ऋभुप्रोक्तं सर्वमिथ्यात्वनिरूपणम्

ऋभुप्रोक्तं सर्वमिथ्यात्वनिरूपणम्

(सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः) वक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च । यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२.१॥ चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२॥ देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३॥ दृश्यं च दर्शनं दृष्टा (द्रष्टा) कर्ता कारयिता क्रिया । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.४॥ एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.५॥ शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.६॥ जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.७॥ अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.८॥ परापरविकल्पश्च पुण्यपापविकल्पनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.९॥ कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१०॥ सिद्धं साध्यं साधनं च नाशनं (शासनं) ब्रह्मभावनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.११॥ आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१२॥ अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१३॥ शमो दमो मनोधर्मस्तदभावे च तत्कुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१४॥ बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१५॥ सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१६॥ ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१७॥ विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१८॥ रुद्रलोकः सदा मिथ्या अहङ्कारस्वरूपतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.१९॥ चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२०॥ दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२१॥ सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२२॥ वरुणस्य सदा लोको जिह्वारससमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२३॥ त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२४॥ अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२५॥ अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२६॥ इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२७॥ उपेन्द्रस्य महर्लोको गमनेन पदं युतम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२८॥ मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.२९॥ प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३०॥ सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् । तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२.३१॥ अनेकशब्दश्रवणमनेकार्थविचारणम् । सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२.३६॥ सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः । सर्वमुक्तं भगवता निदिध्यासस्तु (निजाध्यासस्तु) सर्वदा ॥ ३२.४९॥ ॥ इति शिवरहस्यान्तर्गते ऋभुप्रोक्तः सर्वमिथ्यात्वनिरूपणं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः ३२। २-३१,३६,४९॥ - .. shrIshivarahasyam . shankarAkhyaH ShaShThAMshaH . adhyAyaH 32. 2-31,36,49.. Notes : Shiva Rahasyam Amsa-06 consists of the 50 Adhyaya-s that comprise the Ribhu Gita. Selected verses from Ribhu Gita have been compiled here based on similarity of content. Proofread by Ruma Dewan
% Text title            : Ribhuproktam Sarvamithyatvanirupanam
% File name             : RRibhuproktaMsarvamithyAtvanirUpaNam.itx
% itxtitle              : sarvamithyAtvanirUpaNam (RibhuproktaM shivarahasyAntargatam sarvaM mithyA na sandeho brahmaivAhaM na saMshayaH)
% engtitle              : RRibhuproktaM sarvamithyAtvanirUpaNam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | shaNkarAkhyaH ShaShThAMshaH | adhyAyaH 32| 2-31,36,49||
% Indexextra            : (Scan)
% Latest update         : August 5, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org