श्रीरामवर्णमालिकास्तोत्रम्
अन्तस्समस्तजगतां यमनुप्रविष्ट-
माचक्षते मणिगणेष्विव सूत्रमार्याः ।
तं केलिकल्पितरघूद्वहरूपमाद्यं
पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥ १॥
आम्नायशैलशिखरैकनिकेतनाय
वाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय ।
कालाम्बुदाय करुणारसमेदुराय
कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥ २॥
इन्दुप्रसादमवतंसयता तदीयं
चापं करे हुतवहं वहता हरेण ।
शङ्के जगत्त्रयमनुग्रहनिग्रहाभ्यां
संयोज्यते रघुपते समयान्तरेषु ॥ ३॥
ईदृग्विधस्त्वमिति वेद न सोऽपि वेदः
शक्तोऽन्तिकस्थितमवेक्षितुमुत्तमाङ्गे ।
श्रोतुं क्षमं न कुदृशेक्षितुमप्यतस्त्वां
सर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥ ४॥
उष्णांशुबिम्बमुदधिस्मयघस्मरास्त्र
ग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।
वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां
देव प्रशंसति तथा यदि कोऽत्र दोषः ॥ ५॥
ऊढः पुरासि विनतान्वयसम्भवेन
देव त्वया किमधुनापि तथा न भाव्यम् ।
पूर्वे जना मम विनेमुरसंशयं त्वां
जानासि राघव तदन्वयसम्भवं माम् ॥ ६॥
ऋक्षं प्लवङ्गमपि रक्षसि चेन्महात्मन्
विप्रेषु किं पुनरथापि न विश्वसाम ।
अत्रापराध्यति किल १ प्रथमद्वितीयौ
वर्णौ तवौदनतया २ निगमो विवृण्वन् ॥ ७॥
नॄणां न केवलमसि त्रिदिवौकसां त्वं
राजा यमार्कमरुतोऽपि यतस्त्रसन्ति ।
दीनस्य वाङ्मम तथा वितते तव स्यात्
कर्णे रघूद्वह यतः ककुभोऽपि जाताः ॥ ८॥
क्लृप्तामपि व्यसनिनीं भवितव्यतां मे
नाथान्यथा कुरु तव प्रभुतां दिदृक्षोः ।
चक्रे शिलापि तरुणी भवता तदास्तां
मायापि यद्धटयते तव दुर्घटानि ॥ ९॥
एकं भवन्तमृषयो विदुरद्वितीयं
जानामि कार्मुकामहं तु तव द्वितीयम् ।
श्रुत्याश्रिता जगति यद्गुणघोषणा सा
दूरीकरोति दुरितानि समाश्रितानाम् ॥ १०॥
ऐशं शरासमचलोपममिक्षुवल्ली-
भञ्जं बभञ्ज फिल यस्तव बाहुदण्डः ।
तस्य त्वशीतकरवंशवतंस शंस
किं दुष्करो भवति मे विधिपाशभङ्गः ॥ ११॥
ओजस्तव प्रहितशेषविषाग्निदग्धैः
स्पष्टं जगद्भिरुपलभ्य भयाकुलानाम् (? ) ।
गीतोक्तिभिस्त्वयि निरस्य मनुष्यबुद्धिं
देव स्तुतोऽसि विधिविष्णुवृषध्जानाम् ॥ १२॥
औत्कण्ठ्यमस्ति दशकण्ठरिपो ममैकं
द्रक्ष्यामि तावकपदाम्बुरुहं कदेति ।
अप्येति कर्म निखिलं मम यत्र दृष्टे
लीनाश्च यत्र यतिभिः सह मत्कुलीनाः ॥ १३॥
अम्भोनिधाववधिमत्यवकीर्य बाणान्
किं लब्धवानसि ननु श्वशुरस्तवायम् ।
इष्टापनेतुमथवा यदि बाणकण्डू-
र्देवायमस्यनवधिर्मम दैन्यसिन्धुः ॥ १४॥
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥ १५॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरःकिरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६॥
Footnote
१. ब्राह्मणक्षत्रियौ । ``यस्य ब्रह्म च क्षत्रं च
उभे भवत ओदनः'' इति कठवाल्लिरनुसन्धेया ।
खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्व रूपरसगन्धमपि त्वमेव ।
......... दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥ १७॥
