श्रीरामशतकम्
आपादकेशमतिसुन्दरदिव्यगात्रं
श्रीपादरेणुहृतगौतमदारशापम् ।
कोपातिरक्तनयनक्षुभिताम्बुराशिं
भूपालसूनुमवलोकय रामचन्द्रम् ॥ १॥
कोदण्डकोटिविनिवेशितबाहुदण्ड-
माखण्डलाद्यमरपातितपुष्पवर्षम् ।
आयोधनक्षितिरजःपरिधूसराङ्ग-
मव्याच्चिरं रघुपतेरवसन्नशत्रोः ॥ २॥
चन्द्रोपमं मलयचन्दनरूषिताङ्गं
मन्दारपुष्पपरिपूजितपादपद्मम् ।
ब्रह्मेन्द्रदेवमुनियोगिगणावृतं तं
वन्देऽरविन्दनयनं रघुरामचन्द्रम् ॥ ३॥
सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं
माणिक्यकुण्डलधरं मकुटाभिरामम् ।
चाम्पेयगौरवसनं शरचापहस्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ४॥
सीतापतिं कमलपत्रविशालनेत्रं
रामं कृपाकरमनन्तगुणानुरक्तम् ।
इन्द्रादिसर्वसुरसिद्धसुपूजिताङ्घ्रिं
नित्यं भजेऽहमसुनायकमप्रमेयम् ॥ ५॥
एकेन बाणमितरेण करेण चापं
हारं वहन्तमुरसा शिरसा जटाश्च ।
सीतासहायमनुजेन वने चरन्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ६॥
संसारसागरसमुद्धरणैकमन्त्रं
ब्रह्मादिदेवमुनिसेवितसिद्धमन्त्रम् ।
दारिद्र्यदुःखभवरोगविनाशमन्त्रं
सेवे सदा गुणनिधिं रघुरामचन्द्रम् ॥ ७॥
सीतासमेतमजिनाम्बरमप्रमेयं
सौमित्रिणा नियतसेवितपादयुग्मम् ।
नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ८॥
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ ९॥
श्रीराघवं दशमुखान्तकमम्बुजाक्षं
सीतामनोरमणमम्बुदनीलदेहम् ।
काकुत्स्थवंशपयसान्निधिपूर्णचन्द्रं
श्रीरामचन्द्रमनिशं शिरसा नमामि ॥ १०॥
राकाशशाङ्कवदनं रघुवंशदीपं
राजाधिराजतनयं रमणीयमूर्तिम् ।
रात्रिञ्चरान्तकमनन्तगुणं मनोज्ञं
श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ ११॥
कन्दर्पकोटिसदृशं करुणाम्बुराशिं
काकुत्स्थवंशकनकाचलरत्नदीपम् ।
कञ्जातपत्रनयनं करचापबाणं
कल्याणराममनिशं शरणं भजेऽहम् ॥ १२॥
विश्वाधिपं विबुधपूजितपादपद्मं
विप्रप्रियं विमलपङ्कजपत्रनेत्रम् ।
विद्यात्मकं विजितराक्षसवीरकोटिं
श्रीवीरराममनिशं शरणं भजेऽहम् ॥ १३॥
पद्मासनादिपुरुहूतसुरार्चितं तं
पापान्धकारतरणिं पवनात्मजेशम् ।
पङ्केरुहाक्षमखिलश्रुतिमौलिसारं
पट्टाभिराममनिशं शरणं भजेऽहम् ॥ १४॥
श्रीवत्सहारमकुटाङ्गदभूषिताङ्गं
श्रीभारतीविधृतचामरवीज्यमानम् ।
श्रीनायकं शिवविरिञ्चिनुताङ्घ्रिपीठं
श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ १५॥
यत्पादपङ्कजरजः श्रुतिभिर्विमृद्यं (ग्यं)
यन्नाभिपङ्कजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान् पुरारिः
