ऋभुप्रोक्तं ग्रन्थप्रशस्तिनिरूपणम्

ऋभुप्रोक्तं ग्रन्थप्रशस्तिनिरूपणम्

(एतद्ग्रन्थं समभ्यसेत्) देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा । ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ ४१.७॥ एतज्ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् । देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ ४१.८॥ विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् । साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ ४१.९॥ क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् । कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ ४१.१०॥ नारदादि ऋषीणां च उपदिष्टं महद्बहु । अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ ४१.११॥ न समं पादमेकं च तीर्थकोटिफलं लभेत् । न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ ४१.१२॥ एकानुभवमात्रस्य न सर्वं सर्वदानकम् । श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥ ४१.१३॥ तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते । सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ ४१.१४॥ सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वदेवांश्च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१५॥ सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वभावं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१६॥ सर्वहोमं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वदानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१७॥ सर्वपूजां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वगुह्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१८॥ सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वास्तित्वं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.१९॥ सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वाभ्यासं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२०॥ देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् । गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२१॥ सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वैश्वर्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२२॥ सर्वसङ्कल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् । सर्वपुण्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१.२३॥ एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् । अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ ४१.२४॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं ग्रन्थप्रशस्तिनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ४१। ७-२४॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 41. 7-24.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Granthaprashastinirupanam
% File name             : RRibhuproktaMgranthaprashastinirUpaNam.itx
% itxtitle              : granthaprashastinirUpaNam (RibhuproktaM shivarahasyAntargatam etadgranthaM samabhyaset)
% engtitle              : RRibhuproktaM granthaprashastinirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 41| 7-24||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org