ऋभुप्रोक्तं सर्वमसदेवनिरूपणम्

ऋभुप्रोक्तं सर्वमसदेवनिरूपणम्

(तत्सर्वमसदेव हि / असदेव हि केवलम्) (ऋभुनिदाघसंवादे) अत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु । श‍ृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६.१॥ यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाषते सदा । यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६.२॥ यद्यत्किञ्चिज्जपं वापि स्नानं वा जलमेव वा । आत्मनोऽन्यत्परं यद्यदसत्सर्वं न संशयः ॥ १६.३॥ चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि । आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ १६.४॥ अहन्तायाः परं रूपं इदन्त्वं सत्यमित्यपि । आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ १६.५॥ नानात्वमेव रूपत्वं व्यवहारः क्वचित्क्वचित् । आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६.६॥ तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् । इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६.७॥ द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् । अहं भेदमिदं भेदमसदेव हि केवलम् ॥ १६.८॥ (अहं भेदमिदं भेदं तत्सर्वमसदेव हि) ॥ १६.८॥ स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् । कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् । लिङ्गभेदमिदम्भेदमसदेव हि केवलम् ॥ १६.९॥ आत्मभेदमसद्भेदं सद्भेदमसदण्वपि । अत्यन्ताभावसद्भेदमसदेव हि केवलम् ॥ १६.१०॥ अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः । भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६.११॥ पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् । पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६.१२॥ (पुण्यभेदं पापभेदं असद्भेदमनण्वपि) ॥ १६.१२॥ सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् । ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६.१३॥ ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् । इदं भेदमहं भेदं असदेव हि केवलम् ॥ १६.१४॥ वेदभेदं देवभेदं लोकानां भेदमीदृशम् । पञ्चाक्षरमसन्नित्यमसदेव हि केवलम् ॥ १६.१५॥ ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा । असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६.१६॥ असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः । असत्यं पञ्चकोशाख्यमसदेव हि केवलम् ॥ १६.१७॥ असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् । असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा (तथा)॥ १६।१८॥ असत्यं द्वादशमासाः असत्यं वत्सरस्तथा । असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १६.१९॥ असत्यमेव षट्शास्त्रं असदेव हि केवलम् । असदेव सदा ज्ञानं असदेव हि केवलम् ॥ १६.२०॥ अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् । असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ १६.२१॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १६ । १-२१॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 16 . 1-21.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Sarvamasadevanirupanam
% File name             : RRibhuproktaMsarvamasadevanirUpaNam.itx
% itxtitle              : sarvamasadevanirUpaNam (RibhuproktaM shivarahasyAntargatam)
% engtitle              : RRibhuproktaM sarvamasadevanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 16 | 1-21||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org