ऋभुप्रोक्तं सर्वमसदेवत्वनिरूपणम्

ऋभुप्रोक्तं सर्वमसदेवत्वनिरूपणम्

(असदेव हि सर्वम्) असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ १४.२८॥ असदेवाहमेवास्मि असदेव त्वमेव हि । असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ १४.२९॥ असदेव मही सर्वा असदेव जलं सदा । असदेव जगत्खानि असदेव च तेजकम् ॥ १४.३०॥ असदेव सदा वायुरसदेवेदमित्यपि । अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ १४.३१॥ असदेव सदा चित्तमात्मैवेदं न संशयः । असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ १४.३२॥ असदेव सदा विश्वं असदेव सदा हरिः । असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ १४.३३॥ असदेव महादेवः असदेव गणेश्वरः । असदेव सदा चोमा असत्स्कन्दो गणेश्वराः ॥ १४.३४॥ असदेव सदा जीव असदेव हि देहकम् । असदेव सदा वेदा असद्देहान्तमेव च ॥ १४.३५॥ धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः । असदेव हि सर्वं च असदेव परम्परा ॥ १४.३६॥ असदेवेदमाद्यन्तमसदेव मुनीश्वराः । असदेव सदा लोका लोक्या अप्यसदेव हि ॥ १४.३७॥ असदेव सुखं दुःखं असदेव जयाजयौ । असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ १४.३८॥ असदेव मृतिर्जन्म असदेव जडाजडम् । असदेव जगत्सर्वमसदेवात्मभावना ॥ १४.३९॥ असदेव च रूपाणि असदेव पदं शुभम् । असदेव सदा चाहमसदेव त्वमेव हि ॥ १४.४०॥ असदेव हि सर्वत्र असदेव चलाचलम् । असच्च सकलं भूतमसत्यं सकलं फलम् ॥ १४.४१॥ असत्यमखिलं विश्वमसत्यमखिलो गुणः । असत्यमखिलं शेषमसत्यमखिलं जगत् (द्वयम्) ॥ १४.४२॥ असत्यमखिलं पापं असत्यं श्रवणत्रयम् । असत्यं च सजातीयविजातीयमसत्सदा ॥ १४.४३॥ असत्यमधिकाराश्च अनित्या विषयाः सदा । असदेव हि देवाद्या असदेव प्रयोजनम् ॥ १४.४४॥ असदेव शमं नित्यं असदेव शमोऽनिशम् । असदेव ससन्देहं (च सन्देहं) असद्युद्धं सुरासुरम् ॥ १४.४५॥ असदेवेशभावं चासदेवोपास्यमेव हि । असच्च कालदेशादि असत्क्षेत्रादिभावनम् ॥ १४.४६॥ तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः । असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ १४.४७॥ असच्च चित्तसद्भाव असच्च स्थूलदेहकम् । असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ १४.४८॥ असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् । असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ १४.४९॥ असत्यं सत्यवद्भावं (सत्यवद्भानं) असत्यं ते शिवे शपे । असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ १४.५०॥ असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे । असत्पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ १४.५१॥ असदेव सदा प्रायं असदेव न संशयः । असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ १४.५२॥ असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् । असत्यं सर्वदा दृश्यं भाति तौ रङ्गश‍ृङ्गवत् ॥ १४.५३॥ असत्यं सर्वदा भावः असत्यं कोशसम्भवम् । असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ १४.५४॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तं सर्वमसदेवत्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः १४ । २८(२)-५४॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 14 . 28(2)-54.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Sarvamasadevatvanirupanam
% File name             : RRibhuproktaMsarvamasadevatvanirUpaNam.itx
% itxtitle              : sarvamasadevatvanirUpaNam (RibhuproktaM shivarahasyAntargatam asadeva hi sarvam)
% engtitle              : RRibhuproktaM sarvamasadevatvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 14 | 28(2)-54||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org