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ १६॥
हा राम हा रमण हा जगदेकवीर-
हा नाथ हा रघुपते करुणालवाल ।
हा जानकीरमण हा जगदेकबन्धो
हा रामभद्र जनपालक पाहि नित्यम् ॥ १७॥
हा वीर हा दशरथात्मज मैथिलीश
हा देव हा पवनजप्रिय दीनबन्धो ।
हा धीर हा दशमुखान्तक लोकनाथ
हा भूप हा भरतपूर्वज पाहि नित्यम् ॥ १८॥
जानाति राम तव नामरुचिं महेशो
जानाति गौतमसती चरणप्रभावम् ।
जानाति दोर्बलपराक्रममीशचापो
जानात्यमोघपटुबाणगतिं पयोधिः ॥ १९॥
जानाति राम तव चित्तगतिं हनूमान्
जानाति राम तव सख्यरुचिं कपीन्द्रः ।
जानाति राम तव युद्धगतिं दशास्यो
जानाति राम विमतानुज एव सत्यम् ॥ २०॥
(विमतानुज = विमतस्य शत्रो रावणस्य अनुजः विभीषणः)
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम हनुमत्प्रिय राम राम
श्रीराम राम शरणं भव राम राम ॥ २१॥
श्रीरामचन्द्र करुणाकर रामचन्द्र
राजेन्द्रचन्द्र रघुवंशसमुद्रचन्द्र ।
सुग्रीवनेत्रयुगलोत्पलपूर्णचन्द्र
सीतामनःकुमुदचन्द्र नमो नमस्ते ॥ २२॥
वन्देन्दु(ऽब्ज)मौलिमणिशोभिपदारविन्दं
वन्दे सुचापशरशोभिकरारविन्दम् ।
वन्दे सदा स्मितलसद्वदनारविन्दं
वन्दे कटाक्षविलसन्नयनारविन्दम् ॥ २३॥
वन्दे रघूत्तमकुलार्णवपूर्णचन्द्रं
वन्दे दशाननभुजङ्गविहङ्गमेन्द्रम् ।
वन्दे समर्चितकवीन्द्रसुरामरेन्द्रं
वन्दे कृपाजलनिधिं रघुरामचन्द्रम् ॥ २४॥
भवतिमिरपतङ्गं पापतूलस्फुलिङ्गं
प्रणवतरुविहङ्गं भक्तचित्ताब्जभृङ्गम् ।
निगमवनकुरङ्गं नीरदश्यामलाङ्गं
रघुकुलगिरिशृङ्गं नौमि सीतान्तरङ्गम् ॥ २५॥
सरसिजदलनेत्रं सर्वलोकैकमित्रं
दशरथवरपुत्रं नीलजीमूतगात्रम् ।
सकलजनपवित्रं सर्वदा सच्चरित्रं
विधृतकनकवस्त्रं (नेत्रं) नौमि सीताकलत्रम् ॥ २६॥
वदनजितनिशेशं कोटिसूर्यप्रकाशं
सकलजगदधीशं माल्यसंशोभिकेशम् ।
निखिलसुरमुनीशं दूतशाखामृगेशं
विजितनिशिचरेशं नौम्यहं जानकीशम् ॥ २७॥
सकलभुवनराजं सर्वशास्त्रार्थबीजं
नयनजितसरोजं सर्वदा सत्समाजम् ।
अघकरिमृगराजं सेवकामर्त्यराजं
दशरथसुतनूजं नौम्यहं राजराजम् ॥ २८॥
निगमविपिनकीरं वेदवेदान्तसारं
भवजलनिधिपारं कण्ठसंशोभिहारम् ।
तुहिनशिखरधीरं जानकीप्रेमदारं
रुचिरतरशरीरं नौम्यहं रामवीरम् ॥ २९॥
दशरथनृपबालं वेदकल्पद्रुमूलं
नतजनपरिपालं सर्वदा लोकपालम् ।
विधृतकनकचेलं वानरेन्द्रादिजालं (जालम् एवं गर्वः)
मरतकमणिनीलं नौमि सीतानुकूलम् ॥ ३०॥
नतसुरनिकुरुम्बं वक्त्रशीतांशुबिम्बं
कलभगतिविडम्बं दीनचित्तावलम्बम् ।
सहचरविधिसाम्बं सर्वदा सत्कदम्बं
करविधृतकलम्बं नौमि सीताकुटुम्बम् ॥ ३१॥