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८॥
घण्टाघणङ्घणितकोटिशरासनं ते
लुण्टाकमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणां
उष्णैरसृग्भिरुदरम्भरिणा शरेण ॥ १९॥
प्राङ्स्यवाङ्सि परेश तथासि तिर्यक्
ब्रूमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते (? )
मन्दस्य राघव सहस्व ममापराधम् ॥ २०॥
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि सम्भविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१॥
छन्नं निजं कुहनया मृगरूपभाजो
नक्तञ्चरस्य न किमाविरकारि रूपम् ।
त्वत्पत्रिणापि रघुवीर ममाद्य माया-
गूढस्वरूपविवृतौ तव कः प्रयासः ॥ २२॥
जन्तोः किल त्वदभिधा मम कर्णिकायां
कर्णेजपन् हरति कश्चन पञ्चकोशान् ।
इत्यामनन्ति रघुवीर ततो भवन्तं
राजाधिराज इति विश्वसिमः कथं वा ॥ २३॥
झङ्कारिभृङ्गकमलोपमितं पदं ते
चारुस्तवप्रवणचारणकिन्नरौघम् ।
जानामि राघव जलाशयवासयोग्यं
स्वैरं वसेत्तदधुनैव जलाशये मे ॥ २४॥
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-
र्ज्ञानं क्व मे भवतु दुस्त्यजवासनस्य ।
देवाभयं वितर किं नु सकृत्प्रपत्त्या
मह्यं न विस्मर पुरैव कृतां प्रतिज्ञाम् ॥ २५॥
टङ्कारमीश भवदीयशरासनस्य
ज्यास्भालनेन जनितं निगमं प्रतीमः ।
येनैव राघव भवानवगम्य मास-
त्रासं निरस्य सुखमातनुते बुधानाम् ॥ २६॥
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-
र्देव त्वदस्त्रदलितैर्युधि यातुधानैः ।
शङ्के ततस्तव पदं विदलय्य वेगा-
त्तैरद्भुतं प्रतिकृतिर्विदधे वधस्य ॥ २७॥
डिम्भस्तवास्मि रघुवीर तथा दयस्व
लभ्यं यथा कुशलवत्वमपि क्षितौ मे ।
किञ्चिन्मनो मयि निधेहि तव क्षतं किं
व्यर्था भवत्वमनसं गृणती श्रुतिस्त्वाम् ॥ २८॥
ढक्कां त्वदीययशसा मधुनापि शृण्मः
प्राचेतसस्य भणितिं भरताग्रजन्मन् ।
सत्ये यशस्तव शृणोति मृकण्डुसूनो-
र्धाताप्यतो जगति को हि भवादृशोऽन्यः ॥ २९॥
त्राणं समस्तजगतां तव किं न कार्यं
सा किं न तत्र करणं करुणा तवैव ।
आख्याति कार्यकरणे तव नेति या वाङ्-
मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३०॥
तत्त्वम्पदे पदमसीति च यानि देव
तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं न वादौ
यद्दारुणैरपि ततो भवदर्थलाभः (? ) ॥ ३१॥
प्रोथं यदुद्वहसि भूमिवहैकदंष्ट्रं
विश्वप्रभो विघटिताभ्रघटाः सटा वा ।
रूपं तदुद्भटमपास्य रुचासि दिष्ट्या
त्वं शम्बरारिरपि कैतवशम्बरारिः (? ) ॥ ३२॥
दग्ध्वा निशाचरपुरी प्रथितस्तवैको
भक्तेषु दानवपुरत्रितयं तथान्यः ।
त्वञ्चाशराव्युरसमस्यगुणैः प्रभो मे
पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् (? ) ॥ ३३॥
धत्ते शिरांसि दश यस्सुकरो वधोऽस्य
किं न त्वया निगमगीतसहस्त्रमूर्ध्ना ।
मोहं ममामितपदं यदि देव हन्याः
कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥ ३४॥
नम्रस्य मे भव विभो स्वयमेव नाथो
नाथो भव त्वमिति चोदयितुं बिभेमि ।
येन स्वसा दशमुखस्य नियोजयन्ती
नाथो भव त्वमिति नासिकया विहीना ॥ ३५॥
