बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनम्

बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनम्

मुनयः - साधु पृष्टमिदं प्राज्ञाः शिवपूजनसाधनम् । शिवार्चनस्त्ररूपं च वेदोक्तमधुनोच्यते ॥ ९१॥ - - स्नात्वा जलैः समुद्धृल्य भस्मनाऽङ्गानि सादरम् । अग्निरित्यादिभिर्मन्त्रैः कृत्वा भस्माभिमन्त्रणम् ॥ ९२॥ त्रिपुण्ड्रधारणं कृत्वा कृत्वा रुद्राक्षधारणम् । बिल्वमूले सन्निविश्य जप्त्वा मन्त्रं षडक्षरम् ॥ ९३॥ बिल्ववृक्ष नमस्तेऽस्तु शिवपूजनसाधन । मूलतो भवरूपाय मध्यतो मृडरूपिणे ॥ ९४॥ अग्रतः शिवरूपाय पत्रर्वेदस्वरूपिणे । स्कन्धे वेदान्तरूपाय तरुराजाय ते नमः ॥ ९५॥ नमस्ते बिल्वतरवे भानुसोदर ते नमः । शिवपूजोद्यताभीष्टसाधनाय नमो नमः ॥ ९६॥ इति सम्प्रार्थ्य तं बिल्वं नत्वा कृत्वा प्रदक्षिणम् । कृताञ्जलिपुटो भूत्वा प्रार्थयेत् पुनरादरात् ॥ ९७॥ वेदरूपाणि पत्राणि शिवपूजार्थमद्य ते । प्रार्थयामीति सम्प्रार्थ्य भवेत् तद्ग्रहणोद्यतः ॥ ९८॥ रुद्राध्यायं जपन्नेव स्मरन्नन्ते महेश्वरम् । गृहीत्वा बिल्वपत्राणि पूजयेगद्गिरिजापतिम् ॥ ९९॥ सुबिल्वपत्रपृष्टेन योजयेलिङ्गमस्तकम् । उत्तानैः पूजयेत्पत्रैः उत्तराग्रैर्जलान्वितैः ॥ १००॥ यथोत्पन्नेन पुष्पेण पूजयेत् गिरिजापतिम् । सर्वात्मना वृन्तहीनं बृहतीपुष्पमर्चयेत् ॥ १०१॥ वृन्तहीनानि पद्मानि कुमुदानि नवान्यपि । शिवपूजोपयुक्तानि नान्यानीत्यवधारितम् ॥ १०२॥ चम्पकामल्लिकाजाती करवीरादिकानि तु । यथेष्टमेव देयानि सितान्यप्यसितान्यपि ॥ १०३॥ अर्कं वा करवीरं वा बकं कनकमेव वा । दत्वा लिङ्गे शिवं स्मृत्वा भक्त्या पापैः प्रमुच्यते ॥ १०४॥ नवारुणैः बिल्वपत्रैः पूजयित्वा महेश्वरम् । ब्रह्महापि विमुक्तः स्यात् भूतिरुद्राक्षभूषणः ॥ १०५॥ उद्धूल्य भस्मनाङ्गानि धृत्वा तिर्यक् त्रिपुण्ड्रकम् । बिल्वपत्रैः समभ्यर्च्य मुक्तो भवति मानवः ॥ १०६॥ भक्त्या दत्वा महेशाय कोमलं बिल्वपल्लवम् । कैलासं समवाप्नोति गृहं गृहपतिर्यथा ॥ १०७॥ सन्ति पत्राण्यनेकानि प्रसूनान्यपि कोटिशः । बिल्वपत्रार्पणेनैव तुष्टो भवति शङ्करः ॥ १०८॥ एकस्य बिल्वपत्रस्य शिवलिङ्गे प्रदानतः । यत् पुण्यं समवाप्नोति तद्वदेद्गिरिजापतिः ॥ १०९॥ बिल्वपत्र प्रदानस्य फलमेतावदित्यपि । वेदैरपि न विज्ञातं अन्येषां तत्र का कथा ॥ ११०॥ बिल्वे भस्मनि रुद्राक्षे शङ्करस्य यथा रुचिः । तथा रुचिर्भवान्यां तु तथाऽन्येषु रुचिर्न तु ॥ १११॥ अखण्डानि सखण्डानि बिल्वपत्राणि तेष्वपि । अतिप्रीतिरखण्डेषु दुर्लभान्येव तानि तु ॥ ११२॥ लिङ्गानि दुर्लभान्येव बिल्वपत्राण्यपि स्वतः । सुलभानि भवन्त्येव क्वचित् भाग्यवतां नृणाम् ॥ ११३॥ नवानि बिल्वपत्राणि दुर्लभानि भवन्ति चेत् । अनवान्यपि सम्पाद्य पूजयेत् तैरुमापतिम् ॥ ११४॥ बिल्वपत्राणि देयानि शुष्काणि पतितान्यपि । भिन्नान्यपि नवाभावे छिद्राण्यपि कदाचन ॥ ११५॥ यावत्तद्रक्षणं शक्यं तावत्कृत्वैव सादरम् । देयं बिल्वं महेशाय तच्चूर्णमपि तत्प्रियम् ॥ ११६॥ दुर्लभं बिल्वचूर्णं चेत् बिल्वचन्दनमेव वा । दद्यान्नित्यं महेशाय तेन तुष्यति शङ्करः ॥ ११७॥ बिल्वपत्रैरनभ्यर्च्य तच्चूर्णैरपि चन्दनैः । न भोक्तव्यं न शेतव्यं कदापि द्विजजन्मना ॥ ११८॥ अपराणि सुगन्धीनि प्रसूनानि महेश्वरः । बिल्वाभावे न गृह्णाति तेन प्रीतः सदाशिवः ॥ ११९॥ सूर्याभावे यथा ध्वान्तं न नश्यति तथा सुराः । बिल्वपत्रार्चनाभावे न पापं याति सर्वथा ॥ १२०॥ बिल्वीतरुजवाते वा या प्रीतिर्गिरिजापतेः । सा प्रीतिः पुष्पवातेऽपि शङ्करस्य न जायते ॥ १२१॥ सूर्यः सृष्टो महेशेन ध्वान्तसंहरणाय सः । बिल्वः सृष्टः शिवेनैव पापनाशाय केवलम् ॥ १२२॥ आदित्यः समभूत् सोमात् सोमाद्बिल्वः प्रजायते । उमया सहितः सोमः स तयोर्जनको यतः ॥ १२३॥ नीलोत्पलकृतां मालां शङ्कराय समर्चयेत् । प्रफुल्लपद्ममालां च कुड्मलैर्नार्चयेत् शिवम् ॥ १२४॥ करवीरप्रसूनानि प्रक्षिप्य लिङ्गमस्तके । मुच्यते पातकैः सर्वैः ब्रह्महत्यादिभिः सुराः ॥ १२५॥ करवीरप्रसूनेन यो नार्चयति शङ्करम् । स दरिद्रो भवत्येव सवंशः प्रतिजन्मनि ॥ १२६॥ मन्दारैः कनकैर्वापि यः सायं शिवमर्चयेत् । स मुक्तः पापकोटिभ्यो मुक्तो भवति मानवः ॥ १२७॥ बृहतीकुसुमैर्नित्यं योऽर्चयेत् गिरिजापतिम् । अस्थूलैरपि वा स्थूलैः मुच्यते पापबन्धनात् ॥ १२८॥ यः प्रयच्छति शर्वाय फुल्ल्लां पङ्कजमालिकाम् । सायङ्काले विशेषेण स याति शिवमन्दिरम् ॥ १२९॥ पुभागमालिकां दत्वा महेशाय निशामुखे । मुच्यते पापकोटिभ्यः सद्य एव न संशयः ॥ १३०॥ शतपत्रप्रसूनानि यः प्रयच्छति शङ्करे । द्रोणपुष्पाणि वा नित्यं स याति शिवमन्दिरम् ॥ १३१॥ पारिजातप्रसूनानि यो ददाति महेश्वरे । वकुलान्यपि पूतात्मा स मुक्तो भवति ध्रुवम् ॥ १३२॥ यः पूजयेन्महादेवं कुन्दसुन्दरमालया । स गन्धर्वपतिर्भूत्वा प्रयाति शिवमन्दिरम् ॥ १३३॥ अर्चयित्वा महादेवं केतकीकुसुमैर्निशि । अरातिभ्यः सर्वथापि न बिभेत्येव मानवः ॥ १३४॥ दुर्वाङ्कुरैर्नवैः शुद्धैरभिपूज्य सदाशिवम् । सर्वपुष्पार्चनफलं प्राप्नोत्येव न संशयः ॥ १३५॥ यवतण्डुलगोधूमैः चणकैर्द्विदलैरपि । सितासितैस्तिलैरीशं सर्षपैश्च समर्चयेत् ॥ १३६॥ प्रियङ्गुभिश्च नीवारैः श्यामाकैः शालिभिस्तथा । अणुभिश्च समाराध्य मुच्यते पापकोटिभिः ॥ १३७॥ दध्ना क्षीरैर्घृतेनापि मधुना सितयाऽपि च । समभ्यर्च्य महादेवं मुच्यते पापकोटिभिः ॥ १३८॥ हिमशीकरसङ्काशनीरधाराभिषेचनम् । महालिङ्गे प्रदोषेषु महापापैः प्रमुच्यते ॥ १३९॥ क्षीराज्यमधुधाराभिः योऽभिषिञ्चेदुमापतिम् । स एव हयमेधादियागकोटिफलं लभेत् ॥ १४०॥ आकल्पार्जितपापनाशकमिति ज्ञेयं शिवाराधनं सामान्येन तदप्यखण्डबिल्वीदलैश्चैत्कृतम् । तत् किं किं फलमातनोति बहुधा तन्नैव जाने निजं दास्यत्येव पदं सदाशिव इति ज्ञातं तदन्यत्तथा ॥ १४१॥ मुक्तिप्रासादमार्गप्रथितमणिलसद्दीर्धसोपानपङ्क्तिः भक्तिः श्रीपतिनेत्रपूजितशिवाकान्ताङ्घ्रिपङ्केरुहे । सा भक्तिर्यदि बिल्वपल्लवलसन्मल्लीप्रसूनार्पणे शाङ्गे लिङ्गवरे तदा जितमिदं तावज्जगज्जायते ॥ १४२॥ धन्यैर्जन्मसहस्रसाधितमहापुण्यार्णवैः केवलं भक्तिः शङ्करपादपद्मभजने तावत्परं लभ्यते । सा लब्धा जननादिदुःखनिकरं हन्त्येव हन्त्यापदां राशीनप्यमितान् करोति परमानन्दाश्रयं सर्वदा ॥ १४३॥ ॥ इति शिवरहस्यान्तर्गते मुनयः प्रोक्तं बिल्वपुष्पपञ्चामृतधान्यजलधारादिशिवपूजाफलवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २४। ९१-१४३ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 24. 91-143 .. Proofread by Ruma Dewan
% Text title            : Munayah Proktam Bilvapushpapanchamritadhanyajaladharadishivapujaphalavarnanam
% File name             : bilvapuShpapanchAmRRitadhAnyajaladhArAdishivapUjAphalavarNanam.itx
% itxtitle              : shivapUjAphalavarNanam bilvapuShpapanchAmRitadhAnyajaladhArAdi (shivarahasyAntargatam)
% engtitle              : bilvapuShpapanchAmRitadhAnyajaladhArAdi shivapUjAphalavarNanam
% Category              : shiva, shivarahasya, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 24 | 91-143 ||
% Indexextra            : (Scan)
% Latest update         : February 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org