श्रीरामप्रपत्तिशतकम्
कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः ।
कल्याणरामः कृपया कल्याणानि करोतु नः ॥
राजराजशिरोरत्नराजनीराजिताङ्घ्रये ।
राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥
यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा-
ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः ।
अस्मान् जगच्च विनुतः परिपालयेति
तं राममार्तिहरणं शरणं भजामि ॥ १॥
वृन्दारका यदुदये प्रमदादयोध्यां
सन्तानकल्पकुसुमैः परितो ववर्षुः ।
गन्धर्वजातिरतिगानरता बभूव
तं राममार्तिहरणं शरणं भजामि ॥ २॥
यस्योदये मनुजलोकशुभोदयोऽभूत्
सर्वं क्षणेन जगतो दुरितं प्रशान्तम् ।
चक्रुर्मुदा नटनमप्सरसः प्रकामं
तं राममार्तिहरणं शरणं भजामि ॥ ३॥
यस्याद्वितीयमनघं शुभदं भयघ्नं
मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि ।
रम्यं समुल्लसति नाम जगत्पवित्रं
तं राममार्तिहरणं शरणं भजामि ॥ ४॥
यं लक्ष्मणेन भरतेन च सानुजेन
बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्ट्या ।
प्रापुर्न तृप्तिमवशाः प्रमदेन लोका-
स्तं राममार्तिहरणं शरणं भजामि ॥ ५॥
यः शैशवे कनकमौक्तिकनीलरत्न-
माणिक्यवज्रवरभूषणभूषिताङ्गः ।
लोकान् प्ररञ्जयति कुञ्जरमञ्जुगत्या
तं राममार्तिहरणं शरणं भजामि ॥ ६॥
यः शैशवे मधुरसूक्तिसुधाप्रवाहै-
र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य ।
चक्रे निराकृतसुराधिपभाग्यमेनं
तं राममार्तिहरणं शरणं भजामि ॥ ७॥
यं शैशवातिरमणीयसुभद्रवेष-
माकर्णदीर्घनवरक्तसरोजनेत्रम् ।
धन्या बभूवुरवलोक्य दृशैव पौरा-
स्तं राममार्तिहरणं शरणं भजामि ॥ ८॥
यं शैशवे नयनसौख्यदचारुलीला
कन्दर्पकोटिकमनीयनरावतारम् ।
धन्या बभूवुरवलोक्य दृशैव पौरा-
स्तं राममार्तिहरणं शरणं भजामि ॥ ९॥
यं मौक्तिकाभरणसुन्दरमन्दहासं
नव्यप्रवालरुचिराधरशोभमानम् ।
धन्या बभूवुरवलोक्य दृशैव पौरा-
तं राममार्तिहरणं शरणं भजामि ॥ १०॥
यः शैशवे कुशिकजेन मखावनाय
नीतोऽनुजेन सह संप्रतिपन्नमन्त्रः ।
मध्याह्नभास्कर इवातितरां रराज
तं राममार्तिहरणं शरणं भजामि ॥ ११॥
बाल्ये समस्तजनतावधकारिवृत्तिं
यस्ताटकां स्त्रियमपीभसहस्रवीर्याम् ।
हत्वा सलीलमकरोद्भुवनं प्रहृष्टं
तं राममार्तिहरणं शरणं भजामि ॥ १२॥
