श्रीवैष्णवाचार्यप्रणीतं सिद्धान्तपञ्चकम्

श्रीवैष्णवाचार्यप्रणीतं सिद्धान्तपञ्चकम्

१. श्रीसम्प्रदायसिद्धान्तः विशिष्टाद्वैत

विशिष्टाद्वैतसिद्धान्तो रामानन्दार्यसम्मतः । ब्रह्मत्वेन मतस्तत्र श्रीरामःसद्गुणाम्बुधिः ॥ १॥ जगज्जन्मादिहेतुश्च सर्वाधारः सनातनः । सर्वकर्मसमाराध्यः सर्वकर्मफलप्रदः ॥ २॥ सर्वेशः सर्वशेषी च नित्यो विश्वकलेवरः । उपादानं निमित्तं च जगतो व्यापकस्तथा ॥ ३॥ सच्चिदानन्दरूपश्च विभूतिद्वयनायकः । पूर्णः श्रीसीतया सार्धं भगवान् विश्वमोहनः ॥ ४॥ दिव्यसिंहासनासीनो दिव्यभूषणभूषितः । दिव्याकारेण सम्पन्नः सर्वदोषविवर्जितः ॥ ५॥ सेवितो नित्यमुक्तैश्च सर्वज्ञः सर्वशक्तिकः । देशादिकापरिच्छिन्नोऽवतारी चेतनोऽजनि ॥ ६॥ विश्वं परिणतिस्तस्य विकारी नो तथापि सः । परिणामः प्रकारांशे नो विशेष्ये यतो मतः ॥ ७॥ इन्द्रियप्राणदेहेभ्यो ज्ञानाच्चापि विलक्षणः । जीवोऽणुश्चेतनो नित्यो भिन्नः प्रतिकलेवरम् ॥ ८॥ सुखज्ञानस्वरूपश्चाचिन्त्योऽव्यक्तस्तथाऽजडः । राघवस्य नियाम्यश्च धार्यः शेषस्तथा वपुः ॥ ९॥ ब्रह्मांशो ब्रह्मभिन्नोऽथ कर्त्ता भोक्ताऽविकारवान् । बद्धमुक्तविभेदेन जीवो द्विधा समीरितः ॥ १०॥ जगत् सत्यमनित्यं च देहो रामस्य नो मृषा । श्रीसीतारामकैर्यं मुक्तिः साकेतधामनि ॥ ११॥ तत्रेशभोगसाम्यं हि दुःखबीजं न विद्यते । अर्चिरादिकया गत्या सायुज्यं नैव चान्यथा ॥ १२॥ मुक्तौ भोग्यश्च रामो हि तारतम्यं न तत् तदा । भक्त्याऽथवा प्रपत्त्या हि मोक्षो लभ्येत नान्यथा ॥ १३॥ तैलधारा यथा लोके विच्छेदरहिता तथा । जानकीजानकीनाथस्मृतिर्भीक्तिः प्रकीर्तिता ॥ १४॥ प्रपत्तिश्चाखिलं त्यक्त्वा रामायात्मनिवेदनम् । रामानुकूलसङ्कल्पः प्रातिकूल्यविवर्जनम् ॥ १५॥ विश्वासो रक्षणस्याथ वरणं गोपनस्य हि । कार्पण्यं चात्मनिक्षेपः सा चेति षड् विधा स्मृता ॥ १६॥ इति सिद्धान्तपञ्चके प्रथमः विच्छेदः । १।