रघुकुलमणिदीपं सर्वलोकैकभूपं
हृतजनपरितापं दत्तदीनादिगोपम् ।
धृतमकुटकलापं हस्तविन्यस्तचापं
कृतजलनिधिकोपं नौमि कल्याणरूपम् ॥ ३२॥
पवनतनयदूतं सर्वदा मन्त्रगीतं
कुशलववरतातं रावणादिप्रघातम् ।
धृतलसदुपवीतं चन्दनात्यन्तशीतं
त्रिभुवनजनपूतं नौमि सीतासमेतम् ॥ ३३॥
विकचकमलतुण्डं चापविद्यातिशौण्डं
करिकरभुजदण्डं कुण्डलाशोभिगण्डम् ।
नखजितशशिखण्डं हस्तसंशोभिकाण्डं
विधृतमणिशिखण्डं नौमि रामं प्रचण्डम् ॥ ३४॥
निगमशिरसि रत्नं सर्वलोकैकरत्नं
दशरथसुतरत्नं सीतया सेव्यरत्नम् ।
भुवनवलयरत्नं भू भुजामेकरत्नं
रघुकुलघनरत्नं पातु मां रामरत्नम् ॥ ३५॥
जगति विबुधमन्त्रं जानकीप्राणमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् ।
दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
रघुपतिनिजमन्त्रं राम रामेति मन्त्रम् ॥ ३६॥
सजलजलदनीलं सन्मुनिस्तुत्यलीलं
निखिलनिगममूलं यातुधानान्तकालम् ।
तिलकलसितभालं सर्वदा लोकपालं
विधृतकनकचेलं नौमि सीतानुकूलम् ॥ ३७॥
विमलकमलनेत्रं विस्फुरन्नीलगात्रं
तपनकुलपवित्रं दानवध्वान्तमित्रम् ।
भुवनहितचरित्रं भूमिपुत्रीकलत्रं
रघुपतिवरपुत्रं नौम्यहं चन्द्रवक्त्रम् ॥ ३८॥
मरतकमणिनीलो मत्तमातङ्गलीलो
मधुरवचनशीलो मारुतिप्रेममूलः ।
मणिमुकुरकपोलो मैथिलीकेलिलोलो
मम हृदि रघुपालो पातु मारीचकालः ॥ ३९॥
त्रिदशकुमुदचन्द्रो दानवाम्भोजचन्द्रो
मरुत(दितिज)तिमिरचन्द्रो योगिनां ज्ञानचन्द्रः ।
प्रणतनयनचन्द्रो भक्तिचित्ताब्धिचन्द्रो
वदनविजितचन्द्रः पातु मां रामचन्द्रः ॥ ४०॥
निखिलभुवननेता नित्यकल्याणदाता
त्वमिति न हि विवादस्तत्र घण्टानिनादः ।
जनयति मम हासं जातु चेतोनिवासं
मम कुरु गुणसिन्धो मैथिलीप्राणबन्धो ॥ ४१॥
पटुजलधरधीरध्वानमाकृष्य चापं
पवनजवनमेकं बाणमादाय तूणात् ।
अभयवचनदायी सानुजः सर्वतो मे
रणहतदनुजेन्द्रो रामचन्द्रः सहायः ॥ ४२॥
कुवलयदलनीलः पीतवासा दयालु-
र्विविधरुचिरभूषाभूषितो दिव्यमूर्तिः ।
दशरथकुलनाथो मैथिलीप्राणनाथो
निवसतु मम चित्ते सर्वदा रामचन्द्रः ॥ ४३॥
मरतककनकाभौ मण्डलीभूतचापौ
भुवनभरणदक्षौ पुण्डरीकायताक्षौ ।
मकुटकनकभूषौ वीरलक्ष्मीसमेतौ
परिचरति मनो मे जानकीरामचन्द्रौ ॥ ४४॥
जयतु जयतु रामो जानकीमोदकारी
दशवदनकुलारी रम्यकोदण्डधारी ।
विविधविपिनचारी विष्णुपूर्णावतारी
सकलदनुजहारी सर्वलोकाधिकारी ॥ ४५॥
कनकनिकषभासा सीतयालिङ्गिताङ्गो
नवकुवलयदामश्यामवर्णाभिरामः ।
अभिनव इव विद्युन्मण्डितो मेघराशिः
शमयतु परितापं सर्वदा रामभद्रः ॥ ४६॥
श्रीरामचन्द्रः श्रितपारिजात-
