सगुणनिर्गुणब्रह्माभेदवादः

सगुणनिर्गुणब्रह्माभेदवादः

जगतः सर्जकं चाथ रक्षकं लयकारकम् । मुक्तिदं च जगन्मूलं वेदवेद्यं परेश्वरम् ॥ १॥ साकारं च निराकारं सगुणं निर्गुणं तथा । वन्दे परात्परं ब्रह्म श्रीरामं जानकीश्वरम् ॥ २॥ निग्रहवर्जितां रम्यां श्रीरामस्यातिवल्लभाम् । अनुग्रहमयीं सीतां वन्देहं विश्वमातरम् ॥ ३॥ श्रीमद्रामकृपापात्रं रामसेवारतं सदा । हनूमन्तमहं वन्दे सर्वविघ्नविनाशकम् ॥ ४॥ ब्रह्मसूत्रविधातारं श्रीमन्तं बादरायणम् । बोधायनं तथा वन्दे वृत्तिकृत्पुरुषोत्तम् ॥ ५॥ आनन्दभाष्यकर्त्तारमाचार्यचक्रवर्त्तिनम् । वन्दे यतीश्वरं रामानन्दाचार्यं जगद्गुरुम् ॥ ६॥ व्रतीन्द्रं ब्रह्मतत्त्वज्ञं नैष्टिकब्रह्मचारिणम् । टीलापीठेश्वरं वन्दे टीलाचार्यं जगद्गुरुम् ॥ ७॥ श्रीमद्रामसमारम्भां रामानन्दार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ८॥ नत्त्वा गुरोः पदाम्भोजं भवाम्भोधेश्च तारकम् । सगुणनिर्गुणब्रह्माभेदवादं कोराम्यहम् ॥ ९॥ निष्कलं निष्क्रियं चाथ निर्गुणं च निरञ्जनम् । ``विज्ञानमानन्दं ब्रह्म'' इत्येवं श्रुतिवाक्यतः ॥ १०॥ निषेधः प्राकृतानां हि गुणानामेव राघवे । परास्य शक्तिरित्यादिशक्त्यादिबोधकश्रुतेः ॥ ११॥ ननु सदेव सोम्येदमग्र आसीदिति श्रुते । सृष्टेः पूर्वं मतं ब्रह्म भेदत्रयविवर्जितम् ॥ १२॥ निर्विशेषतया तस्य सगुणत्वं कथं भवेत्क्ष । इति चेन्न यतः श्रुत्या कारणं ब्रह्म बोध्यते ॥ १३॥ सूक्ष्माचिच्चिद्विशिष्टं हि कारणं ब्रह्म कथ्यते । अन्यथा ब्रह्मणस्तस्माज्जगत्सृष्टिर्न सम्भवेत् ॥ १४॥ अङ्गीकारेण मायाया जगदुत्पत्तिसम्भवः । इति चेन्न, विकल्पं न सहेतैतद् वचो यतः ॥ १५॥ सर्वकर्त्री हि सा माया निर्विशेषमहं तथा । इत्येवं ब्रह्म जानाति नवा जानाति तन्ननु ॥ १६॥ आधे तु ज्ञातृताऽऽपत्त्या निर्विशेषं कथं हि तत् । अन्त्येऽज्ञत्वेन मायाया अङ्गीकारो न सम्भवेत् ॥ १७॥ यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः । इत्यादीनां श्रुतीनां हि विरोधश्च भवेद् ध्रुवम् ॥ १८॥ अङ्गीकाराय मायाया ब्रह्मशक्तिर्मता न वा । ब्रह्माद्ये निर्विशेषं नोऽङ्गीकारश्चान्तिमे न हि ॥ १९॥ किं च मायात्मकं ब्रह्म तदोच्यतां न वा तथा । अङ्गीकारवचो व्यर्थमाद्येऽन्त्येऽनन्तता कथम् ॥ २०॥ अङ्गीकारान्नु पूर्वस्मिन् काले माया कमाश्रिता । ब्रह्माश्रितेतिचेत् तर्हि सर्वदा स्याद् विशिष्टता ॥ २१॥ तथा चाद्वैतताहानिर्ब्रह्मणश्च भवेद् ध्रुवम् । ईशस्यैव गुणाः सर्वे मताः सर्वज्ञतादयः ॥ २२॥ ब्रह्मणि निर्विशेषे नु तस्मात् सम्भवन्ति न । ते मायोपाधिका ईशे मताः स्वाभाविका न हि ॥ २३॥ अस्मान्मायीति सम्प्रोक्तः श्रुतौ मायितयेश्वरः । इति चेन्न, कुतो यस्मान्मायी विचित्रकारकः ॥ २४॥ मायया सततं वेत्ति प्राचीनं च शुभाशुभम् । मायाशब्दस्तथा चैवं क्वचिज् ज्ञानस्य वाचकः ॥ २५॥ ब्रह्मणो यत्तदद्रेश्यमित्युक्ता निर्विशेषता । तदन्यथाऽनुपपत्त्या सगुणान्निर्गुणं परम् ॥ २६॥ इति चेन्न यतः श्रुत्या निषिध्य प्राकृतान् गुणान् । अनौपाधिकशक्त्यादिगुणा ब्रह्मणि बोधिताः ॥ २७॥ सगुण निर्गुणशैक्यं पुराणेऽभिहितं ततः । सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्वदृक् ॥ २८॥ न हि तस्य गुणाः सर्वे सर्वैर्मुनिगणैरपि । वक्तुं शक्या वियुक्तस्य सत्वाद्यैरखिलैर्गुणैः ॥ २९॥ ब्रह्मणः सगुणत्वं तत् कल्याणगुणयोगतः । प्राकृतगुणराहित्यान्निर्गुणत्वं च तस्य हि ॥ ३०॥ यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह । श्रुत्यविषयतैवं हि ब्रह्मणि प्रतिपादितम् ॥ ३१॥ मैवं श्रुत्या तन्महिम्न इयत्ताप्रतिषेधनात् । अन्यथा ब्रह्म वेदे तिश्रुतिकोपः समाप्नुयात् ॥ ३२॥ निर्विशेषं परं ब्रह्म सदेवेत्यवधारणात् । गुणतोऽप्यद्वितीयं तत् द्वितीयं सहते न हि ॥ ३३॥ अध्यारोपापवादन्यायतो रज्जावहेरिव । आरोपो न प्रपञ्चस्य ब्रह्मणि निर्विशेषके ॥ ३४॥ एवञ्चापि न सिध्येद्धि ब्रह्मणि निर्विशेषता । दृष्टान्तस्य हि वैरूप्यं भवतः कथने यतः ॥ ३५॥ दृष्टान्ते रज्ज्वधिष्ठानं तत्राज्ञानादहेर्भ्रमः । अज्ञानस्याश्रयो द्रष्टा ह्यपदेष्टाऽप्यपेक्ष्यते ॥ ३६॥ यतश्चाद्वैतसिद्धान्ते ब्रह्मभिन्नं न किञ्चन । सङ्गच्छते न दृष्टान्तो तन्मतेऽतः कथञ्चन ॥ ३७॥ आरोपितप्रपञ्चस्य द्रष्टाकश्चेति कथ्यताम् । नान्योऽतोऽस्ति श्रुतेर्वाक्याद् ब्रह्मैव नेतरो ननु ॥ ३८॥ एवश्चेज् ज्ञानमात्रस्य ब्रह्मणो द्रष्टृता कथम् । मायायोगेन सा चेति विकल्पं सहते न हि ॥ ३९॥ आगन्तुकश्च योगोऽयं स्वाभाविको मतोऽथवा । ब्रह्मणो विभुताहानिराद्ये पक्षे मते खलु ॥ ४०॥ मायाशबलमेव स्यादग्रेऽपि ब्रह्म चान्तिमे । विशिष्टमेव तद् ब्रह्म नाविशिष्टं कदापि हि ॥ ४१॥ गुणानां किन्तु दिव्यानां वैशिष्ट्यं राघवे मतम् । प्राकृतानां गुणानां तु राहित्यं तत्र बुध्यताम् ॥ ४२॥ आचार्यवासवश्रीमन्मङ्गलाचार्यनिर्मितम् । वादोऽयं जयतान्नित्यं वादिनां वादसङ्गरे ॥ ४३॥ इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः सगुणनिर्गुणब्रह्माभेदवादः सम्पूर्णः । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Mangalacharyamahamunindrapranitah Sagunanirgunabrahmabhedavadah
% File name             : saguNanirguNabrahmAbhedavAdaHmangalAchAryamahAmunIndra.itx
% itxtitle              : saguNanirguNabrahmAbhedavAdaH (maNgalAchAryamahAmunIndrapraNItaH)
% engtitle              : saguNanirguNabrahmAbhedavAdaH
% Category              : raama, rAmAnanda
% Location              : doc_raama
% Sublocation           : raama
% Author                : maNgalAchAryamahAmunIndra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org