श्रीमद् अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः

श्रीमद् अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः

स्वामिन् ते शेषभूतोऽहं भोग्यस्ते रक्ष्य एव च । अकिञ्चनोऽनन्योपायस्त्वत्कैङ्कर्यैकभोग्यकः ॥ १॥ अगतिश्चानुकूलोऽहं प्रातिकूल्येन वर्जितः । रक्षिष्यतीति विश्वासी स्वरक्षाप्रार्थनायुतः ॥ २॥ कृपणोऽहं दयासिन्धो सर्वापापकरस्तथा । स्वञ्च स्वीयञ्च यत्किञ्चित् त्वयि न्यस्यामि स्वीकुरु ॥ ३॥ न्यस्याम्यकिञ्चनः श्रीमन्नात्मरक्षाभरं त्वयि । त्वत्प्राप्तौ मे उपायस्त्वं कृपया भव राघव ॥ ४॥ एतच्चराचरं सर्वं यच्च यावच्च श्रूयते । सर्वमस्ति त्वदीयं ही श्रुतिभिश्चावगम्यते ॥ ५॥ न तादृशं दृढं ज्ञानं मयि स्वामिन् प्रतिष्ठितम् । त्वं तु सर्वं विजानासि सर्वं वस्तु ममेति च ॥ ६॥ संसारसागरे भूमन् तत् त्वद्वस्तुनिमज्जितम् । पश्यसि त्वं समर्थः सन् कारणं किं वद प्रभो ॥ ७॥ चेतनाचेतनं सर्वं मदीयं सत्यमस्ति वै । जीवोऽप्यसौ मदीयश्चेत्यभिमानान्निमज्जते ॥ ८॥ यावत्स्वत्वाभिमानोऽस्य तावत्संसारसागरे । निमज्जितोभिमानान्ते द्युद्धरिष्यामि चेद्वद ॥ ९॥ सत्यमहं मदीयश्च सर्वमन्यत्तवास्ति वै । तथाप्येषोभिमानो मे हेतुस्तव नियोजनम् ॥ १०॥ अहं मदीयञ्चेत्येषो योऽभिमानो दुरत्ययः । त्वयि न्यस्यामि तं स्वामिन् त्वदीयं तं हि स्वीकुरु ॥ ११॥ निर्हेतुकृपया सर्वं स्वीकृत्य करुणानिधे । अहं ममाभिमानं मे निखिलं छिन्धि मूलतः ॥ १२॥ यदि नास्त्यानुकुल्यादिर्मयि स्वामिन् यथार्थतः । बद्धाञ्जलिपुटं दीनं रक्ष मां शरणागतम् ॥ १३॥ यथाहं च मदीयञ्च न मे रामस्य तत्त्वतः । भाति मे हृदये सम्यक् तथा कुरु दयानिधे ॥ १४॥ त्वन्मायया मलीमसं हृदयं निर्मलं कुरु । येनाऽहं संविजानामि त्वां त्वदीयश्च तत्त्वतः ॥ १५॥ त्वत्कृपादृष्टिमात्रेण तद्धि सर्वं भविष्यति । न वै परिश्रमः कश्चित् तव तत्र दयानिधे ॥ १६॥ प्रार्थयामि महादीनो दीनोद्धार कृपानिधे । एतद्देहावसाने मां स्वं प्रापय दयाकर ! ॥ १७॥ स्वदत्तज्ञानदीपेन नाशयाज्ञानजं तमः । स्वतत्त्वज्ञानपूर्वं मां स्वार्थं स्वमर्पय स्वयम् ॥ १८॥ यानि सञ्चितपापानि तानि नाशय मे प्रभो । अकृत्येषु प्रवृत्तिं मे वारय बुद्धिप्रेरक ॥ १९॥ यथा निर्मुच्य पापेभ्यस्त्वत्प्राप्तेर्योग्यता भवेत् । मयि स्वामिन् हरे राम तथा त्वं मां स्वयं कुरु ॥ २०॥ न मे पापविनिर्मोके नापि त्वत्प्राप्तिसाधने । शक्तिस्तत्र समर्थत्वं स्वप्राप्तेः साधनं भव ॥ २१॥ स्वाग्रे मां पतितं दृष्ट्वा श्रुत्वा च प्रार्थनामिमाम् । अङ्गीचकार श्रीरामस्तदप्यस्मीह निर्भरः ॥ २२॥ इति श्री अग्रदेवाचार्यकृता श्रीरामप्रपत्तिः समाप्ता । Encoded and proofread by Mrityunjay Pandey
% Text title            : Agradevacharyakrita Shriramaprapattih
% File name             : shrIrAmaprapattiHagradevAchArya.itx
% itxtitle              : shrIrAmaprapattiH (agradevAchAryakRitA)
% engtitle              : shrIrAmaprapattiH
% Category              : raama, rAmAnanda, prapatti
% Location              : doc_raama
% Sublocation           : raama
% Author                : agradevAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org