श्रीबिल्हणस्तवः

श्रीबिल्हणस्तवः

सन्तु सहस्रं देवास्तद्गुणदोषोक्तिभिः किमस्माकम् । शिवमेव वर्णयामः पुनरपि शिवमेव शिवमेव ॥ १॥ धत्से मूर्ध्नि सुधामयूखशकलं श्लाघ्ये कपालस्रजं वक्षस्यद्रिसुताकुचागरुरजःसान्द्रं चिताभस्म च । तद्बाणादिकविप्रणीतललितस्तोत्रप्रबन्धप्रिये त्वत्कर्णे लभतामयं मम गिरां गुम्भोऽपि सम्भावनाम् ॥ २॥ पञ्चब्रह्मषडङ्गबीजमुखरप्रासादपञ्चाक्षर- व्योमव्यापिपुरःसरेषु मनुषु प्रौढिः कुतो मादृशाम् । ओङ्कारादिनमोऽन्तमुद्रितभवन्नामावलीकल्पितं सर्वं मन्त्रतया प्रभो परिणमत्यन्तर्बहिर्यागयोः ॥ ३॥ सर्वेषां हृदि विद्यसे शिव ततस्त्वद्ध्यानयोगेन किं विश्वस्योपरि वर्तसे यदि ततस्त्वत्पादमूलेन किम् । त्रैलोक्यं त्वयि लीयते यदि तदा त्वत्प्राप्त्युपायैरलं सर्वं चापि तवैव तत्त्वमपरं दैवं न रोचिष्यते ॥ ४॥ प्रासादैस्तव किं श्मशानवसतेः स्नानैः किमस्थिस्पृशः किं वस्त्रैश्च दिगम्बरस्य भसितालेपस्य गन्धैश्च किम् । किं धूमैः शवधूमधूम्रवपुषः किं कालकूटाशिनो नैवेद्यैरपि भक्तिमात्रसुलभं त्वां देव सेवामहे ॥ ५॥ वदन्ति चेतश्चपलस्वभावं जल्पन्ति दोषान् कवयो गुणाय । तद्यत्र कुत्रापि विलीयमानं कदाचन त्वय्यपि धावतीति ॥ ६॥ एनांसि मानसिकवाचिककायिकानि कुर्मस्तथापि चरणं शरणं ददी(दे)थाः । यो दोषवन्तमपि रक्षति रक्षितासौ को(किं)वा न रक्षति निरागसमिन्दुमौले ॥ ७॥ आयुषि महति विलम्बो भवति भवत्पादपङ्कजप्राप्तेः । हीने भवदाराधन(ने)विघात इत्युभयथापि किं कुर्मः ॥ ८॥ पुंसामायुर्निटलफलकेष्वक्षरैर्विद्यमानै- र्निश्चिन्वानो विधिरवधिना पूर्यमाणं स लुम्पेत् । नैतत्कर्तुं प्रभवति मम त्वत्पदाम्भोजयुग्म- प्रत्यासन्नक्षितिनति (किणामृष्ट) विसङ्घृष्टफालाक्षरस्य ॥ ९॥ श्मशाने भूतानां पतिरिति विजानन्नपि जनो नृणां भस्मान्यस्थीन्यपि किमिति तीर्थं नमयति (गमयति) । भवद्देहाश्लेषं भवदपघनारोहणमपि स्वयं लब्ध्वा स्वेषामकृतपरिपाकेन भवति (स्वयं लब्धानां कस्सुकृतपरिपाको नु भवति) (लब्धान्येषां सुकृतपरिपको न) भवति ॥ १०॥ प्रेतताममरतां च बिभ्रतीं त्वद्भुजिष्यपदवीं लभामहे । दुष्कृतस्य सुकृतस्य चोभयो- र्नान्तरं तदपि धारयामहे ॥ ११॥ ब्रह्मोत्तमाङ्गलवितुर्नृकपाललेढुः (वोढुः) श्रीकण्ठपादकमलं वरिवस्यतां ते । हिंसाप्यशौचमपि नागसि कारणं नः स्वामीव सेवकमिति प्रवदन्ति (लोकाः) तज्ज्ञाः ॥ १२॥ जटाजूटे गङ्गां निटलनिकटे शीतकिरणं पुनर्देहे देवीं तुहिनगिरिपुत्रीं पवयसि । (स्फुटयसि ।) ततः शङ्के लोकत्रितयपरितापापहरणं विधातुं सन्नाहो वरद भवता भावित इति ॥ १३॥ वित्तेशस्य कुबेरता न विरता नीहारभानोः क्षयो हेरम्बस्य महोदरं न गलितं दैत्यारिरुच्चैर्गदः । अङ्गं भृङ्गिरिटेश्च पाण्डु कृश(त)मित्यास्ताममीषां कथा त्वं शूलीति विधीयसे कथमयं भक्तस्तवानामयः ॥ १४॥ गृह्यन्तां वसनेषु चर्म भुजगो हारेषु यानेषु गा- र्धुत्तूरं कुसुमेषु नात्र रुदितुः किं तत्र (रुदिमः किं त्वत्र) कम्पामहे । अब्धेः कौस्तुभकामधेनुकमलाकल्पद्रुमोच्चैःश्रवः पीयूषादिषु सत्सु तात भवता यः कालकूटग्रहः ॥ १५॥ उत्तरङ्गमधिमस्तकगङ्गा- वारि धारयसि वारिजगन्धि । किं पयश्चुलुकबिल्वदलैस्ते भिक्षुरुज्झति कदापि न लाभम् ॥ १६॥ सस्यारोपणरक्षणाक्षमतया भिक्षाटनं निर्मितं कच्छग्रन्थिविमोचनापटुतया वासो दिशः कल्पिताः । (लसतया, पहतया वासो) शाणान्वेषणघर्षणालसतया भस्माङ्गरागः कृतो विश्वोत्पादनपालनापहरणायासस्त्वया नेक्षितः ॥ १७॥ धुत्तूराणि शिरःस्रजं पितृवनं वासं विषं भोजनं गर्ह्यान्याभरणानि भस्म तिलकं वृद्धोक्षमारोहणम् । (सर्पाश्चाभरणानि) प्रेतान् पारिषदान् विधाय ममृजे दुर्मेधसो वेधसः त्रैलोक्यानुपयोगिवस्तुरचनावैफल्यदोषस्त्वया ॥ १८॥ वाणी पङ्करुहासनस्य गृहिणीत्यास्थायि मौनव्रतं लक्ष्मीः सागरशायिनः प्रियतमेत्यग्राहि भिक्षाटनम् । इत्थं स्वामिनिषिद्धसेवकवधूसम्भोगबीभत्सया पञ्चासेविषत त्वया धृतिदयादान्तिक्षमामुक्तयः ॥ १९॥ भिक्षां देहि गृहाण कीदृशमभिप्रेतं प्रतिज्ञा दृढा बाढं पृच्छ हिमाचलं न गृहिणी भिक्षां पतिं पृच्छति । तद्भिक्षुस्तनयामियं त्रिनयनायत्ता प्रतिज्ञा मृषे- त्यन्तश्छद्मपरीक्षिताचलवधूभावाय तुभ्यं नमः ॥ २०॥ स स्वामी जगतां सखा धनपतेः सेव्यः सुराणामिति श्रुत्वा तुभ्यमुमां प्रतिश्रुतवती मेना मुनीनां पुरः । त्वामाशावसनं पिशाचसुहृदं प्रेतावृतं प्राङ्गणे दृष्ट्वा चित्रशिखण्डिभिः प्रहसितं मेने नटैर्नाटितं (नवैर्नाटितम्) ॥ २१॥ शूलानि क्षिणु लोहकार डमरून् मातङ्गसिंहत्वचो व्यालान् जाङ्गलिक प्रयच्छ शबर व्याघ्राजिनान्यानय । खट्वाङ्गान्यपि सूत्रधार घटयेत्युद्वाहकोलाहले दण्ड्यन्ते हिमवत्पुरे भवदनुज्ञातैर्गणैः कारवः ॥ २२॥ श्वश्रूः सव्रीडमेषा मिषति न विहितः कङ्कणस्यापि मोक्षो कोऽसावुद्धूलनस्यावसर इति भवान् मातृभिर्वारितोऽपि । निर्वृत्तो माधुपर्को विधिरिति गिरिजासिद्धिसिद्धान्तवादी निर्वाणस्य स्वपाणि ग्रहणहुतभुजो भस्मलिप्तो ननर्त ॥ २३॥ (ग्रहणजहुतभुग्भस्म) गङ्गा केवलमम्बु शैलतनया पत्नीत्यमुष्याः पुरः सा गुप्ता शिरसीति केलिकलिभिः सा दर्शितास्या इति । सा जूटेऽर्धवपुष्यसावपि धृतेत्येकोऽनुकूलः शठो धृष्टो दक्षिण इत्यजायत चतुर्भेदो भवान्नायकः ॥ २४॥ हारं त्यक्त्वाक्षसूत्रं श्रवसि मणिसरं चिह्नमौञ्जीगुणायां कट्यां श्रीखण्डपङ्कं विगलितभसिते कक्षतुम्बीकरण्डे । मौलौ वृत्तां नरास्थिस्रजमपि मकुटं मुक्तभिक्षाकपाले पाणौ शैलेन्द्रदत्तां शिव तव दधतो मुग्धता धूर्तता वा ॥ २५॥ किं स्थानं च (न) जगत्सु सप्तसु परं हे पद्मवासे कुतो हे पद्मासन पद्ममीश्वरशिरोऽलङ्कारमारोहतां (रोपितम्) । इत्थं तन्नियमार्चनप्रणयिभिर्माहेश्वरैर्भक्तितो (र्भर्त्सितौ) मन्ये वार्धिशयस्वभाव भवता हृन्नाभिपद्मासनौ ॥ २६॥ (स्य तत्र भवता, स्य तावभवतां) त्वत्पादयोरब्जसहस्रपूजां नेत्राब्जपूर्णां कृतवत्युपेन्द्रे । त्रिनेत्र नेत्राब्जसहस्त्रपूजां कुर्वन्निवेन्द्रः प्रणतो विभाति ॥ २७॥ नेत्रानले कामकरीषदीप्ते कृतान्तकाष्ठज्वलिते पिनाकिन् । मूलाहुतीस्त्रीणि पुराणि हुत्वा पूर्णाहुतिं विश्वमिदं जुहोषि ॥ २८॥ आरोप्य वायुमपि खेचरतां लभन्ते हुत्वा हुताशमपि वासवतां भजन्ते । शम्भो भवच्चरणपद्ममनर्चयन्तो मर्त्याः कथञ्चिदपि नाश्नुवते भवन्तम् ॥ २९॥ छिन्धि ब्रह्मशिरो यदि प्रथयसे प्रेतेषु सख्यं यदि क्षीबः क्रीडसि मातृभिर्यदि रतिं धत्से श्मशाने यदि । सृष्ट्वा संहरसि प्रजा यदि तथाप्याधाय भक्त्या मनः त्वां सेवे करवाणि किं त्रिजगतीमान्यः स एवेश्वरः ॥ ३०॥ व्यालेभ्योऽस्तु नमः पिशाचसदसि न्यस्तः प्रणामाञ्जलि- र्नम्राः स्मो नृकपालदामनि चिताभस्मापि वन्दामहे । जानुभ्यां प्रणिपत्य चारुवचनैः सन्तोषयामो वृषं किं कुर्मः परमेश्वरस्य चरितं विज्ञाय वर्तामहे ॥ ३१॥ धत्तां भास्मनमङ्गरागमजिनं वस्त्रं(वस्तां) च तारक्षवं कापालीं स्रजमाबिभर्तु कटकं चाहेयमामुञ्चतु । भूयश्चापि शिवेतराणि भजतां देवस्तथापि स्वयं सत्स्वन्येष्वपि दैवतेषु शिव इत्येकः समाम्नायते ॥ ३२॥ अपि कुशलिनी प्रेतावासस्थली सहवासिनः प्रमथपतयः कच्चिज्जीर्णः सुखी किमु शङ्करः । अपि च सुलभा भिक्षावृत्तिर्जगत्त्रयनाथ ते न खलु शिथिलप्रान्तः किं ते गजाजिनकम्बलः ॥ ३३॥ भो भो कैतकपुष्प सौरभनिधे खेदं वृथा मा कृथाः दृष्ट्वा मूर्ध्नि महेश्वरस्य रचितामर्कप्रसूनावलिम् । अस्थिष्वाभरणस्पृहां विदधतः क्षारा(भस्मा)नुलिप्ताकृतेः (भस्माङ्गरागाकृतेः, रक्षानुलिप्ताकृतेः) नग्नीभूय च नृत्यतोऽस्य चरितं सर्वं सखे तादृशम् ॥ ३४॥ भवद्भवनदेहलीनिकटतण्डुदण्डाहति- त्रुटन्मकुटकोटिभिर्मखवदादिभिर्भूयते । भजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदं प्रमथनाथ नाथामहे ॥ ३५॥ अर्थानर्थनिरूपणव्यसनितामाढ्यस्तुतिव्यग्रता- मेणाक्षीकुचलालनप्रणयितामद्यापि वर्तामहे । त्वद्ध्यानव्यवधानहेतुषु मनस्त्वच्चाटुविघ्नेषु वा त्वत्पूजाविधुरेषु कर्मसु करः श्रीकण्ठ नोत्कण्ठते ॥ ३६॥ वासः शुभ्रमृतुर्वसन्त समयः पुष्पं शरन्मल्लिका धावन्तः (धानुष्कः) कुसुमायुधः परिमलः कास्तूरिकास्त्रं (?)धनुः । वाणी तर्करसोज्ज्वला प्रियतमा श्यामा वयो यौवनं मार्गः शाङ्कर एव पञ्चमलया गीतिः कविर्बिल्हणः ॥ ३७॥ ये बिल्हणाह्वयकवीश्वरसम्प्रणीता- मेतां स्तुतिं शिवमुदेऽन्वहमामनन्ति । ते प्राप्नुवन्ति (प्राप्नुवन्तु) पुरुषायुषमात्मविद्या- मारोग्यमष्टतनयानखिलार्थसिद्धिम् ॥ ३८॥ एतद्ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरा- (नायं श्लोकः बिल्हणस्य) मुल्लासैः कथयन्ति बिल्हणकविः तेष्वेव सन्नह्यति । बिन्दुद्वन्द्वतरङ्गिताग्निसरणिः कर्ता शिरोबिन्दुकं कर्मेति क्रमशिक्षितान्वयकलाः ये के च तेभ्यो नमः ॥ ३९॥ ॥ इति श्रीबिल्हणस्तवः सम्पूर्णः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Bilhana Stava 02 51
% File name             : bilhaNastavaH.itx
% itxtitle              : bilhaNastavaH
% engtitle              : bilhaNastavaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : From stotrArNavaH 02-51
% Indexextra            : (Scan)
% Latest update         : July 25, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org