यस्ताटकानिधनहृष्टमुनिप्रदिष्टा-
न्यस्त्राण्यगण्यमहिमानि चिरन्तनानि ।
साक्षाद्विधाय च मनोवशगानि चक्रे
तं राममार्तिहरणं शरणं भजामि ॥ १३॥
पौगण्ड एव वयसि प्रबलं सुबाहुं
यः केसरीव करिणं समितौ निहत्य ।
मारीचमब्धिमनयत् सहसा शरेण
तं राममार्तिहरणं शरणं भजामि ॥ १४॥
यो मैथिलेन्द्रनगरीमभियातुकाम-
स्त्रिस्रोतसं द्युपथिकां कुशिकात्मजोक्ताम् ।
शृण्वन् मुमोद भृशमात्मकुलीनभूपान्
तं राममार्तिहरणं शरणं भजामि ॥ १५॥
यो गौतमाख्यमुनियोषितमात्मकान्त-
शापोररीकृतशिलावपुषं क्षणेन ।
चक्रे स्वपादरजसा तटिदाभदेहां
तं राममार्तिहरणं शरणं भजामि ॥ १६॥
यो गौतमात्मजसमीरितगाधिसूनु-
ब्राह्मण्यसङ्गमकथाश्रुतिहृष्टचेताः ।
श्लाघ्यस्तमेव सुचिरं हृदये ननन्द
तं राममार्तिहरणं शरणं भजामि ॥ १७॥
देवासुरैरपि दुरासदमीशचापं
भङ्क्त्वा मृणालमिभराडिव लीलया यः ।
सद्यश्चकार जनकं सफलप्रतिज्ञं
तं राममार्तिहरणं शरणं भजामि ॥ १८॥
यो जानकीपरिणये स्वशिरो विनम्य
दोर्भ्यां तदङ्घ्रिसरसीरुहमश्ममौलौ ।
आरोप्य तन्मुखमवेक्ष्य जहास मन्दं
तं राममार्तिहरणं शरणं भजामि ॥ १९॥
यो मैथिलेन्द्रनगरात् स्वपुरं प्रयास्यन्
मार्गे गृहीतपरशुं भृगुजं सचापम् ।
व्यद्रावयद्धृतशरासनदर्पवीर्यं
तं राममार्तिहरणं शरणं भजामि ॥ २०॥
यो भ्रातृभिस्त्रिभिरुदूढवधूसमेतै-
र्हेमप्रसाधितवलद्द्विरदाधिरूढः ।
साकेतमेत्य धरणीसुतयैव रेमे
तं राममार्तिहरणं शरणं भजामि ॥ २१॥
यो मातुलालयमतिप्रमदेन साकं
संप्रेषयन् ससहजं भरतं स्वपित्रोः ।
शुश्रूषया चिरमशेषजनप्रियोऽभूत्
तं राममार्तिहरणं शरणं भजामि ॥ २२॥
यस्तातमातृवचनावितथीकरस्तं
साम्राज्यभोगमनपेक्ष्य सहानुजेन ।
वध्वा ययौ वनमशेषजगद्धिताय
तं राममार्तिहरणं शरणं भजामि ॥ २३॥
यो नव्यशाद्वलतले मृदुपादगत्या
गङ्गामुपेत्य गुहमानित उत्तरंस्ताम् ।
हित्वा गुहं सरथसूतमभूज्जटाल-
स्तं राममार्तिहरणं शरणं भजामि ॥ २४॥
यस्तज्जनेन सह सोदरजानकीभ्यां
तीर्त्वा प्लवैः ससलिलाः सरितश्च बह्वीः ।
रेमे पुरीव सुदृशा सह चित्रकूटे
तं राममार्तिहरणं शरणं भजामि ॥ २५॥
यो मातुलस्य निलयाद्वनमागतेन
पादानतेन भरतेन पुरागमाय ।
संप्रार्थितोऽपि गमनं मनसापि नैच्छत्
तं राममार्तिहरणं शरणं भजामि ॥ २६॥
यो राज्यपालनकृते मणिपादुके स्वे
दत्त्वा नताय भरताय च सान्त्वपूर्वम् ।
