श्रीराम मानसी बहिः च पूजा विधिविधानम्

श्रीराम मानसी बहिः च पूजा विधिविधानम्

श्रीराममानसी पूजा विधिविधानम्

सुतीक्ष्णस्त्वेकदाऽगस्त्यं दृष्ट्वा रहसि संस्थितम् । प्रणम्य परया भक्त्या प्रोवाच विनयान्वितः ॥ ५४॥ सुतीक्ष्ण उवाच । हृदये मानसी पूजा कीदृशी च वद प्रभो । उपचारैः कतिविधैः पूज्यते रघुनन्दनः । ५५॥ अगस्त्य उवाच । रामं पद्मविशालाक्षं कालाम्बुदसमप्रभम् । स्मितवक्त्रं सुखासीनं चिन्तयेच्चित्तपुष्करे ॥ ५६॥ रागादिकलुषं चित्तं वैराग्येण सुनिर्मलम् । कृत्वा ध्यायेत्सदा रामं भवबन्धविमुक्तये ॥ ५७॥ प्रातः शुद्धवपुर्भूत्वा शौचादिभिरतद्रितः । विविक्तदेशमाश्रित्य ध्यानपूजा समारभेत् ॥ ५८॥ नाभिकुन्दसमुद्भूतं कदलीकुसुमोपमम् । अष्टपत्रं स्निग्धवर्णं ध्यायेद्धृदयपङ्कजम् ॥ ५९॥ तत्पद्मं रामनाम्नैव फुल्लं कृत्वाऽस्य मध्यमे । भावयेत्सूर्यसोमाग्निमण्डलानुत्तरोत्तरम् ॥ ६०॥ तस्योपरि न्यसेद्दिव्यं पीठं रत्नमयोज्ज्वलम् । तन्मध्ये राघवं ध्यायेत्सूर्यकोटिसमप्रभम् ॥ ६१॥ इन्दीवरनिभं शान्तं विशालाक्षं सुवक्षसम् । उद्यद्दीधितमद्भास्वत्कुण्डलाभ्यां विराजितम् ॥ ६२॥ सुनासं सुकिरीटं च सुकपोलं शुचिस्मितम् । विज्ञानमुद्रं द्विभुजं कम्बुग्रीवं सुकुन्तलम् ॥ ६३॥ नानारत्नमयैर्दिव्यहारैर्भूषितमव्ययम् । विद्युत्पुञ्जप्रतीकाशं वस्त्रयुग्मधरं हरिम् ॥ ६४ वीरासनस्थं सन्तानतरुमूलनिवासिनम् । महासुगन्धलिप्ताङ्गं वनमालाविराजितम् ॥ ६५॥ वामपार्श्वे स्थितां सीतां चामीकरसमप्रभाम् । लीलापद्मधरां देवीं चारुहासां शुभाननाम् ॥ ६६॥ पश्यन्तीं स्निग्धया दृष्टया दिव्यां कल्पविराजिताम् । छत्रचामरहस्तेन लक्ष्मणेन सुसेवितम् ॥ ६७॥ हनुमत्प्रमुखैर्नित्यं वानरैः परिवारितम् । स्तूयमानं ऋषिगणैः सेवितं भरतादिभिः ॥ ६८॥ सनन्दनादिभिश्चान्यैर्योगिवृन्दैः स्तुतं सदा । सर्वशास्त्रार्थकुशलं योगज्ञं योगसिद्धिदम् ॥ ६९॥ एवं ध्यात्वा रामचन्द्रं मणिद्वयसुशोभितम् । शुद्धेन मनसा रामं पूजयेत्सततं हृदि ॥ ७०॥ इति ध्यानम् । आवाहयामि विश्वेशं जानकीवल्लभं विभुम् । कौसल्यातनयं विष्णुं श्रीरामं प्रकृतेः परम् ॥ ७१॥ राजाधिराज राजेन्द्र रामचन्द्र महीपते । रत्नसिंहासनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ ७२॥ श्रीरामागच्छ भगवन् रघुवीर रघूत्तम । जानक्या सह राजेन्द्र सुस्थिरो भव सर्वदा ॥ ७३॥ रामचन्द्र महेष्वास रावणान्तक राघव । यावत्पूजा समाप्येऽहं तावत्त्वं सन्निधौ भव ॥ ७४॥ रघुनन्दन राजर्षे राम राजीवलोचन । रघुवंशज मे देव श्रीरामाभिमुखो भव ॥ ७६॥ प्रसीद जानकीनाथ सुप्रसिद्ध सुरेश्वर । प्रसन्नो भव मे राजन् सर्वेश मधुसूदन ॥ ७६॥ शरणं मे जगन्नाथ शरणं भक्तवत्सल । वरदो भव मे राजन् शरणं मे रघूत्तम ॥ ७७॥ त्रैलोक्यपावनानन्त नमस्ते रघुनायक । पाद्यं गृहाण राजर्षे नमो राजीवलोचन ॥ ७८॥ परिपूर्ण परानन्द नमो रामाय वेधसे । गृहाणार्घ्यं मया दत्तं कृष्ण विष्णो जनार्दन ॥ ७९॥ ॐ नमो वासुदेवाय तत्त्वज्ञानस्वरूपिणे । मधुपर्कं गृहाणेमं राजाराजाय ते नमः ॥ ८०॥ नमः सत्याय शुद्धाय बुध्न्याय ज्ञानरूपिणे । गृहाणाचमनं देव सर्वलोकैकनायक ॥ ८१॥ ब्रह्माण्डोदरमध्यस्थैस्तीर्थैश्च रघुनन्दन । स्नापयिष्याम्यहं भक्त्या त्वं गृहाण जनार्दन ॥ ८२॥ सन्तप्तकाञ्चनप्रख्यं पीताम्बरमिमं हरे । सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ ८३॥ श्रीरामाच्युत यज्ञेश श्रीधरानन्द राघव । ब्रह्मसूत्रं सोत्तरीयं गृहाण रघुनायक ॥ ८४॥ किरीटहारकेयूररत्नकुण्डलमेखलाः । ग्रैवेयकौस्तुभं हारं रत्नकङ्कणनूपुरान् ॥ ८५॥ एवमादीनि सर्वाणि भूषणानि रघूत्तम । अहं दास्यामि ते भक्त्या सङ्गृहाण जनार्दन ॥ ८६॥ कुङ्कुमागरुकस्तूरीकर्पूरोन्मिश्रचन्दनम् । तुभ्यं दास्यामि विश्वेश श्रीराम स्वीकुरु प्रभो ॥ ८७॥ तुलसीकुन्दमन्दारजातिपुन्नागचम्पकैः । कदम्बकरवीरैश्च कुसुमैः शतपत्रकैः ॥ ८८॥ नीलाम्बुजैर्विल्वदलैः पुष्पमाल्यैश्च राघव । पूजयिष्याम्यहं भक्त्या सङ्गृहाण नमोऽस्तु ते ॥ ८९॥ वनस्पतिरसैर्दिव्यगन्धाढ्यैः सुमनोहरैः । रामचन्द्र महीपाल धूपोऽयं प्रतिगृह्यताम् ॥ ९०। ज्योतिषां पतये तुभ्यं नमो रामाय वेधसे । गृहाण दीपकं राजंस्त्रैलोक्यतिमिरापहम् ॥ ९१॥ इदं दिव्यान्नममृतं रसैः षड्भिर्विराजितम् । श्रीराम राजराजेन्द्र नैवेद्यं प्रतिगृह्यताम् ॥ १२॥ नागवल्लीदलैर्युक्तं पूगीफलसमन्वितम् । ताम्बूलं गृह्यतां राम कर्पूरादिसमन्वितम् ॥ ९३॥ मङ्गलार्थं महीपाल नीराजनमिदं हरे । सङ्गृहाण जगन्नाथ रामचन्द्र नमोऽस्तु ते ॥ ९४॥

अथ नमस्काराष्टकमन्त्राः

ॐ नमो भगवते श्रीरामाय परमात्मने । सर्वभूतान्तरस्थाय ससीताय नमो नमः ॥ ९५॥ ॐ नमो भगवते श्रीराम रामचन्द्राय वेधसे । सर्ववेदान्तवेद्याय ससीताय नमो नमः ॥ ९६॥ ॐ नमो भगवते श्रीविष्णवे परमात्मने । परात्पराय रामाय ससीताय नमो नमः ॥ ९७॥ ॐ नमो भगवते श्रीरघुनाथाय शार्ङ्गिणे । चिन्मयानन्दरूपाय ससीताय नमो नमः ॥ ९८॥ ॐ नमो भगवते श्रीराम श्रीकृष्णाय चक्रिणे । विशुद्धज्ञानदेहाय ससीताय नमो नमः ॥ ९९॥ ॐ नमो भगवते श्रीवासुदेवाय विष्णवे । पूर्णानन्दैकरूपाय ससीताय नमो नमः ॥ १००॥ ॐ नमो भगवते श्रीराम रामभद्राय वेधसे । सर्वलोकशरण्याय ससीताय नमो नमः ॥ १०१॥ ॐ नमो भगवते श्रीरामायामिततेजसे । ब्रह्मानन्दैकरूपाय ससीताय नमो नमः ॥ १०२॥ इति नमस्काराष्टकमन्त्राः ।

श्रीरामबहिःपूजाविधिविधानम्

