नागार्जुनकृता चित्तसन्तोषत्रिंशिका
लोकोत्तरानुभवसस्मितघूर्णमान-
स्वानन्द सुन्दर विनिर्मल निर्निमेषा ।
यत्स्फारतः पशुरपीश्वरतामुपैति
सा कापि दृग्विजयते गुरुपुङ्गवानाम् ॥ १॥
दिष्ट्या भवानलशिखा शत ताप तप्तं
जन्माटवीषु विषमासु कदर्थितं यत् ।
चेतस्तदेतदधुनामल चित्सुधाब्धि-
मध्ये निमग्नमसमां भजते प्रशान्तिम् ॥ २॥
व्यामूढमन्धमिव संशयदोषदुष्टं
चेतो यदेतद भवद्भवदुःख पात्रम् ।
जातं तदद्य गुरुपादसरोज सेवा-
सञ्जात निर्मलविबोध महाप्रकाशम् ॥ ३॥
सङ्कोचमाश्रितवतो निबिडं विमोहा-
त्यस्याभवद्भयमिहेन्द्रियपर्वगेभ्यः ।
चेतस्तदाप्य विमलोर्जित संविदाज्ञां
निःशङ्कमद्य रमते विषयाटवीषु ॥ ४॥
कन्दर्पबाणविषमं हरिणेक्षणाभिः
पीतं हतं कवलितं मुषितं यदासीत् ।
तत्पात्रतामुपगतं परमोक्षलक्ष्मी
प्रेमामृताप्लुतकटाक्ष परम्पराणात् ॥ ५॥
क्लिष्टं यदेतदभवज्जपकष्टयोग
प्राणप्रवाहविनिरोधकदर्थनाभिः ।
चेतस्तदद्य परमाद्वयसामरस्य
सञ्जात सम्मदर सासवमत्तमास्ते ॥ ६॥
यो भेदतीव्र शिशिरप्रसरोपघात-
भीतो मनो मधुकरो हतशक्तिरासीत् ।
आसाद्य सोऽद्य शिवधाममधुं सदास्ते
संविल्लताकुसुमसौरभपानमत्तः ॥ ७॥
त्यक्त स्वतन्त्र निजरूपमहाप्रभावं
यत्कर्म बिन्दुधरणीषु विलीनमासीत् ।
स्वच्छ प्रभाप्रसर पूरित सर्वलोकं
चेतश्चिदम्बरपदेन तदस्यमाति ॥ ८॥
यत्नेन वाञ्छितमनल्प विकल्पजाल
विघ्नैस्तिरस्कृतमवापन यत्प्रवेशम् ।
दुर्भेद भिन्नविषमार्ग लभिन्नमार्गां
चेतस्तदस्य रमते शिवमन्दिरान्तः ॥ ९॥
योगव्रतादि नियमै रुपसे वितापि
नावाप दर्शनपथं किल यस्य जातु ।
संवित्प्रियासुभगमूर्जित भाग्यसम्पत्-
चेतस्तदस्य न जहाति मुहूर्तमेकम् ॥ १०॥
दुःखैकसार इति भीम इति प्रयत्नात्-
संसार एष किल यस्य बभूव हेयः ।
दिष्ट्या स एव परचिद्रससामरस्य
सञ्जीवितः श्रयति तस्य विमुक्ति साम्यम् ॥ ११॥
तृष्णा करालकरवाल विलुप्यमानं
यद्विस्मृतात्म विभवं कृपाणं बभूव ।
उच्चैरकिञ्चन तयापि तदद्य चेतः
स्वात्मा वमर्श परहर्ष मुदारमास्ते ॥ १२॥
कस्योर्जितस्य सुकृतस्य फलं तदेतत्-
पुण्योदयस्तव कुतोऽयमनन्यलभ्यः ।
संविच्छ्रिया गलितभेद विकल्पया य-
देकं मुहूर्तमपि नैव विमुच्यसे त्वम् ॥ १३॥ (यदेकं)
वर्तामहे क्वचन नाम न चित्त दिष्टया
वर्धामहे वयमहो मुदिता भवामः ।
यत्त्वां सखे परनिरुत्तर शैवसम्पत्-
सम्भोग मन्थरतरं परिलोकयामः ॥ १४॥
ध्यानेऽर्चनेऽपि न कदाचन काञ्चनापि
कुत्रापि निर्वृति दशां वत यन्न लेभे ।
दिष्ट्या निमग्नमपि संव्यवहारमध्ये
चेतस्तदध्य न विमुञ्चति पारिपूर्ण्यम् ॥ १५॥
सर्वेषु चित्तमधुपो विषयद्रुमेषु
बभ्राम यः सततमस्तमिताभिलाषः ।
दैवादवाप्य परमेश्वरपारिजातं
तृप्तो विलीन इव मुञ्चति चञ्चलत्वम् ॥ १६॥
यैरिन्द्रियैरपि वशीकृतशक्ति चेतः