समस्तकल्याणगुणाभिरामः ।
सीतामुखाम्भोरुहचञ्चरीको
निरन्तरं मङ्गलमातनोतु ॥ ४७॥
दयानिधे राघव रामचन्द्र
निरस्य पापानि ममाखिलानि ।
त्वय्येव भक्ति सुदृढां प्रयच्छ
सैव प्रसूते सकलान् पुमर्थान् ॥ ४८॥
रामेति वर्णद्वयमादरेण-
सदा जपन् मुक्तिमुपैति जन्तुः ।
कलौ युगे कल्मषमानसाना-
मन्यत्र धर्मे खलु नाधिकारः ॥ ४९॥
रामेति सीतारमणेति मेघ-
श्यामेति काकासुररक्षकेति ।
पीताम्बरेति प्रियलक्ष्मणेति
श्रीरामचन्द्रेति वदाशु जिह्वे ॥ ५०॥
श्रीरामचन्द्रेति सलक्ष्मणेति
नीलोत्पलश्यामल कोमलेति ।
आक्रोश रामेत्यधुनैव जिह्वे
सीतापते राघव राघवेति ॥ ५१॥
इन्दीवरश्यामलमायताक्षं
धनुर्धरं नीलजटावचूडम् ।
पार्श्वद्वये लक्ष्मणमैथिलीभ्यां
निषेव्यमाणं प्रणतोऽस्मि रामम् ॥ ५२॥
आकर्णमाकृष्य धनुर्गुणोद्य-
द्ब्रह्मास्त्रलक्षीकृतराक्षसेन्द्रम् ।
रथाधिरूढं रणरङ्गधीरं
रामं भजे रक्तसरोरुहाक्षम् ॥ ५३॥
अकार्मुकालङ्कृतबाहुदण्डै-
रराक्षसाधीश्वरभङ्गदक्षैः ।
अजानकीन्द्रैरपयोदनीलै-
ररामचन्द्रैरलमन्यदैवैः ॥ ५४॥
अलं विवादेन न मानुषोऽयं
रामात्मना राक्षसमर्दनाय ।
भुजङ्गशय्यां परिमुच्य साक्षा-
न्नारायणो भूमितलं जगाम ॥ ५५॥
कल्याणदं कौशिकयज्ञपालं
कलानिधिं काञ्चनशैलधैर्यम् ।
कञ्जातनेत्रं करुणासमुद्रं
काकुत्स्थरामं कलयामि चित्ते ॥ ५६॥
मर्त्यावतारे मनुजाकृतिं हरिं
रामाभिदेहं (भिधेयं) रमणीयदेहम् ।
धनुर्धरं पद्मपलाशनेत्रं
नमामि नित्यं रघुनाथमूर्तिम् ॥ ५७॥
विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं शुभसच्चरित्रम् ।
सुग्रीवमित्रं जगतः पवित्रं
वन्दे सुवक्त्रं वरभूपपुत्रम् ॥ ५८॥
कारीरभासा कलयन् विनोदं
शारीरभासा जितशाम्बरारिः ।
वारीशगेहे कृतसेतुरीशो
मारीचवैरी मम सन्निधत्ताम् ॥ ५९॥
वदन्तु केचिच्चतुरोऽपि वेदान्
पठन्तु शास्त्राण्यपरेऽखिलानि ।
अटन्तु तीर्थान्यपरे पृथिव्यां
वयं तु रामं मनसा स्मरामः ॥ ६०॥
नमामि रामं नतपारिजातं
करोमि रामाङ्घ्रिसरोजपूजाम् ।
वदामि रामस्य सुदिव्यनाम
स्मरामि रामं न तु विस्मरामि ॥ ६१॥
अन्नं नराणाममृतं सुराणां
भृङ्गावलीनां मकरन्द एव ।
श्रीरामपादाम्बुजसेवकानां
महात्मनां रामकथैवमुक्ता ॥ ६२॥
श्रीशब्दपूर्वं जयशब्दमर्त्यं(मध्यं)
जयद्वायावुत्तरत(द्वयं चोत्तरत)स्तथैव ।
त्रिस्सप्तकृत्वो भुवि रामनाम-
जपं तु हन्याद्द्विजकोटिहत्याम् ॥ ६३॥
यो दण्डकारण्यनिशाचरेन्द्रान्
कोदण्डलीलाविषयीचकार ।
वेतण्डशुण्डायितबाहुदण्डो
कोदण्डपाणी(णिः) कुलदैवतं नः ॥ ६४॥
कोदण्डदीक्षागुरुमप्रमेयं
सलक्ष्मणं दाशरथिं दयालुम् ।