२. श्रीब्रह्मसम्प्रदायसिद्धान्तः द्वैतवाद-

मध्वाचार्यमतश्चाथ द्वैतवादोऽभिधीयते । तत्र सर्वोत्तमं तत्त्व भगवान् विष्णुरेव हि ॥ १॥ देशकालानवच्छिन्नः सृष्टिस्थित्यन्तकारकः । सविशेषः स्वतन्त्रोऽथ कल्याणगुणसागरः ॥ २॥ सच्चिदानन्दरूपश्च सर्वज्ञः सर्वशक्तिकः । जगतोऽस्य निमित्तत्वं मतं चेशस्य केवलम् ॥ ३॥ प्रकृतिस्तन्मते विश्वस्योपादानतया मता । ईश्वरानुचरो जीवः सच्चिदानन्दरूपवान् ॥ ४॥ अणुर्बद्धस्तथाऽनादिकालान्मायाविमोहितः । अज्ञत्वादिकधर्माणामाश्रयः परवाँस्तथा ॥ ५॥ अस्वतन्त्रमथो चेशनियाम्यं सत् तथा जगत् । वास्तविको मतो भेदः पञ्चधा स उदीरितः ॥ ६॥ जीवेशयोस्तथा जीवाज्जडस्य चेश्वरादपि । जीवानां च मिथो भेदो जडानां च परस्परम् ॥ ७॥ भेदावबोधतो विष्णुतद्गुणोत्कर्षशेमुषी । ततश्चाराध्य विष्णुं तत्प्रसादेनाथ मुच्यते ॥ ८॥ दिव्यलोकं समासाद्य स्वरूपं प्राप्यते तथा । तारतम्यं च जीवेषु मुक्तावप्युररीकृतम् ॥ ९॥ मोक्षस्य साधनं भक्तिः सा च निष्कामभावतः । वेदाभ्यासोऽविलासित्वं तथा चेन्द्रियसंयमः ॥ १०॥ आशाभयपरित्याग ईशायात्मसमर्पणम् । सत्या हितपरा वाणी हरेर्दास्ये स्पृहा सदा ॥ ११॥ दया दानं प्रपन्नस्य विपन्नस्य च रक्षणम् । हरो गुरौ तथा शास्त्रे श्रद्धा दम्भविवर्जिता ॥ १२॥ इति सिद्धान्तपञ्चके द्वितीयः परिच्छेदः । २।

३. श्रीरुद्रसम्प्रदायसिद्धान्तः शुद्धाद्वैतवाद

श्रीविष्णुस्वामिसिद्धान्तः शुद्धाद्वैततयोच्यते । तत्र ब्रह्म च सर्वज्ञः श्रीकृष्णो देवकीसुतः ॥ १॥ सच्चिदानन्दरूपश्च सर्वधर्ममहार्णवः । मायया रहितस्तद्वदनन्ताचिन्त्यशक्तिकः ॥ २॥ शुद्धश्च परमः सेव्यः सर्वेषां प्राणिनां तथा । अपरिच्छिन्नरूपः स दिव्यानन्तगुणाम्बुधिः ॥ ३॥ विरुद्धानां च धर्माणां वाक्यानामपि तादृशाम् । युगपच्च समावेशो गोलोकाधिपतौ खलु ॥ ४॥ चैतन्यगुणको जीवः शुद्धो ब्रह्मांश एव हि । अणुः कर्त्ता तथा भोक्ता भिन्नः प्रतिकलेवरम् ॥ ५॥ आविर्भावतिरोभावौ जगतः स्तो हरिच्छया । परिणतं परं ब्रह्म जगद्रूपेण लीलया ॥ ६॥ जगदविकृतश्चैशः परिणामो न मायिकम् । सतोऽस्य प्रकृतिर्ब्रह्म ब्रह्मशक्तिर्निमित्तकम् ॥ ७॥ कार्यकारणरूपाभ्यां सर्वदैव जगत् स्थितम् । गोलोके श्रीहरिप्राप्तिर्मोक्षः सुखमयः स्मृतः ॥ ८॥ सर्वं कृष्णमयं दृष्ट्वा प्रेम्णा श्रीहरिसेव्या । परमानन्दरसे मग्नः शुद्धो जीवस्तदा भवेत् ॥ ९॥ हरेरनुग्रहः पुष्टिर्या ततश्चोपजायते । पुष्टिभक्तिर्हि सा प्रोक्ता तया जीवो विमुच्यते ॥ १०॥ इति सिद्धान्तपञ्चके तृतीयः परिच्छेदः । ३।