पुर्यै निवर्त्य तमभूत् परमप्रहृष्ट-
स्तं राममार्तिहरणं शरणं भजामि ॥ २७॥
यः सानुजो वनितया सह चित्रकूटं-
त्यक्त्वात्रिमस्य च वधूं प्रणिपत्य ताभ्याम् ।
दत्तं विभूषणकुलं मुमुदे प्रगृह्य
तं राममार्तिहरणं शरणं भजामि ॥ २८॥
यो दण्डकावनमुपेत्य खलं विराधं
हत्वा विदेहतनयाममितप्रमोदाम् ।
कृत्वा तुतोष शरभङ्गकृतामिताशीः
तं राममार्तिहरणं शरणं भजामि ॥ २९॥
यो वै सुतीक्ष्णमुनिना समनुगृहीतः
कुम्भोद्भवं समभिवाद्य मुदा च तस्मात् ।
तूणीं शरासनमसिं प्रतिलभ्य रेजे ।
तं राममार्तिहरणं शरणं भजामि ॥ ३०॥
यो दण्डकावनतपोनिरतैर्मुनीन्द्रै-
रभ्यर्थितो निखिलराक्षसनाशनाय ।
तेभ्यस्तथेति दयया विदधे प्रतिज्ञां
तं राममार्तिहरणं शरणं भजामि ॥ ३१॥
यो यातुधाननिधने विधृतप्रतिज्ञः
कालं व्यपेक्ष्य निवसन् वरपञ्चवट्याम् ।
मित्रं जटायुषमवाप्य तुतोष कामं
तं राममार्तिहरणं शरणं भजामि ॥ ३२॥
यो दुर्मतिं झटिति शूर्पणखां विभीकां
स्वस्मिन् सगर्भकरचूर्णितकर्णनासाम् ।
कृत्वा मुमोच दयया विपिने सजीवां
तं राममार्तिहरणं शरणं भजामि ॥ ३३॥
यो दूषणत्रिशिरसौ च खरं तदीयं
सैन्यं चतुर्दशगुणोक्तसहस्रसङ्ख्यम् ।
एको निहत्य मुमुदे सहसा जयेन
तं राममार्तिहरणं शरणं भजामि ॥ ३४॥
यः पङ्क्तिकन्धरहृतां मृगयन् स्वकान्तां
तस्याः कृते खगपतिं पथि मुक्तजीवम् ।
दग्ध्वा स्वतातवदमुष्य ददौ च मुक्तिं
तं राममार्तिहरणं शरणं भजामि ॥ ३५॥
यो भक्षितुं स्वमनुजं च कृतप्रयत्नं
दग्ध्वा कबन्धमपि योजनदीर्घबाहुम् ।
श्रुत्वा तदुक्तशबरीचरितो ननन्द
तं राममार्तिहरणं शरणं भजामि ॥ ३६॥
यस्तापसीं ससहजः शबरीमुपेत्य
तत्कल्पितप्रचुरपूजनलब्धहर्षः ।
तद्भुक्तशेषफलभुक् प्रमुमोद कामं
तं राममार्तिहरणं शरणं भजामि ॥ ३७॥
यो व्याधयोषिदभिसूचितमैत्रपात्रं
सुग्रीवमेव मृगयन् समुपेत्य पम्पाम् ।
तत्राञ्जनेयमभिगृह्य ननन्द गाढं
तं राममार्तिहरणं शरणं भजामि ॥ ३८॥
यो वायुसूनुघटितातुलमैत्रहृष्ट
सुग्रीवदत्तनिजदारविभूषणानि ।
दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षात्
तं राममार्तिहरणं शरणं भजामि ॥ ३९॥
यो मित्रपुत्रकथिताग्रजवैरदुःख-
निर्मोचनोदितमनाः करुणारसाब्धिः ।
हन्यां तमाश्विति ददावभयं च तस्मै
तं राममार्तिहरणं शरणं भजामि ॥ ४०॥
यो मित्रमोदविधये सहसैककेन
बाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् ।
सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्चत्
तं राममार्तिहरणं शरणं भजामि ॥ ४१॥
यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याः
सम्मार्गणाय सहसा कपिनायकेन ।
आनाथितान् कपिवरान् मुमुदे समीक्ष्य
तं राममार्तिहरणं शरणं भजामि ॥ ४२॥
यः सौरिणा कपिवरेषु दिशश्चतस्रः
प्रस्तावितेषु कृतिनं हनुमन्तमेव ।
ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयं
तं राममार्तिहरणं शरणं भजामि ॥ ४३॥
यत्प्राभवादितरकीशवरैरलङ्घ्य-
वारान्निधिं पथि विधूनितमार्गविघ्नम् ।
वेशन्तवल्लघु ततार समीरसूनु-
स्तं राममार्तिहरणं शरणं भजामि ॥ ४४॥
लङ्कामुपेत्य निशि राक्षसकोटिगुप्तां
केनाप्यदृश्यगतिरेव यदीयभूम्ना ।
रक्षोऽवरोधमनिलात्मभवश्वचार
तं राममार्तिहरणं शरणं भजामि ॥ ४५॥
यत्पादपद्मयुगलस्मरणो हनूमान्
सीतां विलोक्य च वितीर्य वराङ्गुलीयम् ।
चूडामणिं समुपगृह्य मुदं प्रपेदे
तं राममार्तिहरणं शरणं भजामि ॥ ४६॥
यत्पादचिन्तनबलाद्दशवक्त्रकान्ता-
लीलावनं लघु विभज्य समीरसूनुः ।
तत्पालकानपि निहत्य जयी मुमोद
तं राममार्तिहरणं शरणं भजामि ॥ ४७॥
यत्पादसंश्रयबलात् पवमानसूनुः
सेनापतीन् झटिति पञ्च च मन्त्रिपुत्रान् ।
सप्ताक्षमप्यतिबलं सुलभं जघान
तं राममार्तिहरणं शरणं भजामि ॥ ४८॥
यत्पादसेवनबलेन हि मरुत्कुमारो
ब्रह्मास्त्रबन्धनमपीन्द्रजिता प्रयुक्तम् ।
निर्धूय पङ्क्तिवदनं च तृणाय मेने
तं राममार्तिहरणं शरणं भजामि ॥ ४९॥
यत्पादवारिजयुगस्मृतिवैभवेन
वालाग्रसीम्नि दशकन्धरदीपितेन ।
वैश्वानरेण पवनात्मभवो न देहे (भुवो न दाहः)
तं राममार्तिहरणं शरणं भजामि ॥ ५०॥
यत्पादपद्मविनतिप्रभवप्रभावात्
पश्यत्सु राक्षसगणेष्वपि वायुसूनुः ।
भस्मीचकार रुचिरामविशङ्क्य लङ्कां
तं राममार्तिहरणं शरणं भजामि ॥ ५१॥
यत्पादसंस्तुतिबलेन सुतोऽनिलस्य
भस्मावशेषविभवां प्रविधाय लङ्काम् ।
तीर्त्वाब्धिमुत्तरतटं पुनराजगाम
तं राममार्तिहरणं शरणं भजामि ॥ ५२॥
यत्पादभक्तिमहिमातिशयेन वायोः
पुत्रोऽङ्गदादिकपिभिः सह दुष्प्रवेशम् ।
भूत्वा विभोर्मधुवनं च पपौ मधूनि
तं राममार्तिहरणं शरणं भजामि ॥ ५३॥
यत्सन्निधिं समुपगम्य मरुत्तनूजः
पादाम्बुजं सविनयं सहसा प्रणम्य ।
दृष्टा मया जनकजेति जगाद मोदात्
