ऋभुप्रोक्तं आत्मवैभवनिरूपणम्

ऋभुप्रोक्तं आत्मवैभवनिरूपणम्

(आत्मैव सर्वनित्यात्मा) आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन । आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ २०.१८॥ आत्मज्योतिरहं भूतमात्मैवास्ति सदा स्वयम् । स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०.१९॥ स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् । स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ २०.२०॥ स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः । स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०.२१॥ स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः । स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०.२२॥ स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः । अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०.२३॥ आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् । स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०.२६॥ स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते । स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०.२७॥ स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः । स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०.२८॥ स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः । स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०.२९॥ स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः । स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०.३०॥ स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः । स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः ॥ २०.३१॥ अखण्डः परिपूर्णोऽहमखण्डरसपूरणः । अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०.३२॥ इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक्स्वयम् । अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०.३३॥ अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः । २०।३४(१) अहमेव परं ब्रह्म अहमेव परात्परः । अहमेव मनोतीत अहमेव जगत्परः ॥ २०.४४॥ अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः । आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ २०.४५॥ नान्यत्किञ्चिदहं ब्रह्म नान्यत्किञ्चिच्चिदव्ययः । आत्मनोऽन्यत्परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०.४६॥ आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् । आत्मन्येवात्मना चित्तमात्मैवाहं न तत्पृथक् ॥ २०.४७॥ आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे । आत्मैवाहं गुणो नास्ति आत्मैव न पृथक्क्वचित् ॥ २०.४८॥ अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् । अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०.४९॥ आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् । अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०.५०॥ जीवभावं सदासत्यं शिवसद्भावमीदृशम् । विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०.५१॥ अहमेव सदा पूर्णं अहमेव निरन्तरम् । नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०.५२॥ अहमेव परानन्द अहमेव क्षणान्तिकः । अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०.५३॥ वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् । अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०.५४॥ अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः । इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०.५५॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं आत्मवैभवनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २०। १८-२३, २६-३४(१), ४४-५५॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 20. 18-23, 26-34(1), 44-55.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Atmavaibhavanirupanam
% File name             : RRibhuproktaMAtmavaibhavanirUpaNam.itx
% itxtitle              : AtmavaibhavanirUpaNam (RibhuproktaM shivarahasyAntargatam Atmaiva sarvanityAtmA)
% engtitle              : RRibhuproktaM AtmavaibhavanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 20| 18-23, 26-34(1), 44-55||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org