४. श्रीसनकादिसम्प्रदायसिद्धान्तः द्वैताद्वैतवाद

द्वैताद्वैतमतं त्वत्र निम्बार्काचार्यसम्मतम् । ब्रह्मत्वेनमतस्तत्र श्रीकृष्णो राधिकापतिः ॥ १॥ अचिन्त्यानन्तशक्तिश्च कल्याणगुणवारिधिः । विभुर्दोषविरोधी च सच्चिदानन्दविग्रहः ॥ २॥ सर्वज्ञाता च विश्वस्य प्रकृतिश्च निमित्तकम् । ब्रह्मणः परिणामस्तु शक्तिविक्षेप एव हि ॥ ३॥ भिन्नः कृष्णादभिन्नश्च जीवो ब्रह्मांश एव हि । अणुश्चेतनरूपो ज्ञो देहादिभ्यो विलक्षणः ॥ ४॥ प्रतिदेहं विभिन्नः स नित्यादिभेदतस्त्रिधा । नित्यो ब्रह्मात्मकश्चात्मा ब्रह्मव्याप्यतया मतः ॥ ५॥ अमायिकं जगत् सत्यं भिन्नाभिन्नं च कृष्णतः । आदावुत्पद्यते कृष्णादन्ते तत्रैव लीयते ॥ ६॥ भगवद्भावसम्प्राप्तिर्मुक्तिः सायुज्यनामिका । अर्चिरादिकया गत्या गोलोके प्राप्यते हि सा ॥ ७॥ श्रीराधाकृष्ण पादारविन्दयोरनपायिनी । भक्तिर्हिसाधनं मुक्तेर्नान्यो मार्गोऽस्ति तां विना ॥ ८॥ इति सिद्धान्तपञ्चके चतुर्थः परिच्छेदः । ४।

५. श्रीमाध्वगौणेश्वरसम्प्रदायसिद्धान्तः अचिन्त्य भेदाभेद

वाद चैतन्याभिमतोऽचिन्त्यभेदाभेदः प्रकीर्त्तित । तत्रेश्वरःस्वतन्त्रः श्रीकृष्णः पूर्णोऽथ मुक्तिदः ॥ १॥ कल्याणगुणसिन्धुश्च सच्चिदानन्दविग्रहः । व्यापकत्वेऽपि भक्त्याऽऽप्यः सत्वादिगुणवर्जितः ॥ २॥ कर्त्ता चैकरसत्वेऽपि ज्ञानानन्दप्रदायकः । सर्वस्य जीववर्गस्य भोक्ता च विभुरव्ययः ॥ ३॥ उपादानं निमित्तं च सर्वस्य जगतस्तथा । परिणामो जगत् तस्य स्वीयशक्त्या ह्यचिन्त्यया ॥ ४॥ परिणामे विकारीशो न स्याच्चिन्तामणिर्यथा । ईशस्य शक्तयः संवित् सन्धिनी ह्रादिनी तथा ॥ ५॥ अस्मच्छब्दवाच्यत्वं नित्यं ज्ञत्वं यथेश्वरे । तथैव जीववर्गे तत् तत्त्वेन समतोभयोः ॥ ६॥ जीवो मतोऽणुचैतन्यो गुणः शक्तिस्तथा वपुः । विभुरीशो गुणी देही तथा चाचिन्त्यशक्तिमान् ॥ ७॥ जगत् सत्यं तथा नित्यं न च मिथ्या कदापि तत् । भगवत्पादसम्प्राप्तिर्मुक्तिर्गोलोकधामनि ॥ ८॥ भगवद्भामसम्प्राप्तो मुक्तो न च निवर्त्तते । नावर्त्तयति यत् कृष्णो मुक्तो नावर्त्तते स्वतः ॥ ९॥ मुख्यं च साधनं मुक्तेर्हरः प्रेमैव मन्यते । दुर्लभं तद् हरेः प्रेम कृष्णभक्त्यैव जायते ॥ १०॥ ह्लादिनीसारसम्मिश्रसंवित्सारात्मिका च सा । मुक्तौ हि ज्ञानवैराग्ये सहकारितया मते ॥ ११॥ कीर्तनीयो हरिनित्यं मानदेन ह्यमानिना । लघुना तृणतश्चापि तरुणेव सहिष्णुना ॥ १२॥ इति सिद्धान्तपञ्चके पञ्चमः परिच्छेदः । ५। इति श्रीवैष्णवाचार्यप्रणीत सिद्धान्तपञ्चकं समाप्तम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Vaishnavacharyapranitam Siddhanta Panchakam
% File name             : siddhAntapanchakamvaiShNavAchArya.itx
% itxtitle              : siddhAntapanchakam (vaiShNavAchAryapraNIta)
% engtitle              : siddhAntapanchakaM
% Category              : raama, rAmAnanda, panchaka
% Location              : doc_raama
% Sublocation           : raama
% Author                : vaiShNavAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampradaya Dig-Darshanm
% Latest update         : December 3, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org