तं राममार्तिहरणं शरणं भजामि ॥ ५४॥
यो मारुतेर्निजवधूकुशलप्रवृत्तिं
चूडामणिं च समवाप्य परं प्रहृष्टः ।
सर्वस्वदानसदृशं परिषस्वजे तं
तं राममार्तिहरणं शरणं भजामि ॥ ५५॥
यः स्वानुजार्कजसमीरजशक्रभूज-
नीलादिभिः कपिवरैः सह मन्त्र्यमाणः ।
लङ्कां शुभंयुदिवसे चकमेऽभिगन्तुं
तं राममार्तिहरणं शरणं भजामि ॥ ५६॥
यः पावमानिमधिरुह्य मुदा स्वयं तं
तारासुतं समधिरूढवतानुजेन ।
सम्भाषमाण इनजेन ययाववाचीं
तं राममार्तिहरणं शरणं भजामि ॥ ५७॥
यः सर्वराक्षसविभेदनबद्धदीक्षै-
र्वृक्षायुधैर्हरिबलप्रवरैः परीतः ।
तीरं ययौ सपदि दक्षिणवारिराशे-
स्तं राममार्तिहरणं शरणं भजामि ॥ ५८॥
पङ्क्त्याननानुजजुषेऽपि विभीषणाय-
स्वाङ्घ्रिद्वयीसरसिजं शरणं गताय ।
योऽदाच्चिरायुरपि राक्षसराजलक्ष्मीं
ते राममार्तिहरणं शरणं भजामि ॥ ५९॥
गम्भीरमात्मनि पराङ्मुखमम्बुधिं यः
क्रुद्धो विशोष्य विशिखेन शिखिप्रभेण ।
तत्प्रार्थितः पुनरमुं स्ववशं निनाय
तं राममार्तिहरणं शरणं भजामि ॥ ६०॥
अब्धिं नलेन हरिभिर्लघु बन्धयित्वा
तीर्त्वा तमाशु निखिलैः सह वानरैर्यः ।
लङ्कां निरुच्छ्वसनमारुरुधे समन्तात्
तं राममार्तिहरणं शरणं भजामि ॥ ६१॥
यो वजदंष्ट्रमतिदुष्टमकम्पनं च
धूम्राक्षमक्षयमुखानपि राक्षसेन्द्रान् ।
रक्षोबलाधिपतिमप्यहनत् प्रहस्तं
तं राममार्तिहरणं शरणं भजामि ॥ ६२॥
यो लीलया युधि निकृत्तरथध्वजाक्ष-
सेनाकिरीटशरचापमतिक्षताङ्गम् ।
रक्षोऽधिराजमकरोदपि कान्दिशीकं
तं राममार्तिहरणं शरणं भजामि ॥ ६३॥
यः कुम्भकर्णमचलं मघवानिवाशु
बाणैश्च मूर्ध्नि पदयोरपि चूर्णयित्वा ।
शोकाम्बुधावलममज्जयदाशरेन्द्रं
तं राममार्तिहरणं शरणं भजामि ॥ ६४॥
यो देवतान्तकनरान्तकरातिकाय-
कुम्भत्रिशीर्षकनिकुम्भमहोदरादीन् ।
संहार्य वानरगणैर्मुमुदे जयेन
तं राममार्तिहरणं शरणं भजामि ॥ ६५॥
यः शोणिताक्षमकरेक्षणमत्तयुद्धो-
न्मत्तान् विरूपनयनादिनिशाचरेन्द्रान् ।
संहारयन् कपिवरैर्मुदमाप गाढं
तं राममार्तिहरणं शरणं भजामि ॥ ६६॥
नाम स्मरन् मनसि यस्य समीरपुत्रो
गत्वान्तरं जलधिमेकमुहूर्तमात्रात् ।
दिव्यौषधाद्रिमुपगृह्य पुनः समागात्
तं राममार्तिहरणं शरणं भजामि ॥ ६७॥
यः पाकशासनजितं समुपात्तमायं
यज्ञक्रियार्थमुपविष्टनिकुम्भिलान्तम् ।
संहार्य सम्मुदमविन्दत लक्ष्मणेन
तं राममार्तिहरणं शरणं भजामि ॥ ६८॥