नृत्यगीतादिवाद्यादिपुराणपठनादिभिः । राजोपचारैरखिलैः सन्तुष्टो भव राघव ॥ १०३॥ विशुद्धज्ञानदेहाय रघुनाथाय विष्णवे । अन्तःकरणसंशुद्धिं देहि मे रघुनन्दन ॥ १०४॥ नमो नारायणानन्त श्रीराम करुणानिधे । मामुद्धर जगन्नाथ घोरात्संसारसागरात् ॥ १०५॥ रामचन्द्र महेष्वास शरणागततत्पर । पाहि मां सर्वलोकेश तापत्रयमहानलात् ॥ १०६॥ श्रीकृष्ण श्रीकर श्रीश श्रीराम श्रीनिधे हरे । श्रीनाथ श्रीमहाविष्णो श्रीनृसिंह कृपानिधे ॥ १०७॥ गर्भजन्मजराव्याधिघोरसंसारसागरात् । मामुद्धर जगन्नाथ कृष्ण विष्णो जनार्दन ॥ १०८॥ श्रीराम गोविन्द मुकुन्द कृष्ण श्रीनाथ विष्णो भगवन्नमस्ते । प्रौढारिषड्वर्गमहाभयेभ्यो मां त्राहि नारायण विश्वमूर्ते ॥ १०९॥ श्रीरामाच्युत यज्ञेश श्रीधरानन्द राघव । श्रीगोविन्द हरे विष्णो नमस्ते जानकीपते ॥ ११०॥ ब्रह्मानन्दैकविज्ञानं त्वन्नामस्मरणं नृणाम् । त्वत्पदाम्बुजसद्भक्तिं देहि मे रघुवल्लभ ॥ १११। नमोऽस्तु नारायण विश्वमूर्ते नमोऽस्तु ते शाश्वत विश्वयोने । त्वमेव विश्वं सचराचरं च त्वामेव सर्वं प्रवदन्ति सन्तः ॥ ११२॥ नमोऽस्तु ते कारणकारणाय नमोऽस्तु कैवल्यफलप्रदाय । नमो नमस्तेऽस्तु जगन्मयाय वेदान्तवेद्याय नमो नमस्ते ॥ ११३॥ नमो नमस्ते भरताग्रजाय नमोऽस्तु यज्ञप्रतिपालनाय । अनन्त यज्ञेश हरे मुकुन्द गोविन्द विष्णो भगवन्मुरारे ॥ ११४॥ श्रीवल्लभानन्त जगन्निवास श्रीराम राजेन्द्र नमो नमस्ते । श्रीजानकीकान्त विशालनेत्र राजाधिराज त्वयि मेऽस्तु भक्तिः ॥ ११५॥ तप्तजाम्बूनदेनैव निर्मितं रत्नभूषितम् । स्वर्णपुष्पं रघुश्रेष्ठ दास्यामि स्वीकुरु प्रभो ॥ ११६॥ हृत्पद्मकर्णिकामध्ये सीतया सह राघव । निवस त्वं रघुश्रेष्ठ सर्वैरावरणैः सह ॥ ११७॥ मनोवाक्कायजनितं कर्म यद्वा शुभाशुभम् । तत्सर्वं प्रीतये भूयान्नमो रामाय शार्ङ्गिणे ॥ ११८॥ अपराधसहस्राणि क्रियतेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व रघुपुङ्गव ॥ ११९॥ नमस्ते जानकीनाथ रामचन्द्र महीपते । पूर्णानन्दैकरूप त्वं गृहाणार्घ्यं नमोऽस्तु ते ॥ १२०॥ एवं यः कुरुते पूजा बहिर्वा हृदयेऽपि च । सकृत्पूजनमात्रेण राम एव भवेन्नरः ॥ १२१॥ किं पुनः सततं ब्रह्मण्येवं पूज्य स्थितो हि सः । सर्वान्कामानवाप्नोति चेह लोके परत्र च । १२२॥ एवं सुतीक्ष्ण ते प्रोक्तं यथा पृष्टं त्वया मम । हृदये मानसीपूजाविधानं राघवस्य च ॥ १२३॥ श्रीरामदास उवाच । एवं शिष्य सुतीक्ष्णाय मुनयेऽगस्तिना पुरा । यत्प्रोक्तं तन्मया सर्वं तव प्रोक्तं सविस्तरात् ॥ १२४॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये मनोहरकाण्डे तृतीयसर्गान्तर्गतं श्रीराममानसीपूजाविधिविधानं समाप्तम् । अथ बहिःपूजाविधिविधानम् । शिष्याधुना बहिःपूजाविधानं च मयोच्यते । नरः प्रातः समुत्थाय कृत्वा शौचादिकाः क्रियाः १२५॥ स्नात्वा सन्ध्यादिकं कृत्वा देवपूजां सभारभेत् । तीर्थे देवालये वाऽपि गोष्ठे पुण्यस्थलेषु च ॥ १२६॥ नद्यास्तटे देवगेहे तुलसीसन्निधौ तथा । लिप्त्वा भूमिं गोमयेन ततो पद्मानि लेखयेत् ॥ १२७॥ सितरक्तहरित्पीतनीलकृष्णादिसम्भवः । नानावर्णश्चित्रितानि तत्र पूजा समारभेत् ॥ १२८॥ अष्टोत्तरसहस्रश्रीरामलिङ्गात्मकासनम् । वाष्टोत्तरशतं श्रीमद्रामलिङ्गात्मकासनम् ॥ १२९॥ अष्टोत्तरसहस्रश्रीरामभद्रासनं हि वा । वाष्टोत्तरशतं श्रीमद्रामभद्रासनं शुभम् ॥ १३०॥ बहून्यन्यानि शतशः सन्ति लघ्वासनानि हि । तेषां मध्यादेकमेवासनं संस्थाप्य चित्रितम् ॥ १३१॥ पीठोपरि कृतं वस्त्रं पत्रादिष्वपि वा कृतम् । आसनोपरि जानक्या राघवादीन्निवेशयेत् ॥ १३२॥ आसने सर्वतोभद्रमध्ये पद्मोपरि न्यसेत् । सीतया राघवं रम्यं वरसिंहासने स्थितम् ॥ १३३॥ रामस्य पृष्ठभागे च लक्ष्मणं स्थापयेत्ततः । रामस्य दक्षिणे पार्श्वे भरतं विन्यसेच्छुभम् ॥ १३४॥ रामस्य वामपार्श्वे हि शत्रुघ्नं विन्यसेच्छुभम् । पुरतो रामचन्द्रस्य वायुपुत्रं तु विन्यसेत् ॥ १३५॥ रामस्य वायुदिग्भागे सुग्रीवं स्थापयेत्ततः । ईशान्यां रामचन्द्रस्य विन्यस्य च विभीषणम् ॥ १३६॥ रामस्य वह्निदिग्भागे विन्यसेदङ्गदं ततः । नैरृत्यां रामचन्द्रस्य जाम्बवन्तं तु विन्यसेत् ॥ १३७॥ पूज्यपूजकयोर्मध्ये प्राग्दिग्ज्ञेयाऽर्चने त्विह । सर्वशास्त्रेष्वेवमेव निर्णयः कथ्यते बुधैः ॥ १३८॥ लक्ष्मणस्य करे देयं छत्रं मुक्ताविराजितम् । भरतस्य करे देयं चामरं रुक्ममण्डितम् ॥ १३९॥ शत्रुघ्नस्य करे देयं व्यजनं चित्रितं शुभम् । हनूमतः करे देयं रामस्य पादुकाद्वयम् ॥ १४०॥ सुग्रीवस्य करे देयं जलपात्रं मनोहरम् । करे विभीषणस्यापि देयं मुकुरमुत्तमम् ॥ १४१॥ देयं ताम्बूलपात्रं च वालिनन्दनसत्करे । जाम्बवतः करे देयो वनकोशो महत्तमः ॥ १४२॥ नवायतनमेवं हि स्थापयेद्राघवस्य च । अथवा पञ्चायतनं स्थापयेदासनोपरि ॥ १४३॥ सीताया रामचन्द्रस्य मध्ये पृष्ठे तु लक्ष्मणम् । भरतं सव्यपार्श्वे च शत्रुघ्नं वामपार्श्वके ॥ १४४॥ पुरतो वायुपुत्रं च पूर्वोक्तैरुपचारकैः । एवं संस्थापयेद्भक्त्या रामं भद्रासनोपरि ॥ १४५॥ अथवा सीतया रामं मध्ये स्थाप्य ततः परम् । रामस्य पृष्ठे सौमित्रिं रामाग्रे वायुनन्दनम् ॥ १४६॥ स्थाप्यैवं पूजयेद्भक्त्या रामं धृतशरासनम् । अथवा सीतया रामं लक्ष्मणं परिपूजयेत् ॥ १४७॥ सीतानुजौ विना पूजा रामस्यैकस्य नाचरेत् । कृता चेद्विघ्नकर्त्री सा भवेदत्र न संशयः ॥ १४८॥ नवायतनपूजा सा श्रेष्ठा ज्ञेया शुभप्रदा । या पञ्चायतनी पूजा ज्ञेया सा मध्यमाऽत्र हि ॥ १४९॥ त्रिदैवत्या तु या पूजा कनिष्ठा सा निगद्यते । अतिकनिष्ठा पूजा सा द्विदैवत्या स्मृता हि सा ॥ १५०॥ कोदण्डं वामहस्ते च तूणीरं वामपार्श्वके । निजनामाङ्कितं बाणं दधानं दक्षिणे करे ॥ १५१॥ एवं श्रीराघवं स्थाप्य ततः पूजां समारभेत् । आत्मनो वामभागे च जलकुम्भं निधाय हि ॥ १५२॥ आत्मनो दक्षिणे भागे पूजापात्रं निवेशयेत् । आत्मनः पुरतः पात्रं स्थापयेद्विस्तृतं वरम् ॥ १५३॥ प्राङमुखः सुखमासीनो धृतपद्मासनः शुचिः । मौनी धृताक्षतुलसीमालो निश्चलमानसः ॥ १५४॥ बद्धग्रन्थिशिखः शुद्धवस्त्रो धृतपवित्रकः । शुद्धद्वारावतीमृत्कृत्तिलको मुद्रिकाङ्कितः ॥ १५६॥ नत्वाऽऽदौ गणराजं च तिथिवारादि कीर्तयेत् । भूमिशुद्धिं भूतशुद्धिं न्यासौ कृत्वा यथाक्रमम् । प्रोक्षणीपात्रमेकं तु जलपूर्णं प्रकारयेत् ॥ १५६॥ दूर्वागन्धाक्षतपुष्पैस्तत्पात्रं परिपूरयेत् । प्रोक्षयेत्तेन नीरेण पूजाद्रव्यं सहात्मना ॥ १५७॥ पाद्यार्घ्याचमनार्थं तु त्रीणि पात्राणि विन्यसेत् । गणराजं पूजयित्वा सम्पूज्य वरुणं ततः ॥ १५८॥ पाञ्चजन्यं पूजयित्वा प्रोक्षयेतज्जलैरपि । पूजाद्रव्यं पूर्ववच्च स्वात्मानं च भुवं तथा ॥ १५९॥ धेनुशङ्खचक्रपक्षिराजमुद्राः प्रदर्शयेत् । शैली दारुमयी लौही लेप्या लेख्या च सैकती ॥ १६०॥ मनोमयी मणिमयी प्रतिमाऽष्टविधा स्मृता । अथ ध्यायेद्रामचन्द्रं ससीतं पुरतः स्थितम् ॥ १६१॥ द्विभुजं धृततूणीरं चापबाणधृतायुधम् । दिव्यालङ्कारसंयुक्तं पीतकौशेयवाससम् ॥ १६२॥ सलक्ष्मणं सशत्रुघ्नं भरतेन समन्वितम् । हनुमत्सेवितपदं सिंहासनविराजितम् ॥ १६३॥ सितछत्रसमायुक्तं दिव्यचामरवीजितम् । विभीषणसमायुक्तं सुग्रीवपरिवन्दितम् ॥ १६४॥ जाम्बवता समायुक्तमङ्गदेन परिष्टुतम् । अयोध्यावासिनं राममेवं हृदि विचिन्तयेत् ॥ १६५॥ सीताराम समागच्छ मदग्रे त्वं स्थिरो भव । गृहाण पूजां मद्दत्तां कृतमावाहनं तव ॥ १६६॥ हिरण्मयं रत्नयुक्तं नानाचित्रविचित्रितम् । सिंहासनं सवस्त्रं च ह्यासनार्थं ददामि ते ॥ १६७॥ चन्दनागुरुसंयुक्तैर्जलैस्तीर्थसमुद्भवैः । पाद्यं गृहाण श्रीराम मया दत्तं प्रसीद मे ॥ १६८॥ पुष्करादिषु तीर्थेषु गङ्गादिषु सरित्सु च । यत्तोयं तन्मयाऽऽनीतं दत्तमर्घ्यं गृहाण भोः । १६९। सुगन्धवासितं तोयं बहुतीर्थसमुद्भवम् । आचमनार्थमानीतं गृहाण त्वं सुरेश्वर ॥ १७०॥ हरिद्राकुङ्कुमैर्युक्तं सुगन्धद्रव्यमिश्रितम् । सुगन्धस्नेहसम्मिश्रमुद्वर्त्तनमथास्तु ते ॥ १७१॥ कामधेनूद्भवं क्षीरं नन्दिन्या दधि सुन्दरम् । कपिलाया घृतं श्रेष्ठं मधु विन्ध्याद्रिसम्भवम् ॥ १७२॥ सितोपलसमानाम सितायुक्तं मनोहरम् । पञ्चामृतं मयाऽऽनीतं स्नानार्थं त्वं गृहाण भोः ॥ १७३॥ गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धु कावेरी सरयू गण्डकी तथा ॥ १७४॥ ताम्रपर्णी भीमरथी कृष्णा वेणी महानदी । गोमती सागराः सप्त पयोष्णी भवनाशिनी ॥ १७५॥ पूर्णा तापी तुङ्गभद्रा क्षिप्रा वेगवती तथा । पिनाकी प्रवरा सिन्धुफेणा सार्द्धत्रयो नदाः । १७६॥ घृतमाला कृतमाला मही निक्षेपिका तथा । पयोष्णी प्रेमगङ्गा च चित्रगङ्गा करानदी ॥ १७७॥ नीरा चर्मण्वती वृद्धा बञ्जरा च पुनः पुनः । सिन्धुक्षीरा च वैकुण्ठाऽलकनन्दा च वारणा ॥ १७८॥ इत्यादिसर्वतीर्थेषु यत्तोयं वर्तते शुभम् । तन्मयाऽऽनीतमद्यात्र स्नानं कुरु रघूत्तम ॥ १७९॥ पुनराचमनं रम्यं सर्वतीर्थसमुद्भवम् । गृहाण रघुनाथ त्वं दीयते यन्मया तव ॥ १८०॥ सुवर्णतन्तुभिश्चित्रं पीतकौशेयसम्भवम् । वस्त्रयुग्मं प्रदास्यामि गृहाण रघुनायक ॥ १८१॥ शुद्धं हेममयं रम्यं नवतन्तुसमुद्भवम् । ब्रह्मग्रन्थिसमायुक्तं ब्रह्मसूत्रं प्रगृह्यताम् ॥ १८२॥ मुकुटं कुण्डले रम्ये मुद्रिकाः कङ्कणे तथा । नूपुरे रशनामालाः केयूरे रत्नमण्डिते ॥ १८३॥ इत्यादीन्परमान् दिव्यान्स्वर्णमाणिक्यनिर्मितान् । त्वदर्थं च मयाऽऽनीतानलङ्कारान् गृहाण भोः ॥ १८४॥ छत्रं सव्यजनं रम्यं चामरद्वयसंयुतम् । त्वदर्थं च मयाऽऽनीतं गृह्णीष्व रिपुसूदन ॥ १८५॥ सुगन्धं चन्दनं दिव्यं कृष्णागुरुविमिश्रतम् । रक्तचन्दनसंयुक्तं गृह्णीष्व त्वं मयाऽर्पितम् ॥ १८६॥ अक्षतांश्च वरान् दिव्यान्मुक्ताफलविनिर्मितान् । कस्तूर्या कुङ्कुमेनाक्तान् गृहाण परमेश्वर ॥ १८७। माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाऽऽहृतानि पूजार्थं गृहाण रघुनायक ॥ १८८॥ वनस्पतिरसोद्भूतं गन्धाढ्यं गन्धमुत्तमम् । आघ्रेयं सर्वदेवानां धूपं गृह्णीष्य राघव ॥ १८९॥ साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण भो राम त्रैलोक्यतिमिरापहम् ॥ १९०॥ भक्ष्यभक्तेन संयुक्तं सपायसघृतान्वितम् । शर्करामधुसंयुक्तं नैवेद्यं प्रतिगृह्यताम् ॥ १९१॥ आम्रादीनि सुपक्वानि फलानि विविधानि च । समर्पितानि ते राम गृह्णीष्व रघुनन्दन ॥ १९२॥ पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । जातीचतुष्टययुतं ताम्बूलं स्वीकुरु प्रभो ॥ १९३॥ हिरण्यं ब्रह्मसम्भूतं वह्नितेजःसमुद्भवम् । दीयते दक्षिणार्थं ते गृह्णीष्व रघुनन्दन ॥ १९४॥ एवं मया षोडशकोपचाराः सविस्तरं ते कथिताः शिशोऽत्र । आवाहनाद्याश्च हि दक्षिणान्ताः शेषां च पूजां सकलां हि वक्ष्ये ॥ १९५॥ पञ्चवर्तिसमायुक्तं कपिलाऽऽज्यविमिश्रितम् । वह्निना योजितं रम्यं गृह्णीष्व त्वं निराजनम् ॥ १९६॥ जाती चम्पकमन्दारौ केतकी तुलसी तथा । दमनो मुनिकुन्दे च ह्यनन्तं त्विति वै नव ॥ १९७॥ एभिर्नवविधैः पुष्पैर्मन्त्रपुष्पाणि राघव । मयाऽर्पितानि गृह्णीष्व प्रसीद परमेश्वर ॥ १९८॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणं पदे पदे ॥ १९९॥ उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां साष्टाङ्गञ्च नमोऽस्तुते ॥ २००॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजां चैव न जानामि क्षम्यतां परमेश्वर ॥ १०१। मन्त्रहीनं क्रियाहीनं भक्तिहीनं रघूत्तम । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २०२॥ एवं श्रीरामचन्द्रस्य भक्त्या कार्यं प्रपूजनम् । निरन्तरं तथा कार्यं नवम्यां च विशेषतः ॥ २०३॥ विष्णुदास उवाच । गुरो नवविधैः पुष्पैस्त्वया पुष्पाञ्जलिः कथम् । निवेदितोऽत्र रामस्य पूजने तद्वदस्व माम् ॥ २०४॥ त्वत्तो नानाविधाः पूजाः सुराणां च मया श्रुताः । पूर्वं तासु श्रुतो नैव नवपुष्पाञ्जलिः कदा ॥ २०५॥ श्रीरामदास उवाच । सम्यक्पृष्टं त्वया शिष्य सावधानमनाः श‍ृणु । आसीत्पुरा द्विजवरः कावेर्या उत्तरे तटे ॥ २०६॥ रामनाथपुरे कश्चित्सुन्दराख्योऽतिभक्तिमान् । तस्यासन्नव पुत्राश्च रामचिन्तनतपत्पराः ॥ २०७॥ चन्द्रोऽतिचन्द्रश्चन्द्राभश्चन्द्रास्यश्चन्द्रशेखरः । चन्द्रांशुर्जितचन्द्रश्च चन्द्रचूडोऽष्टमः स्मृतः ॥ २०८॥ रामचन्द्रश्चेति नव ग्रहा भाश्च नव स्मृताः । एकदा ते त्वयोध्यायां रामं भक्तकृपाकरम् ॥ २०९॥ प्रष्टुं ययुश्चैत्रमासे तस्थुस्ते सरयूतटे । तावत्तत्र समायाता नानादेशान्तरस्थिताः ॥ २१०॥ जनौघानां कोटयश्च नानावाहनसंस्थिताः । सरय्वां रामतीर्थे हि चैत्रस्नानमथादरात् ॥ २११॥ तेषां समागतानां हि सम्मर्दस्तत्र वै ह्यभूत् । सम्मर्दाद्रामचन्द्रस्य तेषां नाभूच्च दर्शनम् ॥ २१२॥ तदा ते मन्त्रयामासुर्नव विप्राः परस्परम् । कथं श्रीराघवस्यात्र सम्मर्दे दर्शनं भवेत् ॥ २१३॥ चेज्जातं त्वतियत्नेन तर्हि तत्किं न दर्शनम् । यावत्स्वस्थेन मनसा राघवो न निरीक्षितः ॥ २१४॥ तावत्तद्दर्शनं नैव तुष्टिं नो जनयिष्यति । तदा चन्द्रोऽब्रवीज्ज्येष्ठस्त्वत्रैव रामदर्शनम् ॥ २१५॥ वयं तीव्रेण तपसा प्राप्स्यामस्तप्यतां तपः । तच्चन्द्रवचनं श्रुत्वा पुनः प्रोचुर्द्विजोत्तमाः ॥ २१६॥ एककाले तु सर्वेषां तपतामन्तरेण हि । कस्यादौ रामचन्द्रश्च दास्यत्यत्र प्रदर्शनम् ॥ २१७॥ कस्य दास्यति पश्चाच्च विदितं तद्भविष्यति । कस्यास्मासु दृढा भक्तिर्विदिता सा भविष्यति ॥ २१८॥ एवं परस्परं चोक्त्वा ते सर्वे द्विजसूनवः । त्यक्ताहारा वायुभक्षाश्चैकान्ते तत्परेण हि ॥ २१९॥ गत्वातिदूरं सम्मर्दात्तेपुः सर्वे तपो महत् । तत्सर्वं राघवो ज्ञात्वा सर्वसाक्षी जगत्प्रभुः ॥ २२०॥ तेषां स्वदर्शनं दातुं नवमे दिवसे मुदा । मन्त्रायामास श्रीरामः क्षणं चित्ते समास्थितः । २२१॥ एककाले तु सर्वेषां यदि दास्यामि दर्शनम् । तर्ह्येव तुष्टिः सर्वेषां भविष्यति न चेन्न हि ॥ २२२॥ अतोऽद्याहं करिष्यामि नव रूपाणि निश्चयात् । एवं सम्मन्त्र्य श्रीरामो लक्ष्मणं प्राह सादरम् ॥ २२३॥ शिबिकामानयस्वाद्य बहिर्गच्छाम्यहं मुदा । तथेति रामवाक्येन शिबिकां लक्ष्मणस्तथा ॥ १२४॥ आनयामास दुतैः स राघवाय न्यवेदयत् । तदा सिंहासनाद्रामश्चोत्तीर्य शिबिकास्थितः ॥ २२५॥ बन्धुभिमन्त्रिवर्यैश्च सुहृन्मित्रादिभिर्युतः । बहिः शनैरयोध्याया ययौ रामो मुदान्वितः ॥ २२६॥ ततस्तं जनसम्मर्दं समतिक्रम्य राघवः । चकार नव रूपाणि ह्यात्मनः परमेश्वरः ॥ २२७॥ शिबिकाः सुहृदो भ्रातृन्दूतान्मित्रान्सवाहनान् । चकार नवधा रामस्तदा स क्षणमात्रतः ॥ २२८॥ निरीक्षितुं समायाता नात्मानं तान् जनानपि । चकार नवधा रामस्तदद्भुतमिवाभवत् ॥ २२९॥ ततस्तैस्तैर्जनैमित्रैर्दूतैर्बन्धुजनैः सह । नवानां भूसुराणां हि ययावग्रे रघूत्तमः ॥ २३०॥ ततस्ते भूसुराः सर्वे तदैकसमये प्रभुम् । आत्मनः पुरतो रामं ददृशुस्तं पृथक् पृथक् ॥ २३१॥ तत्तुष्टमनसः सर्वे प्रणेमू रघुनन्दनम् । शिबिकाभ्यस्ततो रामस्त्ववरुह्य पृथक् पृथक् ॥ २३२॥ नवरूपधराः सर्वान्विप्रानालिङ्ग्य सादरम् । ऊचुर्मधुरया वाचा प्रसन्नमुखपङ्कजाः ॥ २३३॥ भो विप्राः श्रमिता यूयं युष्माकं कृतनिश्चयम् । बुद्ध्वा वयं पृथग्रूपैर्जाताः स्मो नवधाऽद्य हि ॥ २३४॥ एककालेऽत्र तपतां सर्वेषां दर्शनं निजम् । कस्य देयं तु पूर्वं हि पश्चात्कस्य प्रदीयताम् ॥ २३५॥ इति सम्मन्त्र्य हृदये त्वद्यैकसमयेन हि । युष्माकं दर्शनं दत्तं वरयध्वं वरानितः ॥ २३६॥ रामाणां वचनं श्रुत्वा ते प्रोचुर्भूसुरोत्तमाः । येनास्माकं भवेत्कीर्तिः स वरो दीयतां तु नः ॥ २३७॥ तत्तेषां वचनं श्रुत्वा रामाः प्रोचुर्द्विजान्पुनः । युष्माकं दर्शनार्थं हि नवरूपधरा वयम् ॥ २३८॥ अद्य जाता यतस्तस्माद्युष्माकं नामभिः सदा । नव रामाः परां ख्यातिं गमिष्यन्त्यवनीतले ॥ २३९॥ अस्माकं नव यत्किचित्तत्प्रियं हि भविष्यति । ते तेषां तु रामाणां वाक्यं श्रुत्वा द्विजोत्तमाः ॥ २४०॥ सन्तुष्टास्ते नता नेमुः स्वं स्वं रामं मुहुर्मुहुः । तदा सर्वे जना रामान् लक्ष्मणान् भरतादिकान् ॥ २४१॥ आत्मानं नवधा जातान्दृष्ट्वा विस्मयमागताः । ततो रामाः शिबिकासु स्थित्वा पृष्ट्वा द्विजोत्तमान् ॥ २४२॥ परावृत्य ययुः सर्वे मार्गे त्वेकोऽभवत्पुनः । सर्वे जातास्त्वेकरूपास्तथा ते विस्मयं ययुः ॥ २४३॥ ततो रामो बन्धुभिश्च पूर्ववन्नगरीं ययौ । गत्वा गेहे तु सीतायै सर्वं वृत्तं न्यवेदयत् ॥ २४४॥ अतस्ते नव विप्राणां नामभिर्जगतीतले । ख्यातिं रामा ययुस्तत्र नव यद्यच्च तत्प्रियम् ॥ २४५॥ यथार्का द्वादश प्रोक्ता एकविंशद्गणाधिपाः । रुद्रा एकादश प्रोक्ता यथाष्ट भैरवाः स्मृताः ॥ २४६॥ नव दुर्गा यथा त्वत्र तथा रामा नव स्मृताः । प्रियं द्वादश सूर्याय एकादश शिवप्रियम् ॥ २४७॥ एकविंशत्प्रियं यद्वद्गणेशाय महात्मने । प्रियमष्ट भैरवाय दुर्गायै तु नव प्रियम् ॥ २४८॥ यथा यथाऽत्र रामाय नव शिष्य प्रियं सदा । तस्मान्नवविधैः पुष्पैरञ्जलिस्तत्प्रियो मतः ॥ २४९॥ इति श्रीमदानन्दरामायणे मनोहरकाण्डे तृतीयसर्गान्तर्गतं श्रीरामबहिःपूजाविधिविधानविस्तारं समाप्तम् ॥ Encoded and proofread by PSA Easwaran
% Text title            : shrIrAmapUjAvidhividhAnam mAnasI and bAyhaH from Anandaramayana
% File name             : shrIrAmapUjAvidhividhAnamAnanda.itx
% itxtitle              : shrIrAmapUjAvidhividhAnam mAnasI bAyhaH cha (AnandarAmAyAaNAntargatam)
% engtitle              : rAmapUjAvidhividhAnam mAnasI and bAyhaH from Anandaramayana
% Category              : raama, pUjA
% Location              : doc_raama
% Sublocation           : raama
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Source                : AnandarAmAyaNa manoharakhanda sarga 3
% Indexextra            : (Scan
% Latest update         : January 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org