महानुभावं जगदेकवीर-
मनाथनाथं रघुनाथमीडे ॥ ६५॥
रामः पिता राघव एव माता
रामः सुबन्धुश्च सुहृत् स एव ।
रामो गुरुर्मे परमं च दैवं
रामं विना नान्यमहं स्मरामि ॥ ६६॥
माता रामो मत्पिता रामभद्रो
भ्राता रामो मत्सखो राघवेशः ।
भर्ता त्राता रामचन्द्रो दयालु-
र्नान्यं जाने नैव जाने न जाने ॥ ६७॥
रघुनन्दन एव दैवतं नो
रघुवंशोद्भव एव दैवतं नः ।
भरताग्रज एव दैवतं नो
भगवान् राघव एव दैवतं नः ॥ ६८॥
दीनवत्सलमनाथरक्षकं
दीर्घबाहुमरविन्दलोचनम् ।
दीक्षितं सकललोकरक्षणं
दैवतं दशरथात्मजं भजे ॥ ६९॥
इन्द्रनीलमणिसन्निभदेहं
वन्द्यमानचरणं मुनिवृन्दैः ।
लम्बमानतुलसीवनमालं
चिन्तयामि सततं रघुवीरम् ॥ ७०॥
चापं दधानः स्तनयित्नुघोषं
कर्षन्निषङ्गादिषुमप्यरिघ्नम् ।
आपत्सु भूयादभयप्रदो मे
साकं सुमित्रातनयेन रामः ॥ ७१॥
यः पूतनामारणलब्धवर्णः
काकोदरो येन विनीतदर्पः ।
यशोदयालङ्कृतमूर्तिरव्या-
न्नाथो यदूनामथ वा रघूणाम् ॥ ७२॥
(footnote on verse 72)
रामपक्षेः-पूतनामा रणलब्धवर्णः इति पदच्छेदः ।
काकोदरः काकासुरः । यशः दया द्वाभ्यां अलङ्कृतमूर्तिः ।
कृष्णपक्षेः -- पूतना राक्षसी । काकोदरः सर्पः कालियः ।
यशोदा नन्दस्य पत्नी ।)
जातो वंशे रघूणां मुनिवरवचनात्ताटकां ताडयित्वा
कृत्वा पुण्यामहल्यां त्रुटितभवधनुर्मैथिलीवल्लभोऽभूत् ।
प्राप्यायोध्यां निदेशात् पितुरटविमगाद्वीतसीतोऽस्तवाली
बद्धाब्धिर्ध्वस्तलङ्को दलितदशमुखः सीतया राज्यमाप ॥ ७३॥
रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं
दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोदण्डहस्तम् ।
कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं
भीमं भीमाट्टहासं सकलभयहरं रामचन्द्रं भजेऽहम् ॥ ७४॥
राम वीरासनस्थं हृदयगतकरव्यञ्जितज्ञानमुद्रं
जानौ विन्यस्तहस्तं जनकतनयया भूषितं वामभागे ।
षट्छास्त्रं व्याहरन्तं पवनसुतनयं चाग्रतो मानयन्तं
संसेवे सेव्यमानं करधृतधनुषा दक्षिणे लक्ष्मणेन ॥ ७५॥
वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं
पश्चाद्भागे च नित्यं विदधदभिमतं सासितूणीरभारम् ।
वामे भागे लसद्भ्यां सहमिलिततनुं जानकीलक्ष्मणाभ्यां
रामं श्यामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ७६॥
शुद्धान्ते मातृमध्ये दशरथपुरतः सञ्चरन्तं मनोज्ञं
काञ्चीदामानुविद्धप्रतिमणिविलसत्किङ्किणीनिक्वणाङ्कम् ।
फाले मुक्ताललामं मृदुतरनिनदं नूपुरं चारुहारं
बालं रामं भजेऽहं मृदुमधुरगिरं कुण्डलश्रीकपोलम् ॥ ७७॥
