रामनाममहिमा
(गीतिवृत्तं)
राम! । तव नाम हित्वा मन्त्रानन्याञ्जपञ्जनो मन्दः ।
त्यक्त्वा चिन्तारत्नं गृह्णन्नितरान्मणीन्कथं सुज्ञः ॥ १॥
तव नाम्नैव कविमुखं भाति न चान्येन शग्दशास्त्रेण ।
अशिवमसिन्दूरतिलकमपि रत्नभृदेव सुभ्रुवो वदनम् ॥ २॥
यो नाम वज्रकवचं तव चन्द्रकलावतंसनुत! । धत्ते ।
रघुनाय! जगति सकले स कलेरतिदुःसहः पुमानेकः ॥ ३॥
अपि यस्मै कस्मैचिज्जपते दीयन्त एव नाम्ना याः ।
दातुमलं ताः सिद्धीरधिकारापेक्षिणो हि नामाम्नायाः(१) ॥ ४॥
मज्जयति श्रितमितरा जनमजकुलतिलक! । का न नौकाऽस्तां ।
तर्तुं श्रिता वयं यां पदयुगुलीं ते सकाननोकास्ताम् ॥ ५॥
स्फुटतु शतधा श्रुते स्वयि यत्राश्रुनपितमेवतत्तूरः ।
धत्तेऽभक्तः(२) पशुरपि नृत्वं कनकरवमिव स धत्तूरः ॥ ६॥
भूतिं बिभर्ति तनुते गतिमपि च वृषेण सत्यसुप्रियकृत् ।
कामं हरति हरति ते नाम श्रीराम वैश्रवणमित्रम् ॥ ७॥
पिवतः सुरभेः स्तन्यं वरसस्याण्वपि तथा न राम! । हितं ।
जन्तो म यथा तेऽप्यमरा न पिबन्त्यदो न रामहितम् ॥ ८॥
नाम्नीवामोति न शं कारुण्यनदीन(३)! । मातुरङ्केऽपि ।
नाम्नोऽन्ये त्रातुमलं लोकेषु न दीनमातुरं केऽपि ॥ ९॥
प्राप्य तव नाम निर्वृत्तिमेति यथा मातुरुरसिज बालः ।
मञ्चोऽपरः पिपासोरिव लिप्तः काममुरसि जम्बालः(४) ॥ १०॥
मातुः स्तन्येन यथा बालास्त्यक्तास्तवार्य ! । नाम्ना ये ।
स्पष्टं देतररस इव शक्तिस्तांस्त्रातुमस्ति नाम्नाये ॥ ११॥
इति श्रीरामनन्दनमयूरेश्वरकृता रामनाममाहिमा(५) समाप्ता ।
टिप्पणि
१। आम्नायाः वेदाः ।
२। यथा धत्तूरः कनकस्य सुवर्णस्य सर्वानपि पर्यायान् धत्ते न तु स तत्त्वतः सुवर्णं तथैव अभक्तः पशुपदवाच्योऽपि वृथैव नृत्त्वं धत्ते ।
३। नदीनामिनः स्वामी । कारुण्यनदीनः करुणासमुद्र इति यावत् ।
४। जम्बालः पङ्कः ।
५। अस्य प्रकरणस्य नाम न कविलिखितमुपलभ्यते । अस्माभिरेव प्रकरणार्थमनुसृत्य नामैतत्कल्पितमिति शातव्यं सहृदयैः ।
Proofread by Rajesh Thyagarajan