अघोरमूर्तिसहस्रनामस्तोत्रम्

अघोरमूर्तिसहस्रनामस्तोत्रम्

अथ अघोरमूर्तिसहस्रनाम लिख्यते - ॐ श्रीं ह्रीं क्लीं सौः क्ष्मीं घोर घोराय ज्वल ज्वल प्रज्वल प्रज्वल अघोरास्त्राय फट् स्वाहा । । इति मूलम् । श्रीभैरवी उवाच - भगवन्सर्वधर्मज्ञ विश्वाभयवरप्रद । सर्वेश सर्वशास्त्रज्ञ सर्वातीत सनातन ॥ १॥ त्वमेव परमं तत्त्वं त्वमेव परमं पदम् । त्वत्तोऽप्यन्यं न पश्यामि सारं सारोत्तमोत्तमम् ॥ २॥ पुराऽस्माकं वरो दत्तो देवदानवसङ्गरे । तदद्य कृपया शम्भो वरं नाथ प्रयच्छ मे ॥ ३॥ श्रीभैरव उवाच - भैरवि प्रेयसि त्वं मे सत्यं दत्तो वरो मया । यदद्य मनसाभीष्टं तद्याचस्व ददाम्यहम् ॥ ४॥ श्रीदेवी उवाच - श्रीशिवः परमात्मा च भैरवोऽघोरसंज्ञकः । त्रिगुणात्मा महारुद्रस्त्रैलोक्योद्धरणक्षमः ॥ ५॥ तस्य नामसहस्रं मे वद शीघ्रं कृपानिधे । वरमेतन्महादेव देहि सत्यं मदीप्सितम् । अस्माद्वरं न याचेऽहं देहि चेदस्ति मे दया ॥ ६॥ श्रीभैरव उवाच - श‍ृणुष्वैकान्तभूदेशे सानौ कैलासभूभृतः । देवदानवसङ्ग्रामे यत्ते दत्तो वरो मया । वरं तत्ते प्रयच्छामि चान्यद्वरय मे वरम् ॥ ७॥ श्रीदेवी उवाच - अतः परं न याचेऽहं वरमन्यन्महेश्वर । कृपया करुणाम्भोधे वद शीघ्रं सुरार्चित ॥ ८॥ श्रीभैरव उवाच - तव भक्त्या ब्रवीम्यद्य अघोरस्य महात्मनः । नाम्नां सहस्रं परमं त्रैलोक्योद्धरणक्षमम् ॥ ९॥ नातः परतरा विद्या नातः परतरः स्तवः । नातः परतरं स्तोत्रं सर्वस्वं मम पार्वति ॥ १०॥ अकारादि क्षकारान्ता विद्यानिधिमनुत्तमम् । बीजमन्त्रमयं गोप्यं गोप्तव्यं पशुसङ्कटे ॥ ११॥ ॐ अस्य श्रीअघोरमूर्तिनामसहस्रस्य श्रीमहाकालभैरव ऋषिः, पङ्क्ति छन्दः, अघोरमूर्तिः परमात्मा देवता । ॐ बीजं, ह्रीं शक्तिः, कुरु कुरु कीलकम् । अघोर विद्यासिद्ध्यर्थे जपे पाठे विनियोगः । अथ न्यासः - ह्रां अङ्गुष्ठभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि षडङ्गन्यासः । अपि च- ॐ नमो भगवते अघोराय शूलपाणये स्वाहा हृदयाय नमः । रुद्रायामृतमूर्तये मां जीवय जीवय शिरसे स्वाहा । नीलकण्ठाय चन्द्रजटिने शिखायै वषट् । त्रिपुरान्तकाय कवचाय हुम् । त्रिलोचनाय ऋग्यजुःसाममूर्तये नेत्राभ्यां वौषट् । रुद्रायाग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय हुं फट् स्वाहा । अस्त्राय फट् । इति हृदयादि षडङ्गन्यासः एवं करन्यासः । भूर्भुवः स्वरिति दिग्बन्धः । अथ ध्यानम् । श्रीचन्द्रमण्डलगताम्बुजपीतमध्ये देवं सुधास्रविणमिन्दुकलाधरं च । शुद्धाक्षसूत्रकलशामृतपद्महस्तं देवं भजामि हृदये भुवनैकनाथम् ॥ अपि च - महाकायं महोरस्कं महादंशं महाभुजम् । सुधास्यं शशिमौलिं च ज्वालाकेशोर्ध्वबन्धनम् ॥ किङ्किणीमालया युक्तं सर्पयज्ञोपवीतिनम् । रक्ताम्बरधरं देवं रक्तमालाविभूषितम् । पादकिङ्किणीसञ्च्छन्नं नूपुरैरतिशोभितम् ॥ ध्यानमार्गस्थितं घोरं पङ्कजासनसंस्थितम् । भजामि हृदये देवं देवं चाघोरभैरवम् ॥ । इति ध्यानम् । अथ मूलमन्त्रः । अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ । इति मूलम् । अथ अघोराय नमः । ॐ ह्रीं श्रीं क्लीं महारुद्रो ग्लौं ग्लां अघोरभैरवः । क्ष्मीं कालाग्निः कलानाथः कालः कालान्तकः कलिः ॥ १॥ श्मशानभैरवो भीमो भीतिहा भगवान्प्रभुः । भाग्यदो मुण्डहस्तश्च मुण्डमालाधरो महान् ॥ २॥ उग्रोग्ररवोऽत्युग्र उग्रतेजाश्च रोगहा । रोगदो भोगदो भोक्ता सत्यः शुद्धः सनातनः ॥ ३॥ चित्स्वरूपो महाकायो महादीप्तिर्मनोन्मनः । मान्यो धन्यो यशस्कर्ता हर्ता भर्त्ता महानिधिः ॥ ४॥ चिदानन्दश्चिदाकारश्चिदुल्लासश्चिदीश्वरः । चिन्त्योऽचिन्त्योऽचिन्त्यरूपः स्वरूपो रूपविग्रही ॥ ५॥ भूतेभ्यो भूतिदो भूत्यं भूतात्मा भूतभावनः । चिदानन्दः प्रकाशात्मा सनात्माबोधविग्रहः ॥ ६॥ हृद्बोधो बोधवान् बुद्धो बुद्धिदो बुद्धमण्डनः । सत्यपूर्णः सत्यसन्धः सतीनाथः समाश्रयः ॥ ७॥ त्रैगुण्यो निर्गुणो गुण्योऽग्रणीर्गुणविवर्जितः । सुभावः सुभवः स्तुत्यः स्तोता श्रोता विभाकरः ॥ ८॥ कालकालान्धकत्रासकर्ता हर्ता विभीषणः । विरूपाक्षः सहस्राक्षो विश्वाक्षो विश्वतोमुखः ॥ ९॥ चराचरात्मा विश्वात्मा विश्वबोधो विनिग्रहः । सुग्रहो विग्रहो वीरो धीरो धीरभृतां वरः ॥ १०॥ शूरः शूली शूलहर्ता शङ्करो विश्वशङ्करः । कङ्काली कलिहा कामी हासहा कामवल्लभः ॥ ११॥ कान्तारवासी कान्तास्थः कान्ताहृदयधारणः । काम्यः काम्यनिधिः कान्ताकमनीयः कलाधरः ॥ १२॥ कलेशः सकलेशश्च विकलः शकलान्तकः । शान्तो भ्रान्तो महारूपी सुलभो दुर्लभाशयः ॥ १३॥ लभ्योऽनन्तो धनाधीनः सर्वगः सामगायनः । सरोजनयनः साधुः साधूनामभयप्रदः ॥ १४॥ सर्वस्तुत्यः सर्वगतिः सर्वातीतोऽप्यगोचरः । गोप्ता गोप्ततरो गानतत्परः सत्यपरायणः ॥ १५॥ असहायो महाशान्तो महामूर्तो महोरगः । महतीरवसन्तुष्टो जगतीधरधारणः ॥ १६॥ भिक्षुः सर्वेष्टफलदो भयानकमुखः शिवः । भर्गो भागीरथीनाथो भगमालाविभूषणः ॥ १७॥ जटाजूटी स्फुरत्तेजश्चण्डांशुश्चण्डविक्रमः । दण्डी गणपतिर्गुण्यो गणनीयो गणाधिपः ॥ १८॥ कोमलाङ्गोऽपि क्रूरास्यो हास्यो मायापतिः सुधीः । सुखदो दुःखहा दम्भो दुर्जयो विजयी जयः ॥ १९॥ जयोऽजयो ज्वलत्तेजो मन्दाग्निर्मदविग्रहः । मानप्रदो विजयदो महाकालः सुरेश्वरः ॥ २०॥ अभयाङ्को वराङ्कश्च शशाङ्ककृतशेखरः । लेख्यो लिप्यो विलापी च प्रतापी प्रमथाधिपः ॥ २१॥ प्रख्यो दक्षो विमुक्तश्च रुक्षो दक्षमखान्तकः । त्रिलोचनस्त्रिवर्गेशः त्रिगुणी त्रितयीपतिः ॥ २२॥ त्रिपुरेशस्त्रिलोकेशस्त्रिनेत्रस्त्रिपुरान्तकः । त्र्यम्बकस्त्रिगतिः स्वक्षो विशालाक्षो वटेश्वरः ॥ २३॥ वटुः पटुः परं पुण्यं पुण्यदो दम्भवर्जितः । दम्भी विलम्भी विषेभिस्संरम्भी सङ्ग्रही सखा ॥ २४॥ विहारी चाररूपश्च हारी माणिक्यमण्डितः । विद्येश्वरो विवादी च वादभेद्यो विभेदवान् ॥ २५॥ भयान्तको बलनिधिर्बलिकः स्वर्णविग्रहः । महासीनो विशाखी च पृषट्की पृतनापतिः ॥ २६॥ अनन्तरूपोऽनन्तश्रीः षष्टिभागो विशाम्पतिः । प्रांशुः शीतांशुर्मुकुटो निरंशः स्वांशविग्रहः ॥ २७॥ निश्चेतनो जगत्त्राता हरो हरिणसम्भृतः । नागेन्द्रो नागत्वग्वासाः श्मशानालयचारकः ॥ २८॥ विचारी सुमतिः शम्भुः सर्वः खर्वोरुविक्रमः । ईशः शेषः शशी सूर्यः शुद्धसागर ईश्वरः ॥ २९॥ ईशानः परमेशानः परापरगतिः परम् । प्रमोदी विनयी वेद्यो विद्यारागी विलासवान् ॥ ३०॥ स्वात्मा दयालुर्धनदो धनदार्चनतोषितः । पुष्टिदस्तुष्टिदस्तार्क्ष्यो ज्येष्ठः श्रेष्ठो विशारदः ॥ ३१॥ चामीकरोच्चयगतः सर्वगः सर्वमण्डनः । दिनेशः शर्वरीशश्च सन्मदोन्माददायकः ॥ ३२॥ हायनो वत्सरो नेता गायनः पुष्पसायकः । पुण्येश्वरो विमानस्थो विमान्यो विमना विधुः ॥ ३३॥ विधिः सिद्धिप्रदो दान्तो गाता गीर्वाणवन्दितः । श्रान्तो वान्तो विवेकाक्षो दुष्टो भ्रष्टो निरष्टकः ॥ ३४॥ चिन्मयो वाङ्मयो वायुः शून्यः शान्तिप्रदोऽनघः । भारभृद्भूतभृद्गीतो भीमरूपो भयानकः ॥ ३५॥ तच्चण्डदीप्तिश्चण्डाक्षो दलत्केशः स्खलद्रतिः । अकारोऽथ निराकार इलेश ईश्वरः परः ॥ ३६॥ उग्रमूर्तिरुत्सवेश ऊष्मांशुरृणहा ऋणी । कल्लिहस्तो महाशूरो लिङ्गमूर्तिर्लसद्दृशः ॥ ३७॥ लीलाज्योतिर्महारौद्रो रुद्ररूपो जनाशनः । एणत्वगासनो धूर्त्तो धूलिरागानुलेपनः ॥ ३८॥ ऐं बीजामृतपूर्णाङ्गः स्वर्णाङ्गः पुण्यवर्धनः । ॐकारोकाररूपश्च तत्सर्वो अङ्गनापतिः ॥ ३९॥ अःस्वरूपो महाशान्तः स्वरवर्ण विभूषणः । कामान्तकः कामदश्च कालीयात्मा विकल्पनः ॥ ४०॥ कलात्मा कर्कशाङ्गश्च काराबन्धविमोक्षदः । कालरूपः कामनिधिः केवलो जगताम्पतिः ॥ ४१॥ कुत्सितः कनकाद्रिस्थः काशीवासः कलोत्तमः । कामी रामाप्रियः कुन्तः कवर्णाकृतिरात्मभूः ॥ ४२॥ खलीनः खलताहन्ता खेटेशो मुकुटाधरः । खं खड्गेशः खगधरः खेटः खेचरवल्लभः ॥ ४३॥ खगान्तकः खगाक्षश्च खवर्णामृतमज्जनः । गणेशो गुणमार्गेयो गजराजेश्वरो गणः ॥ ४४॥ अगुणः सगुणो ग्राम्यो ग्रीवालङ्कारमण्डितः । गूढो गूढाशयो गुप्तो गणगन्धर्वसेवितः ॥ ४५॥ घोरनादो घनश्यामो घूर्णात्मा घुर्घराकृतिः । घनवाहो घनेशानो घनवाहनपूजितः ॥ ४६॥ घनः सर्वेश्वरो जेशो घवर्णत्रयमण्डनः । चमत्कृतिश्चलात्मा च चलाचलस्वरूपकः ॥ ४७॥ चारुवेशश्चारुमूर्तिश्चण्डिकेशश्चमूपतिः । चिन्त्योऽचिन्त्यगुणातीतश्चितारूपः चिताप्रियः ॥ ४८॥ चितेशश्चेतनारूपश्चिताशान्तापहारकः । छलभृच्छलकृच्छत्री छत्रिकश्छलकरकः ॥ ४९॥ छिन्नग्रीवः छिन्नशीर्षः छिन्नकेशः छिदारकः । जेता जिष्णुरजिष्णुश्च जयात्मा जयमण्डलः ॥ ५०॥ जन्महा जन्मदो जन्यो वृजनी जृम्भणो जटी । जडहा जडसेव्यश्च जडात्मा जडवल्लभः ॥ ५१॥ जयस्वरूपो जनको जलधिर्ज्वरसूदनः । जलन्धरस्थो जनाध्यक्षो निराधिराधिरस्मयः ॥ ५२॥ अनादिर्जगतीनाथो जयश्रीर्जयसागरः । झङ्कारी झलिनीनाथः सप्ततिः सप्तसागरः ॥ ५३॥ टङ्कारसम्भवो टाणुः टवर्णामृतवल्लभः । टङ्कहस्तो विटङ्कारो टीकारो टोपपर्वतः ॥ ५४॥ ठकारी च त्रयः ठः ठः स्वरूपो ठकुरोबली । डकारी डकृतीडम्बडिम्बानाथो विडम्बनः ॥ ५५॥ डिल्लीश्वरो हि डिल्लाभो डङ्काराक्षर मण्डनः । ढवर्णी दुल्लियज्ञेशो ढम्बसूची निरन्तकः ॥ ५६॥ णवर्णी शोणिनोवासो णरागी रागभूषणः । ताम्रापस्तपनस्तापी तपस्वी तपसां निधिः ॥ ५७॥ तपोमयस्तपोरूपस्तपसां फलदायकः । तमीश्वरो महाताली तमीचरक्षयङ्करः ॥ ५८॥ तपोद्योतिस्तपोहीनो वितानी त्र्यम्यबकेश्वरः । स्थलस्थः स्थावरः स्थाणुः स्थिरबुद्धिः स्थिरेन्द्रियः ॥ ५९॥ स्थिरङ्कृती स्थिरप्रीतिः स्थितिदः स्थितिवांस्तथा । दम्भी दमप्रियो दाता दानवो दानवान्तकः ॥ ६०॥ दानवान्यनी? धर्माधर्मो धर्मगतिर्धनवान्धनवल्लभः । धनुर्धरो धनुर्धन्यो धीरेशो धीमयो धृतिः ॥ ६१॥ धकारान्तो धरापालो धरणीशो धराप्रियः । धराधरो धरेशानो नारदो नारसोरसः ॥ ६२॥ सरसो विरसो नागो नागयज्ञोपवीतवान् । नुतिलभ्यो नुतीशानो नुतितुष्टो नुतीश्वरः ॥ ६३॥ पीवराङ्ग पराकारः परमेशः परात्परः । पारावारः परं पुण्यं परामूर्तिः परं पदम् ॥ ६४॥ परोगम्यः परन्तेजः परंरूपः परोपकृत् । पृथ्वीपतिः पतिः पूतिः पूतात्मा पूतनायकः ॥ ६५॥ पारगः पारदृश्वा च पवनः पवनात्मजः । प्राणदोऽपानदः पान्थः समानव्यानदो वरम् ॥ ६६॥ उदानदः प्राणगतिः प्राणिनां प्राणहारकः । पुंसां पटीयान्परमः परमं स्थानकः पविः ॥ ६७॥ रविः पीताननः पीठं पाठीनाकृतिरात्मवान् । पत्री पीतः पवित्रं च पाठनं पाठनप्रियः ॥ ६८॥ पार्वतीशः पर्वतेशः पर्वेशः पर्वघातनः । फणी फणिद ईशानः फुल्लहस्तः फणाकृतिः ॥ ६९॥ फणिहारः फणिमूर्तिः फेनात्मा फणिवल्लभः । बली बलिप्रियो बालो बालालापी बलन्धरः ॥ ७०॥ बालको बलहस्तश्च बलिभुग्बालनाशनः । बलिराजो बलङ्कारी बाणहस्तोऽर्धवर्णभृत् ॥ ७१॥ भद्री भद्रप्रदो भास्वान्भामयो भ्रमयोनयः । भव्यो भावप्रियो भानुर्भानुमान्भीमनन्दकः ॥ ७२॥ भूरिदो भूतनाथश्च भूतलं सुतलं तलम् । भयहा भावनाकर्ता भवहा भवघातकः ॥ ७३॥ भवो विभवदो भीतो भूतभव्यो भवप्रियः । भवानीशो भगेष्टश्च भगपूजनपोषणः ॥ ७४॥ मकुरो मानदो मुक्तो मलिनो मलनाशनः । मारहर्ता महोधिश्च महस्वी महतीप्रियः ॥ ७५॥ मीनकेतुर्महामारो महेष्वा मदनान्तकः । मिथुनेशो महामोहो मल्लो मल्लान्तको मुनिः ॥ ७६॥ मरीचिः रुचिमान्योगी मञ्जुलेशोऽमराधिपः । मर्दनो मोहमर्दी च मेधावी मेदिनीपतिः ॥ ७७॥ महीपतिः सहस्रारो मुदितो मानवेश्वरः । मौनी मौनप्रियो मासः पक्षी माधव इष्टवान् ॥ ७८॥ मत्सरी मापतिर्मेषो मेषोपहारतोषितः । माणिक्यमण्डितो मन्त्री मणिपूरनिवासकः ॥ ७९॥ मन्दमुन्मदरूपश्च मेनकी प्रियदर्शनः । महेशो मेघरूपश्च मकरामृतदर्शनः ॥ ८०॥ यज्ज्वा यज्ञप्रियो यज्ञो यशस्वी यज्ञभुग्युवा । योधप्रियो यमप्रियो यामीनाथो यमक्षयः ॥ ८१॥ याज्ञिको यज्ञमानश्च यज्ञमूर्तिर्यशोधरः । रविः सुनयनो रत्नरसिको रामशेखरः ॥ ८२॥ लावण्यं लालसो लूतो लज्जालुर्ललनाप्रियः । लम्बमूर्तिविलम्बी च लोलजिह्वो लुलुन्धरः ॥ ८३॥ वसुदो वसुमान्वास्तुवाग्भवो वटुको वटुः । वीटीप्रियो विटङ्की च विटपी विहगाधिपः ॥ ८४॥ विश्वमोदी विनयदो विश्वप्रीतो विनायकः । विनान्तको विनांशको वैमानिको वरप्रदः ॥ ८५॥ शम्भुः शचीपतिः शारसमदो वकुलप्रियः । शीतलः शीतरूपश्च शावरी प्रणतो वशी ॥ ८६॥ शीतालुः शिशिरः शैत्यः शीतरश्मिः सितांशुमान् । शीलदः शीलवान् शाली शालीनः शशिमण्डनः ॥ ८७॥ शण्डः शण्टः शिपिविष्टः षवर्णोज्ज्वलरूपवान् । सिद्धसेव्यः सितानाथः सिद्धिकः सिद्धिदायकः ॥ ८८॥ साध्यो सुरालयः सौम्यः सिद्धिभूः सिद्धिभावनः । सिद्धान्तवल्लभः स्मेरः सितवक्त्रः सभापतिः ॥ ८९॥ सरोधीशः सरिन्नाथः सिताभश्चेतनासमः । सत्यपः सत्यमूर्तिश्च सिन्धुराजः सदाशिवः ॥ ९०॥ सदेशः सदनासूरिः सेव्यमानः सताङ्गतिः । सताम्भाव्यः सदानाथः सरस्वान्समदर्शनः ॥ ९१॥ सुसन्तुष्टः सतीचेतः सत्यवादी सतीरतः । सर्वाराध्यः सर्वपतिः समयी समयः स्वयम् ॥ ९२॥ स्वयम्भूः स्वयमात्मीयः स्वयम्भावः समात्मकः । सुराध्यक्षः सुरपतिः सरोजासनसेवकः ॥ ९३॥ सरोजाक्षनिषेव्यश्च सरोजदललोचनः । सुमतिः कुमतिः स्तुत्यः सुरनायकनायकः ॥ ९४॥ सुधाप्रियः सुधेशश्च सुधामूर्तिः सुधाकरः । हीरको हीरवांश्चैव हेतुः हाटकमण्डनः ॥ ९५॥ हाटकेशो हठधरो हरिद्रत्नविभूषणः । हितकृद्धेतुभूतश्च हास्यदो हास्यवक्त्रकः ॥ ९६॥ हारो हारप्रियो हारी हविष्मल्लोचनो हरिः । हविष्मान्हविभुग्वाद्यो हव्यं हविर्भुजां वरः ॥ ९७॥ हंसः परमहंसश्च हंसीनाथो हलायुधः । हरिदश्वो हरिस्तुत्यो हेरम्बो लम्बितोदरः ॥ ९८॥ क्षमापतिः क्षमः क्षान्तः क्षुराधारोऽक्षिभीमकः । क्षितिनाथः क्षणेष्टश्च क्षणवायुः क्षवः क्षतः ॥ ९९॥ क्षीणश्च क्षणिकः क्षामः क्षवर्णामृतपीठकः । अकारादि क्षकारान्ता विद्यामालाविभूषणः ॥ १००॥ स्वर व्यञ्जन भूषाढ्यो ह्रस्व दीर्घ विभूषणः । ॐ क्ष्मृं महाभैरवेशी ॐ श्रीं भैरवपूर्वकः ॥ १०१॥ ॐ ह्रीं वटुकभावेशो ॐ ह्रीं वटुकभैरवः । ॐ क्लीं श्मशानवासी च ॐ ह्रीं श्मशानभैरवः ॥ १०२॥ मैं भद्रकालिकानाथः क्लीं ॐ ह्रीं कालिकापतिः । ऐं सौः क्लीं त्रिपुरेशानो ॐ ह्रीं ज्वालामुखीपतिः ॥ १०३॥ ऐं क्लीं सः शारदानाथो ॐ ह्रीं मार्तण्डभैरवः । ॐ ह्रीं सुमन्तुसेव्यश्च ॐ श्रीं ह्रीं मत्तभैरवः ॥ १०४॥ ॐ श्रीं उन्मत्तचित्तश्च ॐ श्रीं उं उग्रभैरवः । ॐ श्रीं कठोरदेशश्च ॐ श्रीं ह्रीं कठोरभैरवः ॥ १०५॥ ॐ श्रीं कामान्धकध्वंसी ॐ श्रीं कामान्धभैरवः । ॐ श्रीं अष्टस्वरश्चैव ॐ श्रीं अष्टकभैरवः ॥ १०६॥ ॐ श्रीं ह्रीं अष्टमूर्तिश्च ॐ श्रीं चिन्मूर्तिभैरवः । ॐ ह्रीं हाटकवर्णश्च ॐ ह्रीं हाटकभैरवः ॥ १०७॥ ॐ श्रीं शशाङ्क वदनः ॐ श्रीं शीतलभैरवः । ॐ श्रीं शिवारुतश्चैव ॐ श्रीं शारूकभैरवः ॥ १०८॥ ॐ श्रीं अहंस्वरूपश्च ॐ ह्रीं श्रीमुण्डभैरवः । ॐ श्रीं मनोन्मनश्चैव ॐ श्रीं मङ्गलभैरवः ॥ १०९॥ ॐ श्रीं बुद्धिमयश्चैव ॐ श्रीं भैम्बुद्धभैरवः । ॐ श्रीं ऐं क्लीं नागमूर्तिः ॐ श्रीं ह्रीं नागभैरवः ॥ ११०॥ ॐ श्रीं क्लीं कूर्ममूर्तिश्च ॐ श्रीं कृकरभैरवः । ॐ ह्रीं श्रीं देवदत्तश्च ॐ श्रीं क्लीं दत्तभैरवः ॥ १११॥ ॐ ह्रीं धनञ्जयश्चैव ॐ श्रीं धनिकभैरवः । ॐ श्रीं ह्रीं रसरूपश्च ॐ श्रीं रसिकभैरवः ॥ ११२॥ ॐ श्रीं स्पर्शरूपश्च ॐ श्रीं ह्रीं स्पर्शभैरवः । ॐ श्रीं ह्रीं क्लीं स्वरूपश्च ॐ श्रीं ह्रीं रूपभैरवः ॥ ११३॥ ॐ श्रीं सत्त्वमयश्चैव ॐ श्रीं ह्रीं सत्त्वभैरवः । ॐ श्रीं रजोगुणात्मा च ॐ श्रीं राजसभैरवः ॥ ११४॥ ॐ श्रीं तमोमयश्चैव ॐ श्रीं तामसभैरवः । ॐ श्रीं धर्ममयश्चैव ॐ हीं वै धर्मभैरवः ॥ ११५॥ ॐ श्रीं ह्रीं मध्यचैतन्यो ॐ श्रीं चैतन्यभैरवः । ॐ श्रीं ह्रीं क्षितिमूर्तिश्च ॐ ह्रीं क्षात्रिकभैरवः ॥ ११६॥ ॐ श्रीं ह्रीं जलमूर्तिश्च ॐ ह्रीं जलेन्द्रभैरवः । ॐ श्रीं पवनमूर्तिश्च ॐ ह्रीं पीठकभैरवः ॥ ११७॥ ॐ श्रीं हुताशमूर्तिश्च ॐ ह्रीं हालाखभैरवः । ॐ श्रीं ह्रीं सोममूर्तिश्च ॐ श्रीं ह्रीं सौम्यभैरवः ॥ ११८॥ ॐ श्रीं ह्रीं सूर्यमूर्तिश्च ॐ श्रीं सौरेन्द्रभैरवः । ॐ जूं सः हंसरूपश्च हं सः जुं ॐ मृत्यञ्जयः । ॐ चत्वारिंशदधिको ॐ श्रीं अघोरभैरवः ॥ ११९॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्ते रुद्ररूपेभ्यः ॥ १२०॥ भैरवेशोऽभयवरदाता देवजनप्रियः । ॐ श्रीं ह्रीं क्लीं क्ष्म्युं देवी वै अघोरदर्शनः ॥ १२१॥ ॐ श्रीं सौन्दर्यवान्देवो ॐ अघोरकृपानिधिः । सहस्रनाम इति नाम्नां सहस्रं तु अघोरस्य जगत्प्रभुः ॥ १२२॥ तव भक्त्या मयाख्यातं त्रिषु लोकेषु दुर्लभम् । अप्रकाश्यमदातव्यं गोप्तव्यं शरजन्मनः ॥ १२३॥ बल्यं बलप्रदं स्तुत्यं स्तवनीयं स्तवोत्तमम् । पठेद्वा पाठयेन्नित्यं ध्यायेच्चेतसि नित्यशः ॥ १२४॥ अद्रष्टव्यमदीक्षाय गोप्तव्यं पशुसङ्कटे । नातः परतरं किञ्चित्सर्वस्वं नास्ति मे हृदि ॥ १२५॥ पुण्यदं पुण्यमात्मीयं सकलं निष्कलं परम् । पठेन्मन्त्री निशीथे तु नग्नः श्रीमुक्तकुन्तलः ॥ १२६॥ अनन्तं चित्सुधाकारं देवानामपि दुर्लभम् । शक्त्या युक्तो जपेन्नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १२७॥ तत्क्षणात्साधकः सत्यं जीवन्मुक्तो भविष्यति । भौमेऽर्क शनिवारे तु श्मशाने साधकः पठेत् ॥ १२८॥ सद्यस्तस्य स्वयं देवो वरदस्तु भविष्यति । दशावर्त्तं पठेद्रात्रौ नदीतीरेषु धैर्यवान् ॥ १२९॥ तस्य हस्ते सदा सन्ति त्र्यम्बकस्याष्टसिद्धयः । मध्याहे शिवरात्रौ च निशीथे विविधे पठेत् ॥ १३०॥ इन्द्रादयः सुरगणा वशमेष्यन्ति नान्यथा । गुरौ ब्राह्ममुहूर्ते तु पठेद्भक्त्या च साधकः ॥ १३१॥ यावदिन्द्रः सभामध्ये तदग्रे मूकवत् भवेत् । शुक्रे नद्या जले मन्त्री पठेन्नाम्नां सहस्रकम् ॥ १३२॥ तदाप्रभृति त्रैलोक्यं मोहमेष्यति नान्यथा । भौमे वनान्तरे मन्त्री पठेत्सन्ध्यानिधौ तदा ॥ १३३॥ शत्रुः कालसमानोऽपि मृत्युमेष्यति नान्यथा । त्रिसन्ध्योदयकाले तु पठेत्साधकसत्तमः ॥ १३४॥ रम्भाद्यप्सरसः सर्वा वशमायान्ति तत्क्षणात् । भौमे मध्याह्नसमये पठेच्च कूपसन्निधौ ॥ १३५॥ सद्यो देवि महान्तं कारिपुमुच्चाटयेद्ध्रुवम् । सद्यस्त्रिवारं पठेन्नाम्नां सहस्रमुत्तमम् ॥ १३६॥ इहलोके भवेद्भोगी परे मुक्तिर्भविष्यति । अर्कवारे समालिख्य भूर्जत्वचि च साधकः ॥ १३७॥ कुङ्कुमालक्तकस्तूरी गोरोचन मनःशिलाः । सर्वाद्यैर्वसुभिर्मन्त्री वेष्टयेत्ताम्ररज्जुना ॥ १३८॥ धारयेन्मूर्ध्नि सद्यस्तु लभेत्कामान्यथेप्सितान् । पुत्रान्दारांश्च लक्ष्मीं च यशो धर्मं धनानि च ॥ १३९॥ लभते नात्र संशयः सत्यमेतद्वचो मम । विनानेन महादेवि पठेद्यः कवचं शुभम् ॥ १४०॥ तस्य जीवं धनं पुत्रान् दारान्भक्षन्ति राक्षसाः । विनानेन जपेत् विद्यामघोरस्य च साधकः ॥ १४१॥ तस्य कोटि जपं व्यर्थं सत्यमेतद्वचो मम । बहुनात्र किमुक्तेन सहस्राख्यं स्तवोत्तमम् ॥ १४२॥ यद्गृहे वा जपेद्यस्तु श्रावयेद्वा श‍ृणोति यः । स स्वयं नीलकण्ठोऽहं तत्कलत्रं महेश्वरी ॥ १४३॥ इदं रहस्यं परमं भक्त्या तव मयोदितम् । अत्यन्तदुर्लभं नाके तथात्यन्तं महीतले ॥ १४४॥ भूमौ च दुर्लभं देवि गोपनीयं दुरात्मनः । अघोरस्य महादेवि तत्त्वं परमतत्त्वकम् ॥ १४५॥ अतीव मधुरं हृद्यं परापररहस्यकम् । विना बलिं विना पूजां न रक्ष्यः साधकोत्तमः ॥ १४६॥ पठनीयं दिवारात्रौ सिद्धयोऽष्टौ भवन्ति हि । इदं रहस्यं परमं रहस्यातिरहस्यकम् ॥ १४७॥ अप्रकाश्यमदातव्यमवक्तव्यं दुरात्मने । यथेष्टफलदं सद्यः कलौ शीघ्रफलप्रदम् ॥ १४८॥ गोप्यं गुप्ततरं गूढं गुप्तं पुत्राय पार्वति । गोपनीयं सदागोप्यं गोप्तव्यं च स्वयोनिवत् ॥ १४९॥ इति श्रीरुद्रयामले तन्त्रे भैरव-भैरवी संवादे अघोरमूर्तिसहस्रनामस्तवः सम्पूर्णः ॥ Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : aghoramUrtisahasranAmastotram 1
% File name             : aghoramUrtisahasranAmastotram.itx
% itxtitle              : aghoramUrtisahasranAmastotram 1
% engtitle              : aghoramUrtisahasranAmastotram 1
% Category              : shiva, sahasranAma
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 5, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org