लोकत्राणानुकारी दशवदनशिरःपङ्क्तिविच्छेदकारी
सीतासीमन्तकारी मणिमयमकुटोद्दण्डकोदण्डधारी ।
लङ्कालङ्कारहारी भृगुतनयमनःसर्वगर्वापहारी
(वालिप्राणापहारी) शमयतु दुरितं भूमिभारापहारी ॥ ७८॥
जातः श्रीरघुनायको दशरथान्मुन्याज्ञया ताटकां
हत्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् ।
भङ्क्त्वा भार्गशरासनं जनकजामुद्वाह्य रामस्थितो (रामः स्थितं)
जित्वा चाध्वनि भार्गवं पुनरगात् सीतासमेतं भजे ॥ ७९॥
स श्रेयांसि बलीनि सन्दिशतु ते वीरः कृपात्मा शुचिः
यन्नेत्राञ्चलरक्तिमा समतनोदब्धीश्वराग्रस्थितिम् ।
यद्वक्षो विमतानुजाय सदयं लङ्काधिपत्यं ददौ
यत्पादाब्जपरागपालिरकरोत् पाषाणमेणीदृशम् ॥ ८०॥
गीतार्थामृतवारिधिं रघुपतिं शीतांशुबिम्बाननं
सूताङ्गीरसनारदैरभिनुतं वातात्मजाभीष्टदम् ।
आताम्राधरशोभितं सुरनुतं पीताम्बरालङ्कृतं
सीताराममहं भजामि शरणं कारुण्यदुग्धार्णवम् ॥ ८१॥
श्रीरामोऽजनि राघवो मुनिमखं पाति स्म सीतापतिः
कान्ताराणि निनाय वीतभयतां रामेण वाली हतः ।
आनन्दं हनुमत् ? ? रघुपतिर्निन्ये जजृम्भे बले ?
लकेशःस्वपदात् स्वयं विजघटे रामः स्त्रियागात्पुरीम् ॥ ८२॥
श्रीरामं जगदेकवीरममलं सीतामनोहारिणं
कौसल्यावरनन्दनं सुरनुतं काकुत्स्थवंशोद्भवम् ।
लोकानामभिवाञ्छितार्थफलदं कारुण्यकल्पद्रुमं
वन्देऽहं जनघोरपापनिकरध्वंसव्रतं राघवम् ॥ ८३॥
राम लक्ष्मणपूर्वजं रघुपतिं सीतापतिं सुन्दरं
काकुत्स्थं करुणाकरं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ८४॥
रामं चन्दनशीतलं मणिलसद्रुक्माम्बरालङ्कृतं
कौसल्यातनयं विशालनयनं सम्पूर्णचन्द्राननम् ।
राजानं करुणासमेतमनघं सीतामनोहारिणं
सीतादर्शनलालसं गुणनिधिं वन्दे सदा राघवम् ॥ ८५॥
रामं रत्नकिरीटकुण्डलधरं केयूरहारान्वितं
सीतालङ्कृतवामभागममलं वीरासने सुस्थितम् ।
सुग्रीवादिसमस्तवानरगणैः संसेव्यमानं सदा
विश्वामित्रपराशरादिमुनिभिः संस्तूयमानं भजे ॥ ८६॥
रामं राजशिरोमणिं रघुवरं देवारिदर्पापहं
लोकानां हितकारिणं गुणनिधिं कारुण्यपूर्णोदयम् ।
मुक्ताकाञ्चनभूषणान्विततनुं चापेषुहस्ताम्बुजं
कौसल्याकुलभूषणं रघुपतिं श्रीरामचन्द्रं भजे ॥ ८७॥
राम त्वच्चरणारविन्दममलं श्रीरामपारायणं
भक्तत्राणपरायणं भवभयत्राणप्रवीणं सदा ।
तन्मे कर्तुमुपायनं मम मनः प्रीतिं दिशा सर्वदा (दिश त्वं सदा)
दीनं दीनशरण्य पूर्णकृपया सीतापते पाहि माम् ॥ ८८॥
रामो नः कुलदैवतं सकरुणं रामं भजे सादरं
रामेणेशधनुः क्षणेन दलितं रामाय तस्मै नमः ।
रामान्नाशमवाप राक्षसकुलं रामस्य दासोऽस्म्यहं
