चित्रकेतुकृता शिवप्रार्थना

चित्रकेतुकृता शिवप्रार्थना

भक्ति प्रदानसमयोऽयमुमासहाय त्वत्पादपद्मभजनेन निरन्तरायम् । त्वय्येव भक्तिरखिलाघविनाशनाय देहि प्रसीद भगवन् शरणागताय ॥ ११०॥ त्वत्पादपद्ममकरन्दरसाभिषिक्तं मच्चित्तभृङ्गमसकृत् कुरु शर्व शम्भो । मत्प्रार्थनीयमिह नान्यदुमासहाय धन्योऽस्मि तेन धनिकोऽस्मि जगत्त्रयेऽपि ॥ १११॥ यद्यन्ममाभिलषितं तदुमासहाय सिद्धं त्वदङ्घ्रिकमलार्चनभक्तिलेशात् । अन्यन्न वाञ्छितमपीश किमस्ति लोके त्वद्भक्तिदुर्लभमिति प्रतिभाति नित्यम् ॥ ११२॥ आकाङ्क्षा शिवनाममात्रभजने भस्मत्रिपुण्ड्रे तथा रुद्राक्षाभरणेऽपि शङ्गविलसल्लिङ्गार्चनेऽपि प्रभो । लिङ्गाराधनसाधनेष्वपि मुहुर्लिङ्गप्रणामेऽपि मे लिङ्गालोकनलोलमेव सततं चित्तं ममास्तु प्रभो ॥ ११३॥ मन्नेत्राम्बुजकृत्यमस्तु सततं बिल्वादिकाभ्यर्चिता- पारानङ्गविहारभङ्गविलसल्लिङ्गार्चनालोकनम् । तेनैतञ्जननं च धन्यमिति मे बुद्धिः प्रवृद्धा मुहुः भूयादित्यनुवासरं भवतु मे सम्प्रार्थनीयं प्रभो ॥ ११४॥ श्रोत्रस्यापि न कृत्यमन्यदधुना विश्वेशपूजाकथा- पीयूषार्णवपानमेव मुहुरप्यत्यादरेणान्वहम् । तत्कृत्यं तदपारपुण्यजलधौ प्राप्यं तदेवान्तकं दूरीकर्तुमलं तदेवमसकृत् सर्वार्थसिद्धिप्रदम् ॥ ११५॥ कृत्यं मत्करयोर्महेश्वर महालिङ्गालयप्रोक्षणं लिङ्गाभ्यङ्गविलेपनं च विलसत्पञ्चामृतासेचनम् । उत्फुल्लामलकुन्दपङ्कजलसद्बिल्वीदलाभ्यर्चनं कर्पूरागरुसारकर्दमलसत्पाटीरसारार्पणम् ॥ ११६॥ क्षीरान्नार्पणधूपदीपविलसन्नीराजनाद्यर्पणं रत्नच्छत्रसमर्पणं च विपुलश्रीचामराद्यर्पणम् । यच्चामीकरदर्पणार्पणमपि प्रायः प्रणामार्पणं कृत्यं मत्करयोर्भवत्वनुदिनं गौरीविहारादर ॥ ११७॥ जिह्वाकृत्यमुमासहायचरणाम्भोजार्चनाराधन- ध्यानानुस्मरणप्रभावकथनं तन्नामसङ्कीर्तनम् । तद्गौरीरमणोपहारसुरसव्याख्यानमप्यादरात् तत्पूजाकरणानुवादनमपि श्रीनीलकण्ठ ध्रुवम् ॥ ११८॥ नासाकृत्यमुमासहायचरणाम्भोजार्चितात्युल्लस- द्बिल्वीपल्लवफुल्लनीलकमलामोदग्रहस्तत्करः । उग्रानुग्रहतः समग्रत इति ज्ञेयो महानुग्रहो हाराहारसुगन्धसुन्दरमिदं नासापुटं धूर्जटे ॥ ११९॥ प्रणामव्याजेन स्मरहर भवत्पादरजसः शिरोमल्लक्रीडां सकृदपि करोतु प्रणयतः । शिरःकृत्यं तावद्भवति खलु तेनैव तरसा न सा किं मोक्षश्रीरमणमपि मामेव कुरुते ॥ १२०॥ कृत्यं न मे चरणयोरपि शङ्करान्यत् श्रीकाशिकानगरसञ्चरणालसौ तौ । स्यातामतः परमुमारमणानुवारं कृत्यं तदेव न तयोरपि किं विशिष्य ॥ १२१॥ शम्भो भालतलं विभूतिविलसद्रेखाङ्कितं सर्वदा स्यादेतेन नवेन्दुखण्डललितं भालं भवेत् तावता । तत्कृत्यं च समाप्तमेवमसकृत् तत् प्रार्थनीयं त्वया कर्तव्यं खलु पूर्णमेव भगवन् सम्पूर्णकाम प्रभो ॥ १२२॥ अर्थिप्रार्थितमर्थजातमसकृद्दातुं समर्थो भवान् शम्भो शाम्भववत्सलातिकरुणान्येतस्य सर्वाण्यपि । त्वन्नामस्मरणार्चनादिनिरतान्येवादरात् सन्तु मे तान्येवास्मदभीष्टसिद्धिफलदानीति स्मरामि ध्रुवम् ॥ १२३॥ अस्मत्सन्ततिरप्यनन्तविभवैर्भावैः प्रभूतैर्युता लिङ्गाराधनसाधनोद्यतमतिः सा कालकालार्चनात् । कालाद्भीतिमपास्य मौनिनिकराशास्याशु पञ्चास्य ते तावत्पुण्यकथाः श‍ृणोतु सततं सम्पत्प्रवृद्धाऽपि सा ॥ १२४॥ अस्माभिः शिवलिङ्गपूजनफलं प्राप्तं श्रुतेर्यच्छ्रुतं तन्नारायणवाक्पतिप्रभृतिभिर्मुहुः सादरम् । धन्योऽयं शिवपूजक स्त्रिभुवनाराध्योऽयमित्युच्यते नित्यं मत्सदनारपि गृहव्यापारसारादरैः ॥ १२५॥ भूलोकोऽप्यधुना महेशकृपया कैलास एवाभवत् नन्दीशप्रमुखाश्च सन्ततमुमाकान्तार्चने सादरम् । मन्दं मन्दरमेत्य सुन्दरतरं वीरेश्वराराधको धन्यो धन्यतमोऽयमित्यनुदिनं मां प्रस्तुवन्तीत्यतः ॥ १२६॥ शिव शिव शिव शम्भो चन्द्रमौले कपर्दिन् अनलविमलकालाबाललीलाविलास । वस वस वस वासे मन्मनस्येव लास्यं कुरु कुरु कुरु गौरीं सन्निवेश्याङ्कभागे ॥ १२७॥ - - उत्फुल्लं मम मानसाम्बुजवरं तत्कर्णिकायां शिवा- मालिङ्गयान्वहमादरेण गिरिजाजाने शिवोमापते । पाहीति श‍ृणु तत्कराम्बुजमहावीणां गृहीत्वा क्षणं तन्त्रीवादनलालसः शिव शिवे कल्याणगौरीति च ॥ १२८॥ ॥ इति शिवरहस्यान्तर्गते चित्रकेतुकृता शिवप्रार्थना सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः २२। ११०-१२८ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 22. 110-128 .. Notes: Citraketu चित्रकेतु (a Śaiva king शैवराज) prays to Śiva शिव to grant him utmost devotion towards Him. Proofread by Ruma Dewan
% Text title            : Chitraketukrita Shiva Prarthana
% File name             : chitraketukRRitAshivaprArthanA.itx
% itxtitle              : shivaprArthanA chitraketukRitA (shivarahasyAntargataA)
% engtitle              : chitraketukRitA shivaprArthanA
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 22 | 110-128 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org