आर्येशस्तवः

आर्येशस्तवः

वारणदनुजविपक्षं विरचितविनतौघविघ्नविच्छेदम् । वेतण्डतुण्डमाद्यं विगलन्मदगण्डमण्डलं वन्दे ॥ अतुलिततुन्दिलविग्रहमनर्घतुहिनांशुशकलशेखरितम् । अमलैकरदमनोहरमंविरतमाकण्ठकरिणमहमीडे ॥ स जयति सुमेरुधन्वा समस्तसुरसेव्यपादपाथोजः । सुन्दरसुधांशुकलिकाशोभितमकुटः सदाशिवो देवः ॥ १॥ तस्य हि देवस्य परं महतो महिमानमतिमनोवाचम् । श्रुतिरपि निगदितुमनलं का शक्तिर्भवति माहगर्वाचाम् ॥ २॥ तदमितमहिमवतो मां तथाप्यनर्घाः प्रचोदयन्ति गुणाः । तदमुष्य नवनकरणे यथामनीषं यतेऽहमीशस्य ॥ ३॥ कुण्डलि(मण्डि)तमूर्तिः काकोलास्वादशमितजगदार्तिः । कलितनतेहितपूर्तिः कलयतु कुशलं प्रभग्नपुरकीर्तिः ॥ ४॥ मदयुतमहोक्षयानं मन्दरविकटतटकन्दरशयानम् । मकुटतटघटितशशिनं मदनारातिं भजेऽनिशं वशिनम् ॥ ५॥ शिक्षितविपक्षदक्षः शिरसा सुरसिन्धुधारणे दक्षः । शितभसितौघवलक्षः सोऽयं भूयात् सुखाय निटिलाक्षः ॥ ६॥ करवृतकुरङ्गवर्यः कमलाक्षाकलितबहुविधसपर्यः । कार्मुककनकाहार्यः कुशलं दिशताद् रथाङ्गशशिसूर्यः ॥ ७॥ परिकरफणिगणमकुटीमणिवरपटलीमयूखपिहिताशः । पाणिपयोजविराजत्पिनाकपरशुः स पातु सर्वज्ञः ॥ ८॥ लम्बितभुजङ्गहारं ललाटतटचुम्बिलोचनो दारम् । लसतु महो हृदि वारं लाञ्छितमकुटाग्रकुमुदिनीजारम् ॥ ९॥ मृगधरमणिवरचूडं मञ्जुलपुरसिन्धुमालिकापीडम् । मर्दितनतजनिपीडं महीघ्रवरशिखरविरचितक्रीडम् ॥ १०॥ दरहसितरुचिररदनं दलितसरोजातसहजसद्वदनम् । दिव्यमहोभरसदनं दृगग्निनिर्दग्धदर्पभृन्दनम् ॥ ११॥ मिहिरजमरणदचरणं मनोज्ञकैलासगिरिवराभरणम् । मामकमनसि विहरणं महस्तनोतु प्रपन्नजनशरणम् ॥ १२॥ निगमशिरःस्थितिभाजं निशाकरस्पर्धिनिजमुखाम्भोजम् । निर्मितिभृतिहृतिबीजं निखिलस्याद्यं नमामि जगतोऽजम् ॥ १३॥ नतकृतकारुण्यरसं नखमुखनिर्भिन्नविश्वसृट्शिरसम् । नरवाहनरचितरसं नवास्थिमालाकलापलसदुरसम् ॥ १४॥ वटतरु(वरमूल) जुषं वरमुनिसन्दोहविमलबोधपुषम् । विदधे दक्षिणवपुषं विषयं भजनस्य भूरिमोहमुषम् ॥ १५॥ कबलितगलधृतगरलः कर्ता पायादपारमहिमा विरलः । कलितोपासनसरलः करुणाजलधिः कटाक्षवीचीतरलः ॥ १६॥ कमलजमौल्यवसानं कलये गिरिशं करीन्द्रचर्म वसानम् । काम्यवरान् प्रददानं कलिततपोभ्यः किरातमुक्तिनिदानम् ॥ १७॥ व्यवहितसत्त्वोन्मेषं विमूढजनवञ्चनात्ततामसवेषम् । कलयेऽस्ताखिलदोषं कृतयमबिभ्यन्मृकण्डुतनुभवपोषम् ॥ १८॥ विष्णुगवेषितचरणं विरिञ्चिकृतमूर्धमार्गणाचरणम् । विकटजटाभरभरणं विलसत्कैलासशिखरविस्फुरणम् ॥ १९॥ सम्भृतसुमेरुधनुषं सव्यशरीरार्धशैलपतिजनुषम् । स्वीकृतकिरातवपुषं स्वसेवनासक्तसव्यसाचिपुषम् ॥ २०॥ गलविगलद्गरलघृणिश्यामलनलिनस्रगुज्ज्वलोरस्कम् । मुखशशिरिङ्खत्स्मितरुक्सुखिताचलदुहितृलोचनचकोरम् ॥ २१॥ सारससगन्धवदनः सततस्थितिपूतपितृवनीसदनः । सस्मितसुन्दररदनः सोऽवतु संवर्तकृतजगत्कदनः ॥ २२॥ सवितृशशिदहननयनः साधितविनमद्वराभयानयनः । सम्भृत हिमगिरिशयनः स्वभजनसज्जन्मुमुक्षुमुक्त्ययनः ॥ २३॥ दृप्यद्रुहिणमुखाब्जद्रुह्यत्खरनखरखण्डचन्द्रमसम् । दुर्मददक्षक्षपणप्रचण्डभुजदण्डवीरभद्रभटम् ॥ २४॥ निर्जितजगदवनीतं निगमशिरःक्षीरनीरनिधिनवनीतम् । हृदि॥यमिभिर्जवनीतं हरं भजे रजतशैलकल्पवनीतम् ॥ २५॥ सरसिजसनाभिनयनं सुधांशुसच्छात्रवदनकमनीयम् । कुन्दसगन्धरदालिं कोकनदश्रेणिसहचरच्चरणम् ॥ २६॥ स्मितशिशुहंसोत्तंसं लोचनलोलम्बसम्भृतोल्लासम् । श्यामलकलगलनालं वन्दे तव देव वदनकोकनदम् ॥ २७॥ भृकुटिभटब्रह्माणं कटाक्षकैङ्कर्यपरवशद्युपतिम् । पदपरिचारकलेखं रसनाचलनप्रतीक्षपद्माक्षम् ॥ २८॥ विकटहरिद्रूपपटं निकटतटाटत्प्रभूतभूतघटम् । उद्भटभैरवपुटमटमुत्कटनटनं नमामि कपटनटम् ॥ २९॥ अमिततरबोधजलनिधिरपरिमितैश्वर्यशेवधिः सततम् । अवतु हरनामकं मामस्तमितोत्पत्तिवृद्धिहानि महः ॥ ३०॥ पातु स मां परमेशः पृथ्वीधरचापरोपरूपरमेशः । सव्यतनौ रमणी यं श्लिप्यति शोणा सितांशुभररमणीयम् ॥ ३१॥ अखिलैरदृश्यकोशोऽप्यभ्रसरिद्दृष्टनिजजटाजूटः । हर्यनिरीक्ष्यपदाब्जोऽप्यन्तकहृदयेक्षिताङ्घ्रिसरसिरुहः ॥ ३२॥ व्याघपदविषयमौलिर्विधातृदुर्दर्शमस्तकोऽपि परम् । भृशतरममूर्तरूपोऽप्यवनतसेवार्थमष्टमूर्तिधरम् ॥ ३३॥ चचसामगोचरोऽपि हि वेदान्तवचःपरम्पराविषयः । एकोऽपि नैकरूपो व्याप्नोति परः शिवोऽखिलं लोकम् ॥ ३४॥ गजमुखजनकाय नमो गिरिजाक्षीन्दीवरेन्दुबिम्बाय (नमः) । अखिलनिदानाय नमोऽस्त्वनन्तकल्याणगुणनिधानाय (नमः) ॥ ३५॥ असदृशविभवाय नमोऽस्त्वचिन्त्यसच्चित्सुखस्वरूपाय (नमः) । प्रकटिततत्त्वाय नमः प्रणवाक्षरपञ्जराच्छकीराय (नमः) ॥ ३६॥ प्रमुषितमोहाय नमः पृथ्वीधरदुहितृपुण्यपाकाय (नमः) । आश्रितमुक्ताय नमोऽस्त्वविकलकैवल्यदानदक्षाय (नमः) ॥ ३७॥ फणिपतिभूषणमूर्तिर्विनायकाक्रान्तपरिसरः सन्ततम् । श्यामतरकन्धराभस्त्वमेव साक्षाच्छिवाच्युतो भवसि ॥ ३८॥ शुचिशशि(सप्तह)याक्षं शोभनकरचारुशेखरतराब्जम् । साधु वृषाकपिमीडे सोत्कण्ठश्रीसमावृतोरस्कम् ॥ ३९॥ श्यामलविषधररूपं विष्टपसन्दोहवर्धनव्यग्रम् । करिवरदानविदग्धं कुमारजनकं वृषाकपिं वन्दे ॥ ४०॥ शङ्कर हर मे दुरितं शशाङ्कसच्छात्रगात्र हर मेदुरितम् । मम करुणाम्बुनिधे हि स्वान्ते तव पादपद्ममाशु निधेहि ॥ ४१॥ पातु महादेवो मां प्रार्थितमर्थं प्रदाय स सदेवोमां (? ) । यस्य चरित्रं वेदप्रकरो दिव्यात्त ळतं(? ) पवित्र वेद ॥ ४२॥ वसनविभिन्नगजेश व्याधप्रवरापवर्गकृन्नगजेश । मामघपारावारं प्रपन्नसन्त्राणदृष्टपारावारं (? ) ॥ ४३॥ सीमापरिमितधामा काचित् कलधौतशिखरिनिर्जितधामा । अवनतवसुधाभरदा निवसतु(हृदि) देवता नवसुधाभरदा ॥ ४४॥ शङ्करशर्वसदाशिवगिरिशमहादेववामदेवादिः । नामालिरेव शिव मे कालत्रयक्षपणकरणतामयताम् ॥ ४५॥ नटतु त्वन्नामसुधातुरङ्गचलयो ममेश जिह्वाग्रे । निखिलतपोधनरसनानटीकुलाविरतनाटनाचार्यः ॥ ४६॥ अहमलसः सेवायां शिव तव मन्दस्त्वदर्चनासु परम् । अप्यसकृद् ध्यानविधौ विस्मृतिभागस्मि तदपि मां पाहि ॥ ४७॥ सत्कर्मभृशविरक्तो भगवन् दुष्कर्मकर्मठः सोऽहम् । मम गुणवैषम्यमिदं विनिवर्तयितुं त्वमेव चतुरोऽसि ॥ ४८॥ षडरिषु कारुणिकोऽहं सुचापलस्त्वत्पदाब्जविस्मरणे । ईदृशविषममनीषां कुरु मे गिरिश प्रतिक्रियाविषयाम् ॥ ४९॥ कर्षन्ति षडरयोऽमी पातयितुं पापकूपकुहरे माम् । आवध्येन्द्रियपाशैः पालय हर दासदासोऽस्मि ॥ ५०॥ प्रणतप्राणिगणानां प्रमोहसर्वस्वमोषकं भीमम् । श्रुतिशिखरगहनलीनं तस्करपतिमीश वक्ति वेदस्त्वाम् ॥ ५१॥ निजशिवतामक्षोभ्यामप्यखिलापूतवस्तुसंसर्गात् । अटसि द्विपदपशूनां पितृवनभूमिं परीक्ष्य दर्शयितुम् ॥ ५२॥ आबध्य मोहपाशैः कुमतिपशून् हृदि तिरोहितं यमिनाम् । त्वामखिला दर्शयति श्रुतिरीश्वर ते तथापि न विदन्ति ॥ ५३॥ शिव तव परमैश्वर्यं पदे पदेऽपि प्रकाशितं श्रुतिभिः । पिदधत् कपटतमोभिः कुमतीन् वञ्चयसि भिक्षुवेषेण ॥ ५४॥ शिव भवदाज्ञामयमप्यक्षयवात्सल्यभाजनं तेऽहम् । इति सत्क्षृत्यमशेषं त्यजामि मां पाहि पाहि पाहि पुनः ॥ ५५॥ सत्यपि परमैश्चर्ये श्रुतिविदिते गिरिश ते मुमुक्षुभ्यः । वदति दिगम्बरता ते वैराग्यमनन्यदेवसामान्यम् ॥ ५६॥ पिञ्जरमरीचिकूटः प्रसाधनेन्दूदयाद्रिवरकूटः । तावकमौलिकिरीटस्तनोतु शुभमीश तव जटाजूटः ॥ ५७॥ शिव तव निटालफलकं शिवांशभूतस्ववामलसदलकम् । निजदृक्कुङ्कुमतिलकं नितरां न तनोति विस्मितं किलकम् ॥ ५८॥ शेवरशशिकरपातश्रितप्रमीलं शुचेर्विहारगृहम् । निटेलतटान्तर्निलयं नमामि तव देव नयननीररुहम् ॥ ५९॥ निजरथपदपरिणामं निखिलरथाङ्गीचकोरपुण्यफलम् । निरूपधिकृपारसार्द्रं नौमि तवेशान नयनयोर्युगलम् ॥ ६०॥ भति श्रितरुचिवृन्दं ब्रह्मोपेन्द्रप्रतीक्षितस्पन्दम् । भ्रूयुगमसितं तव शिव मुखराकेन्दोः कलङ्करङ्कुरिव ॥ ६१॥ श‍ृसितश्रुतिततिकान्तां शिवामुखाम्भोजसौरभक्रान्ताम् । शिव तव योगश्रान्तां श्रयामि नासां त्वदक्षिभृत्स्वान्ताम् ॥ ६२॥ तव परशिव वचनामृततटाकतटपद्मरागसोपानम् । शुभतरमधरोष्ठं ते श्रयामि भवदास्यजलजकिञ्जल्कः ॥ ६३॥ पाटलभवदधरोष्ठप्रवालहिन्दोळगर्भकृतखेलम् । तम्भृतसकलाह्लादं स्मरामि रम्यं स्मितार्भकं हर ते ॥ ६४॥ शिव तव दशनश्रेणिर्वागमृतव्रातबुद्बुदप्रतिभः । स्फुरति तवान्तच्छन्नस्वभावसंसिद्धसत्त्वराशिरिव ॥ ६५॥ हर तव हसितच्छलतो हरति मनः कोऽपि कोकवैरिशिशुः । आरुह्य चारु खेलन्नरुणाधरपद्मरागपीठं ते ॥ ६६॥ हसितहिमांशुशिशुस्ते हर बागमृताब्धिसम्भवः कोऽपि । तव (मुखप)रिणतिभाजो लुठति शशाङ्कस्य पूर्वजस्याङ्के ॥ ६७॥ सरसहिमाचलतनयासङ्गीतसुधानि(पानभूमि)निभम् । दिव्यं श्रुतियुगमीडे दृगब्जविश्रान्तिमण्डपं मृड ते ॥ ६८॥ मञ्जुलमण्डनकुण्डलकुण्डलिपतिविदितमार्दवातिशयम् । स्फाटिकमणिमुकुराभं कपोलफलकं करोतु कुशलं ते ॥ ६९॥ अतुलापदविनिवेश्यं त्वनुनयसमये शिवापरामृश्यम् । ध्यातृहृदैकस्पृश्यं तव चुबुकं भाति दिव्यदृग्दृश्यम् ॥ ७०॥ स्मितशिशुहंसोत्तंसं लोचनलोलम्बसम्भृतोल्लासम् । श्यामलकलगलनालं वन्दे तव देव वदनकोकनदम् ॥ ७१॥ हर हसिताङ्ङ्कुरहीरैरवतादधरोष्ठपद्मरागाभ्याम् । खचितं शक्रमणिभ्यां कनीनिकाभ्यां च तव मुखं मुकुरौ ॥ ७२॥ मम तु हृदलिरनपेतस्पृहः स्वपीडामपीश मोचयितुम् । तव मुखसरसिजसुषमामरन्दलहरीं पुनः पुनर्लिहति ॥ ७३॥ तं मतिरनुगच्छति मे वागपि शम्भो सतीव भर्तारं तेषां प्रेषकभूतः फलदाता च त्वमेव भवसि विभो ॥ ७४॥ सरसिजसमविषमदृशं शेखरशिशुजातिजातयुवसदृशम् । अमलं तव भव तादृशमाननमीडे मृडेतरासदृशम् ॥ ७५॥ हर दरहसितज्योत्स्नासुहितशिवादृक्चकोरवरभिथुनम् । मुखविधुमकलङ्कं ते मानसहरिणोऽयमारुरुक्षति मे ॥ ७६॥ अमृतकरोऽप्यकलङ्कं सरसिजमपि चन्द्रसन्निधेर्विकचम् । आननमप्रतिबिम्बं दर्पणमपि देव दीप्यते हर ते ॥ ७७॥ अत्रेदृगुद्भूतिरुचं सत्रिदृगुद्भूतिरुचमपीश तव । सुमयकरमपि मनसा विस्मयकरमास्यमुकुरमीक्षेऽहम् ॥ ७८॥ शशपशुमधुपालिभ्यां शिव संसर्गात् कलङ्किते अब्जे । स्वच्छद्विजततिसङ्गात् स्मितकीर्तिमतः कथं मुखस्य समे ॥ ७९॥ स्फुरदहिहाराविरलः समस्तभुवनाभयाय भृतगरलः । सुखयतु तव शर्व गलः स्वकालिमाक्रान्तभुजशिरोयुगलः ॥ ८०॥ अजगवपरशुधरौ नमदभीतिवरदानपारदृश्वानौ । कृतभुवनावनहननौ करौ वरौ ते शुभङ्करौ भवताम् ॥ ८१॥ गलरुचिकृतततमालं गीरपदं ते स्वकान्तितुलिततमालम् । कर्कशकुचपरमालङ्कृतसव्यमुरः पुनातु शिव परमालम् ॥ ८२॥ घवनतरकालिमझर्या राजति धारेव रोमराजिस्ते । रालकम्बूदरपूर्तेर्गलिता हरनाभिगह्वरे पतिता ॥ ८३॥ धृथुतूरवरकृत्तिवृतं प्रचुरमणीखचितसर्पसूत्रधृतम् । रकलये रुचिरत्वभृतं कटितटमीशान मनसि ते निभृतम् ॥ ८४॥ हर तव गिरिवरकन्याकरसरसिजसौकुमार्यसारविदौ । ऊरू करिकरचारू हरतामचिरेण दुरितभारं मे ॥ ८५॥ चरणसरोरुहनाले चिन्तकचित्ताध्वधावने जवने । अनघे हर तव जङ्घे अघसङ्घातं ममाशु घातयताम् ॥ ८६॥ प्रणतामरवरमौलिप्रसूनमकरन्दसम्भृतं शिव ते । चरणसरोरुहयुगलं चुम्बति मम चित्तचञ्चरीकोऽयम् ॥ ८७॥ भव तव पदयोर्युगलं भवतः कैवल्यकल्पभूमिरुहः । किसलययुगमिव मृदुलं मूलतलाङ्कुरितमुल्लसत्यरुणम् ॥ ८॥ प्रणतमनोरथदोहं प्रसृमरशोणतरकिरणसन्दोहम् । प्रणमामि शमितमोहं पदमीश तव प्रसादकामोऽहम् ॥ ८९॥ धर्मवपुः शतकोटिर्धरमर्दितपङ्क्तिकण्ठभुजनिजकोटि । पातु पदं सुरमकुटीपाकारिशिलालिवासराजीवकुटी ॥ ९०॥ पाति न परशिवकमलं परमापहृतस्मरन्मनस्कमलम् । प्राप्तभवापदकमलं प्रपन्नमाशु त्वदीयपदकमलम् ॥ ९१॥ तव कृतमङ्घ्रिपरागैर्भजतां भवसिन्धुशोषणाध्ययनम् । उत्कटनटनस्रस्तादुमापते ते कपर्दबन्धात् किम् ॥ ९२॥ मार्दवमुख्यागारं मखभुङ्मकुटसुमसौरभोद्गारम् । पदमुरु नटनोदारं पातु तवान्विष्यदादिभूदारम् ॥ ९३॥ पल्लवदत्तनिकारं प्रचण्डनटनास्तकाल्यहङ्कारम् । हृतनतहृदयविकारं हरचरणं नौमि नीरजाकारम् ॥ ९४॥ अहिततिविहितकलापं महितं वपुरीश सहितशैलसुतम् । निजहितनिहितकटाक्षं सुहितयमि स्तौमि हितदोषभरम् ॥ ९५॥ त्रिदशदयारसभरितं त्रिणतसुमेरुत्वचित्रनिजचरितम् । त्रिपुरहरं मेदुरितं त्रिलोचनं धाम हरतु मे दुरितम् ॥ ९६॥ गिरिवरवसति सदारं गलबिलनिगृहीतक्ष्वेड(न) भयदारम् । प्रबलजलन्धरदारं पातु महः किमपि पार्वतीदारम् ॥ ९७॥ अणि(...)चिरमभिलषितं ते सेवनमविदन्तमर्थनारीतिम् । कुत्सितविषयविधेयं स्वीकुरु मामीश किङ्करत्वेन ॥ ९८॥ अनल्लशिखातीतेन स्यूततरं शिशिरयाघजातेन । अमृ।तसरिच्छीतेन स्मरहर तव मामपाङ्गपातेन ॥ ९९॥ चिरकर्मपाशवद्धं चलकमलोल्लासकल्पितश्रद्धम् । मामीश षडरिविद्धं मोचय मोहेन भृशतराशुद्धम् ॥ १००॥ तव शिव दृगन्तपातस्तारयतान्मां भवाम्बुनिधिपोतः । निजहृदयाधारेणानीतः कारुण्यकर्णधारेण ॥ १०१॥ नियमकृत्यैकरतं पालय निरयेऽथवेश पातय माम् । मद् वनभरविन्यसनं त्वयि विदधे त्वामहं तु विश्वास्य ॥ १०२॥ आर्येशस्तुतिरेषा त्वार्थाभिधवृत्तविरचितग्रथिता । स्यादेव मोददा मे विदुषां शब्दार्थगूढसारविदाम् ॥ १०३॥ इत्यार्येशस्तवः समाप्तः । Verses 27 and 71 seem to be repetitive.
% Text title            : Aryesha Stavah
% File name             : AryeshastavaH.itx
% itxtitle              : AryeshastavaH (chidambarasUrikRitam)
% engtitle              : AryeshastavaH
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Chidambara Suri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 26 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : January 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org