यः स्यन्दनेभतुरगालिपदातिपूर्णाः
सन्नद्धमूलबलसङ्घपरार्धकोटीः ।
यामार्धतः प्रतिजघान सुलीलयैक-
स्तं राममार्तिहरणं शरणं भजामि ॥ ६९॥
यः कौणपेश्वरशिरांसि दशोज्ज्वलानि
कृत्तानि चैकशतमङ्कुरितानि भूयः ।
दृष्ट्वा ननन्द शतकण्ठतपःप्रभावं-
तं राममार्तिहरणं शरणं भजामि ॥ ७०॥
यो वासवप्रहितमातलिसंप्रणीतं
दिव्यं रथं समभिनन्द्य मुदाधिरुह्य ।
तेजोवृतो विरुरुचेऽसुरहेव(मघवेव) साक्षात्
तं राममार्तिहरणं शरणं भजामि ॥ ७१॥
यः संयुगे दशमुखं निशितैः स्वबाणै-
रापादमस्तकमतीव गवाक्षिताङ्गम् ।
कृत्वापि निश्चलमवेक्ष्य बभार हर्षं
तं राममार्तिहरणं शरणं भजामि ॥ ७२॥
सङ्ग्रामभुव्यरिजयाय घटोद्भवेन
प्रीत्योपदिष्टमुपगृह्य रविस्तवं यः ।
तेजो वहन् युधि बभौ रिपुदुर्निरीक्षं
तं राममार्तिहरणं शरणं भजामि ॥ ७३॥
रक्षोऽधिपान्तकरणेऽतिविचक्षणोऽपि
यो मात? ? वतितरां समनुग्रहीतुम् ।
आज्ञापितास्त्रमरिनाशकमेव मेने
तं राममार्तिहरणं शरणं भजामि ॥ ७४॥
योऽस्त्रेण पद्मजनुषः क्षणदाचरेन्द्रं
द्वेधैव वक्षसि विभिद्य निपात्य भूमौ ।
लोकाखिलार्तिमपनीय भृशं ननन्द
तं राममार्तिहरणं शरणं भजामि ॥ ७५॥
यत्संहृतो दशमुखोऽप्यतिपापकर्मा
सद्यो विधूतकलुषोऽधिक(दीपितात्मा) ।
सायुज्यमुक्तिमगमद्वरयोगिगम्यां
ते राममार्तिहरणं शरणं भजामि ॥ ७६॥
यः सापराधिनमपि क्षणदाचरेन्द्रं
संहृत्य संप्रकटयन् स्वकृपालुतां यः (यम्) ।
तेजोमयं स्वपदमेव समानिनाय ।
तं राममार्तिहरणं शरणं भजामि ॥ ७७॥
निर्वर्त्य चाश्रुतमथाशु विभीषणं यो
लङ्काधिपत्यपद एव मुदाभिषिच्य ।
सङ्ग्राममूर्ध्नि विजयी विरराज धन्वी
तं राममार्तिहरणं शरणं भजामि ॥ ७८॥
योऽभ्यर्थितोऽपरिचयेऽपि विभीषणेन
तं मानयन् सकरुणं निजसान्त्ववाक्यैः ।
पूजां जहर्ष सुहृदां हृदि कारयित्वा
तं राममार्तिहरणं शरणं भजामि ॥ ७९॥
सौशील्यनिर्जितवसिष्ठवधूस्वभावां
प्राणप्रियां निजवधूमपि धर्मबद्धः ।
निन्दन् वपुस्त्रिजगतीमनलो न मेने (? )
तं राममार्तिहरणं शरणं भजामि ॥ ८०॥
यस्मै भिया हुतवहो निजसात्कृताङ्गी-
मत्यादृतांशुकविभूषितदिव्यदेहाम् ।
अङ्के वहन् पुनरदादवनीतनूजां
तं राममार्तिहरणं शरणं भजामि ॥ ८१॥
संवीक्ष्य यं विजयिनं शिवपद्मजेन्द्र-
वैवस्वताम्बुपतिवैश्रवणादिदेवाः ।
कल्पप्रसूननिकरैः समुदोऽभ्यवर्षं