रामे तिष्ठति विश्वमेतदखिलं हे राम(रक्षस्व) संरक्ष माम् ॥ ८९॥
रामो रक्षतु लक्ष्मणेन सहितो रामं सरामं भजे
रामेणैव हि रक्षिताः सुरगणा रामाय तस्मै नमः ।
रामान्नापरमस्ति दैवतमहो रामस्य दासोऽस्म्यहं
रामे तिष्ठतु मानसं मम सदा हे राम तुभ्यं नमः ॥ ९०॥
दिव्यस्यन्दनमध्यगं घनरणच्चापान्वितं भीषणं
कालाग्निप्रतिमानबाणकलितं घोरास्त्रतूणीद्वयम् ।
सौमित्र्यर्कजरावणानुजमरुत्पुत्रादिसंसेवितं
रामं राक्षसकोटिवीरहरणं श्रीरामचन्द्रं भजे ॥ ९१॥
राजीवायतलोचनं रघुपतिं नीलोत्पलश्यामलं
मुक्तालङ्कृतमण्डपे सुललिते सौवर्णके पुष्पके ।
आसीनं नवरत्नकाञ्चनलसत्सिंहासने साम्बुजे
सीतालक्ष्मणवायुसूनुसहितं श्रीरामचन्द्रं भजे ॥ ९२॥
कर्पूराङ्गविलेपनं रघुवरं राजीवनेत्रान्वितं
कस्तूरीतिलकाङ्कितं करिवरप्रत्येयमेकं प्रभुम् ।
कन्दर्पायुतकोटिसुन्दरतनुं कारुण्यपाथोनिधिं
कान्ताकाममदमप्रमेयमनघं सीतासमेतं भजे ॥ ९३॥
पूर्वं रामतपोवनानुगमनं हत्वा मृगं काञ्चनं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालीनिग्रहणं समुद्रतरणं लङ्कापुरीदाहनं (इस् इत् दहिनं ?)
पश्चाद्रावणकुम्भकर्णनिधनं ह्येतद्धि रामायणम् ॥ ९४॥
राकेन्दुप्रतिमाननस्य महिमा हा केन वा वर्ण्यते
लोके यः स दयापरोऽजनि महान् काकेऽपि सान्द्रागसि ।
एकेनैव शरेण येन समरे नाकेशसूनुर्हतः
शोकेनाकुलचेतसां भुवि सतां साकेतवासी गतिः ॥ ९५॥
यन्नामैव सहस्रनामसदृशं यत्कर्म कैवल्यदं
यद्विद्या हृदयाम्बुजेषु विदुषामानन्दसन्दायिनी ।
यन्मूर्तिविजयान्विता त्रिजगतीरक्षाविधौ दीक्षिता
तं कल्याणगुणान्वितं प्रतिदिनं श्रीरामचन्द्रं भजे ॥ ९६॥
मैथिल्या नगरे विवाहसमये कल्याणवेद्यन्तरे
श्रीमन्तौ तपनीयरत्नखचिते पीठे व(ल)सन्तौ शुभौ ।
श्रीमन्तौ निगमार्थतत्त्वविदुषामाशीर्गिरौ पावनौ
पायास्तां च वधूवरौ सुललितौ श्रीजानकीराघवौ ॥ ९७॥
यत्पादः सुरसिन्धुवाससदनं यन्नाभिजातोऽब्जभूः
यः साकेतनिकेतनं यदुदरं लोकैकशय्यागृहम् ।
यद्वक्षः कमलाविलासभवनं यन्नेत्रयुग्मं दया-
राश्या(लास्या)गारमखण्डमङ्गलनिधिः पायात् स नो राघवः ॥ ९८॥
कौसल्या जननी पिता दशरथः सल्लक्षणो लक्ष्मणः
शत्रुघ्नो भरतोऽनुजो जनकजा जाया वसिष्ठो गुरुः ।
सुग्रीवश्च विभीषणः प्रियसखौ दूतो हनूमान् महान्
सायोध्या नगरी सुतौ कुशलवौ श्रीरामदासा वयम् ॥ ९९॥
रक्षोघ्नं रणरागिणं रविसमं रुद्रप्रियं रक्षकं
रूपैकाभरणं रुषादिरहित रुक्माङ्गदाराधितम् ।
रोचिष्णुं रथिनं रमापतिसमं राज्यप्रदं राघवं
रामं राजशिरोमणिं रघुपतिं श्रीरामचन्द्रं भजे ॥ १००॥
