पूरयित्वा त्रिलोकीम् ।
अन्ते सञ्चिन्त्य कान्ताधनतनयगृहाद्येषु रूढं ममत्वं
साक्षादालीयतेऽसौ भगवति भवसिन्धुप्लवे चक्रपाणौ ॥ ७॥
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ ८॥
इति श्रीराममङ्गलाशासनं सम्पूर्णम् ।
Proofread by Aruna Narayanan