तं राममार्तिहरणं शरणं भजामि ॥ ८२॥
राम प्रसीद रघुवीर रणाग्रधीर
रक्षःकुलान्तक विभो विजयी भवेति ।
यः संस्तुतोऽखिलसुरैर्विरराज वीरः
तं राममार्तिहरणं शरणं भजामि ॥ ८३॥
यस्त्र्यम्बकेण धुरि दर्शितमात्मतातं
दृष्टा समुज्ज्वलविमानगतं प्रणम्य ।
अङ्के धृतः सपदि तेन ननन्द कामं
तं राममार्तिहरणं शरणं भजामि ॥ ८४॥
यः पूर्वमात्मगुरुणा भरते वितीर्णं
शापं तमेनमभिवाद्य च तत्प्रसादात् ।
सम्मोचयन् तमतनोत्तदनुगृहीतं
तं राममार्तिहरणं शरणं भजामि ॥ ८५॥
उज्जीवयन् पुनरपि प्रहतान् समीके
कीशान् सुरोत्तमवरच्छलतःसुरेषु ।
यो वैभवप्रकटनाय मुदान्वितोऽभूत्
तं राममार्तिहरणं शरणं भजामि ॥ ८६॥
यः पुष्पकं समधिरुह्य वधूसहायः
साकं निजानुजविभीषणभानुसूभिः ।
अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे
तं राममार्तिहरणं शरणं भजामि ॥ ८७॥
गच्छन् पुरीं दिवि विमानग एव वध्वै
युद्धे दशाननमुखारिवधस्थलानि ।
सन्दर्शयन् सह तया मुमुदे भृशं य-
स्तं राममार्तिहरणं शरणं भजामि ॥ ८८॥
यो वायुजागममहस्करपुत्रमैत्रीं
भिल्लप्रियार्चनविधिं च महीसुतायै ।
जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं
तं राममार्तिहरणं शरणं भजामि ॥ ८९॥
यश्चोदितो वनितया कपिवर्यपुर्यां
तारामुखाः कपिवधूः परिभूषिताङ्गीः ।
आनाय्य यानमधिरोप्य बभार हर्षं
तं राममार्तिहरणं शरणं भजामि ॥ ९०॥
यो वानरीभ्य उरुमैत्रभरान्विताभ्यः-
आत्माटवीगमनहेतुमुदीरयन्तीम् ।
कान्तां विलोक्य मधुरं प्रहसन् जगाम
तं राममार्तिहरणं शरणं भजामि ॥ ९१॥
यः सर्वमित्रनिकरैरनुजेन बध्वा
साकं पुरन्दरपुरोहितनन्दनस्य ।
प्राप्याश्रमं तमभिवाद्य कृतार्थ आसीत्
तं राममार्तिहरणं शरणं भजामि ॥ ९२॥
यस्तापसेन भृशमर्चितमात्मपुर्यां
शृण्वन् स्वबन्धुकुशलानि तदीयवाचा ।
ज्ञात्वा ननन्द भरतस्य तपस्विवृत्तिम् ।
तं राममार्तिहरणं शरणं भजामि ॥ ९३॥
यो वायुजोदितनिजागमनश्रुतिश्री-
सम्पूर्णचित्तभरतं प्रणताङ्घ्रिपद्मम् ।
प्रीत्या निजाङ्कमधिरोप्य तमालिलिङ्ग
तं राममार्तिहरणं शरणं भजामि ॥ ९४॥
भक्त्या य आर्तजननीमभिवाद्य चान्याः
प्रीत्या तदीरितमहाशिष आदधानः ।
रेजे शतक्रतुरिव प्रसुवा समेतः
तं राममार्तिहरणं शरणं भजामि ॥ ९५॥
यः सोदरैर्वनितया हरिभिश्च नन्दि-
ग्रामात् समं नवसहस्रगजाधिरूढैः ।
