ईश्वरप्रोक्तं आत्मलिङ्गरहस्यम्

ईश्वरप्रोक्तं आत्मलिङ्गरहस्यम्

ईश्वरः - सावधानेन देवेशि लिङ्गपूजाविधिक्रमम् । श‍ृण्वपर्णे प्रणयतो मयोक्तं हृदये धर ॥ २०॥ नाख्येयं कस्यचिद्वापि रहस्यं मम सर्वधा । लयनात्सर्वजगतां लिङ्गमित्युच्यते शिवे ॥ २१॥ लीनमर्थं गमयति तस्मात्तल्लिङ्गमुच्यते । लमु क्रीडाञ्च जगतो गच्छतीति तदुच्यते ॥ २२ । तस्माल्लिङ्गं विदुः प्राज्ञा बिन्दुहीनं च तत्प्रिये । अर्चनं च प्रवक्ष्यामि ह्यर्चकञ्च विशेषतः ॥ २३॥ लिङ्गं गुणत्रयाद्धीनं ब्रह्मविष्णुमहेश्वरैः । पीठपीठ्यादिरहितं पूज्यपूजाविवर्जितम् ॥ २४॥ ध्यानध्येयादिरहितं निर्गुणं तमसः परम् । जगज्जन्मोदयास्थान विनाशन विवर्जितम् ॥ २५॥ ओङ्काराद्यं सप्रणवं त्रिमात्रापरिवर्जितम् । भावाभावादिरहितं भावाभावविवर्जितम् ॥ २६॥ बोध्यवोधादिरहितं व्याप्यव्यापकवर्जितम् । ज्ञानज्ञेयज्ञातृहीनं खण्डाखण्डविवर्जितम् ॥ २७॥ प्रभवाभवसंहारतिरोधानादिवर्जितम् । ध्यानध्येयादिरहितं महा(ममा)ध्यानविदूरगम् ॥ २८॥ अलक्ष्यलक्षणाहीनं गोप्यगोपकवर्जितम् । न सन्नासन्न चैवासत्सदसञ्चैव नाप्यसत् ॥ २९॥ सत्तामात्रादिरहितं केवलं स्वात्मदर्शनम् । भानाभानविहीनञ्च स्वभासा भासिताखिलम् ॥ ३०॥ चेतृचेतकराहित्यं क्षराक्षरविवर्जितम् । चराचरविहीनं च प्रमामेयादिवर्जितम् ॥ ३१॥ बिन्दुनादादिकं(बिन्दुनादातिगं)साक्षात्साक्षिसाक्ष्यादिवर्जितम् । बिम्बीबिम्बातिगञ्चैतत्प्रतिभासादिवर्जितम् ॥ ३२॥ नैव दृश्यं न चादृश्यं ग्राह्यग्राहकवर्जितम् । नवाग्वाक्यविहीनं च वाचां दूरमनौपमम् ॥ ३३॥ न मनो नामनःप्राप्यं न प्राणं प्राणबोधकम् । न चक्षुरूपरहितं तद्दृश्यज्ञानवर्जितम् ॥ ३४॥ न श्रोत्रं श्रवणाद्धीनं तदाकाशमनौपमम् । न घ्राणं गन्धहीनं च पृथिवीपरिवर्जितम् ॥ ३५॥ न रसं तदपोहीनं जिह्वास्थानादिवर्जितम् । न पाणिपादपाय्वादिमरुद्धीनं शिवे हि तत् ॥ ३६॥ न रूपरसगन्धादिशब्दस्पर्शविवर्जितम् । नैवाकाशमनाकाशमाकाशस्यापि चेतकम् ॥ ३७॥ न भूमिर्भैतिकैर्हीन्नं घनभावविवर्जितम् । न तेजस्तेजसा हीनं सर्वतेजःप्रवर्तकम् ॥ ३८॥ न वायुश्चलनाद्धीनं वायोरुद्बोधकं हि तत् । न चैतत्सलिलं साक्षात्सलिलद्रवकल्पकम् ॥ ३९॥ भूताद्विहीनं भूतादि भूतादारं सनातनम् । अपाणिपादवदनमचक्षुश्श्रुतिवर्जितम् ॥ ४०॥ सर्वेन्द्रियगुणातीतं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ ४१॥ सर्वेन्द्रियगुणैः कान्तं नित्यकान्तं सदोदितम् । नवद्वारगृहान्तस्थदिव्यपीठे प्रतिष्ठितम् ॥ ४२॥ यदप्रतिष्ठं विश्वास्यं विश्वहस्तोरुपादकम् । विश्वमौलिं विश्वपीठं विश्वपीठतमःपरम् ॥ ४३॥ न तत्र किञ्चित्प्रतिभाति रूपं यस्मात्परं नापरमस्ति किञ्चित् । वेदान्तवेद्यं निर्गुणं यद्वचोगं यतो जातं भुवनं वै विचित्रम् ॥ ४४॥ यस्मिन्लिङ्गे स्थितं चैतद्यस्मिन्लीनं जगच्छिवे । यदाधारमिदं विश्वं त्रिगुणं परिवर्तते ॥ ४५॥ तल्लिङ्गपरिमाणं हि केन वक्तुं हि पार्यते । परिमाणादिरहितं गुणखण्डत्रयातिगम् ॥ ४६॥ अखण्डमेकपिण्डाण्डब्रह्माण्डोपरितस्स्थितम् । न प्रतिष्ठा न च स्थानं तल्लिङ्गस्य महेश्वरि ॥ ४७॥ नालयस्थं महेशानि सर्वावास्यं महच्च तत् । सर्वभूतमहाकोशगर्भागारस्थमम्बिके ॥ ४८॥ अणोरणीयोऽपि महन्महतोऽपि महत्तरम् । सर्वाधारमनाधारं विश्वरूपं प्रकाशकम् ॥ ४९॥ तेजोमात्रं स्वप्रकाशं जीवेशानादिवर्जितम् । प्रत्यक्चैतन्यमात्मानमानन्दघनमद्वयम् ॥ ५०॥ ब्रह्मविष्णुहराद्युत्थपीठजालविवर्जितम् । स्वात्मैकवेद्यं तल्लिङ्गं स्वस्मिन्नेव प्रतिष्ठितम् ॥ ५१॥ तद्भूमा परमानन्दं तत्रनोनास्तिकिञ्चन । तस्मिन्लिङ्गेदृष्टिगते दृग्रूपोलिङ्गतामियात् ॥ ५२॥ लिङ्गोऽप्यलिङ्गोभवतितल्लिङ्कस्यैवशीलनात् । नान्येपश्यन्तितलिङ्गन्नान्येजानन्तिकेचन ॥ ५३॥ तल्लिङ्गं परमानन्दं रसहीनं रसातिगम् । उपास्यं सर्वदा सर्वैस्तदु नात्येति किञ्चन ॥ ५४॥ न तस्य महिमा कश्चित्स्वमहिम्नि प्रतिष्ठितम् । सर्वहृत्संस्थितं लिङ्गं नित्यं सर्वप्रकाशकम् ॥ ५५॥ अवस्थाभेदरहितं मायागर्भगृहान्तरम् । सार्वकालिकपूज्यन्तत्षट्त्रिकालादिवर्जितम् ॥ ५६॥ प्रविष्टं स्वावृततमोराशि स्वाभानभासकम् ॥ ५७॥ न तत्र वाङ्मनो वा कदाचिन्नचेन्द्रियप्राणभूतादिसङ्घः । स्वयं प्रभातं भासितुं नो समर्थो दृग्रूपं तत्केवलं बोधहीनम् ॥ ५८॥ जीवेश्वरौ ब्रह्मविष्णू कदाचित्तलिङ्गमेवं स्वहृद्दृष्टिहीनौ । किञ्चिदज्ञसर्वज्ञविमोहमानिनावहङ्कारमायाविवशान्तरङ्गौ ॥ ५९॥ हंसीभवद्वाक्यजपामिमां वदन् जीवो विधिर्मोहजालेषु मग्नः । अहङ्ग्रहोपासनाशस्त्रजालैस्सर्वज्ञमेवाभिमुखे युयोधम् ॥ ६०॥ (अहङ्ग्रहोपासनाशस्त्रजालैस्सर्वज्ञमेवाभिमुखेषु बोधयोऽथ) ॥ ६०॥ विष्णुं तदा चेश्वरप्राज्ञमज्ञं स चाप्यहङ्कारवशान्तरात्मा । अहं च सर्वेश्वर इत्यथोच्य यद्दृष्टलिङ्गोऽभ्युवाच विद्धितम् (बिन्धतम्) ॥ ६१॥ एवं च ते युयुधातेऽद्यशास्त्रैर्मिथ्याभूतैः पश्य मोहान्धकौ तौ । कदाचिदैक्षन्त विहाय मोहं क्षराक्षरौ विधिविष्णू भवानि ॥ ६२॥ व्यपेतमोहौ भवतं तदम्बिके दृष्ट्वाहतुर्लिङ्गमेतद्विलोक्य । पुनश्च मायाप्रभवैश्च पाशैर्मौलिं मूलं चास्य पश्याव चेति ॥ ६३॥ नान्तो न मूलं न च मौलिरस्य लिङ्गस्य दृष्ट्वोपरतौ तदा शिवे । भूदारहंसाकृतिदेहभाजौ स्तुत्वा च लिङ्गे व्यरमन्त तौ तदा ॥ ६४॥ जीवेश्वरौ - क्षराक्षरौ तौ हरिवेधसौ शिवे हंसाख्यमन्त्रेण विभाव्य देवम् । ज्ञाज्ञावनीशौ यदादृष्टलिङ्गावलिङ्गमाकाशसधर्मकौ तदा ॥ ६५॥ व्यपेतमोहावभवन्त तौ तदा ह्युपाधिहीनौ न हि किञ्चिदत्र । तदेव लिङ्गं मम देव्यलिङ्गं न पूजनायासपरैर्न रैश्शिवे ॥ ६६॥ कार्यं शिलाधातुजबाणलिङ्गे चरे स्थिरे चापि विशिष्टलिङ्गे । सम्पूजयेद्बिल्वदलैर्भवानि भवाम्बुधेस्सन्तरणाय लोकः ॥ ६७॥ तल्लिङ्गपूजा न कदाचिदीदृशैर्न रैस्सुरैर्वागणविप्रवर्यैः । कर्तुं न शक्या विविधैरुपायैर्दानैस्तपोनाशनयादिभिश्शिवे ॥ ६८॥ समर्चनं तत्कथये भवानि गूढं सदा प्राज्ञतमैकगम्यम् । तदर्चनं पुण्यनरैकलभ्यमलभ्यमन्यैर्नृपशुत्वधर्मैः ॥ ६९॥ भूताधिकारणधराधरदारणेन सर्वज्ञरूपहरिणा किटिरूपकेण । किञ्चिद्ज्ञजीववरहंसकभूतपुण्यपाथोजजातवदनैस्स्तुतमर्चितं च ॥ ७०॥ हृल्लिङ्गमात्मकमुमे मनसाभिपश्य पश्यंस्तदात्मकतया भवतीव चित्रम् ॥ ७१॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं आत्मलिङ्गरहस्यम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५८ - आत्मलिङ्गकथनम् । २०-७१॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 58 - Atmalingakathanam . 20-71.. Notes: Śiva शिव reveals to Devī देवी, the mystery of Ātmaliṅga आत्मलिङ्ग. Encoded and proofread by Ruma Dewan
% Text title            : Ishvaraproktam Atmalingarahasyam
% File name             : AtmalingarahasyamIshvaraproktaM.itx
% itxtitle              : AtmaliNgarahasyam IshvaraproktaM (shivarahasyAntargatA)
% engtitle              : Atmalingarahasyam IshvaraproktaM
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 58 - AtmaliNgakathanam | 20-71||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org