पूर्वं कदर्थितमभूर हितैरि वोच्चैः ।
स्वच्छा निकेत परचिद्रस संविभक्तैः
दिष्ट्याद्य तैरनुचरैरिव राजसे त्वम् ॥ १७॥
चिन्ताततान करुणं प्रललाप पूर्वं
यत्सङ्कुचत्स्थिति भयं रविजाद्विचार्य ।
चेतस्तदद्वयमिदं निजरूपमीक्ष्य
दिष्ट्याद्य निर्भयम मन्दमुदात्तमास्ते ॥ १८॥
नित्यं यदेतद भवद्विफलप्रयासं
हेवाकदुर्ललितम प्रथितात्मभावम् ।
संवित्सुधारस चमत्कृति घूर्णमानं
दिष्ट्या तदद्य नितरां स्पृहणीयमास्ते ॥ १९॥
चिन्ताशताकुलतरं न गतिं कदाचित्-
भीतं भवादभजतैकमपि क्षणं यत् ।
चेतश्चिदात्मकमिदं सकलं विलोक्य
सुप्तप्रबुद्धमिव निर्वृत रूपमास्ते ॥ २०॥
वन्दामहे किमु नुमः किमु गौरवेण
हर्षेण चित्त किमु नाम निपीडयामः ।
सम्प्राप्त दुर्लभ महोदय शैवसम्पत्-
त्वां कौतुकेन किमु मित्र विलोकयामः ॥ २१॥
आपृच्छतामियमनादि घनप्रबन्ध
स्नेहानु विद्धहृदयाहृदयाद्य माया ।
संसेव्यतां सुभग शैवपद प्रवेश
संप्राप्त दुर्लभ महोदय शैवसम्पत् ॥ २२॥ (महोदय मुक्ति लक्ष्मीः) (सम्पतम्?)
किं ब्रूमहेऽत्र भवते सुकृतेन सत्य (सत्ये)
सर्वाशिषाम विषय ननु वर्तसे त्वम् ।
यत्कारणातिगत निर्मल निर्विकल्प
स्वच्छन्द शङ्करपदे भजसेऽनुरागम् ॥ २३॥
चित्रं तदेतदसमं यदभूत्सुखेषु
प्राप्तेषु निर्वृतिदशमनुवर्तमानाम् ।
दुःखेषु दुस्सहतरेष्वपि चित्तमध्य
पूर्ण प्रमोद रस निर्भरमेतदास्ते ॥ २४॥
विश्वं निगीर्य सहसा कवलं विधाय
कालं प्रशान्त गगनोपम दिव्यमूर्तिः ।
या राजते निरुपमामृत पूरपूर्णा
सा कापि खेचर गतिर्जयति त्वदीया ॥ २५॥
ते कारणाधिपतयः प्रलयं प्रयान्ति
यस्मिन्महावटतट विषमे गभीरे ।
शक्तिर्निजं वपुरपि प्रसभं जहोति
तद्धाम संश्रयसि वीरवर त्वमेकम् ॥ २६॥
विद्युद्विलास चपले विभवे नताङ्गी
भ्रूभङ्गभङ्गुरतरेऽपि च जीवितेऽस्मिन् ।
चित्त त्वयैव विजितं श्रयता विनाशि
दिग्देशकालकलनारहितं पदं तत् ॥ २७॥
स्वस्त्यस्तु ते स्वरविकस्वरसम्प्रदाय (तेऽम्बरविकस्वर)
सम्प्राप्त शङ्करपदोदितसम्मदाय ।
दुर्वारसंस्मृतिअशास्वपि निर्विकार
नित्योदितात्म विभवाय भवाभवाय ॥ २८॥
स्वच्छन्द निर्मल पदोदित निर्निकेत
संवित्सुधारसचमत्कृति निर्भरोऽसि ।
दिष्ट्याद्य सद्गुरुमुखाम्बुजमद्य लब्धा-
नुश्चार्य चारकथनोदय विस्मितोऽस्मि ॥ २९॥
भवमरुभुविश्रान्तो मोहात्य एष मनोऽध्वगो
विषम विषय प्रोध्यत्तृष्णानिवेश वशीकृतः ।
शिवपदसुधासिन्धुं दैवादवाप्य स सादरं
किमपि सुखितं मज्जं मज्जं निमज्जति साम्प्रतम् ॥ ३०॥
निरावरण चिद्व्योम परमामृतनिर्भरः ।
नागाभिधानं तदिदं चित्तसन्तोषकं व्यधात् ॥ (नागार्जुनो व्यधादेनां चित्तसन्तोषत्रिंशिकाम्)
इति श्रीनागविपश्चिद्विरचिता चित्तसन्तोषत्रिंशिका समाप्ता ।
(विपश्चिद्वर-नागार्जुनविरचिता)
Encoded and proofread by Girdhari Lal Koul, Ruma Dewan