साकेते शरदिन्दुकुन्त(द)धवले सौधे महामण्डपे
पर्यस्तागरुधूपगन्धललिते कर्पूरदीपोज्ज्वले ।
सुग्रीवाङ्गदजाम्बवत्परिवृतं सौमित्रिणा सेवितं
लीलामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ १०१॥
वामाङ्गे जनकात्मजां पदतले वायोः सुतं लक्ष्मणं
पश्चाच्छत्रुहरं विभीषणयुतं सुग्रीवमग्रे स्थितम् ।
पार्श्वे कैकयिनन्दनं तदितरे शत्रुघ्नसंसेवितं
रामं नीरदनीलमञ्जुलतनुं सीतासमेतं भजे ॥ १०२॥
वामे भूमिसुता पुरस्तु हनुमान् पश्चात्सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ १०३॥
कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ १०४॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्येपुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ १०५॥
वैदेहीकुचमण्डलोपरि लसत्माणिक्यहारावली-
मध्यस्थोपलनीलकोमलरुचिं नीलोत्पलश्यामलम् ।
कन्दर्पायुतकोटिसुन्दरतनुं कोदण्डदीक्षागुरुं
कौसल्याकुलभूषणं रघुवरं रामं भजे श्यामलम् ॥ १०६॥
वैदेहीमधिरोप्य जातपुलकां लज्जावतीं सुस्थितां
काञ्चीकङ्कणहारनूपुरलसत्कर्णावतंसोज्ज्वलाम् ।
कस्तूरीघनसारचर्चितकुचां चन्द्राननां जानकीं
कन्दर्पायुतसुन्दरं रघुपतिं रामं भजे श्यामलम् ॥ १०७॥
वैदेहीमधिरोप्य जातपुलकां वामाङ्कमाश्लेषिणीं
वामेन स्तनचूचुकं पुलकितं वामं करेण स्पृशन् ।
तत्त्वं दक्षिणपाणिना कलितया धीमुद्रया बोधयन्
रामो मारुतिसेवितः स्फुरतु मे साम्राज्यसिंहासने ॥ १०८॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय नः
कामाय प्रथमाय निर्मलगुणारामाय रामात्मने ।
ध्यानारूढमुनीन्द्रमानससरोहंसाय संसारवि-
ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ १०९॥
क्षीराम्भोनिधिमध्यवर्तिनिशिता ? ? सुवर्णाम्बरे
रक्तोल्लोचनहेमपद्मपटले जाम्बूनदे मण्डपे ।
तेजोधामनि पुष्पके रविनिभे माणिक्यसिंहासने
हेमाम्भोरुहकर्णिकान्तरतले वीरासने सुस्थितम् (? ) ॥ ११०॥
ये शृण्वन्ति पठन्ति रामचरितं ये भाग्यवन्तः सदा
धीरोदात्तरघूत्तमस्य चरणौ ध्यायन्ति ये मानसे ।
ये कुर्वन्ति समस्तधर्मनिचयं रामस्य सुप्रीतये
तेषां सर्वमनोरथान् वितनुते साक्षाद्रघूणां पतिः ॥ १११॥
रामं रामानुजं सीतां भरतं भरतानुजम् ।
सुग्रीवं वायुसूनुं च प्रणमामि पुनः पुनः ॥ ११२॥
यन्नामधेयं म्रियमाण आतुरः
पतन् स्खलन् वाप्यवशो गृणन्नरः ।
विमुक्तकर्मार्गल उत्तमां गतिं
प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ११३॥
इति श्रीरामशतकं सम्पूर्णम् ।
Proofread by Aruna Narayanan