चिदम्बरशिवध्वनिस्तवः
श्रीगणेशाय नमः ।
श्रीचित्सभेशाय नमः ।
ॐ शिव शिव शरणं शिवानन्द शिव
शिव शिवाय शिवाय नमः ।
ओङ्कारमोषधीशानचूडमोजस्विदूरगम् ।
ओड्याणपीठनिलयं वन्दे श्रीचित्सभापतिम् ॥ १॥
शिखिवाहसुतं देवं शिष्टार्चितपदाम्बुजम् ।
शिखावन्तं महादेवं वन्दे श्रीचित्सभापतिम् ॥ २॥
वरुणाघ प्रहन्तारं वरदं वररूपिणम् ।
वन्दारुजनमन्दारं वन्दे श्रीचित्सभापतिम् ॥ ३॥
शिलादसुतवन्द्याङ्घ्रिं शिरोधृतसुरापगम् ।
शिखिराजत्भालदेशं वन्दे श्रीचित्सभापतिम् ॥ ४॥
वनमाल्यर्चितपदं वंशवृद्धिकरं नृणाम् ।
वसुधारथवामोमं वन्दे श्रीचित्सभापतिम् ॥ ५॥
शरच्चन्द्रसमानाभं शरणं जगतां सदा ।
शङ्खचक्रकरान्विष्टं वन्दे श्रीचित्सभापतिम् ॥ ६॥
रणन्मञ्जीरपादाब्जं रजताचलवासिनम् ।
रम्भादिफलभोक्तारं वन्दे श्रीचित्सभापतिम् ॥ ७॥
णशक्तिपदमृग्याङ्घ्रिं गणनाथसुतं विभुम् ।
फणाभृन्नाथवरदं वन्दे श्रीचित्सभापतिम् ॥ ८॥
शिवालिङ्गितवर्ष्माणं शिवरुद्रादिसंज्ञकम् ।
शिवं शिवकरं नॄणां वन्दे श्रीचित्सभापतिम् ॥ ९॥
वाराशितनयानाथनेत्रार्चितपदाम्बुजम् ।
वारिजातासने संस्थं वन्दे श्रीचित्सभापतिम् ॥ १०॥
नन्दनस्थितमन्दारवृक्षस्यौदार्यदायिनम् ।
नन्द्यादिभिस्सदा सेव्यं वन्दे श्रीचित्सभापतिम् ॥ ११॥
दण्डपाणिहरं देवं दण्डपाणिं दयानिधिम् ।
दण्डोद्दण्डनटं चण्डं वन्दे श्रीचित्सभापतिम् ॥ १२॥
शिष्यलोकं शिरोरत्नभूषणं शिखिधारिणम् ।
शिवदातारमीशानं वन्दे श्रीचित्सभापतिम् ॥ १३॥
वपुषा भासयन्तं तत् जगत्सर्वं चराचरम् ।
वज्रपाण्यादिसंसेव्यं वन्दे श्रीचित्सभापतिम् ॥ १४॥
शिशुं मुनिवरस्यादौ रक्षन्तं यमशासनात् ।
शिपिविष्टं शिलादार्च्यं वन्दे श्रीचित्सभापतिम् ॥ १५॥
वलारितपसा प्रीतं वटमूलनिवासिनम् ।
वटुकैरावृतप्रान्तं वन्दे श्रीचित्सभापतिम् ॥ १६॥
शिखरे शिखरीन्द्रस्य वसन्तं श्रितपालकम् ।
शिखाग्रे योगिनां संस्थं वन्दे श्रीचित्सभापतिम् ॥ १७॥
वाराणस्यादिमे क्षेत्रे वसन्तं वायुरूपिणम् ।
वाल्कलिक्षयहेतुं तं वन्दे श्रीचित्सभापतिम् ॥ १८॥
यमाद्यष्टाङ्गविलसद्योगवत्स्वान्तगोचरम् ।
यक्षराक्षसवृन्देड्यं वन्दे श्रीचित्सभापतिम् ॥ १९॥
शिञ्जन्नूपुरपादाब्जं शिलादसुतसन्नुतम् ।
शिवादिसंज्ञं शिवदं वन्दे श्रीचित्सभापतिम् ॥ २०॥
वारणास्यषडास्याद्यैरावृतं शङ्करं विभुम् ।
वासवाद्यखिलैरर्च्यं वन्दे श्रीचित्सभापतिम् ॥ २१॥
यमुनासखिभर्तारं यमहन्तारमव्ययम् ।
यजनप्रियमम्बेशं वन्दे श्रीचित्सभापतिम् ॥ २२॥
नराणामिष्टदातारं नक्रकुण्डलभूषितम् ।
नमदानन्ददं नित्यं वन्दे श्रीचित्सभापतिम् ॥ २३॥
महान्तं मणिभूषाढ्यं मतिमद्भिरुपासितम् ।
महाकविप्रदं वेद्यं वन्दे श्रीचित्सभापतिम् ॥ २४॥
इमं ध्वनिस्तवं नित्यं पठतां नटसन्निधौ ।
इह भुक्तिं प्रदत्वाऽन्ते मुक्तिं यच्छति शङ्करः ॥ २५॥
इति श्रीचिदम्बरशिवध्वनिस्तवः सम्पूर्णः ।
Proofread by Aruna Narayanan