ऋषिगौतमप्रोक्तं भावलिङ्गपूजनम्

ऋषिगौतमप्रोक्तं भावलिङ्गपूजनम्

विश्वासो यत्र भक्तस्य यत्र पूज्यत्वधीरपि । तदेव लिङ्गं तत्पूज्यं सर्वसिद्धिप्रदं भवेत् ॥ १॥ यदेव लिङ्गसम्बन्धघनचन्दनगोलकैः । तत्रार्पितं बिल्वपत्रं भुक्तिमुक्तिप्रदं न किम् ॥ २॥ अनुलिप्तं चन्दनाद्यैः लिङ्गमभ्यर्चयेदिति । श्रुतिश्चन्दनसम्बन्धं न दूरीकर्तुमिच्छति ॥ ३॥ समर्पितेषु पुष्पेषु पुनः पुष्पसमर्पणम् । पुष्पेषु क्रियते तेषु पुनः पुष्पसमर्पणम् ॥ ४॥ भावलिङ्गं तु भावेन शुद्धभावेन निर्मितम् । तत्रार्चनं कृतं तेन स्वसिद्ध्यै तद्भविष्यति ॥ ५॥ ततस्तद्भावलिङ्गस्य भावपूर्वार्चनेन तु । भवत्येव महद्भाग्यं स्वस्वभावानुरोधतः ॥ ६॥ तद्भावलिङ्गे दृष्टेऽपि तुष्टिर्वृष्टिर्भविष्यति । पुष्टिर्वृष्टिश्च तेनैव शुभवृद्धिर्भविष्यति ॥ ७॥ अयं तीर्थश्वरस्तत्र भावलिङ्गे मनोहरे । तत्कृतं पूजनं सर्वं स्वीकरिष्यति सादरम् ॥ ८॥ तीर्थेश्वरलिङ्गनिर्माल्यं चन्दनं च समर्पितम् । ददाति सिद्धिं तल्लिङ्गं तीर्थेशाधिष्ठितं यतः ॥ ९॥ तीर्थेश्वराभिमानस्तु स्वनिर्माल्येष्वविच्युतः । ततस्तदभिमानस्य निलयं लिङ्गमुत्तमम् ॥ १०॥ अस्य देवाधिदेवस्य तीर्थशस्यावलोकनात् । स्मरणादपि सिद्धयन्ति फलानि विविधान्यपि ॥ ११॥ तीर्थेशनिकटे यत्तु तीर्थं पापविनाशनम् । तदीक्षणात् पापनाशः स्नानात् सिद्धिमवाप्नुयात् ॥ १२॥ तत्तीरे यस्तनुत्यागं तीर्थेशस्मरणोत्सुकः । करिष्यति स पुण्यात्मा याति तीर्थेशरूपताम् ॥ १३॥ इदे पाशुपतस्थानं महापाशुपताश्रितम् । तत्राधिकारः शैवानां वासो नान्यस्य सर्वथा ॥ १४॥ अत्र पाशुपते मुक्तिः प्राप्ता पूव महात्मभिः । अग्रेऽपि मुक्तिः प्राप्तव्या महापाशुपतैरिह ॥ १५॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं भावलिङ्गपूजनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३७। ३-१७ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 37. 3-17 .. Proofread by Ruma Dewan
% Text title            : Rishigautamaproktam Bhavalingapujanam
% File name             : bhAvalingapUjanaMRRiShigautamaproktam.itx
% itxtitle              : bhAvaliNgapUjanaM RiShigautamaproktam (shivarahasyAntargatam)
% engtitle              : bhAvalingapUjanaM RiShigautamaproktam
% Category              : shiva, pUjA, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 37| 3-17 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org