श्रीरामप्रपत्तिशतकम्

श्रीरामप्रपत्तिशतकम्

कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः । कल्याणरामः कृपया कल्याणानि करोतु नः ॥ राजराजशिरोरत्नराजनीराजिताङ्घ्रये । राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥ यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा- ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः । अस्मान् जगच्च विनुतः परिपालयेति तं राममार्तिहरणं शरणं भजामि ॥ १॥ वृन्दारका यदुदये प्रमदादयोध्यां सन्तानकल्पकुसुमैः परितो ववर्षुः । गन्धर्वजातिरतिगानरता बभूव तं राममार्तिहरणं शरणं भजामि ॥ २॥ यस्योदये मनुजलोकशुभोदयोऽभूत् सर्वं क्षणेन जगतो दुरितं प्रशान्तम् । चक्रुर्मुदा नटनमप्सरसः प्रकामं तं राममार्तिहरणं शरणं भजामि ॥ ३॥ यस्याद्वितीयमनघं शुभदं भयघ्नं मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि । रम्यं समुल्लसति नाम जगत्पवित्रं तं राममार्तिहरणं शरणं भजामि ॥ ४॥ यं लक्ष्मणेन भरतेन च सानुजेन बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्ट्या । प्रापुर्न तृप्तिमवशाः प्रमदेन लोका- स्तं राममार्तिहरणं शरणं भजामि ॥ ५॥ यः शैशवे कनकमौक्तिकनीलरत्न- माणिक्यवज्रवरभूषणभूषिताङ्गः । लोकान् प्ररञ्जयति कुञ्जरमञ्जुगत्या तं राममार्तिहरणं शरणं भजामि ॥ ६॥ यः शैशवे मधुरसूक्तिसुधाप्रवाहै- र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य । चक्रे निराकृतसुराधिपभाग्यमेनं तं राममार्तिहरणं शरणं भजामि ॥ ७॥ यं शैशवातिरमणीयसुभद्रवेष- माकर्णदीर्घनवरक्तसरोजनेत्रम् । धन्या बभूवुरवलोक्य दृशैव पौरा- स्तं राममार्तिहरणं शरणं भजामि ॥ ८॥ यं शैशवे नयनसौख्यदचारुलीला कन्दर्पकोटिकमनीयनरावतारम् । धन्या बभूवुरवलोक्य दृशैव पौरा- स्तं राममार्तिहरणं शरणं भजामि ॥ ९॥ यं मौक्तिकाभरणसुन्दरमन्दहासं नव्यप्रवालरुचिराधरशोभमानम् । धन्या बभूवुरवलोक्य दृशैव पौरा- तं राममार्तिहरणं शरणं भजामि ॥ १०॥ यः शैशवे कुशिकजेन मखावनाय नीतोऽनुजेन सह संप्रतिपन्नमन्त्रः । मध्याह्नभास्कर इवातितरां रराज तं राममार्तिहरणं शरणं भजामि ॥ ११॥ बाल्ये समस्तजनतावधकारिवृत्तिं यस्ताटकां स्त्रियमपीभसहस्रवीर्याम् । हत्वा सलीलमकरोद्भुवनं प्रहृष्टं तं राममार्तिहरणं शरणं भजामि ॥ १२॥ यस्ताटकानिधनहृष्टमुनिप्रदिष्टा- न्यस्त्राण्यगण्यमहिमानि चिरन्तनानि । साक्षाद्विधाय च मनोवशगानि चक्रे तं राममार्तिहरणं शरणं भजामि ॥ १३॥ पौगण्ड एव वयसि प्रबलं सुबाहुं यः केसरीव करिणं समितौ निहत्य । मारीचमब्धिमनयत् सहसा शरेण तं राममार्तिहरणं शरणं भजामि ॥ १४॥ यो मैथिलेन्द्रनगरीमभियातुकाम- स्त्रिस्रोतसं द्युपथिकां कुशिकात्मजोक्ताम् । श‍ृण्वन् मुमोद भृशमात्मकुलीनभूपान् तं राममार्तिहरणं शरणं भजामि ॥ १५॥ यो गौतमाख्यमुनियोषितमात्मकान्त- शापोररीकृतशिलावपुषं क्षणेन । चक्रे स्वपादरजसा तटिदाभदेहां तं राममार्तिहरणं शरणं भजामि ॥ १६॥ यो गौतमात्मजसमीरितगाधिसूनु- ब्राह्मण्यसङ्गमकथाश्रुतिहृष्टचेताः । श्लाघ्यस्तमेव सुचिरं हृदये ननन्द तं राममार्तिहरणं शरणं भजामि ॥ १७॥ देवासुरैरपि दुरासदमीशचापं भङ्क्त्वा मृणालमिभराडिव लीलया यः । सद्यश्चकार जनकं सफलप्रतिज्ञं तं राममार्तिहरणं शरणं भजामि ॥ १८॥ यो जानकीपरिणये स्वशिरो विनम्य दोर्भ्यां तदङ्घ्रिसरसीरुहमश्ममौलौ । आरोप्य तन्मुखमवेक्ष्य जहास मन्दं तं राममार्तिहरणं शरणं भजामि ॥ १९॥ यो मैथिलेन्द्रनगरात् स्वपुरं प्रयास्यन् मार्गे गृहीतपरशुं भृगुजं सचापम् । व्यद्रावयद्धृतशरासनदर्पवीर्यं तं राममार्तिहरणं शरणं भजामि ॥ २०॥ यो भ्रातृभिस्त्रिभिरुदूढवधूसमेतै- र्हेमप्रसाधितवलद्द्विरदाधिरूढः । साकेतमेत्य धरणीसुतयैव रेमे तं राममार्तिहरणं शरणं भजामि ॥ २१॥ यो मातुलालयमतिप्रमदेन साकं संप्रेषयन् ससहजं भरतं स्वपित्रोः । शुश्रूषया चिरमशेषजनप्रियोऽभूत् तं राममार्तिहरणं शरणं भजामि ॥ २२॥ यस्तातमातृवचनावितथीकरस्तं साम्राज्यभोगमनपेक्ष्य सहानुजेन । वध्वा ययौ वनमशेषजगद्धिताय तं राममार्तिहरणं शरणं भजामि ॥ २३॥ यो नव्यशाद्वलतले मृदुपादगत्या गङ्गामुपेत्य गुहमानित उत्तरंस्ताम् । हित्वा गुहं सरथसूतमभूज्जटाल- स्तं राममार्तिहरणं शरणं भजामि ॥ २४॥ यस्तज्जनेन सह सोदरजानकीभ्यां तीर्त्वा प्लवैः ससलिलाः सरितश्च बह्वीः । रेमे पुरीव सुदृशा सह चित्रकूटे तं राममार्तिहरणं शरणं भजामि ॥ २५॥ यो मातुलस्य निलयाद्वनमागतेन पादानतेन भरतेन पुरागमाय । संप्रार्थितोऽपि गमनं मनसापि नैच्छत् तं राममार्तिहरणं शरणं भजामि ॥ २६॥ यो राज्यपालनकृते मणिपादुके स्वे दत्त्वा नताय भरताय च सान्त्वपूर्वम् । पुर्यै निवर्त्य तमभूत् परमप्रहृष्ट- स्तं राममार्तिहरणं शरणं भजामि ॥ २७॥ यः सानुजो वनितया सह चित्रकूटं- त्यक्त्वात्रिमस्य च वधूं प्रणिपत्य ताभ्याम् । दत्तं विभूषणकुलं मुमुदे प्रगृह्य तं राममार्तिहरणं शरणं भजामि ॥ २८॥ यो दण्डकावनमुपेत्य खलं विराधं हत्वा विदेहतनयाममितप्रमोदाम् । कृत्वा तुतोष शरभङ्गकृतामिताशीः तं राममार्तिहरणं शरणं भजामि ॥ २९॥ यो वै सुतीक्ष्णमुनिना समनुगृहीतः कुम्भोद्भवं समभिवाद्य मुदा च तस्मात् । तूणीं शरासनमसिं प्रतिलभ्य रेजे । तं राममार्तिहरणं शरणं भजामि ॥ ३०॥ यो दण्डकावनतपोनिरतैर्मुनीन्द्रै- रभ्यर्थितो निखिलराक्षसनाशनाय । तेभ्यस्तथेति दयया विदधे प्रतिज्ञां तं राममार्तिहरणं शरणं भजामि ॥ ३१॥ यो यातुधाननिधने विधृतप्रतिज्ञः कालं व्यपेक्ष्य निवसन् वरपञ्चवट्याम् । मित्रं जटायुषमवाप्य तुतोष कामं तं राममार्तिहरणं शरणं भजामि ॥ ३२॥ यो दुर्मतिं झटिति शूर्पणखां विभीकां स्वस्मिन् सगर्भकरचूर्णितकर्णनासाम् । कृत्वा मुमोच दयया विपिने सजीवां तं राममार्तिहरणं शरणं भजामि ॥ ३३॥ यो दूषणत्रिशिरसौ च खरं तदीयं सैन्यं चतुर्दशगुणोक्तसहस्रसङ्ख्यम् । एको निहत्य मुमुदे सहसा जयेन तं राममार्तिहरणं शरणं भजामि ॥ ३४॥ यः पङ्क्तिकन्धरहृतां मृगयन् स्वकान्तां तस्याः कृते खगपतिं पथि मुक्तजीवम् । दग्ध्वा स्वतातवदमुष्य ददौ च मुक्तिं तं राममार्तिहरणं शरणं भजामि ॥ ३५॥ यो भक्षितुं स्वमनुजं च कृतप्रयत्नं दग्ध्वा कबन्धमपि योजनदीर्घबाहुम् । श्रुत्वा तदुक्तशबरीचरितो ननन्द तं राममार्तिहरणं शरणं भजामि ॥ ३६॥ यस्तापसीं ससहजः शबरीमुपेत्य तत्कल्पितप्रचुरपूजनलब्धहर्षः । तद्भुक्तशेषफलभुक् प्रमुमोद कामं तं राममार्तिहरणं शरणं भजामि ॥ ३७॥ यो व्याधयोषिदभिसूचितमैत्रपात्रं सुग्रीवमेव मृगयन् समुपेत्य पम्पाम् । तत्राञ्जनेयमभिगृह्य ननन्द गाढं तं राममार्तिहरणं शरणं भजामि ॥ ३८॥ यो वायुसूनुघटितातुलमैत्रहृष्ट सुग्रीवदत्तनिजदारविभूषणानि । दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षात् तं राममार्तिहरणं शरणं भजामि ॥ ३९॥ यो मित्रपुत्रकथिताग्रजवैरदुःख- निर्मोचनोदितमनाः करुणारसाब्धिः । हन्यां तमाश्विति ददावभयं च तस्मै तं राममार्तिहरणं शरणं भजामि ॥ ४०॥ यो मित्रमोदविधये सहसैककेन बाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् । सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्चत् तं राममार्तिहरणं शरणं भजामि ॥ ४१॥ यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याः सम्मार्गणाय सहसा कपिनायकेन । आनाथितान् कपिवरान् मुमुदे समीक्ष्य तं राममार्तिहरणं शरणं भजामि ॥ ४२॥ यः सौरिणा कपिवरेषु दिशश्चतस्रः प्रस्तावितेषु कृतिनं हनुमन्तमेव । ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयं तं राममार्तिहरणं शरणं भजामि ॥ ४३॥ यत्प्राभवादितरकीशवरैरलङ्घ्य- वारान्निधिं पथि विधूनितमार्गविघ्नम् । वेशन्तवल्लघु ततार समीरसूनु- स्तं राममार्तिहरणं शरणं भजामि ॥ ४४॥ लङ्कामुपेत्य निशि राक्षसकोटिगुप्तां केनाप्यदृश्यगतिरेव यदीयभूम्ना । रक्षोऽवरोधमनिलात्मभवश्वचार तं राममार्तिहरणं शरणं भजामि ॥ ४५॥ यत्पादपद्मयुगलस्मरणो हनूमान् सीतां विलोक्य च वितीर्य वराङ्गुलीयम् । चूडामणिं समुपगृह्य मुदं प्रपेदे तं राममार्तिहरणं शरणं भजामि ॥ ४६॥ यत्पादचिन्तनबलाद्दशवक्त्रकान्ता- लीलावनं लघु विभज्य समीरसूनुः । तत्पालकानपि निहत्य जयी मुमोद तं राममार्तिहरणं शरणं भजामि ॥ ४७॥ यत्पादसंश्रयबलात् पवमानसूनुः सेनापतीन् झटिति पञ्च च मन्त्रिपुत्रान् । सप्ताक्षमप्यतिबलं सुलभं जघान तं राममार्तिहरणं शरणं भजामि ॥ ४८॥ यत्पादसेवनबलेन हि मरुत्कुमारो ब्रह्मास्त्रबन्धनमपीन्द्रजिता प्रयुक्तम् । निर्धूय पङ्क्तिवदनं च तृणाय मेने तं राममार्तिहरणं शरणं भजामि ॥ ४९॥ यत्पादवारिजयुगस्मृतिवैभवेन वालाग्रसीम्नि दशकन्धरदीपितेन । वैश्वानरेण पवनात्मभवो न देहे (भुवो न दाहः) तं राममार्तिहरणं शरणं भजामि ॥ ५०॥ यत्पादपद्मविनतिप्रभवप्रभावात् पश्यत्सु राक्षसगणेष्वपि वायुसूनुः । भस्मीचकार रुचिरामविशङ्क्य लङ्कां तं राममार्तिहरणं शरणं भजामि ॥ ५१॥ यत्पादसंस्तुतिबलेन सुतोऽनिलस्य भस्मावशेषविभवां प्रविधाय लङ्काम् । तीर्त्वाब्धिमुत्तरतटं पुनराजगाम तं राममार्तिहरणं शरणं भजामि ॥ ५२॥ यत्पादभक्तिमहिमातिशयेन वायोः पुत्रोऽङ्गदादिकपिभिः सह दुष्प्रवेशम् । भूत्वा विभोर्मधुवनं च पपौ मधूनि तं राममार्तिहरणं शरणं भजामि ॥ ५३॥ यत्सन्निधिं समुपगम्य मरुत्तनूजः पादाम्बुजं सविनयं सहसा प्रणम्य । दृष्टा मया जनकजेति जगाद मोदात् तं राममार्तिहरणं शरणं भजामि ॥ ५४॥ यो मारुतेर्निजवधूकुशलप्रवृत्तिं चूडामणिं च समवाप्य परं प्रहृष्टः । सर्वस्वदानसदृशं परिषस्वजे तं तं राममार्तिहरणं शरणं भजामि ॥ ५५॥ यः स्वानुजार्कजसमीरजशक्रभूज- नीलादिभिः कपिवरैः सह मन्त्र्यमाणः । लङ्कां शुभंयुदिवसे चकमेऽभिगन्तुं तं राममार्तिहरणं शरणं भजामि ॥ ५६॥ यः पावमानिमधिरुह्य मुदा स्वयं तं तारासुतं समधिरूढवतानुजेन । सम्भाषमाण इनजेन ययाववाचीं तं राममार्तिहरणं शरणं भजामि ॥ ५७॥ यः सर्वराक्षसविभेदनबद्धदीक्षै- र्वृक्षायुधैर्हरिबलप्रवरैः परीतः । तीरं ययौ सपदि दक्षिणवारिराशे- स्तं राममार्तिहरणं शरणं भजामि ॥ ५८॥ पङ्क्त्याननानुजजुषेऽपि विभीषणाय- स्वाङ्घ्रिद्वयीसरसिजं शरणं गताय । योऽदाच्चिरायुरपि राक्षसराजलक्ष्मीं ते राममार्तिहरणं शरणं भजामि ॥ ५९॥ गम्भीरमात्मनि पराङ्मुखमम्बुधिं यः क्रुद्धो विशोष्य विशिखेन शिखिप्रभेण । तत्प्रार्थितः पुनरमुं स्ववशं निनाय तं राममार्तिहरणं शरणं भजामि ॥ ६०॥ अब्धिं नलेन हरिभिर्लघु बन्धयित्वा तीर्त्वा तमाशु निखिलैः सह वानरैर्यः । लङ्कां निरुच्छ्वसनमारुरुधे समन्तात् तं राममार्तिहरणं शरणं भजामि ॥ ६१॥ यो वजदंष्ट्रमतिदुष्टमकम्पनं च धूम्राक्षमक्षयमुखानपि राक्षसेन्द्रान् । रक्षोबलाधिपतिमप्यहनत् प्रहस्तं तं राममार्तिहरणं शरणं भजामि ॥ ६२॥ यो लीलया युधि निकृत्तरथध्वजाक्ष- सेनाकिरीटशरचापमतिक्षताङ्गम् । रक्षोऽधिराजमकरोदपि कान्दिशीकं तं राममार्तिहरणं शरणं भजामि ॥ ६३॥ यः कुम्भकर्णमचलं मघवानिवाशु बाणैश्च मूर्ध्नि पदयोरपि चूर्णयित्वा । शोकाम्बुधावलममज्जयदाशरेन्द्रं तं राममार्तिहरणं शरणं भजामि ॥ ६४॥ यो देवतान्तकनरान्तकरातिकाय- कुम्भत्रिशीर्षकनिकुम्भमहोदरादीन् । संहार्य वानरगणैर्मुमुदे जयेन तं राममार्तिहरणं शरणं भजामि ॥ ६५॥ यः शोणिताक्षमकरेक्षणमत्तयुद्धो- न्मत्तान् विरूपनयनादिनिशाचरेन्द्रान् । संहारयन् कपिवरैर्मुदमाप गाढं तं राममार्तिहरणं शरणं भजामि ॥ ६६॥ नाम स्मरन् मनसि यस्य समीरपुत्रो गत्वान्तरं जलधिमेकमुहूर्तमात्रात् । दिव्यौषधाद्रिमुपगृह्य पुनः समागात् तं राममार्तिहरणं शरणं भजामि ॥ ६७॥ यः पाकशासनजितं समुपात्तमायं यज्ञक्रियार्थमुपविष्टनिकुम्भिलान्तम् । संहार्य सम्मुदमविन्दत लक्ष्मणेन तं राममार्तिहरणं शरणं भजामि ॥ ६८॥ यः स्यन्दनेभतुरगालिपदातिपूर्णाः सन्नद्धमूलबलसङ्घपरार्धकोटीः । यामार्धतः प्रतिजघान सुलीलयैक- स्तं राममार्तिहरणं शरणं भजामि ॥ ६९॥ यः कौणपेश्वरशिरांसि दशोज्ज्वलानि कृत्तानि चैकशतमङ्कुरितानि भूयः । दृष्ट्वा ननन्द शतकण्ठतपःप्रभावं- तं राममार्तिहरणं शरणं भजामि ॥ ७०॥ यो वासवप्रहितमातलिसंप्रणीतं दिव्यं रथं समभिनन्द्य मुदाधिरुह्य । तेजोवृतो विरुरुचेऽसुरहेव(मघवेव) साक्षात् तं राममार्तिहरणं शरणं भजामि ॥ ७१॥ यः संयुगे दशमुखं निशितैः स्वबाणै- रापादमस्तकमतीव गवाक्षिताङ्गम् । कृत्वापि निश्चलमवेक्ष्य बभार हर्षं तं राममार्तिहरणं शरणं भजामि ॥ ७२॥ सङ्ग्रामभुव्यरिजयाय घटोद्भवेन प्रीत्योपदिष्टमुपगृह्य रविस्तवं यः । तेजो वहन् युधि बभौ रिपुदुर्निरीक्षं तं राममार्तिहरणं शरणं भजामि ॥ ७३॥ रक्षोऽधिपान्तकरणेऽतिविचक्षणोऽपि यो मात? ? वतितरां समनुग्रहीतुम् । आज्ञापितास्त्रमरिनाशकमेव मेने तं राममार्तिहरणं शरणं भजामि ॥ ७४॥ योऽस्त्रेण पद्मजनुषः क्षणदाचरेन्द्रं द्वेधैव वक्षसि विभिद्य निपात्य भूमौ । लोकाखिलार्तिमपनीय भृशं ननन्द तं राममार्तिहरणं शरणं भजामि ॥ ७५॥ यत्संहृतो दशमुखोऽप्यतिपापकर्मा सद्यो विधूतकलुषोऽधिक(दीपितात्मा) । सायुज्यमुक्तिमगमद्वरयोगिगम्यां ते राममार्तिहरणं शरणं भजामि ॥ ७६॥ यः सापराधिनमपि क्षणदाचरेन्द्रं संहृत्य संप्रकटयन् स्वकृपालुतां यः (यम्) । तेजोमयं स्वपदमेव समानिनाय । तं राममार्तिहरणं शरणं भजामि ॥ ७७॥ निर्वर्त्य चाश्रुतमथाशु विभीषणं यो लङ्काधिपत्यपद एव मुदाभिषिच्य । सङ्ग्राममूर्ध्नि विजयी विरराज धन्वी तं राममार्तिहरणं शरणं भजामि ॥ ७८॥ योऽभ्यर्थितोऽपरिचयेऽपि विभीषणेन तं मानयन् सकरुणं निजसान्त्ववाक्यैः । पूजां जहर्ष सुहृदां हृदि कारयित्वा तं राममार्तिहरणं शरणं भजामि ॥ ७९॥ सौशील्यनिर्जितवसिष्ठवधूस्वभावां प्राणप्रियां निजवधूमपि धर्मबद्धः । निन्दन् वपुस्त्रिजगतीमनलो न मेने (? ) तं राममार्तिहरणं शरणं भजामि ॥ ८०॥ यस्मै भिया हुतवहो निजसात्कृताङ्गी- मत्यादृतांशुकविभूषितदिव्यदेहाम् । अङ्के वहन् पुनरदादवनीतनूजां तं राममार्तिहरणं शरणं भजामि ॥ ८१॥ संवीक्ष्य यं विजयिनं शिवपद्मजेन्द्र- वैवस्वताम्बुपतिवैश्रवणादिदेवाः । कल्पप्रसूननिकरैः समुदोऽभ्यवर्षं तं राममार्तिहरणं शरणं भजामि ॥ ८२॥ राम प्रसीद रघुवीर रणाग्रधीर रक्षःकुलान्तक विभो विजयी भवेति । यः संस्तुतोऽखिलसुरैर्विरराज वीरः तं राममार्तिहरणं शरणं भजामि ॥ ८३॥ यस्त्र्यम्बकेण धुरि दर्शितमात्मतातं दृष्टा समुज्ज्वलविमानगतं प्रणम्य । अङ्के धृतः सपदि तेन ननन्द कामं तं राममार्तिहरणं शरणं भजामि ॥ ८४॥ यः पूर्वमात्मगुरुणा भरते वितीर्णं शापं तमेनमभिवाद्य च तत्प्रसादात् । सम्मोचयन् तमतनोत्तदनुगृहीतं तं राममार्तिहरणं शरणं भजामि ॥ ८५॥ उज्जीवयन् पुनरपि प्रहतान् समीके कीशान् सुरोत्तमवरच्छलतःसुरेषु । यो वैभवप्रकटनाय मुदान्वितोऽभूत् तं राममार्तिहरणं शरणं भजामि ॥ ८६॥ यः पुष्पकं समधिरुह्य वधूसहायः साकं निजानुजविभीषणभानुसूभिः । अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे तं राममार्तिहरणं शरणं भजामि ॥ ८७॥ गच्छन् पुरीं दिवि विमानग एव वध्वै युद्धे दशाननमुखारिवधस्थलानि । सन्दर्शयन् सह तया मुमुदे भृशं य- स्तं राममार्तिहरणं शरणं भजामि ॥ ८८॥ यो वायुजागममहस्करपुत्रमैत्रीं भिल्लप्रियार्चनविधिं च महीसुतायै । जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं तं राममार्तिहरणं शरणं भजामि ॥ ८९॥ यश्चोदितो वनितया कपिवर्यपुर्यां तारामुखाः कपिवधूः परिभूषिताङ्गीः । आनाय्य यानमधिरोप्य बभार हर्षं तं राममार्तिहरणं शरणं भजामि ॥ ९०॥ यो वानरीभ्य उरुमैत्रभरान्विताभ्यः- आत्माटवीगमनहेतुमुदीरयन्तीम् । कान्तां विलोक्य मधुरं प्रहसन् जगाम तं राममार्तिहरणं शरणं भजामि ॥ ९१॥ यः सर्वमित्रनिकरैरनुजेन बध्वा साकं पुरन्दरपुरोहितनन्दनस्य । प्राप्याश्रमं तमभिवाद्य कृतार्थ आसीत् तं राममार्तिहरणं शरणं भजामि ॥ ९२॥ यस्तापसेन भृशमर्चितमात्मपुर्यां श‍ृण्वन् स्वबन्धुकुशलानि तदीयवाचा । ज्ञात्वा ननन्द भरतस्य तपस्विवृत्तिम् । तं राममार्तिहरणं शरणं भजामि ॥ ९३॥ यो वायुजोदितनिजागमनश्रुतिश्री- सम्पूर्णचित्तभरतं प्रणताङ्घ्रिपद्मम् । प्रीत्या निजाङ्कमधिरोप्य तमालिलिङ्ग तं राममार्तिहरणं शरणं भजामि ॥ ९४॥ भक्त्या य आर्तजननीमभिवाद्य चान्याः प्रीत्या तदीरितमहाशिष आदधानः । रेजे शतक्रतुरिव प्रसुवा समेतः तं राममार्तिहरणं शरणं भजामि ॥ ९५॥ यः सोदरैर्वनितया हरिभिश्च नन्दि- ग्रामात् समं नवसहस्रगजाधिरूढैः । प्राप्याभवत् प्रमदवान्नगरीमयोध्यां तं राममार्तिहरणं शरणं भजामि ॥ ९६॥ राज्यावनक्षमतमे भरतप्रणीते संयोज्य यः स्वपदयोर्मणिपादरक्षे । पूर्णं मनोरथमहो भरतस्य चक्रे तं राममार्तिहरणं शरणं भजामि ॥ ९७॥ योऽनुग्रहं हरिवराय वितीर्य पूर्वं पश्चात् स्वयं नतविभीषणदत्तहस्तः । यस्तातवेश्म समलङ्कृतमाससाद तं राममार्तिहरणं शरणं भजामि ॥ ९८॥ युक्ते वसिष्ठगदिते विजये मुहर्ते सिंहासने रविशतद्युतिरत्नदीप्ते । अध्यास्य मेरुशिखरेऽर्क इवाभिरेजे तं राममार्तिहरणं शरणं भजामि ॥ ९९॥ यं वायुजप्रमुखवानरवर्यनीत- गङ्गादिसिन्धुचतुरर्णवपुण्यतोयैः । ब्रह्मात्मजो मुनिवरो विधिनाभ्यषिञ्चत् तं राममार्तिहरण शरणं भजामि ॥ १००॥ मान्यं मनुप्रभृतिभिर्मकुटं महार्घं मौलौ वसिष्ठमुनिना निहितं वहन् यः । मध्येसभं विरुरुचे मधुहेव साक्षात् तं राममार्तिहरणं शरणं भजामि ॥ १०१॥ यस्मिन् स्वयं त्रिभुवनावनदक्षिणेन (भारदक्षे) सर्वंसहापतिपदे सहसाभिषेकैः(षिक्ते) । भेजे मही वसुमतीपदवाच्यभावं तं राममार्तिहरणं शरणं भजामि ॥ १०२॥ कान्तस्य यस्य जगतां कलिताभिषेके हृष्टा बभूव धरणीयमकृष्टपच्या । गावः सुपुष्टवपुषो ह्यभवन् घटोध्न्यः तं राममार्तिहरणं शरणं भजामि ॥ १०३॥ यस्मिन् प्रभौ भुवि महीसुरपूर्ववर्णा आसन्नधर्मविरता निजधर्मनिष्ठाः । अन्योन्यवैरविमुखाः करुणार्द्रचित्ता- स्तं राममार्तिहरणं शरणं भजामि ॥ १०४॥ यस्मिन् धरां समनुशासति सर्वमर्त्या असन् सहस्त्रशरदायुरनेकपुत्राः । आढ्याः प्रमोदभरिताश्च निरामयाश्व तं राममार्तिहरणं शरणं भजामि ॥ १०५॥ यस्य प्रभुत्वपदमावहतो धरण्यां सामन्तभूमिपतयः स्वयमङ्घ्रिपद्मे । निक्षिप्तमौलिमकुटाः करदा बभूव- स्तं राममार्तिहरणं शरणं भजामि ॥ १०६॥ यस्मिन् क्षितीशपदभाजि भुवि प्रभीता रक्षःपिशाचकुलदुर्ग्रहभूतवर्गाः । क्षुद्रान् जनानपि कदापि न पीडयन्ति ते राममार्तिहरणं शरणं भजामि ॥ १०७॥ जातु स्मृते दुरितहारिणि यस्य नाम्नि नश्यन्त्यघानि सकलानि पुराकृतानि । वाञ्छाधिकानि कुशलानि भवन्ति सद्य- स्तं राममार्तिहरणं शरणं भजामि ॥ १०८॥ अष्टोत्तरैकशतपद्यसुपूरितेन भक्त्यामुहुःस्तुतिवरेण मयेड्यमानः । रामः स एष जनकात्मजया समेतः प्रीतः सदापि हृदये मम सन्निधत्ताम् ॥ १०९॥ इति श्रीरामप्रपत्तिशतकं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramaprapattishatakam
% File name             : rAmaprapattishatakam.itx
% itxtitle              : rAmaprapattishatakam
% engtitle              : rAmaprapattishatakam
% Category              : raama, shataka, prapatti
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH 04-20
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org