प्राप्याभवत् प्रमदवान्नगरीमयोध्यां
तं राममार्तिहरणं शरणं भजामि ॥ ९६॥
राज्यावनक्षमतमे भरतप्रणीते
संयोज्य यः स्वपदयोर्मणिपादरक्षे ।
पूर्णं मनोरथमहो भरतस्य चक्रे
तं राममार्तिहरणं शरणं भजामि ॥ ९७॥
योऽनुग्रहं हरिवराय वितीर्य पूर्वं
पश्चात् स्वयं नतविभीषणदत्तहस्तः ।
यस्तातवेश्म समलङ्कृतमाससाद
तं राममार्तिहरणं शरणं भजामि ॥ ९८॥
युक्ते वसिष्ठगदिते विजये मुहर्ते
सिंहासने रविशतद्युतिरत्नदीप्ते ।
अध्यास्य मेरुशिखरेऽर्क इवाभिरेजे
तं राममार्तिहरणं शरणं भजामि ॥ ९९॥
यं वायुजप्रमुखवानरवर्यनीत-
गङ्गादिसिन्धुचतुरर्णवपुण्यतोयैः ।
ब्रह्मात्मजो मुनिवरो विधिनाभ्यषिञ्चत्
तं राममार्तिहरण शरणं भजामि ॥ १००॥
मान्यं मनुप्रभृतिभिर्मकुटं महार्घं
मौलौ वसिष्ठमुनिना निहितं वहन् यः ।
मध्येसभं विरुरुचे मधुहेव साक्षात्
तं राममार्तिहरणं शरणं भजामि ॥ १०१॥
यस्मिन् स्वयं त्रिभुवनावनदक्षिणेन (भारदक्षे)
सर्वंसहापतिपदे सहसाभिषेकैः(षिक्ते) ।
भेजे मही वसुमतीपदवाच्यभावं
तं राममार्तिहरणं शरणं भजामि ॥ १०२॥
कान्तस्य यस्य जगतां कलिताभिषेके
हृष्टा बभूव धरणीयमकृष्टपच्या ।
गावः सुपुष्टवपुषो ह्यभवन् घटोध्न्यः
तं राममार्तिहरणं शरणं भजामि ॥ १०३॥
यस्मिन् प्रभौ भुवि महीसुरपूर्ववर्णा
आसन्नधर्मविरता निजधर्मनिष्ठाः ।
अन्योन्यवैरविमुखाः करुणार्द्रचित्ता-
स्तं राममार्तिहरणं शरणं भजामि ॥ १०४॥
यस्मिन् धरां समनुशासति सर्वमर्त्या
असन् सहस्त्रशरदायुरनेकपुत्राः ।
आढ्याः प्रमोदभरिताश्च निरामयाश्व
तं राममार्तिहरणं शरणं भजामि ॥ १०५॥
यस्य प्रभुत्वपदमावहतो धरण्यां
सामन्तभूमिपतयः स्वयमङ्घ्रिपद्मे ।
निक्षिप्तमौलिमकुटाः करदा बभूव-
स्तं राममार्तिहरणं शरणं भजामि ॥ १०६॥
यस्मिन् क्षितीशपदभाजि भुवि प्रभीता
रक्षःपिशाचकुलदुर्ग्रहभूतवर्गाः ।
क्षुद्रान् जनानपि कदापि न पीडयन्ति
ते राममार्तिहरणं शरणं भजामि ॥ १०७॥
जातु स्मृते दुरितहारिणि यस्य नाम्नि
नश्यन्त्यघानि सकलानि पुराकृतानि ।
वाञ्छाधिकानि कुशलानि भवन्ति सद्य-
स्तं राममार्तिहरणं शरणं भजामि ॥ १०८॥
अष्टोत्तरैकशतपद्यसुपूरितेन
भक्त्यामुहुःस्तुतिवरेण मयेड्यमानः ।
रामः स एष जनकात्मजया समेतः
प्रीतः सदापि हृदये मम सन्निधत्ताम् ॥ १०९॥
इति श्रीरामप्रपत्तिशतकं सम्पूर्णम् ।
Proofread by Aruna Narayanan