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्
दीनं ततः करुणया कुरु मामपापम् ।
कर्तुं रघूद्वह नदीनमपापमुर्व्यां
शक्तस्त्वमित्ययमपैति न लोकवादः ॥ ३६॥
फल्गूनि यद्यपि फलानि न लिप्सते मे
चेतः प्रभो तदपि नो भजति प्रकृत्या ।
मूर्त्यन्तरं व्रजवधूजनमोहनं ते
जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ ३७॥
बर्हिश्छदग्रथितकेशमनर्हवेष-
मादाय गोपवनिताकुचकुङ्कुमाङ्कम् ।
ह्रीणो न राघव भवान् यदतः प्रतीमः
पत्न्या ह्रिया विरहितोऽसि पुरा श्रियेव ॥ ३८॥
भद्राय मेऽस्तु तव राघव बोधमुद्रा
विद्रावयन्त्यखिलमान्तरमन्धकारम् ।
मन्त्रस्य ते परिपुनन्ति जगद्यथाष-
डष्टाक्षराण्य(पि तथैव) विवृण्वती सा ॥ ३९॥
मन्दं निधेहि हृदि मे भगवन्नटव्यां
पाषाणकण्टकसहिष्णु पदाम्बुजं ते ।
अङ्गुष्ठमात्रमथवात्र निधातुमर्ह-
स्याक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ ४०॥
यज्ञेन देव तपसा यदनाशकेन
दानेन च द्विजगणैर्विविदिष्यसे त्वम् ।
भाग्येन मे जनितृषा तदिदं यतस्त्वां
चापेषुभाक् परमबुध्यत जामदग्न्यः ॥ ४१॥
रम्योज्ज्वलस्तव पुरा रघुवीर देहः
कामप्रदो यदभवत् कमलालयायै ।
चित्रं किमत्र चरणाम्बुजरेणुरेखा
कामं ददौ न मुनये किमु गौतमाय ॥ ४२॥
लङ्केशवक्षसि निविश्य यथा शरस्ते
मन्दोदरीकुचतटीमणिहारचोरः ।
शुद्धे सतां हृदि गतस्त्वमपि प्रभो मे
चित्ते तथा हर चिरोवनतामविद्याम् ॥ ४३॥
वन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधे-
स्तातं भुवश्च रघुपुङ्गव रेखया यत् ।
वज्रं बिभर्ति भजदार्तिगिरिं विभेत्तुं
विद्यां नताय वितरेयमिति ध्वजं च ॥ ४४॥
शम्भुः स्वयं निरदिशद्गिरिकन्यकायै
यन्नाम राम तव नामसहस्रतुल्यम् ।
अर्थं भवन्तमपि तद्वहदेकमेव
चित्रं ददाति गृणते चतुरः किलार्थान् ॥ ४५॥
षट् ते विधिप्रभृतिभिः समवेक्षितानि
मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो ।
एकेन यानि गुणितान्यपि मानसेन
चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥ ४६॥
सर्गस्थितिप्रलयकर्मसु चोदयन्ती
माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा ते
नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ ४७॥
हंसोऽसि मानसचरो महतां यतस्त्वं
सम्भाव्यते कील ततस्तव पक्षपातः ।
मय्येनमर्पय न चेद्रघुनन्दन ? ?
जिष्णोरपि त्रिभुवने समव ? ?॥ ४८॥
लक्ष्मीर्यतोऽजनि यथैव जलाशयाना-
मेको रुषा तव तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेव वर्ते
तादृग्विधस्तपनवंशमणे किमन्यैः ॥ ४९॥
क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान्
सर्वंसहा ननु वधूरपि ते पुराणी ।
वासालयं च ननु हृत्कमलं मदीयं
कान्तापरापि न हि किं कमलालया ते ॥ ५०॥
इत्थं मम स्तुवदमर्त्यनिगद्यमान-
त्रय्यन्तमन्त्रमुखरीकृतपादपीठ ।
राजाधिराज कृपया रघुवीर वर्ण-
मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ५१॥
इति श्रीमद्रामभद्रदीक्षितविरचितं श्रीरामवर्णमालिकास्तोत्रं सम्पूर्णम् ।
Proofread by Aruna Narayanan