श्रीरामशतकम्

श्रीरामशतकम्

आपादकेशमतिसुन्दरदिव्यगात्रं श्रीपादरेणुहृतगौतमदारशापम् । कोपातिरक्तनयनक्षुभिताम्बुराशिं भूपालसूनुमवलोकय रामचन्द्रम् ॥ १॥ कोदण्डकोटिविनिवेशितबाहुदण्ड- माखण्डलाद्यमरपातितपुष्पवर्षम् । आयोधनक्षितिरजःपरिधूसराङ्ग- मव्याच्चिरं रघुपतेरवसन्नशत्रोः ॥ २॥ चन्द्रोपमं मलयचन्दनरूषिताङ्गं मन्दारपुष्पपरिपूजितपादपद्मम् । ब्रह्मेन्द्रदेवमुनियोगिगणावृतं तं वन्देऽरविन्दनयनं रघुरामचन्द्रम् ॥ ३॥ सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं माणिक्यकुण्डलधरं मकुटाभिरामम् । चाम्पेयगौरवसनं शरचापहस्तं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ४॥ सीतापतिं कमलपत्रविशालनेत्रं रामं कृपाकरमनन्तगुणानुरक्तम् । इन्द्रादिसर्वसुरसिद्धसुपूजिताङ्घ्रिं नित्यं भजेऽहमसुनायकमप्रमेयम् ॥ ५॥ एकेन बाणमितरेण करेण चापं हारं वहन्तमुरसा शिरसा जटाश्च । सीतासहायमनुजेन वने चरन्तं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ६॥ संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिसेवितसिद्धमन्त्रम् । दारिद्र्यदुःखभवरोगविनाशमन्त्रं सेवे सदा गुणनिधिं रघुरामचन्द्रम् ॥ ७॥ सीतासमेतमजिनाम्बरमप्रमेयं सौमित्रिणा नियतसेवितपादयुग्मम् । नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ८॥ श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ ९॥ श्रीराघवं दशमुखान्तकमम्बुजाक्षं सीतामनोरमणमम्बुदनीलदेहम् । काकुत्स्थवंशपयसान्निधिपूर्णचन्द्रं श्रीरामचन्द्रमनिशं शिरसा नमामि ॥ १०॥ राकाशशाङ्कवदनं रघुवंशदीपं राजाधिराजतनयं रमणीयमूर्तिम् । रात्रिञ्चरान्तकमनन्तगुणं मनोज्ञं श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ ११॥ कन्दर्पकोटिसदृशं करुणाम्बुराशिं काकुत्स्थवंशकनकाचलरत्नदीपम् । कञ्जातपत्रनयनं करचापबाणं कल्याणराममनिशं शरणं भजेऽहम् ॥ १२॥ विश्वाधिपं विबुधपूजितपादपद्मं विप्रप्रियं विमलपङ्कजपत्रनेत्रम् । विद्यात्मकं विजितराक्षसवीरकोटिं श्रीवीरराममनिशं शरणं भजेऽहम् ॥ १३॥ पद्मासनादिपुरुहूतसुरार्चितं तं पापान्धकारतरणिं पवनात्मजेशम् । पङ्केरुहाक्षमखिलश्रुतिमौलिसारं पट्टाभिराममनिशं शरणं भजेऽहम् ॥ १४॥ श्रीवत्सहारमकुटाङ्गदभूषिताङ्गं श्रीभारतीविधृतचामरवीज्यमानम् । श्रीनायकं शिवविरिञ्चिनुताङ्घ्रिपीठं श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ १५॥ यत्पादपङ्कजरजः श्रुतिभिर्विमृद्यं (ग्यं) यन्नाभिपङ्कजभवः कमलासनश्च । यन्नामसाररसिको भगवान् पुरारिः श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ १६॥ हा राम हा रमण हा जगदेकवीर- हा नाथ हा रघुपते करुणालवाल । हा जानकीरमण हा जगदेकबन्धो हा रामभद्र जनपालक पाहि नित्यम् ॥ १७॥ हा वीर हा दशरथात्मज मैथिलीश हा देव हा पवनजप्रिय दीनबन्धो । हा धीर हा दशमुखान्तक लोकनाथ हा भूप हा भरतपूर्वज पाहि नित्यम् ॥ १८॥ जानाति राम तव नामरुचिं महेशो जानाति गौतमसती चरणप्रभावम् । जानाति दोर्बलपराक्रममीशचापो जानात्यमोघपटुबाणगतिं पयोधिः ॥ १९॥ जानाति राम तव चित्तगतिं हनूमान् जानाति राम तव सख्यरुचिं कपीन्द्रः । जानाति राम तव युद्धगतिं दशास्यो जानाति राम विमतानुज एव सत्यम् ॥ २०॥ (विमतानुज = विमतस्य शत्रो रावणस्य अनुजः विभीषणः) श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम । श्रीराम राम हनुमत्प्रिय राम राम श्रीराम राम शरणं भव राम राम ॥ २१॥ श्रीरामचन्द्र करुणाकर रामचन्द्र राजेन्द्रचन्द्र रघुवंशसमुद्रचन्द्र । सुग्रीवनेत्रयुगलोत्पलपूर्णचन्द्र सीतामनःकुमुदचन्द्र नमो नमस्ते ॥ २२॥ वन्देन्दु(ऽब्ज)मौलिमणिशोभिपदारविन्दं वन्दे सुचापशरशोभिकरारविन्दम् । वन्दे सदा स्मितलसद्वदनारविन्दं वन्दे कटाक्षविलसन्नयनारविन्दम् ॥ २३॥ वन्दे रघूत्तमकुलार्णवपूर्णचन्द्रं वन्दे दशाननभुजङ्गविहङ्गमेन्द्रम् । वन्दे समर्चितकवीन्द्रसुरामरेन्द्रं वन्दे कृपाजलनिधिं रघुरामचन्द्रम् ॥ २४॥ भवतिमिरपतङ्गं पापतूलस्फुलिङ्गं प्रणवतरुविहङ्गं भक्तचित्ताब्जभृङ्गम् । निगमवनकुरङ्गं नीरदश्यामलाङ्गं रघुकुलगिरिश‍ृङ्गं नौमि सीतान्तरङ्गम् ॥ २५॥ सरसिजदलनेत्रं सर्वलोकैकमित्रं दशरथवरपुत्रं नीलजीमूतगात्रम् । सकलजनपवित्रं सर्वदा सच्चरित्रं विधृतकनकवस्त्रं (नेत्रं) नौमि सीताकलत्रम् ॥ २६॥ वदनजितनिशेशं कोटिसूर्यप्रकाशं सकलजगदधीशं माल्यसंशोभिकेशम् । निखिलसुरमुनीशं दूतशाखामृगेशं विजितनिशिचरेशं नौम्यहं जानकीशम् ॥ २७॥ सकलभुवनराजं सर्वशास्त्रार्थबीजं नयनजितसरोजं सर्वदा सत्समाजम् । अघकरिमृगराजं सेवकामर्त्यराजं दशरथसुतनूजं नौम्यहं राजराजम् ॥ २८॥ निगमविपिनकीरं वेदवेदान्तसारं भवजलनिधिपारं कण्ठसंशोभिहारम् । तुहिनशिखरधीरं जानकीप्रेमदारं रुचिरतरशरीरं नौम्यहं रामवीरम् ॥ २९॥ दशरथनृपबालं वेदकल्पद्रुमूलं नतजनपरिपालं सर्वदा लोकपालम् । विधृतकनकचेलं वानरेन्द्रादिजालं (जालम् एवं गर्वः) मरतकमणिनीलं नौमि सीतानुकूलम् ॥ ३०॥ नतसुरनिकुरुम्बं वक्त्रशीतांशुबिम्बं कलभगतिविडम्बं दीनचित्तावलम्बम् । सहचरविधिसाम्बं सर्वदा सत्कदम्बं करविधृतकलम्बं नौमि सीताकुटुम्बम् ॥ ३१॥ रघुकुलमणिदीपं सर्वलोकैकभूपं हृतजनपरितापं दत्तदीनादिगोपम् । धृतमकुटकलापं हस्तविन्यस्तचापं कृतजलनिधिकोपं नौमि कल्याणरूपम् ॥ ३२॥ पवनतनयदूतं सर्वदा मन्त्रगीतं कुशलववरतातं रावणादिप्रघातम् । धृतलसदुपवीतं चन्दनात्यन्तशीतं त्रिभुवनजनपूतं नौमि सीतासमेतम् ॥ ३३॥ विकचकमलतुण्डं चापविद्यातिशौण्डं करिकरभुजदण्डं कुण्डलाशोभिगण्डम् । नखजितशशिखण्डं हस्तसंशोभिकाण्डं विधृतमणिशिखण्डं नौमि रामं प्रचण्डम् ॥ ३४॥ निगमशिरसि रत्नं सर्वलोकैकरत्नं दशरथसुतरत्नं सीतया सेव्यरत्नम् । भुवनवलयरत्नं भू भुजामेकरत्नं रघुकुलघनरत्नं पातु मां रामरत्नम् ॥ ३५॥ जगति विबुधमन्त्रं जानकीप्राणमन्त्रं विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् । दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं रघुपतिनिजमन्त्रं राम रामेति मन्त्रम् ॥ ३६॥ सजलजलदनीलं सन्मुनिस्तुत्यलीलं निखिलनिगममूलं यातुधानान्तकालम् । तिलकलसितभालं सर्वदा लोकपालं विधृतकनकचेलं नौमि सीतानुकूलम् ॥ ३७॥ विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वान्तमित्रम् । भुवनहितचरित्रं भूमिपुत्रीकलत्रं रघुपतिवरपुत्रं नौम्यहं चन्द्रवक्त्रम् ॥ ३८॥ मरतकमणिनीलो मत्तमातङ्गलीलो मधुरवचनशीलो मारुतिप्रेममूलः । मणिमुकुरकपोलो मैथिलीकेलिलोलो मम हृदि रघुपालो पातु मारीचकालः ॥ ३९॥ त्रिदशकुमुदचन्द्रो दानवाम्भोजचन्द्रो मरुत(दितिज)तिमिरचन्द्रो योगिनां ज्ञानचन्द्रः । प्रणतनयनचन्द्रो भक्तिचित्ताब्धिचन्द्रो वदनविजितचन्द्रः पातु मां रामचन्द्रः ॥ ४०॥ निखिलभुवननेता नित्यकल्याणदाता त्वमिति न हि विवादस्तत्र घण्टानिनादः । जनयति मम हासं जातु चेतोनिवासं मम कुरु गुणसिन्धो मैथिलीप्राणबन्धो ॥ ४१॥ पटुजलधरधीरध्वानमाकृष्य चापं पवनजवनमेकं बाणमादाय तूणात् । अभयवचनदायी सानुजः सर्वतो मे रणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥ ४२॥ कुवलयदलनीलः पीतवासा दयालु- र्विविधरुचिरभूषाभूषितो दिव्यमूर्तिः । दशरथकुलनाथो मैथिलीप्राणनाथो निवसतु मम चित्ते सर्वदा रामचन्द्रः ॥ ४३॥ मरतककनकाभौ मण्डलीभूतचापौ भुवनभरणदक्षौ पुण्डरीकायताक्षौ । मकुटकनकभूषौ वीरलक्ष्मीसमेतौ परिचरति मनो मे जानकीरामचन्द्रौ ॥ ४४॥ जयतु जयतु रामो जानकीमोदकारी दशवदनकुलारी रम्यकोदण्डधारी । विविधविपिनचारी विष्णुपूर्णावतारी सकलदनुजहारी सर्वलोकाधिकारी ॥ ४५॥ कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः । अभिनव इव विद्युन्मण्डितो मेघराशिः शमयतु परितापं सर्वदा रामभद्रः ॥ ४६॥ श्रीरामचन्द्रः श्रितपारिजात- समस्तकल्याणगुणाभिरामः । सीतामुखाम्भोरुहचञ्चरीको निरन्तरं मङ्गलमातनोतु ॥ ४७॥ दयानिधे राघव रामचन्द्र निरस्य पापानि ममाखिलानि । त्वय्येव भक्ति सुदृढां प्रयच्छ सैव प्रसूते सकलान् पुमर्थान् ॥ ४८॥ रामेति वर्णद्वयमादरेण- सदा जपन् मुक्तिमुपैति जन्तुः । कलौ युगे कल्मषमानसाना- मन्यत्र धर्मे खलु नाधिकारः ॥ ४९॥ रामेति सीतारमणेति मेघ- श्यामेति काकासुररक्षकेति । पीताम्बरेति प्रियलक्ष्मणेति श्रीरामचन्द्रेति वदाशु जिह्वे ॥ ५०॥ श्रीरामचन्द्रेति सलक्ष्मणेति नीलोत्पलश्यामल कोमलेति । आक्रोश रामेत्यधुनैव जिह्वे सीतापते राघव राघवेति ॥ ५१॥ इन्दीवरश्यामलमायताक्षं धनुर्धरं नीलजटावचूडम् । पार्श्वद्वये लक्ष्मणमैथिलीभ्यां निषेव्यमाणं प्रणतोऽस्मि रामम् ॥ ५२॥ आकर्णमाकृष्य धनुर्गुणोद्य- द्ब्रह्मास्त्रलक्षीकृतराक्षसेन्द्रम् । रथाधिरूढं रणरङ्गधीरं रामं भजे रक्तसरोरुहाक्षम् ॥ ५३॥ अकार्मुकालङ्कृतबाहुदण्डै- रराक्षसाधीश्वरभङ्गदक्षैः । अजानकीन्द्रैरपयोदनीलै- ररामचन्द्रैरलमन्यदैवैः ॥ ५४॥ अलं विवादेन न मानुषोऽयं रामात्मना राक्षसमर्दनाय । भुजङ्गशय्यां परिमुच्य साक्षा- न्नारायणो भूमितलं जगाम ॥ ५५॥ कल्याणदं कौशिकयज्ञपालं कलानिधिं काञ्चनशैलधैर्यम् । कञ्जातनेत्रं करुणासमुद्रं काकुत्स्थरामं कलयामि चित्ते ॥ ५६॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिदेहं (भिधेयं) रमणीयदेहम् । धनुर्धरं पद्मपलाशनेत्रं नमामि नित्यं रघुनाथमूर्तिम् ॥ ५७॥ विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं शुभसच्चरित्रम् । सुग्रीवमित्रं जगतः पवित्रं वन्दे सुवक्त्रं वरभूपपुत्रम् ॥ ५८॥ कारीरभासा कलयन् विनोदं शारीरभासा जितशाम्बरारिः । वारीशगेहे कृतसेतुरीशो मारीचवैरी मम सन्निधत्ताम् ॥ ५९॥ वदन्तु केचिच्चतुरोऽपि वेदान् पठन्तु शास्त्राण्यपरेऽखिलानि । अटन्तु तीर्थान्यपरे पृथिव्यां वयं तु रामं मनसा स्मरामः ॥ ६०॥ नमामि रामं नतपारिजातं करोमि रामाङ्घ्रिसरोजपूजाम् । वदामि रामस्य सुदिव्यनाम स्मरामि रामं न तु विस्मरामि ॥ ६१॥ अन्नं नराणाममृतं सुराणां भृङ्गावलीनां मकरन्द एव । श्रीरामपादाम्बुजसेवकानां महात्मनां रामकथैवमुक्ता ॥ ६२॥ श्रीशब्दपूर्वं जयशब्दमर्त्यं(मध्यं) जयद्वायावुत्तरत(द्वयं चोत्तरत)स्तथैव । त्रिस्सप्तकृत्वो भुवि रामनाम- जपं तु हन्याद्द्विजकोटिहत्याम् ॥ ६३॥ यो दण्डकारण्यनिशाचरेन्द्रान् कोदण्डलीलाविषयीचकार । वेतण्डशुण्डायितबाहुदण्डो कोदण्डपाणी(णिः) कुलदैवतं नः ॥ ६४॥ कोदण्डदीक्षागुरुमप्रमेयं सलक्ष्मणं दाशरथिं दयालुम् । महानुभावं जगदेकवीर- मनाथनाथं रघुनाथमीडे ॥ ६५॥ रामः पिता राघव एव माता रामः सुबन्धुश्च सुहृत् स एव । रामो गुरुर्मे परमं च दैवं रामं विना नान्यमहं स्मरामि ॥ ६६॥ माता रामो मत्पिता रामभद्रो भ्राता रामो मत्सखो राघवेशः । भर्ता त्राता रामचन्द्रो दयालु- र्नान्यं जाने नैव जाने न जाने ॥ ६७॥ रघुनन्दन एव दैवतं नो रघुवंशोद्भव एव दैवतं नः । भरताग्रज एव दैवतं नो भगवान् राघव एव दैवतं नः ॥ ६८॥ दीनवत्सलमनाथरक्षकं दीर्घबाहुमरविन्दलोचनम् । दीक्षितं सकललोकरक्षणं दैवतं दशरथात्मजं भजे ॥ ६९॥ इन्द्रनीलमणिसन्निभदेहं वन्द्यमानचरणं मुनिवृन्दैः । लम्बमानतुलसीवनमालं चिन्तयामि सततं रघुवीरम् ॥ ७०॥ चापं दधानः स्तनयित्नुघोषं कर्षन्निषङ्गादिषुमप्यरिघ्नम् । आपत्सु भूयादभयप्रदो मे साकं सुमित्रातनयेन रामः ॥ ७१॥ यः पूतनामारणलब्धवर्णः काकोदरो येन विनीतदर्पः । यशोदयालङ्कृतमूर्तिरव्या- न्नाथो यदूनामथ वा रघूणाम् ॥ ७२॥ (footnote on verse 72) रामपक्षेः-पूतनामा रणलब्धवर्णः इति पदच्छेदः । काकोदरः काकासुरः । यशः दया द्वाभ्यां अलङ्कृतमूर्तिः । कृष्णपक्षेः -- पूतना राक्षसी । काकोदरः सर्पः कालियः । यशोदा नन्दस्य पत्नी ।) जातो वंशे रघूणां मुनिवरवचनात्ताटकां ताडयित्वा कृत्वा पुण्यामहल्यां त्रुटितभवधनुर्मैथिलीवल्लभोऽभूत् । प्राप्यायोध्यां निदेशात् पितुरटविमगाद्वीतसीतोऽस्तवाली बद्धाब्धिर्ध्वस्तलङ्को दलितदशमुखः सीतया राज्यमाप ॥ ७३॥ रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोदण्डहस्तम् । कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं भीमं भीमाट्टहासं सकलभयहरं रामचन्द्रं भजेऽहम् ॥ ७४॥ राम वीरासनस्थं हृदयगतकरव्यञ्जितज्ञानमुद्रं जानौ विन्यस्तहस्तं जनकतनयया भूषितं वामभागे । षट्छास्त्रं व्याहरन्तं पवनसुतनयं चाग्रतो मानयन्तं संसेवे सेव्यमानं करधृतधनुषा दक्षिणे लक्ष्मणेन ॥ ७५॥ वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं पश्चाद्भागे च नित्यं विदधदभिमतं सासितूणीरभारम् । वामे भागे लसद्भ्यां सहमिलिततनुं जानकीलक्ष्मणाभ्यां रामं श्यामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ७६॥ शुद्धान्ते मातृमध्ये दशरथपुरतः सञ्चरन्तं मनोज्ञं काञ्चीदामानुविद्धप्रतिमणिविलसत्किङ्किणीनिक्वणाङ्कम् । फाले मुक्ताललामं मृदुतरनिनदं नूपुरं चारुहारं बालं रामं भजेऽहं मृदुमधुरगिरं कुण्डलश्रीकपोलम् ॥ ७७॥ लोकत्राणानुकारी दशवदनशिरःपङ्क्तिविच्छेदकारी सीतासीमन्तकारी मणिमयमकुटोद्दण्डकोदण्डधारी । लङ्कालङ्कारहारी भृगुतनयमनःसर्वगर्वापहारी (वालिप्राणापहारी) शमयतु दुरितं भूमिभारापहारी ॥ ७८॥ जातः श्रीरघुनायको दशरथान्मुन्याज्ञया ताटकां हत्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् । भङ्क्त्वा भार्गशरासनं जनकजामुद्वाह्य रामस्थितो (रामः स्थितं) जित्वा चाध्वनि भार्गवं पुनरगात् सीतासमेतं भजे ॥ ७९॥ स श्रेयांसि बलीनि सन्दिशतु ते वीरः कृपात्मा शुचिः यन्नेत्राञ्चलरक्तिमा समतनोदब्धीश्वराग्रस्थितिम् । यद्वक्षो विमतानुजाय सदयं लङ्काधिपत्यं ददौ यत्पादाब्जपरागपालिरकरोत् पाषाणमेणीदृशम् ॥ ८०॥ गीतार्थामृतवारिधिं रघुपतिं शीतांशुबिम्बाननं सूताङ्गीरसनारदैरभिनुतं वातात्मजाभीष्टदम् । आताम्राधरशोभितं सुरनुतं पीताम्बरालङ्कृतं सीताराममहं भजामि शरणं कारुण्यदुग्धार्णवम् ॥ ८१॥ श्रीरामोऽजनि राघवो मुनिमखं पाति स्म सीतापतिः कान्ताराणि निनाय वीतभयतां रामेण वाली हतः । आनन्दं हनुमत् ? ? रघुपतिर्निन्ये जजृम्भे बले ? लकेशःस्वपदात् स्वयं विजघटे रामः स्त्रियागात्पुरीम् ॥ ८२॥ श्रीरामं जगदेकवीरममलं सीतामनोहारिणं कौसल्यावरनन्दनं सुरनुतं काकुत्स्थवंशोद्भवम् । लोकानामभिवाञ्छितार्थफलदं कारुण्यकल्पद्रुमं वन्देऽहं जनघोरपापनिकरध्वंसव्रतं राघवम् ॥ ८३॥ राम लक्ष्मणपूर्वजं रघुपतिं सीतापतिं सुन्दरं काकुत्स्थं करुणाकरं गुणनिधिं विप्रप्रियं धार्मिकम् । राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ८४॥ रामं चन्दनशीतलं मणिलसद्रुक्माम्बरालङ्कृतं कौसल्यातनयं विशालनयनं सम्पूर्णचन्द्राननम् । राजानं करुणासमेतमनघं सीतामनोहारिणं सीतादर्शनलालसं गुणनिधिं वन्दे सदा राघवम् ॥ ८५॥ रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं सीतालङ्कृतवामभागममलं वीरासने सुस्थितम् । सुग्रीवादिसमस्तवानरगणैः संसेव्यमानं सदा विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं भजे ॥ ८६॥ रामं राजशिरोमणिं रघुवरं देवारिदर्पापहं लोकानां हितकारिणं गुणनिधिं कारुण्यपूर्णोदयम् । मुक्ताकाञ्चनभूषणान्विततनुं चापेषुहस्ताम्बुजं कौसल्याकुलभूषणं रघुपतिं श्रीरामचन्द्रं भजे ॥ ८७॥ राम त्वच्चरणारविन्दममलं श्रीरामपारायणं भक्तत्राणपरायणं भवभयत्राणप्रवीणं सदा । तन्मे कर्तुमुपायनं मम मनः प्रीतिं दिशा सर्वदा (दिश त्वं सदा) दीनं दीनशरण्य पूर्णकृपया सीतापते पाहि माम् ॥ ८८॥ रामो नः कुलदैवतं सकरुणं रामं भजे सादरं रामेणेशधनुः क्षणेन दलितं रामाय तस्मै नमः । रामान्नाशमवाप राक्षसकुलं रामस्य दासोऽस्म्यहं रामे तिष्ठति विश्वमेतदखिलं हे राम(रक्षस्व) संरक्ष माम् ॥ ८९॥ रामो रक्षतु लक्ष्मणेन सहितो रामं सरामं भजे रामेणैव हि रक्षिताः सुरगणा रामाय तस्मै नमः । रामान्नापरमस्ति दैवतमहो रामस्य दासोऽस्म्यहं रामे तिष्ठतु मानसं मम सदा हे राम तुभ्यं नमः ॥ ९०॥ दिव्यस्यन्दनमध्यगं घनरणच्चापान्वितं भीषणं कालाग्निप्रतिमानबाणकलितं घोरास्त्रतूणीद्वयम् । सौमित्र्यर्कजरावणानुजमरुत्पुत्रादिसंसेवितं रामं राक्षसकोटिवीरहरणं श्रीरामचन्द्रं भजे ॥ ९१॥ राजीवायतलोचनं रघुपतिं नीलोत्पलश्यामलं मुक्तालङ्कृतमण्डपे सुललिते सौवर्णके पुष्पके । आसीनं नवरत्नकाञ्चनलसत्सिंहासने साम्बुजे सीतालक्ष्मणवायुसूनुसहितं श्रीरामचन्द्रं भजे ॥ ९२॥ कर्पूराङ्गविलेपनं रघुवरं राजीवनेत्रान्वितं कस्तूरीतिलकाङ्कितं करिवरप्रत्येयमेकं प्रभुम् । कन्दर्पायुतकोटिसुन्दरतनुं कारुण्यपाथोनिधिं कान्ताकाममदमप्रमेयमनघं सीतासमेतं भजे ॥ ९३॥ पूर्वं रामतपोवनानुगमनं हत्वा मृगं काञ्चनं वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् । वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं (इस् इत् दहिनं ?) पश्चाद्रावणकुम्भकर्णनिधनं ह्येतद्धि रामायणम् ॥ ९४॥ राकेन्दुप्रतिमाननस्य महिमा हा केन वा वर्ण्यते लोके यः स दयापरोऽजनि महान् काकेऽपि सान्द्रागसि । एकेनैव शरेण येन समरे नाकेशसूनुर्हतः शोकेनाकुलचेतसां भुवि सतां साकेतवासी गतिः ॥ ९५॥ यन्नामैव सहस्रनामसदृशं यत्कर्म कैवल्यदं यद्विद्या हृदयाम्बुजेषु विदुषामानन्दसन्दायिनी । यन्मूर्तिविजयान्विता त्रिजगतीरक्षाविधौ दीक्षिता तं कल्याणगुणान्वितं प्रतिदिनं श्रीरामचन्द्रं भजे ॥ ९६॥ मैथिल्या नगरे विवाहसमये कल्याणवेद्यन्तरे श्रीमन्तौ तपनीयरत्नखचिते पीठे व(ल)सन्तौ शुभौ । श्रीमन्तौ निगमार्थतत्त्वविदुषामाशीर्गिरौ पावनौ पायास्तां च वधूवरौ सुललितौ श्रीजानकीराघवौ ॥ ९७॥ यत्पादः सुरसिन्धुवाससदनं यन्नाभिजातोऽब्जभूः यः साकेतनिकेतनं यदुदरं लोकैकशय्यागृहम् । यद्वक्षः कमलाविलासभवनं यन्नेत्रयुग्मं दया- राश्या(लास्या)गारमखण्डमङ्गलनिधिः पायात् स नो राघवः ॥ ९८॥ कौसल्या जननी पिता दशरथः सल्लक्षणो लक्ष्मणः शत्रुघ्नो भरतोऽनुजो जनकजा जाया वसिष्ठो गुरुः । सुग्रीवश्च विभीषणः प्रियसखौ दूतो हनूमान् महान् सायोध्या नगरी सुतौ कुशलवौ श्रीरामदासा वयम् ॥ ९९॥ रक्षोघ्नं रणरागिणं रविसमं रुद्रप्रियं रक्षकं रूपैकाभरणं रुषादिरहित रुक्माङ्गदाराधितम् । रोचिष्णुं रथिनं रमापतिसमं राज्यप्रदं राघवं रामं राजशिरोमणिं रघुपतिं श्रीरामचन्द्रं भजे ॥ १००॥ साकेते शरदिन्दुकुन्त(द)धवले सौधे महामण्डपे पर्यस्तागरुधूपगन्धललिते कर्पूरदीपोज्ज्वले । सुग्रीवाङ्गदजाम्बवत्परिवृतं सौमित्रिणा सेवितं लीलामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ १०१॥ वामाङ्गे जनकात्मजां पदतले वायोः सुतं लक्ष्मणं पश्चाच्छत्रुहरं विभीषणयुतं सुग्रीवमग्रे स्थितम् । पार्श्वे कैकयिनन्दनं तदितरे शत्रुघ्नसंसेवितं रामं नीरदनीलमञ्जुलतनुं सीतासमेतं भजे ॥ १०२॥ वामे भूमिसुता पुरस्तु हनुमान् पश्चात्सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ १०३॥ कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ १०४॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १०५॥ वैदेहीकुचमण्डलोपरि लसत्माणिक्यहारावली- मध्यस्थोपलनीलकोमलरुचिं नीलोत्पलश्यामलम् । कन्दर्पायुतकोटिसुन्दरतनुं कोदण्डदीक्षागुरुं कौसल्याकुलभूषणं रघुवरं रामं भजे श्यामलम् ॥ १०६॥ वैदेहीमधिरोप्य जातपुलकां लज्जावतीं सुस्थितां काञ्चीकङ्कणहारनूपुरलसत्कर्णावतंसोज्ज्वलाम् । कस्तूरीघनसारचर्चितकुचां चन्द्राननां जानकीं कन्दर्पायुतसुन्दरं रघुपतिं रामं भजे श्यामलम् ॥ १०७॥ वैदेहीमधिरोप्य जातपुलकां वामाङ्कमाश्लेषिणीं वामेन स्तनचूचुकं पुलकितं वामं करेण स्पृशन् । तत्त्वं दक्षिणपाणिना कलितया धीमुद्रया बोधयन् रामो मारुतिसेवितः स्फुरतु मे साम्राज्यसिंहासने ॥ १०८॥ उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय नः कामाय प्रथमाय निर्मलगुणारामाय रामात्मने । ध्यानारूढमुनीन्द्रमानससरोहंसाय संसारवि- ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ १०९॥ क्षीराम्भोनिधिमध्यवर्तिनिशिता ? ? सुवर्णाम्बरे रक्तोल्लोचनहेमपद्मपटले जाम्बूनदे मण्डपे । तेजोधामनि पुष्पके रविनिभे माणिक्यसिंहासने हेमाम्भोरुहकर्णिकान्तरतले वीरासने सुस्थितम् (? ) ॥ ११०॥ ये श‍ृण्वन्ति पठन्ति रामचरितं ये भाग्यवन्तः सदा धीरोदात्तरघूत्तमस्य चरणौ ध्यायन्ति ये मानसे । ये कुर्वन्ति समस्तधर्मनिचयं रामस्य सुप्रीतये तेषां सर्वमनोरथान् वितनुते साक्षाद्रघूणां पतिः ॥ १११॥ रामं रामानुजं सीतां भरतं भरतानुजम् । सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः ॥ ११२॥ यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वाप्यवशो गृणन्नरः । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ११३॥ इति श्रीरामशतकं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramashatakam 1
% File name             : rAmashatakam.itx
% itxtitle              : rAmashatakam 1 (ApAdakeshamatisundaradivyagAtram)
% engtitle              : rAmashatakam 1
% Category              : raama, shataka
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : From stotrArNavaH 04-14
% Indexextra            : (Scan)
% Latest update         : September 12, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org