सिद्धान्तविंशतिः

सिद्धान्तविंशतिः

सीतारामौ जगद्धेतू दिव्यदेहौ गुणाकरौ । गुरुदेवं तथा नत्त्वा कुर्वे सिद्धान्तविंशतिम् ॥ चिदचिदीश्वरश्चेति तत्त्वत्रयं मतं बुधैः । राम एवेश्वरो ब्रह्म देही चिदचितोर्मतः ॥ १॥ चिताऽचिता विशिष्टं च तत्त्वं श्रीराम एव हि । तच्छरीरात् ततश्चाथ भिन्नं तत्त्वं न विद्यते ॥ २॥ हेयप्रतिभटो रामोऽनन्तदिव्यगुणाम्बुधिः । सगुणः सविशेषोऽसौ नाविशिष्टो न निर्गुणः ॥ ३॥ जीवो ज्ञानस्वरूपोऽपि धर्मज्ञानगुणाश्रयः । ज्ञातैव वस्तुतो जीवो मिथ्या तज्ज्ञातृता न तत् ॥ ४॥ देहमाने त्वनित्यत्वं विभुत्वे गत्यसम्भवः । अणुत्वमात्मनस्तस्माच्छास्त्रप्रमाणतोऽपि च ॥ ५॥ बद्धमुक्तव्यवस्थातः सुखी दुःखीति भेदतः । जीवा नाना क्वचिच्चैक्यमुक्तं प्रकारसाम्यतः ॥ ६॥ चिदचिद्देहिरूपेण रामस्य परिणामिता । तत एवाद्वितीयत्वं कूटस्थत्वं स्वरूपतः ॥ ७॥ परिणामो जगच्चैशश्चिदचिद्द्वारको मतः । विकारश्च स्वभावे हि जीवात्मनो बुधैर्मतः ॥ ८॥ प्रकृतेः स स्वरूपेऽपि ब्रह्मणस्तूभयोर्न सः । ब्रह्मभिन्नं प्रधानं हि सत्वादित्रिगुणाश्रयः ॥ ९॥ ब्रह्मणः परिणामो हि जगत् सत्यं मृषा न तत् । मन्यते न विवर्त्तोऽत्र श्रौतयौक्तिकबाधतः ॥ १०॥ प्रतीयते जगत् सत्यं सत्ख्यातिः सम्मता हि तत् । प्रामाणिकी न चाविद्या ह्यनिर्वाच्यं जगन्न तत् ॥ ११॥ प्रत्यक्षमनुमानं च शब्दरूपं तथैव च । प्रमाकरणरूपं हि प्रमाणं त्रिविधं मतम् ॥ १२॥ शुक्तिरौप्यस्थले सत्यं शुक्तिरौप्यं प्रतीयते । पञ्चीकरणतः शुक्तौ स्वल्परौप्यांशसत्त्वत्तः ॥ १३॥ स्वप्नदृष्टाः पदार्थाश्च सत्यभूता मृषा न हि । कर्त्ता स्वप्नरथादीनामीश्वरः कथितः श्रुतौ ॥ १४॥ तत्त्वमस्यादिशास्त्रं च सत्यमेव मृषा न हि । तात्त्विकं बोध्यते तेन प्रकार्यद्वैतमेव हि ॥ १५॥ वैराग्यं कर्मणो यस्मात् फलानित्यत्ववेदनात् । उपार्ज्य कर्मविज्ञानं ब्रह्मज्ञानं तदर्जयेत् ॥ १६॥ भवन्ति सुखदुःखानि जीवतश्चात्मनोऽत्र तत् । जीवन्मुक्तिर्न सिद्धान्ते वैदिके स्वीकृता बुधैः ॥ १७॥ प्रारब्धकर्मणो नाशे देहान्ते चार्चिरादिना । साकेते ब्रह्मसाम्यं हि गतो मुक्तो नरः स्मृतः ॥ १८॥ साम्यस्य भेदगर्भत्वान्मुक्तावप्युररीकृतः । भेदो जीवात्मनश्चाथ ब्रह्मणो बुद्धिशालिभिः ॥ १९॥ मुक्तौ च दुःखहेतुर्न सुखं तु सर्वतोऽधिकम् । भक्त्या चाथ प्रपत्त्यैव नित्या मुक्तिर्न चान्यथा ॥ २०॥ श्रियानन्दार्यशिष्येण हर्यानन्देन निर्मिता । सिद्धान्तविंशतिर्भूयात् सत्यसिद्धान्तबोधिनी ॥ इति प्रतिपक्षिभयङ्कर जगद्गुरु श्रीहर्यानन्दाचार्य सिद्धशिरोमणि प्रणीता सिद्धान्तविंशतिः सम्पूर्णा । Proofread by Parashara Ranganathan
% Text title            : Siddhantavimshatih
% File name             : siddhAntaviMshatiH.itx
% itxtitle              : siddhAntaviMshatiH (haryaAnandAchAryavirachitA) 
% engtitle              : siddhAntaviMshatiH
% Category              : raama, rAmAnanda, viMshati
% Location              : doc_raama
% Sublocation           : raama
% Author                : Haryanandacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Parashara Ranganathan
% Indexextra            : (Scan)
% Latest update         : January 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org