श्रीभृङ्गीस्तवः

श्रीभृङ्गीस्तवः

शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक । शर्वोग्राभय भर्ग भीम जगतां नाथाक्षर श्रीनिधे रुद्रेशान महेश्वरेश्वर महादेवेश तुभ्यं नमः ॥ १॥ स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमक्षेत्रस- च्चिद्रूपाखिलभव्यभूतभवतां नाथ प्रपन्नार्तिहन् । पापघ्नाशुभदुःखपाशभयहृद्भक्तेष्टद ज्ञानद श्रीदातर्क्य षडङ्गमोक्षद महायोगीश तुभ्यं नमः ॥ २॥ क्रूरं कष्टतमं विनष्टमनसं भ्रष्टं शठं निष्ठुरं निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् । आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३॥ मूर्खं बालमतं स्वधर्मचलितं धर्मार्थहीनं खलं कामान्धं क्षणिकं कदर्थनपरं दौःशील्यजन्मस्थलम् । अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवर्जितं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४॥ क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूचकम् । आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं (हतधियं) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५॥ आकाङ्क्षाश्रयमार्यवृत्तिविमुखं क्षीणं गुणद्वेषिणं धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र सन्देहिनम् । हीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ६॥ अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं रुषा संसारार्णवमग्नमूर्मिनिहतं नीचक्रियं निर्दयम् । (ऊर्मितरलं, नीचप्रियं) वैराग्यव्रतदानयोगनियमद्वेष्टारमुन्मादिनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ७॥ द्वन्द्वग्रस्तमशस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् । शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ८॥ स्वप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं ध्यानध्येयविचराणाकुलरिपुं तुच्छं मदोच्छृङ्खलम् । दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ९॥ दुर्मर्यादमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं सद्धर्माद्यसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् । (सद्धर्मेष्वसमुत्सुकं) शिष्टानिष्टकरक्रियापरिचितं दुष्टप्रतुष्टिप्रदं (दुष्टस्य तुष्टि) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १०॥ आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् । वैफल्योपगतस्वकार्यनिचयं सर्वापदां सञ्चयं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ११॥ कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महा पातकं (महा वञ्चकम्) दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तिवृत्त्याश्रयम् । मिथ्याज्ञानिनमार्यकण्टकमलं लोकद्वये दुःखितं (लोकत्रये दूषितम्) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १२॥ दुष्कर्मप्रचयप्रभिन्नहृदयं क्लेशैश्च सम्पीडितं (प्रचये प्रहृष्ट, सम्पिण्डितं) चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् । (कुचेलमलिनं) भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं (धैर्यद्विषं) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १३॥ चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं सारासारविचारहीनमनसं नीचप्रियं नीरसम् । मत्तोन्मत्तनिकृष्टकष्टचरितं शून्यं वृथालापिनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १४॥ आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं सङ्कल्पैर्बहुभिर्वि भिन्नहृदयं दैत्य(न्य)प्रसक्तं सदा । मर्मच्छिद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १५॥ वेदोक्ताचरणे शिगा(ध्रुगा)त्मचरितं स्वेच्छाप्रवृत्तिं सदा सच्छास्त्रेष्वपरागिणं प्रियतमालक्ष्मीगुणैर्वेष्टितम् । दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकनिष्ठं सदा कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १६॥ सत्यत्यागदयाक्षमाशमदमाद्यार्थानभिज्ञात्मकं देवब्राह्मणगोत्रजातिथिपितृज्ञानात्मकापूजकम् । विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १७॥ कृत्वाधर्ममतिं कथञ्चिदपरः को मत्समोऽस्मिन् भवे- दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् । (भ्रान्या स्थितं) दृष्टादृष्टसुखैषिणं बत मुधा मुक्त्वा शिवाराधनं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १८॥ मार्जाराखुबकश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् । त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ १९॥ अस्पृश्यं विकलं कदर्यमखिले दोषे स्वकीये गुणं पश्यन्तं चलमात्मकार्यनिरतं त्याज्यं विषादात्मकम् । चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २०॥ दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं डासी(दासी)मेषखरस्वभावमपटुं सन्माननाभाजनम् । रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा (तिक्तं बालक) कारुण्याकर भो पितः पशुपते दोषाकरं पाहिमाम् ॥ २१॥ कर्माख्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं (दुष्कार्यालघु) संसारार्णवदुःखपङ्कपतितं यान्तं त्वधोऽधो भृशम् । स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २२॥ भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं सम्भ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् । शम्भो त्वत्पदभक्तिहीनमदृढं सम्मूढमात्मद्विषं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २३॥ ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं स्वप्नेऽप्यल्पपरोपकाररहितं सर्वाहितं दुर्बलम् । लोके सत्परिहार्यनिन्दितमहादुःखप्रदैकक्रियं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २४॥ किं वाचां बहुविस्तरेण भगवन् मत्सन्निभो भूतले नाभून्नास्ति च नो भविष्यति पुमान्निर्भाग्यचूडामणिः । तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २५॥ सर्वश्रेष्ठ गुणैकभाजन विभो सर्वोत्तमेषूत्तमा- सङ्ख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् । श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निःसङ्ग दुःसङ्गिनं (श्रीशं, अतीन्द्रिय, निस्सङ्ग, इमानि सम्बोधनानि) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २६॥ विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं दुर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् । दृष्ट्वापि स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २७॥ त्वक्शुक्लान्त्रसिरातनूरुहमयं कालास्यरन्ध्रस्थितं नानापायपतिष्णुकालशिखिना पापच्यमानं भृशम् । दृष्ट्वापि स्वकलेवरं कृशतरं तत्राविरिक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २८॥ विष्ठामूत्रयुतं त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं कुष्टक्षैण्यविषूचिकाज्वरशिरःशूलादिरोगास्पदम् । ज्ञात्वापि स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ २९॥ पङ्गुत्वान्ध्यजरित्वमौर्ख्यखलताबाधिर्यजन्मस्थलं क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् । सम्पश्यन्नपि दोषमत्र तु सदा सम्प्रीतियुक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३०॥ देहं क्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा छन्नक्लिन्नमहाव्रणं नवमुखैर्नित्यं स्रवन्तं मलम् । तं दृष्ट्वाप्यविरागिणं च नरके नूनं सरागं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३१॥ लोकेऽत्यन्तपवित्रतामुपगतं यत्पञ्चगव्यादिकं यद्देहांशकमस्थिरोमरुधिरस्नाय्वादिसंस्पर्शतः । स्यादेवाशुचि तद्विबुध्य च सदा तद्देहसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३२॥ आत्माधारतया स्थितां निजतनुं बाल्ये तथा यौवने वृद्धत्वेऽपि बहुप्रकारविकृतिं प्राप्तां समीक्ष्यापि च । तत्रानात्मविरागिणं ह्यविकृते स्वात्मन्यसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३३॥ स्वस्यायुर्निचयस्य मध्यत इमौ नित्यं निशावासकां(वासरौ) जाग्रत्स्वप्नसुषुप्तिषु स्थितिमतोऽवस्थात्रये खण्डशः । गच्छन्ताववबुध्य च स्वहितसत्कर्मण्यसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३४॥ शुद्धान्नस्य निजास्यरन्ध्रत इहान्वास्य द्रवेणाधरे(?) विण्मूत्रान्त्रकफासृगाद्यशुचिनिक्षेपो भवेद्भोजनम् । स्त्रीसङ्गोऽशुचिवर्गलेपनमहो तत्रापि रक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३५॥ सर्पिःखण्डपयोमधुप्रभृतिकं त्यक्त्वा तृणान्यत्ति गौ- र्यद्वच्छाश्वतशान्त उत्तम(न्तिदोत्तम) महानन्दानपेक्षं तथा । शम्भो वैषयिके सुखेऽतिविरसे तुच्छेऽतिसक्तं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३६॥ देवानामपि मारुतस्य च विभो गम्यं न यत्तत्र च स्वैरं गच्छति मन्मनो न हि कदाचिद्वा तव श्रीपते । धर्तुं तच्च नियन्तुमत्र सुखदे नैवासमर्थं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३७॥ गुह्ये कुङ्कुमगन्धकाङ्क्षिणमहो तोयार्थिनं वा मरौ तैलान्वेषिणमश्मचूर्णनिचये मैत्र्यर्थिनं दुर्जने । निर्बुद्धिं त्रिगुणात्मके मलविधौ क्षेत्रे सुखेप्सुं पशुं (?) कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३८॥ वेदैरप्यखिर्लैमहेश बहुशो वेदान्तशास्त्रादिभि- र्व्यापी चिन्मय एक ईश्वर इति प्रोक्तेऽत्र यत्त्वत्पदे । चित्तं धर्तुमशक्तमाप्तवचने विश्वासहीनं पशुं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ३९॥ बुद्धिज्ञानदयाक्षमाशमदमासम्मोहयत्वा(त्ना)र्जव- ख्यात्यख्यातिभयाभयासुखसुखाहिंसादयस्तुष्टयः । भूतानां तु भवत्त एव विविधा नित्यं भवन्ति प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहिमाम् ॥ ४०॥ भावाभावभवाभवामृतविषासत्याः समस्ताः(विषाःसत्या असत्याः)क्रियाः दीर्घायुष्यनिरामयत्वनिखिलाभीष्टार्थसंसिद्धयः । भूतानां भवदिच्छयैव भगवन् जायन्त एव प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४१॥ योगैश्वर्यसमस्तदाननिरता(तिः) श्रद्धात्मभक्तिर्दृढा वैराग्यं परमं महेश परमे धर्मे रतिश्चारुता । भूतानां भवतः प्रसादत इहाजस्रं भवन्ति प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४२॥ वायुर्वापि(ति)तवाज्ञया शशिरवी नित्यं जगद्भासका- वाहारं पचतीह कुक्षिसदने वह्निः सदा प्राणिनाम् । देवानां वहतीह हव्यमपि यः पाकं करोत्याज्ञया कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४३॥ ब्रह्माद्यास्तृणनिग्रहा इह महाभूतानि ते शासनात् कुर्वन्त्यत्र समस्तदेहनिकरे प्रायस्तवाज्ञाबलात् । तिष्ठन्त्यध्यवसायमर्थनिकरे बुद्धिः करोत्याज्ञया कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४४॥ चित्तं चेतयते मनस्तु सकलं सङ्कल्पयत्याज्ञया सर्वार्थानभिमन्यते तव महादेवाज्ञयाहङ्कृतिः । स्वेष्वेवेन्द्रियवर्ग एष विषयेष्वास्ते तवैवाज्ञया कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४५॥ ब्रह्मा सृष्टिकरो हरिः स्थितिकरो रुद्रस्तु कालात्मकः संहर्ता जगतां श्रियं वितरति श्रीर्ब्रह्मविद्यामुमा । सावित्री च तवाज्ञयैव नरकात् सन्तारयत्याश्रितान् कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४६॥ कालं(नालं)चालयितुं तृणं च पवनः शम्भो त्वदाज्ञां विना दग्धुं तन्न समर्थ एव दहनश्छेत्तुं तु वज्रेण तत् । शक्तो गोत्रभिदप्यहो जगदिदं सर्वं त्वदाज्ञावशं कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४७॥ सेन्द्राः सर्वसुरासुरादय इह त्वच्छासने संस्थिताः ब्रह्माण्डादिसमस्तवस्तुनिकरैः साधारणैः सन्ततम् । त्रैलोक्यानुगतान्यपीह सुबहून्याज्ञावशान्येव ते कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४८॥ भूतान्याप इहाज्ञयैव भवतः सञ्जीवयन्ति प्रभो वाचं वाग्विपुलां दधाति जगतां धत्तेऽखिलं भूर्नभः । भूतानामवकाशदं जलधयो निम्ने स्थिता दुःसहाः कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ४९॥ सूतेऽसौ महदादिकं प्रकृतिरप्याज्ञावशात्ते विभो कालश्च प्रकृतिः परा पुरुष इत्येतद्धि सर्वं सदा । शम्भो देव भवत्त एव जगतो भूतं भविष्यद्भवत् कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५०॥ त्वन्मायातिविमोहितं भव महालीलार्थमेतत्त्वया- त्तं त्वत्प्रेरणयैव सर्वविषयेष्वत्र प्रवृद्धिं(द्धं) च तत् । पापध्वान्तरवे समस्तजगतां दुःखान्तकारिन् प्रभो कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५१॥ बन्धच्छेदविधौ त्वमेव भुवनेष्वेकः समर्थो ध्रुवं तत्पाशैर्भव दैव(भवतैव)बद्धमखिलं कर्मच्छलेनापि च । शम्भो त्वच्छरणागतं करुणया त्वं शङ्करो येन वा कारुण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५२॥ अत्यावेशिनमुत्तमस्थितिमतां सन्त्यागिनं नास्तिकं रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः । माहात्म्यश्रवणस्तुतीक्षणविधौ माहेश्वरावत्सलं कारण्याकर भो पितः पशुपते दोषाकरं पाहि माम् ॥ ५३॥ ॥ इति श्रीभृङ्गीस्तवः सम्पूर्णः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Bhrringi Stava 02 56
% File name             : bhRRingIstavaH.itx
% itxtitle              : bhRiNgIstavaH
% engtitle              : bhRingIstavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-56
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org