श्रीरामसम्बोधनस्तोत्रम्

श्रीरामसम्बोधनस्तोत्रम्

मत्स्य कूर्म किटे मर्त्यसिंह वामन भार्गव । राम प्रलम्बहन् कृष्ण कल्किन्(कल्के)पाहि दशाकृते ॥ १॥ ॥ बालकाण्डः ॥ राम दाशरथे रक्ष कौसल्यातनयाग्रज । भरतस्य च सौमित्र्योः क्रीडापर मनोहर ॥ २॥ अधीतवेदवेदाङ्गधनुर्वेद महामते । कौशिकार्थित तल्लब्धबलातिबल पाहि माम् ॥ ३॥ ताटकाताटकेयारे गाधिजाध्वररक्षक । पादरेणुकणत्राताहल्य कल्यो वने मम ॥ ४॥ माहेश्वरधनुर्भङ्गप्रीतवैदेहतत्सुत । गृहीतपाणे सीतायाः स्वतातस्य नियोगतः ॥ ५॥ जामदग्न्यनिरुद्धाध्वन् धनुषा तत्तपोहर । प्रविष्टायोध्य भुञ्जान मानुषान् भोगसञ्चयान् ॥ ६॥ बहूनृतून् भुविजया सार्धं तं मानसार्पितं (सन्मानसार्चितं) । श्रिया विष्णुरिवाजस्रं तया शोभित पाहि माम् ॥ ७॥ ॥ अयोध्याकाण्डः ॥ राज्यदानसमुद्युक्तजनकासङ्ख्यसद्गुण । मन्थराहितरोषेण कैकेय्या विघ्नितोत्सव ॥ ८॥ सन्त्यक्तराज्य तत्प्रीत्यै वनवासमहोदय । ससीतालक्ष्मणारण्यं प्रयातोद्दिश्य तापस ॥ ९॥ अनुयात जनेनापि दूरं साकेतवासिना । पितृभ्यां तमसातीरं प्राप्त वञ्चिततज्जन ॥ १०॥ श‍ृङ्गिबेरपुरे लब्धनिषादक्षितिभृत्सख । तीर्णगङ्गासरित् भूयस्सन्निवर्तितसारथे ॥ ११॥ (भरद्वाजस्य) वचसा चित्रकूटमुपागत । सीतया प्राप्तविहृते रम्येष्वेतस्य सानुषु ॥ १२॥ पितुर्मरणतः पश्चान्मातुलस्य कुलात् पुरीम् । अयोध्यामागतेनात्मज(नकादर्शनो)द्भवात् ॥ १३॥ कोपात् सन्तप्तमनसा राज्यप्राप्तौ विरागिणा । वसिष्ठाद्यनुशिष्टेन निन्दिताप्तपुरोधसा ॥ १४॥ भ्रात्रा शिष्येण दासेन भरतेन (मुहुर्मुहुः) । शिरसा याचितास्मै तु दत्तश्रीपादुकाद्वय ॥ १५॥ तस्मिन्निवृत्ते सन्त्यज्य चित्रकूटगिरिं गत । अत्र्याश्रमं तत्प्रिययानसूयाभिख्यया ततः ॥ १६॥ दिव्याम्बराङ्गरागादिवस्तुना जानकीगुणैः । प्रीतया मानितात्मीयदारानिन्दिततत्पद ॥ १७॥ ॥ अरण्यकाण्डः ॥ प्रविष्टदण्डकारण्य तद्वासिमुनिसत्तमैः । आशासानै(दैत्यवधं) स्वरक्षार्थमुपस्थित ॥ १८॥ प्रतिश्रुतावनैतेषां भवद्विषयवासिनाम् । विराधमाथिन्नात्मीयपादचाराञ्चिताश्रम ॥ १९॥ शरभङ्गादियमिनां वचसा(प्रीतमानस) । प्राप्तपञ्चवटीस्थान रम्ये गोदावरीतटे ॥ २०॥ वृषस्यन्त्या शूर्पणख्या पतित्वेनार्थितार्तया । सौमित्रिणा छिन्ननासाकर्ण तस्याः स्वबाहुना ॥ २१॥ तत्क्षणेन तदार्त्युत्थखरादिरिपुभञ्जन । चतुर्दशसहस्रत्रियामाचरनिषूदन ॥ २२॥ तच्छ्रुत्वा सरुषा पङ्क्तिवदनेन तनूजतः (? ) । सुन्दस्य स्वसहायेन मायामृगवपुर्भृता ॥ २३॥ विलोभितात्मदाराथ तया प्रेरित तद्गृहे । मारीचानुगतैतस्य प्राणहारिन्ननुद्रुत ॥ २४॥ जानकीवाक्यतप्तेन लक्ष्मणेन दशास्यतः । विजनादाश्रमपदात् गृहीतप्रिय चोरतः ॥ २५॥ मध्येमार्गं खगेन्द्रेण विरथेन कृताजिना । तत्प्राणहारिणाशोकवनिकास्थापितप्रिय ॥ २६॥ निवृत्तारण्यतस्सीताऽदर्शनात्तप्तमानस । अरण्येषु महीध्रेषु सरित्सु सरसीषु च ॥ २७॥ महिलाविचितोन्मत्तदशापन्न स्मरार्तिमन् । कृतसंस्कारगृध्रेश ब्रह्ममेधविधानतः ॥ २८॥ तन्मोक्षदायिन् सत्येन जितलोकप्रदानतः । शुश्रूषया च धनुषा जितदीनार्यशत्रुक ॥ २९॥ हतयोजनबाह्वाख्योदरतूरकबन्धक (? ) । (ततः प्रस्थाय) शबरीं प्राप्त सम्पूजितैतया ॥ ३०॥ ॥ किष्किन्धाकाण्डः ॥ पम्पातीरे हनुमता सङ्गताथाग्रजन्मना । वालिना सूनुना भानोर्निरस्तेन समन्त्रिणा ॥ ३१॥ ऋश्यमूकाद्रिशिखरे कृतसख्याग्निसाक्षिकम् । सालभञ्जनसञ्जातप्रत्ययेन तदुक्तितः ॥ ३२॥ हतवालिन् पुनस्तस्मै दत्तवानरराजत । सहतारारुमं वर्षाकाले माल्यवदाह्वये ॥ ३३॥ गिरौ सीताविरहजं प्राप्त दुःखमगोचरम् । वाचां, कनीयसाश्वस्त कुपिते मत्तचेतसि ॥ ३४॥ ग्राम्यभोगरते भानुतनये स्वानुजे पुरीम् । किष्किन्धां याति तद्द्वारे विहितज्यारवे सति ॥ ३५॥ भीतेन हनुमद्वाक्यात् सुमित्रात्मजसान्त्वने । तारां प्रेषयता तेन कपीन् सङ्गृह्णताखिलान् ॥ ३६॥ अरण्यपर्वतनदीवासानतिबलोत्कटान् । दिक्षु प्रेषयता सर्वास्वशेषान् वदताद्भुतान् ॥ ३७॥ तेभ्यो देशान् समन्विष्टवैदेहतनयात्मजे । वायोरर्पितकार्यत्वाद्दत्ताङ्गुलिविभूषण ॥ ३८॥ ताराङ्गदादियुक्तेन तत्र तत्र विचिन्वता । सीतां कालात्ययात्तीक्ष्णदण्डत्वाद्वानरप्रभोः ॥ ३९॥ भीतेनाश्वस्तमनसा सम्पातेर्वचसा पुनः । स्वभ्रातृवधदुःखस्य तस्मै दत्तजलाञ्जलेः ॥ ४०॥ अशोकवनिकावाससीतादर्शिस्वचक्षुषः । रामसाहाय्यकरणसमुत्थितगरुत्मतः ॥ ४१॥ ॥ सुन्दरकाण्डः ॥ महेन्द्रशैलारूढेन तूर्णं तीर्णपयोधिना । अनाश्वस्तेन तन्मध्ये सिंहिकाद्यनिरोधिना ॥ ४२॥ प्रविष्टेन पुरीं लङ्कां रात्रौ तद्देवता जिता । शीधुपानमदाविष्टनिद्राणस्य वधूस्ततः ॥ ४३॥ दशास्यस्यालोकयता निराशेनापि दर्शने । वैदेह्याः शिंशपामूले वसन्त्यास्तत्तरोः पुनः ॥ ४४॥ दलावृतेन कथिताशेषराघववृत्ततः । प्रत्ययार्थं सशङ्कायः सीताया भूरुहात्ततः ॥ ४५॥ अवतीर्णेन दत्तस्वकरभूषेण सीतया । आलोकितेन शस्तेन कृतसम्भाषणेन च ॥ ४६॥ उक्तकाकादिवृत्तेन दत्तचूडाविभूषतः । उक्तस्वदैन्यवाक्येन स्वमुद्दिश्य तु जीवनम् ॥ ४७॥ अनुज्ञातेन रचिताशोककाननभङ्गतः । प्रासादभेदिना रम्यतोरणं समुपेयुषा ॥ ४८॥ दासोऽहं कोसलेन्द्रस्येत्यादि श्रावयता वचः । किङ्करान् पञ्च सेनेशान् सप्त मन्त्रिसुतानपि ॥ ४९॥ जम्बुमालिनमक्षं च युद्धे हतवता बलात् । वलारिजिद्विसृष्टेन ब्राह्मणास्त्रेण बन्धनात् ॥ ५०॥ रज्ज्वन्तराणां संसर्गाद्विमुक्तेनाञ्जसा पुनः । तज्ज्ञात्वापि कृतां पीडां सहमानेन राक्षसैः ॥ ५१॥ प्रविष्टेन दशग्रीवसभां यातुभिरावृताम् । कथितस्वकपीशानसख्यमुख्यप्रवृत्तिना ॥ ५२॥ कुपितेनारिणा हिंसां कर्तुमुद्युञ्जता पुनः । विभीषणवचोभङ्गीविनिवर्तितचेतसा ॥ ५३॥ दहतास्य प्रियं वालमित्यादिष्टवता भटान् । दग्धवालेन वालाग्निदग्धारिपुरवेश्मना ॥ ५४॥ वैदेहीकरुणावाक्यशीतलाङ्गूलवह्निना । प्रस्थितेन पुनः शैलं त्रिकूटमधितिष्ठता ॥ ५५॥ तीर्णवारिधिना सर्वैर्नन्दितेनाङ्गदादिभिः । तेभ्यः प्रोक्तस्ववृत्तेन पानेऽनुमतिदायिना ॥ ५६॥ मधुनो वारितवता तद्वनावनवानरान् । दधिवक्त्रमुखानात्मसन्निधानमुपेयुषा ॥ ५७॥ विज्ञापितात्ममहिलादृष्टिवाक्य हनूमता । प्रशंसित परिष्वक्तमारुतात्मज ते नमः ॥ ५८॥ ॥ युद्धकाण्डः ॥ श्रुत्वा हनुमतो वाक्यं हरिवीरैर्वृताध्वनि । सुग्रीवप्रमुखैस्तीरं प्राप्त सिन्धुमहीपतेः ॥ ५९॥ तत्रागताय सन्त्यज्य पूर्वजं कालचोदितम् । (सत्य)वाक्यमश‍ृण्वन्तं मैथिलीदानगोचरम् ॥ ६०॥ स्वनिन्दनपरित्यक्तपुत्रदाराय धीमते । आत्मानं सर्वलोकानां शरण्यं भजते गतिम् ॥ ६१॥ सुग्रीवादीन् पुरस्कृत्य स्वाकिञ्चन्यपुरस्सरम् । विभीषणाय सर्वेभ्यो भूतेभ्योऽभयदायक ॥ ६२॥ इममाशङ्कमानानां सुग्रीवादिवनौकसाम् । परिहारकर स्वीयसामर्थ्यस्य प्रदर्शनात् ॥ ६३॥ भूयस्तदनुमत्या तमङ्गीकृत्याभिषेचनम् । कृतवांस्तस्य तद्वाक्यात् समुद्रं शरणागत ॥ ६४॥ दर्भानास्तीर्य तत्तीरे प्राङ्मुखाञ्जलिबन्धन । उपाधाय भुज स्वीयं शयान प्रतिवारिधिम् ॥ ६५॥ तस्मिन्नदत्तवदने सन्त्यक्तक्षम कोपन । चापसंहितहैरण्यगर्भास्त्रास्मिन् समागते ॥ ६६॥ निष्कोपोत्तरपाथोधितीरस्थासुरमर्दन । तेन तद्वाक्यतो बद्धनलसेतो तदम्भसि ॥ ६७॥ तीर्णवारिनिधे शाखामृगसङ्गैः सहाचिरात् । तस्य दक्षिणतीरे तु प्राप्तलङ्कापुरान्तिक ॥ ६८॥ अध्वयानपरिश्रान्त त्रातवानरसैन्यक । सुवेलशैलश‍ृङ्गस्थ सुग्रीवप्रमुखैः सह ॥ ६९॥ दृष्टत्रिकूटमूर्धस्थलङ्कापुर समन्ततः । तदीशमकुटीभङ्गकृता वानरभूभृता ॥ ७०॥ पुनः सङ्गत तत्स्तोत्रपर तत्साहसाक्षम । निरुद्धलङ्कानगर काननालयपुङ्गवैः ॥ ७१॥ शक्रजित्प्रेरितैर्नागपाशैर्बद्धाङ्ग पक्षिणाम् । नाथेन मुक्तगात्रास्माद्बन्धनादपि कर्कशात् ॥ ७२॥ हतधूम्राक्ष पुत्रेण मरुतो वालिसूनुना । वज्रदंष्ट्रासुहननकर मारुतसूनुना ॥ ७३॥ हताकम्पन नीलेन हत(कपि) सेन महीभृता । हतरावणसैन्येशप्रहस्ताह्वयराक्षस ॥ ७४॥ प्रथमायोधने पङ्क्तिमुखप्रेरितशक्तितः । विद्धलक्ष्मण तेनानुद्धृतावरज शत्रुणा ॥ ७५॥ वायुसूनोस्तु सौहार्दाद्भक्त्या परमयापि च । उद्धृतौ ॥। ॥। कनिष्ठाश्रितवत्सल (? ) ॥ ७६॥ समितावधिरूढांससदागतिसुतोत्तम । पराजितस्वबाणार्तिमुक्तचापदशानन ॥ ७७॥ गत्वा विश्रम्यतां लङ्कामित्यनुज्ञाप्रदेशितुः । रक्षसां स्वाशुगस्मृत्या व्यथितारातिमानस ॥ ७८॥ तद्भयेनातिनिद्रस्योत्थापितस्यातियत्नतः । गिरिमात्रशरीरस्य कुम्भकर्णस्य युध्यतः ॥ ७९॥ कपिराजनखाल्लूनकर्णनासस्य नर्दतः । वधकारिन् वालिसूनुहस्ताहतनरान्तक ॥ ८०॥ हनुमत्संहृतस्वर्गनिलयान्तक तेन च । हतत्रिशीर्षातिकायप्राणासंहारिलक्ष्मण ॥ ८१॥ रावणीरितविध्यस्त्रविवशाङ्गानुजादिभिः । सार्धं वायुसुतानीतदिव्यौषधविशेषतः ॥ ८२॥ विमुक्तपीड सुग्रीवहतकुम्भ हनूमता । निकुम्भप्राणहरण मकराक्षहर स्वयम् ॥ ८३॥ निकुम्भिलायां शक्रारिकृतहोमविघाततः । विभीषणवचोजातात् कुपितेनेन्द्रवैरिणा ॥ ८४॥ सार्धं कृताजिना नानादिव्यास्त्रज्ञेन धीमता । धर्मात्मेत्यादिपद्येन प्रतिज्ञां कुर्वता ततः ॥ ८५॥ सौमित्रिणा स्वानुजेन हतप्राणेन्द्रशात्रव । मिषत्सु वानरेन्द्रेषु नानामूर्तिधर स्वयम् ॥ ८६॥ हतमूलबलाढ्येन शौर्यवीर्यादिसम्पदा । नानास्त्रविदुषा देवसङ्घगर्वापकर्षिणा ॥ ८७॥ कृताजे पङ्क्तिवक्त्रेण स्यन्दनं जम्भभेदिनः । आरुह्य सूतेनानीतं दिव्यं मातलिनास्त्रतः ॥ ८८॥ अनेकधा विलूनारिदशशीर्ष स्वयम्भुवः । अस्त्रेण संहृताराते पूर्वजस्योत्तरक्रियाम् ॥ ८९॥ कृतचित्तसमाधान न चिकीर्षोर्जुगुप्सया । विभीषणस्य तेनैव विहितारातिसंस्कृते ॥ ९०॥ प्रलापवाक्यैस्तत्स्त्रीणां निजपारम्य(सूचकैः) । ज्ञापितोत्कर्ष सीतायां श्रुत्वा विजयमाहवे ॥ ९१॥ निजं हनूमद्वाक्येन सन्तुष्टौ राक्षसीगणम् । अपराधिनमप्यस्माद्रक्षन्त्यां दयया ततः ॥ ९२॥ विभूषितायां भूषाभिः स्नातायां निजमन्तिकम् । विभीषणेनानीतायामशोकगहनादरेः ॥ ९३॥ निजचारित्रसन्देहात् प्रविशन्त्यां हुताशनम् । समागतैर्ब्रह्ममुख्यैर्दैवतैर्विहितस्तुते ॥ ९४॥ तातं निजं पुरस्कृत्य दत्तसीत कृशानुना । शक्रादिवरलाभेन समुत्थापितवानर ॥ ९५॥ कृताभिषेक लङ्कायां रावणावरजस्य तु । यक्षनाथविमानेन पुष्पकेणाशुगामिना ॥ ९६॥ प्रतिप्रयात वैदेह्यै प्रोक्तस्वचरिताध्वनि । सुग्रीवप्रमुखैःस्सार्धं सहदारैः प्लवङ्गमैः ॥ ९७॥ भरद्वाजाश्रमं प्राप्त वर्षे पूर्ण चतुर्दशे । आर्ताय भरतायाथ प्रेरितानिलसम्भव ॥ १८॥ अभियातामुना सार्धं वसिष्टाद्यैः समन्त्रिभिः । नन्दिग्रामगत त्यक्तजट स्नात विभूषणैः ॥ ९९॥ भूषिताङ्गाभ्यनुज्ञातयान यक्षमहीभृते । स्यन्दनारूढ संप्राप्तसाकेतनगर जनैः ॥ १००॥ पौरैरस्माद्गत प्राप्त निजतातगृहोत्तमम् । वसिष्ठाद्यैः ससचिवैरभिषिक्त पितुः पदे ॥ १०१॥ विभीषणाय दत्तस्वकुलनाथात्मभक्तये । विसृष्ट भानुतनयमुखवानरसञ्चय ॥ १०२॥ ॥ उत्तरकाण्डः ॥ वत्सरान् दशसाहस्त्रान् दशवर्षशतान्वितान् । नीतिशास्त्रप्रकारेण पालितावनिमण्डल ॥ १०३॥ कृताश्वमेध रचितवाजपेय पुनः पुनः । तथा बहुसुवर्णादिक्रत्वनुष्ठानतत्पर ॥ १०४॥ सामन्तराजमकुटीखचितैर्मणिमण्डलैः । नीराजितपदाम्भोजद्वन्द्व भूजनरञ्जन ॥ १०५॥ हृष्टैर्दशास्यनिधनादभिनन्दित योगिभिः । कुम्भोद्भवमुखैः प्रोक्तरावणादिकथागणैः ॥ १०६॥ अन्तर्वत्न्यां तु सीतायां वनवासरतौ पुनः । तद्व्याजाज्जनवार्तार्तचेतो वाल्मीकिसद्मनि ॥ १०७॥ लक्ष्मणस्थापितात्मीयदार तस्यामथाश्रमे । मुनेर्यमौ प्रसूतायां नाम्ना कुशलवौ सुतौ ॥ १०८॥ तयोर्वृद्धिमतोस्तेन मुनीन्द्रेणोपनीतयोः । अधीतसाङ्गसशिरोवेदयोर्मुनिना कृतम् ॥ १०९॥ तेन रामायणं वाचो विधेयं कुर्वतोः सतोः । क्रियमाणे वाजिमेधे जानानां पुरवासिनाम् ॥ ११०॥ तथा जानपदानां च राज्ञां संसदि योगिनाम् । ताभ्यां विज्ञापितस्वीयप्रबन्ध भ्रातृभिः सह ॥ १११॥ श्रवणादस्य सन्तुष्टमानसाम्बुज ? ? । चरेभ्योऽप्यचरेभ्योऽपि दूर्वादिभ्यस्त्वहेतुकम् ॥ ११२॥ साकेतदेशवासिभ्यो दत्तमोक्ष दयानिधे । विजयीभव नित्यं त्वमयोध्याधिपनन्दन ॥ ११३॥ मङ्गलं राघवायास्तु मङ्गलं लक्ष्मणाय च । मङ्गलं भरतायास्तु शत्रुघ्नायापि मङ्गलम् ॥ ११४॥ सीतायै मङ्गलं भूयात्तनयाय सदागतेः । तत्सेवनपरायास्तु तद्भक्तिस्नेहराशये ॥ ११५॥ पुराय भूयात् साकेतनाम्ने दिव्यर्धिमीयुषे । अस्तूत्तराय देशाय कोसलायापि मङ्गलम् ॥ ११६॥ सम्बोधनमिदं स्तोत्रं सूनुना वादिभीकृतः । वेङ्कटेशेन रामस्य रचितं जयतात् सदा ॥ ११७॥ इति श्रीरामसम्बोधनस्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Rama Sambodhana Stotram
% File name             : rAmasambodhanastotram.itx
% itxtitle              : rAmasambodhanastotram
% engtitle              : rAmasambodhanastotram
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org