परात्पर श्रीरामधामवर्णनम्

परात्पर श्रीरामधामवर्णनम्

श्रीभरद्वाज उवाच - वेदवेदान्तसारज्ञ विरञ्चिप्रभवोत्तम । भवता यत्परिज्ञातं तन्न जानन्ति केचन ॥ १॥ अतस्त्वां परिपृच्छामिहरेर्धाम्रां हि कारणम् । किञ्च तत् परमं धाम माधुर्येश्वर्यभूषणम् ॥ २॥ यत्र सर्वावताराणामादिकारण विग्रहः । क्रीडति कृपया मे त्वं तत्वतः कथय प्रभी ॥ ३॥ श्रीवशिष्ठ उवाच - साधु पृष्टं त्वया तात गुह्याद् गुह्यतमं महत् । सारात् सारतमं वेदसिद्धान्तं प्रवदामि ते ॥ ४॥ श्रूयतां सावधानेन रहस्यमतिदुर्लभम् । रामभक्तं विना कापि न वक्तव्यं त्वयाऽनघ ॥ ५॥ सर्वेभ्यश्चापि लोकेभ्यश्चोर्ध्वं प्रकृतिमण्डलात् । विरजायाः परे पारे वैकुण्ठं यत्परं पदम् ॥ ६॥ तस्मादुपरि गोलोकः सच्चिदिन्द्रियगोचरः । तन्मध्ये रामधामास्ति साकेताख्यं परात्परम् ॥ ७॥ श्रीमद्वृन्दावनादीनि तद्धामावरणेष्वपि । सर्वेषामवताराणां सन्ति धामान्यनेकशः ॥ ८॥ केवलैश्वर्यमुख्यानि धामान्येतानि सन्मते । ऐश्वर्योपासका भक्ता ध्यायन्ति प्राप्नुवन्ति च ॥ ९॥ एभ्यः परतमं धाम श्रीरामस्य सनातनम् । पृथिव्यां भारते वर्ष ह्ययोध्याख्यं सुदुर्लभम् ॥ १०॥ अखण्डसच्चिदानन्दसन्दोहं परमाद्भुतम् । वाङ्मनोगोचरातीतं त्रिषु कालेषु निश्चितम् ॥ ११॥ भूतलेऽपि च यद्धाम तथापि प्रकृतेर्गुणाः । संस्पृशन्ति न तज्जातु जलानि कमलं यथा ॥ १२॥ कालः कर्म स्वभावश्च मायिकः प्रलयस्तथा । ऊर्मयः षड् विकाराश्च न यत्र प्रभवन्ति हि ॥ १३॥ यदंशेन प्रकाशेते विभूती द्वे च सर्वदा । अधश्चोर्ध्वमनन्ते च नित्ये च परमाद्भुते ॥ १४॥ विभाति सरयूर्यत्र पश्चिमादित्रिदिक्षु च । विरजाद्याः सरिच्छ्रेष्ठाः प्रकाशन्ते यदंशतः ॥ १५॥ परान्नारायणाच्चापि कृष्णात् परतरादपि । यो वै परतमः श्रीमान् रामो दाशरथिः स्वराट् ॥ १६॥ यस्यानन्तावताराश्च कला अंशा विभूतयः । आवेशा विष्णुब्रह्मेशाः परब्रह्मस्वरूपभाः ॥ १७॥ स एव सच्चिदानन्दो विभूतिद्वयनायकः । वात्सल्याद्यद्भुतानन्तकल्याणगुणवारिधिः ॥ १८॥ राजेन्द्रमुकुटप्रोद्यद्रत्ननीराजिताङ्घ्रिणा । पित्रा दशरथेनैव वात्सल्यामृतसिन्धुना ॥ १९॥ कौशल्याप्रमुखाभिश्च मातृभिर्भ्रातृभिस्त्रिभिः । स्वदारसीतया चाथ दामीभिश्चालिभिस्तथा ॥ २०॥ सखिभिः समरूपैश्च दासैश्चामितविक्रमैः । मत्प्रमुखैर्मुनीन्द्रश्च सुमन्त्राद्यैश्च मन्त्रिभिः ॥ २१॥ परिवारैरनेकैश्च सच्चिदानन्दमूर्तिभिः । भोगैश्च विविधैर्दिव्यैर्भोगोपकरणैस्तथा ॥ २२॥ सार्धं वसति यत्रैव स्वतन्त्रः क्रीडते सदा । क्षणं हित्वा न तद्धाम क्वचिद् याति स्वयम्प्रभुः ॥ २३॥ तन्माधुर्यमयं नित्यमैश्चर्यान्तर्गतं ध्रुवम् । रामस्याति प्रियं धाम नास्त्यनेन समं क्वचित् ॥ २४॥ अतोऽयोध्यां रसज्ञा ये सर्वदा पर्युपासते । प्राकृतैश्चक्षुभिर्नैव दृश्यते सा कथञ्चन ॥ २५॥ देहत्रयविनिर्मुक्ता रामभक्तिप्रभावतः । तुरीयसच्चिदानन्दरूपाः पश्यन्ति तां पुरीम् ॥ २६॥ अथ श्रीरामचन्द्रस्य यद्धाम प्रकृतेः परम् । सच्चिद्घनपरानन्दं नित्यं साकेतसंज्ञकम् ॥ २७॥ यदंशप्रभवा लोका वेकुण्ठाद्याः सनातनाः । वक्ष्याम्यहं मुनिश्रेष्ठ तस्यावरणसप्तकम् ॥ २८॥ एकैकस्यां दिशि श्रीमान् दशयोजनसम्मितः । अयोध्याया बहिर्देशः स वै गोलोकसंज्ञकः ॥ २९॥ महाशम्भुर्महाब्रह्मा महेन्द्रो वरुणस्तथा । धनदो धर्मराजश्च महान्तश्च दिगीश्वराः ॥ ३०॥ एतदंशसमुद्भूता देवा ब्रह्मशिवादयः । यथाधिकारं ते सर्वे स्वस्वलोकेषु संस्थिताः ॥ ३१॥ निधयो नवधा नित्या दशाष्टौ सिद्धयस्तथा । त्रयस्त्रिंशत् तथा देवा गन्धर्वाश्चाप्सरोगणाः ॥ ३२॥ अन्ये च विविधा देवा नित्याः सर्वे द्विजोत्तम । सायुधाः सगणाः श्रीमद्रामभक्तिपरायणाः ॥ ३३॥ सप्तर्षयो मुनीनद्राश्च नारदसनकादयः । प्रथमावरणे नित्यं साकेतस्य स्थिता मुने ॥ ३४॥ वेदमूर्तिधराः शास्त्रविद्याश्च विविधास्तथा । पञ्चधा मुक्तयश्चापि रूपवत्यः पृथक् पृथक् ॥ ३५॥ कर्म ज्ञानं च वैराग्यं योगश्च साधनैः सह । द्वितीयावरणे नित्यं स्वस्वरूपेण संस्थिताः ॥ ३६॥ सच्चिज्ज्योतिर्मयं ब्रह्म निरीहं निर्विकल्पकम् । निविशेषं निराकारं ज्ञानाकारं निरञ्जनम् ॥ ३७॥ अवाच्यमगुणं नित्यमनन्तं सर्वसाक्षिकम् । इन्द्रियविषयं सवरग्राह्यं स्वप्रकाशकम् ॥ ३८॥ न्यासिनां योगिनां यच्च ज्ञानिनां च लयास्पदम् । तृतीयावरणे तद् वै साकेतस्य विदुर्बुधाः ॥ ३९॥ केचित्तु केवलानां हि तत्रावासं वदन्ति हि । गर्भोदकनिवासी च क्षीरार्णवनिवासकृत् ॥ ४०॥ श्वेतदीपाधिपश्चाथ रमावैकुण्ठनायकः । चतुर्विंशत्यवताराः सन्ति तत्र पृथक् पृथक् ॥ ५१॥ सलोकाः सगणाः सर्वे मथुरा च महापुरी । पुरी द्वारावती नित्या काशी लोकैकवन्दिता ॥ ४२॥ काञ्ची मायापुरी दिव्या तथा चावन्तिकापुरी । अयोध्यामेव सेवन्ते चतुर्थावरणे स्थिताः ॥ ४३॥ साकेतपूर्वदिग्भागे श्रीमती मिथिलापुरी । सर्वाश्चर्यवती नित्या सच्चिदानन्दरूपिणी ॥ ४४॥ हम्यः प्रासादवर्यैश्च नानारत्नपरिष्कृतैः । विमानेर्विविधैरुच्चैश्चित्रध्वजपताकिभिः ॥ ४५॥ भ्राजते परिखादुर्गविविधोद्यानसङ्कुला । तस्यां श्रीमन्महाराजः शीरकेतुः प्रतापवान् ॥ ४६॥ श्वशुरो रामचन्द्रस्य वात्सल्यादिगुणार्णवः । निमिवंशध्वजः शूरश्चतुरङ्गबलान्वितः ॥ ४७॥ वेदवेदान्तसारज्ञः सर्वशास्त्रविशारदः । धनुर्वेदविदां श्रेष्ठः सर्वैश्वर्यसमन्वितः ॥ ४८॥ दासीदासगणैर्नित्यं सेवितो वसति स्वराट् । दक्षिणस्यां दिशि श्रीमान् कोशलाया गिरिर्महान् ॥ ४९॥ भ्राजते चित्रकूटः सच्चिन्मयानन्दमूर्तिमान् । नानारत्नमयैः श्रृङ्गर्विचित्रैश्चित्रपादपैः ॥ ५०॥ सुधास्वादुफले रम्यैः पुष्पभारावलम्बिभिः । लताजालवितानैश्च गुञ्जद्भ्रमरसङ्कुलैः ॥ ५१॥ मत्तकोकिलसन्नादेः कूजद्भश्चित्रपक्षिभिः । नृत्यन्मत्तमयूरैश्च निर्झरैनिमलाम्बुभिः ॥ ५२॥ सीतया सह रामस्य लीलारसविवर्धनः । चिद्रूपा काञ्चनी भूमिः समा रत्नैर्विचित्रिता ॥ ५३॥ समन्तात् पर्वतिन्द्रस्य दिव्यकाननमण्डिता । यत्र मन्दाकिनी रम्या वहति श्रीमती नदी ॥ ५४॥ मणिनिर्मलतोयाढ्या बज्रवैडूर्यबालुका । गुञ्जन्मधुव्रतश्रेणी प्रफुल्लमकलाकुला ॥ ५५॥ चित्रपक्षिकलक्वाणमुखरीकृतदिक् तटा । स्वर्णस्फटिकमाणिक्यमुक्ताबद्धतटद्वया ॥ ५६॥ चित्रपुष्पलतापुञ्जकुञ्जानि शोभितानि च । मधुराणि सहस्त्राणि तस्यास्तीरद्वयोरपि ॥ ५७॥ सन्ति नित्यविहारार्थं जानकीरामचन्द्रयोः । अयोध्या पश्चिमे भागे कृष्णस्य परमात्मनः ॥ ५८॥ नित्यं वृन्दावनं धाम चिन्मयानन्दमद्भुतम् । समन्ताद् भूः समा यत्र काञ्चनी रत्नचित्रिता ॥ ५९॥ दिव्यवृक्षैर्लता कुञ्जैर्गुञ्जन्मत्तमधुव्रतैः । नवीनैः पल्लवैः स्निग्धैः फलेः पुष्पेश्न सन्नतेः ॥ ६०॥ नदत्पक्षिगणैश्चित्रैर्मयूरेश्च विराजते । गोवर्धनो गिरिर्यत्र काञ्चनो रत्नमण्डितः ॥ ६१॥ लतापादपसङ्कीर्णो गुहनिर्भरकूटवान् । नदी यत्र महापुण्या कालिन्दी कृष्णवल्लभा ॥ ६२॥ नीलरत्नजलोत्तुङ्गतरङ्गावर्तमालिनी । फुल्लपङ्केरुहा मत्तकूजद्भृङ्गविहङ्गमा ॥ ६३॥ स्वर्णघट्टतटा रत्नबालुका शोभते भृशम् । गोपीगोपगणैर्नित्येर्गो वृन्दैर्गोपबालकेः ॥ ६४॥ श्रीमन्नन्दयशोदाभ्यां भ्रात्रा श्रीमद्वलेन च । सखीभिर्गोपकन्याभिर्वृषभानुसुतादिभिः ॥ ६५॥ सार्धं वसति तत्रैव श्रीकृष्णः पुरुषोत्तमः । क्कणद्वेणुमनोहारी विहारी रासमण्डले ॥ ६६॥ श्रीराधिका मुखाम्भोजमकरन्दमधुव्रतः । सत्यायाश्चोत्तरे भागे महावैकुण्ठसंज्ञकम् ॥ ६७॥ महाविष्णोः परं धाम ध्रुवं वेदैः प्रकीर्तितम् । सर्वतः खचिता रत्नैर्भूमिर्यत्र हिरण्मयी ॥ ६८॥ वापीकुण्डतटाकैश्च दिव्यारामैर्विराजते । समन्ताच्च नदी यत्र विरजा फुल्लपङ्कजा ॥ ६९॥ स्वच्छ स्फटिकतोयौघावर्त तुङ्गतरङ्गिणी । स्वर्णरत्नतटा रम्या वज्रस्फटिकसैकता ॥ ७०॥ भङ्गपक्षिगणोद्घुष्ट कोलाहलसमाकुला । प्रासादैः पार्षदेन्द्राणां विमानैर्विविधैस्तथा ॥ ७१॥ चित्रशालोत्तमैर्दिव्यैर्हम्र्यजालैः सहस्रशः । उच्चै र्ध्वजपताग्रैरत्नकाञ्जनचित्रितैः ॥ ७२॥ ललनारत्नसङ्घैश्च तल्लोकं द्योततेऽधिकम् । हैरण्यं सुमद्ररत्नैः खचितं परमायतम् ॥ ७३॥ तत्रैकं भवनं प्रांशुप्रासादैः परिवारितम् । सहस्त्रैः कलशै भातं ध्वजैश्चित्रैश्न केतुभिः ॥ ७४॥ मुक्तादामवितानैश्च चित्ररत्नगवाक्षकैः । महद्वज्रकपाटैश्व मणिस्तम्भेः सहस्रशः ॥ ७५॥ रतनाङ्गणं महाकक्षं भाति तल्लोकभूषणम् । तन्मध्ये शेषपर्यङ्के नित्यसत्वैकविग्रहः ॥ ७६॥ आस्ते नारायणो नित्यः किशोरः सद्गुणार्णवः । मेघश्यामश्चतुर्बाहुस्तडित्पीताम्बरावृतः ॥ ७७॥ श्यामस्निग्धालक व्रातैरुल्लसन्मुखपङ्कजः । महद्रत्नकिरीटेन कुण्डलाङ्गदकङ्कणेः ॥ ७८॥ श्रीवत्स कौस्तुभाभ्यां च सदगन्धिवनमालया । वैजयन्त्योपवीतेन मुद्रिकाहारनूपुरेः ॥ ७९॥ स्वर्णसूत्रेण काञ्जयादिभूषणैभूषितो विभुः । शङ्खचक्रगदापद्माद्यायुधैश्चाप्यलङ्कृतः ॥ ८०॥ विभाति श्रीमतीभिश्च श्रीभूलीलादिशक्तिभिः । विष्वक्सेनादयो नित्यमुक्ता मुक्ताश्च सूरयः ॥ ८९॥ शुद्धसत्वात्मकाः सर्वे श्यामलाङ्गाश्चतुर्भुजाः । दिव्यगन्धानुलिप्ताङ्गाः पद्माक्षः पीतवाससः ॥ ८२॥ सुकेशाः सुस्मिता दिव्यमाल्यालङ्कारभूषिताः । सर्वायुधधरा दिव्यललनायूथ सेविताः ॥ ८३॥ भगवन्तं श्रिया जुष्टं सेवन्तेऽहर्निशं मुदा । मिथिलाचित्रकूटश्च श्रीमद्वुन्दावनं तथा ॥ ८४॥ महावैकुण्ठमेतद्धि पञ्चमावरणे मुने । ततस्तु परमानन्दसन्दोहं परमाद्भुतम् ॥ ८५॥ अयोध्यायाश्चतुर्दिक्ष चतुर्विशतियोजनम् । सर्वतो वेष्टितं नित्यं स्वप्रकाशं परात्परम् ॥ ८६॥ सच्चिदेकरसानन्दं मायागुणविवर्जितम् । वाङ्घनोगोचरातीतं प्रमोदारण्यसंज्ञकम् ॥ ८७॥ रामस्यातिप्रियं धाम नित्यलीलारसास्पदम् । जाम्बूनदमयी यत्र भूः समन्तात् प्रकाशते ॥ ८८॥ चिद्रूपिणी समा श्लक्ष्णा परानन्दविवर्धिनी । चन्द्रकान्तोपलैश्चित्रा ककचिच्च स्फटिकोपला ॥ ८९॥ मणिभिः पद्मरागैश्च कचिद् वज्रैर्महाप्रभेः । इन्द्रनीलोपलैर्बद्धा माणिक्येर्विविधेः क्वचित् ॥ ९०॥ रत्नैर्वंशच्छ दैर्भातैर्वैडूर्यैः खचिता कचित् । अविद्धाभिश्च मुक्ताभिः प्रवालैश्चक्वचित्कचित् ॥ ९१॥ महार्धैश्चित्रिता रत्नैर्नीलपीतासितारुणैः । स्यमन्तैर्भ्राजमानैश्च चिन्तारत्नचयैस्तथा ॥ ९२॥ चित्रिता वसुधा सर्वा द्योतयत्यधिकं प्रियम् । पूर्वादिषु चतुर्दिक्षु क्रमेण तद्वने मुने ॥ ९३॥ गिरयः सन्ति चत्वारस्तेषां नामानि मच्छुणु । श्रृगाराद्रिश्च रत्नाद्रिस्तथा लीलाद्रिरेव च ॥ ९४॥ मुक्ताद्रिश्च स्वया लक्ष्म्या द्योतयन्ति दिशो दश । आह्लादिन्याञ्च पूर्वस्यां यथा प्रोद्यन् प्रभाकरः ॥ ९५॥ नीलरत्नमयो भाति श्रृङ्गाराद्रिर्मनोहरः । दक्षिणस्यां दिशि श्रीमद्रत्नद्रिर्द्योतयन् वनम् ॥ ९६॥ पीतरत्नमयः कान्त्या भूदेव्या भ्राजते प्रियः । प्रतीच्यां दिशि लीलाद्रिर्लीलाललितकान्तिभिः ॥ ९७॥ राजते रक्तरत्नाढ्यो रामस्य रतिवर्धनः । श्रिया देव्या हि लीलार्थं मुक्ताद्रिर्मण्डितो महान् ॥ ९८॥ उदीच्यामुज्वलो रत्नैश्चन्द्रकान्तैरुदञ्चते । चित्रपुष्पोघसम्पन्नैर्लतापुञ्जवितानकैः ॥ ९९॥ स्वल्पीकृत सुधास्वादुफलभारातिसन्नतैप्पः । नवीनपल्लवो पेतैर्गुञ्जन्मत्तमधुव्रतैः ॥ १००॥ कूजच्चित्रद्विजैनीलकण्ठकेकिनिनादितेः । प्रमत्त कोकिलक्काणमुखरीकृतदिमुखैः ॥ १०१॥ विचित्रैर्विविधैः स्निघैर्वृक्षैर्नित्यमधुस्रवैः । उन्नतैः शिखरैर्भातैः स्यन्दमानैश्च निझरिः ॥ १०२॥ गुहामिश्च विराजन्ते चत्वारस्ते नगोत्तमाः । तत्प्रमोदवने सन्ति मधुराणि नवानि च ॥ १०३॥ द्वादश वनरत्नानि तन्नामानि श्रृणुष्व मत् । श्रीश्रृगारवनं भास्वद्विहारवनमद्भुतम् ॥ १०४॥ तमालं च रसालं च चम्पकं चन्दनं तथा । पारिजातवनं दिव्यमशोकवनमुत्तमम् ॥ १०५॥ विचित्राख्यं वनं कान्तं कदम्बवनमेव च । तथाऽनङ्गवनं रम्यं वनं श्रीनागकेशरम् ॥ १०६॥ द्वादशैतानि नामानि वनानां कथितानि ते । सर्वेषु सान्द्रनीलाभ्रनिभेषु विपिनेषु च ॥ १०७॥ निविडेषु नवा नित्या विचित्रा विविधा द्रुमाः । चिन्मयाः कमनीयाश्च किशोराः कामविग्रहाः ॥ १०८॥ सुस्निग्धाः कोमलाः सूक्ष्याश्च्योतन्त्यमृतविप्रुषः । नवीनैः पल्लवैः श्लक्ष्णैर्मृदुलैर्वायुचञ्चलैः ॥ १०९॥ विचित्रैर्लम्बितैर्नीलहरित्पीतारुणै र्धनैः । पुष्पाणां पञ्ञवर्णानां दिव्यायां च सुगन्धिनाम् ॥ ११०॥ नवानामप्रमेयाणां नित्यानामभितो भृशम् । प्रफुल्लानां सुधास्वादुफलानां च विशेषतः ॥ १११॥ महाभारेण शाखाभिर्लुण्ठन्ति धरणीतले । दिव्यस्वर्णमहारत्नजालैश्चित्रित वेदिकाः ॥ ११२॥ पञ्च प्रकारसत्पुष्पव्रतत्यो घवितानकाः । सुवर्णवल्कलास्तत्र मुक्तापुष्पावतंसकाः ॥ ११३॥ लताश्विन्तामणिफला रत्नपल्लवशोभिताः । नानापुष्परजः पृक्तशबलाः षट्पदा मुदा ॥ ११४॥ अनन्ता यत्र गुञ्जन्ति भ्रमन्तो गन्धगृन्घवः । मत्ताः पुष्परसं पीत्वा पतन्ति पृथिवीतले ॥ ११५॥ पुनरुत्थाय धावन्ति पुष्पौघेषु मुहुर्मुहुः । प्रविलीय पलायन्ते द्रुममन्यं हि यूथशः ॥ ११६॥ समन्ताद् भ्रमरीभिस्ते विक्रीडन्ते समं मुदा । अनन्ता निर्वृता मत्ताः क्वचित् कूजन्ति कोकिलाः ॥ ११७॥ सारिकाश्च शुकाश्चित्राः क्वचिद् गायन्ति सङ्घशः । कचित्पारावतत्राताः कपोताश्रक्क णन्ति हि ॥ ११८॥ रटन्ति रागिणोऽत्यन्तं चञ्चलाश्चातकाः क्वचित् । चन्द्रमण्डलसङ्काशाः प्रमदाभिर्मुदान्विताः ॥ १९९॥ हंसा मुक्ताश्च खादन्तो नदन्ति मधुरं क्वचित् । क्वचित् क्रौञ्चश्चकोराश्चा कलहंसाश्च सारसाः ॥ १२०॥ विचित्राः पक्षिणश्चान्ये स्वयोषिद्भिर्मनोहराः । रमन्ते नादयन्तश्च वनं नानारवैर्भृशम् ॥ १२१॥ तिरस्कृतामृतस्वादुफलानि विविधानि च । अदन्ति तेषु सर्वेषु विचित्रेषु वनेषु च ॥ १२२॥ प्रनृत्यन्ति मयूरीभिः सार्धंः मत्ताः शिखण्डिनः । नित्यश्रीकर्णिकाराश्च कुन्दवृन्दाश्चचमल्लिकाः ॥ १२३॥ लवङ्गलतिका जात्यो मालत्यो यूथिकास्तथा । माघव्यश्चैव केतक्यो वासन्त्यः परमाद्भुताः ॥ १२४॥ स्थूलपद्माश्च कज्जाश्च सेवन्त्यो विविधास्तथा । अन्याश्चित्र लताः स्वैः स्वै पुष्पौधैर्विविधैर्भृशम् ॥ १२५॥ प्रकुर्वन्ति वने सर्वं द्रव्यं गन्धाधिवासितम् । वाताश्च शीतला मन्दा सुगन्धास्तद्वने सदा ॥ १२६॥ प्रवान्ति परमानन्दवर्धनाः षद्पदानुगाः । नानापुष्परजोभिश्च रञ्जिता भूर्विराजते ॥ १२७॥ कचित्पीता क्कचिन्नीला हरिद्रक्ता सिता क्वचित् । पादपप्रच्युतैः पुष्पैराच्छन्ना पञ्चवर्णकैः ॥ १२८॥ कुथेवाभाति विस्तीर्णा चित्रवर्णा क्वचित् क्वचित् । दीर्घिका विविधास्तत्र मणिनिर्मलवारिणा ॥ १२९॥ पूर्णा माणिक्यसोपानाः स्फटिकोपलकुट्टिमाः । तीरस्थद्रुमसच्छन्नाः प्रफुल्लविविधीत्पलाः ॥ १३०॥ कूजत्पक्षिगणैश्चित्रैर्गुञ्जद्भृङ्गैर्निनादिताः । फूल्लपञकजकल्लोलजला गुञ्जन्मधुव्रताः ॥ १३९॥ पुष्करिण्यो द्विजोद्घुष्टद्रु मगुल्मलताचयाः । तटाकानि सरम्याणि विशालानि वने वने ॥ १३२॥ विचित्रमणिसोपानतीर्थानि विविधानि च । कुण्डानि कमनीयानि सन्ति स्फटिकवारिभिः ॥ १३३॥ सन्नादितवनान्तानि नदद्भिश्चित्रपक्षिभिः । प्रासादा मण्डपाः सान्द्रकाननेषु क्वचित् क्वचित् ॥ १३५॥ मध्ये मध्ये प्रदीप्यन्ते वेदिका विविधास्तथा । काञ्चनाश्चन्द्रकान्तैश्च मणिभिश्चित्रिता क्वचित् ॥ १३६॥ चिन्तारत्नैः क्वचिच्चेन्द्रनीलरत्नैर्विचित्रिताः । पद्मरागैः प्रवालैश्च क्वचिद् व्रजैः स्फुरत्प्रभैः ॥ १३६॥ वैडूर्यैर्भासमानैश्च स्यमन्तैः खचितः क्वचित् । क्वचिद्वंशच्छ दैर्भातैमणिक्यैश्च मनोहरैः ॥ १३८॥ हरिद्रत्नैश्च मुक्ताभिः प्रवालैश्चापि मण्डितः । अन्येर्विचित्ररत्नेश्च मृदुलास्तरणेस्तथा ॥ १३९॥ मुकादामवितानैश्च दर्पणेश्राप्पलङ्कृताः । मुक्तापुष्पलताजालकुज्जानि मञ्जुलान्यलम् ॥ १४०॥ भृङ्गपक्षिप्रघुष्टानि तद्वने सन्त्यनेकशः । वसन्तो हि कचित् तत्र नित्यमेव विराजते ॥ १४१॥ निदाघश्च क्कचित् प्रावृट् क्वचिन्नित्यं शरत् तथा । हेमन्तश्च क्वचिन्नित्यं शिशिरो वर्तते क्वचित् ॥ १४२॥ षडेते ऋतवः स्वस्वभूत्या वै संवसन्ति हि । देशी देवगिरिश्चैव वैराटी टोडिका तथा ॥ १४३॥ ललिता चैव हिण्डोली रागिण्यः षट् प्रकीर्तिताः । मूर्तिमतीभिरेताभिः स्वपत्नीभिर्मनोहरः ॥ १४४॥ वसन्तो मूर्तिमान् रागो वसन्ते वर्त्तते सदा । भैरवी गुर्जरी चैव रेवा गुणकरी तथा ॥ १४५॥ वङ्गाक्षी बहुली चैव रागिण्यः षट् सुविग्रहाः । एताभिः स्वसहाभिर्योयोषिद्भिभैरवोऽद्भुतः ॥ १४६॥ रागः संवर्तते नित्यं निदाघे मूर्तिमान् स्वयम् । मल्लारी सोरठी चैव सावेरी कौशिकी तथा ॥ १४७॥ गान्धारी हरि श्रृङ्गारा रागिण्यः षट्सुखप्रदाः । सुरूपाभिः स्वभार्याभिरेताभिमूर्तिमान् महान् ॥ १४८॥ प्रावृषि प्रीतिकृन्नित्यं मेघरागः प्रतिष्ठितः । विभासी चाथ भूपाली मालश्री पटमञ्जरी ॥ १४९॥ वडहंसी च कर्णाटी रागिण्योऽद्भुतविग्रहाः । स्वदारैः षङ्भिरेताभिः पुत्रपौत्रस्नुषादिभि ॥ १५०॥ रूपवान् पञ्चमो रागः सर्वदा शरदि स्थितः । कामोदी चापि कल्याणी ह्यभीरी नाटिका तथा ॥ १५१॥ सालङ्गीनटहम्मीरी रागिण्यः सुरतिप्रदाः । दिव्यरूपाभिरेताभिः स्वस्त्रीभिर्दिव्यरूपवान् ॥ १५२॥ हेमन्ते सर्वदा रागो दीपकाख्यश्च तिष्ठति । मालवी त्रिवणी गौरी केदारी मधुमाधवी ॥ १५३॥ पार्वतीया तथा चैव रागिण्यः श्रुतिसौख्यदाः । षड्मर्भिर्मूर्तिमतीभिः स्वनायिकाभिश्च मूर्तिमान् ॥ १५४॥ शिशिरे संस्थितो नित्यं श्रीरागः सकुटुम्बकः । रागाः षट्पुरुषाश्चेत्थं षट्त्रिंशच्च तथा स्त्रियः ॥ १५५॥ रागिण्यः परिवारैश्च निवसन्ति सदा वने । प्रमोदकाननं षष्ठमेतदावरणं महत् ॥ १५६॥ तव भक्त्या प्रसन्नेन मया प्रोक्तं द्विजोत्तम । ततश्च सरितामादिकारणं सरयू सरित् ॥ १५७॥ श्रीमती शाश्चती नित्यं सर्वलोकैकपावनी । सच्चिद्घनपरानन्दरूपिणी रामवल्लभा ॥ १५८॥ विरजाद्याः परा नद्यो यस्यांशाल्लोकविश्रुताः । यन्नामोच्चारणात् सद्यो मुक्ताः संसारबन्धनात् ॥ १५९॥ प्राप्नुयुर्दिव्यदेहं च ससीतं रघुनन्दनम् । तज्जलं निर्मलं कान्तं गम्भीरावर्त्तशोभितम् ॥ १६०॥ उत्तुङ्ग विलसद्वीचिधवलीकृतदिन्ङ्मुखम् । मन्दीकृतशरच्चन्द्रकरं चन्द्रमणिप्रभम् ॥ १६१॥ तिरस्कृतसुधारवादु कुन्दवृन्द हिमद्युति । प्रफुल्लैः पङ्कजैरक्तैः शुक्लैः पीतैः तथाऽसितैः ॥ १६२॥ अन्यैर्नानाविधैर्दिव्यैः सुगन्धीकृतमद्भुतम् । हंसैः क्रौञ्चैश्चकोरैश्च चक्रवाकैश्च सारसैः ॥ १६३॥ सदारैरतिकूजद्भिश्चित्रैश्चान्यैः पतत्रिभिः । भ्रमद्भिर्भ्रमरैर्मत्तैर्गुञ्जद्भिर्मधुरस्वरैः ॥ १६४॥ मत्ताभिर्भ्रमरीभिश्च समन्तोन्मुखरीकृतम् । मणिभिश्चन्द्रकान्तैश्च पद्मरागैश्च कौस्तुभेः ॥ १६५॥ क्वचिद् वंशच्छदैर्व ज्रैश्चेद्रनीलैः स्यमन्तकैः । चिन्तारत्नैश्च वैडूयैर्मुक्ताभिः स्फटिकैः क्वचित् ॥ १६६॥ माणिक्यैश्च क्वचिद्रत्नैर्नानावर्णैः सकाञ्चनैः । खचितानां सुतीर्थानां सहस्राणां तटद्वये ॥ १६७॥ प्रतिविम्बैर्जलं स्वच्छं नानावर्णं प्रकाशते । वज्रस्फटिकमुक्तानां सूक्ष्मचूर्णानि बालुकाः ॥ १६८॥ तथा चन्द्रमणीनां च द्योतयन्ति सरित्तटे । एवं श्री सरयू रम्या परमानन्ददायिनी ॥ १६९॥ सप्तमावरणं विद्धि साकेतस्य सरिद्वरा । सप्तावरणमध्ये तु राजते रामवल्लभा ॥ १७०॥ अयोध्या तत्परा बोध्या सान्द्रानन्दैकविग्रहा । इतीदं वर्णितं नित्यं सप्तावरणसंयुतम् ॥ १७१॥ श्री साकेतामिधानं श्रीरामधाम परात्परम् । रामधाम्नः स्वरूपं च महात्म्यं मुनिसत्तम ॥ १७२॥ पठेद्वा श्रृणुयान्नित्यं य एतद् भक्तिसंयुतः । स गच्छेत् परमं धाम साकेतं योगिदुर्लभम् ॥ १७३॥ ज्ञानं योगश्च ध्यानं च तपश्चात्मविनिग्रहः । नाना यज्ञाश्च दानानि सर्वतीर्थावगाहनम् ॥ १७४॥ एतस्य पाठमात्रेण श्रवणेन च यत् फलम् । भवेत् तस्य भरद्वाज सहस्रांशं न चाप्नुयुः ॥ १७५॥ श्रीभरद्वाज उवाच - तत्त्वामृतं पीतमनन्यचेतसा सुधाधिकं त्वन्मुखनिर्गतं मया । धन्योऽस्म्यहं नाथ पदद्वयं प्रभो नमामि नित्यं च तवास्मि किङ्करः ॥ १७६॥ इति श्रीमद् वशिष्ठसंहितायां श्रीमद्वशिष्ठभरद्वाज संवादे नित्यश्रीरामधाम स्वरूप वर्णनात्मकः षड्विंशतितमोऽध्यायः ॥ २६॥ Proofread by P. Sudarshana
% Text title            : Shriramadhama Svarupavarnanam
% File name             : shrIrAmadhAmasvarUpavarNanam.itx
% itxtitle              : shrIrAmadhAmasvarUpavarNanam (vashiShThasaMhitAyAm)
% engtitle              : shrIrAmadhAmasvarUpavarNanam
% Category              : raama
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : P. Sudarshana
% Proofread by          : P. Sudarshana
% Description/comments  : shrImadvashiShThabharadvAja saMvAda
% Indexextra            : (1, 2)
% Latest update         : November 16, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org