दीनाक्रन्दाख्य शिवक्षमापणम्
ॐ गौरीश्वराय भुवनत्रयकारणाय
भक्तप्रियाय भवभीतिभिदे भवाय ।
शर्वाय दुःखशमनाय वृषध्वजाय
रुद्राय कालदहनाय नमः शिवाय ॥ १॥
सर्वेश्वरत्वे सति भस्मशायिने
ह्युमापतित्वे सति चोर्ध्वरेतसे ।
वित्तेशभृत्ये सति चर्मवाससे
निवृत्तरागाय नमस्तपस्विने ॥ २॥
ओङ्कारेण विहीनस्य नित्यमुद्विग्नचेतसः ।
तापत्रयाग्नितप्तस्य त्राणं कुरु महेश्वर ॥ ३॥
कायपोषणसक्तस्य रोगशोकाकुलस्य च ।
भवार्णवनिमग्नस्य त्राणं कुरु महेश्वर ॥ ४॥
मदनोरगदष्टस्य क्रोधाग्निज्वलितस्य च ।
लोभमोहादिसक्तस्य त्राणं कुरु महेश्वर ॥ ५॥
तृष्णाशृङ्खलया नाथ बद्धस्य भवपञ्जरे ।
कृपार्द्रदीनचित्तस्य त्राणं कुरु महेश्वर ॥ ६॥
भटैर्नानाविधैर्घोरैर्यमस्याज्ञाविधायकैः ।
तां दिशं नीयमानस्य त्राणं कुरु महेश्वर ॥ ७॥
दुष्टस्य नष्टचित्तस्य श्रेष्ठमार्गोज्झितस्य च ।
अनाथस्य जगन्नाथ त्राणं कुरु महेश्वर ॥ ८॥
संसारपाशदृढबन्धनपीडितस्य
मोहान्धकारविषमेषु निपातितस्य ।
कामार्दितस्य भयरागखलीकृतस्य
दीनस्य मे कुरु दयां परलोकनाथ ॥ ९॥
दीनोऽस्मि मन्दधिषणोऽस्मि निराश्रयोऽस्मि
दासोऽस्मि साधुजनतापरिवर्जितोऽस्मि ।
दुष्टोऽस्मि दुर्भगतमोऽस्मि गतत्रपोऽस्मि
धर्मोज्झितोऽस्मि विकलोऽस्मि कलङ्कितोऽस्मि ॥ १०॥
भीतोऽस्मि भङ्गुरतमोऽस्मि भयानकोऽस्मि
शङ्काशतव्यतिकराकुलचेतनोऽस्मि ।
रागादिदोषनिकरैर्मुखरीकृतोऽस्मि
सत्यादिशौचनियमैः परिवर्जितोऽस्मि ॥ ११॥
जन्माटवीभ्रमणमारुतखेदितोऽस्मि
नित्यामयोस्म्यऽशरणोस्म्यऽसमञ्जसोऽस्मि ।
आशानिरङ्कुशपिशाचिकयार्दितोऽस्मि
हास्योऽस्मि हा पशुपते शरणागतोऽस्मि ॥ १२॥
हा हतोऽस्मि विनष्टोऽस्मि दष्टोऽस्मि चपलेन्द्रियैः ।
भवार्णवनिमग्नोऽस्मि किं त्रातुं मम नार्हसि ॥ १३॥
यदि नास्मि महापापी यदि नास्मि भयातुरः ।
यदि नेन्द्रियसंसक्तस्तत्कोर्थः शरणे मम ॥ १४॥
आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपापरः ।
तुल्य एवावयोर्योगः कथं नाथ न पाहि माम् ॥ १५॥
आकर्णयाऽशु कृपणस्य वचांसि सम्यक्
लब्धोऽसि नाथ बहुभिर्ननु जन्मवृन्दैः ।
अद्य प्रभो यदि दयां कुरुषे न मे त्वं
त्वत्तः परं कथय कं शरणं व्रजामि ॥ १६॥
द्वेष्योहं सर्वजन्तूनां बन्धूनां च विशेषतः ।
सुहृद्वर्गस्य सर्वस्य किमन्यत्कथयामि ते ॥ १७॥
मातापितृविहीनस्य दुःखशोकातुरस्य च ।
आशापाशनिबद्धस्य रागद्वेषयुतस्य च ॥ १८॥
देवदेव जगन्नाथ शरणागतवत्सल ।
नान्यस्त्रातास्ति मे कश्चित्त्वदृते परमेश्वर ॥ १९॥
भीतोऽस्मि कालवशगोऽस्मि निराश्रयोऽस्मि
खिन्नोऽस्मि दुःखजलधौ पतितोऽस्मि शम्भो ।
आर्त्तोऽस्मि मोहपटलेन समावृतोऽस्मि त्वां
चन्द्रचूड शरणं समुपागतोऽस्मि ॥ २०॥
आशिखान्तं निमग्नोऽस्मि दुस्तरे भवकर्दमे ।
प्रसीद कृपया शम्भो पादाग्रेणोद्धरस्व माम् ॥ २१॥
श्रुत्वा मे भवभीतस्य भगवन्करुणा गिरः ।
तथा कुरु यथा भूयो न बाधन्ते भवापदः ॥ २२॥
समयशतविलुप्तं भक्तिहीनं कुचैलं
मलिनवसनगात्रं निर्दयं पापशीलम् ।
रविजभ्रुकुटिभीतं रोगिणं प्राप्तदुःखं
खलजनपरिभूतं रक्ष मां सर्वशक्ते ॥ २३॥
आपन्नोऽस्मि शरण्योऽसि सर्वावस्थासु सर्वदा ।
भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतम् ॥ २४॥
जातस्य जायमानस्य गर्भस्थस्यापि देहिनः ।
माभूत्तत्र कुले जन्म यत्र शम्भुर्न दैवतम् ॥ २५॥
शङ्करस्य च ये भक्ताः शान्तास्तद्गतमानसाः ।
तेषां दासस्य दासोहं भूयां जन्मनि जन्मनि ॥ २६॥
नमस्कारादिसंयुक्तं शिवैत्यक्षरद्वयम् ।
जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम् ॥ २७॥
यत्कृतं यत्करिष्यामि तत्सर्वं न मया कृतम् ।
त्वया कृतं तु फलभुक्त्वमेव परमेश्वर ॥ २८॥
यदक्षरपदभ्रष्टं मात्राहीनं च यद्गतम् ।
मया दासेन विज्ञप्तं क्षम्यतां परमेश्वर ॥ २९॥
इति श्रीरावणकृता दीनाक्रन्दनस्तुतिः समाप्ता ।
Proofread by Aruna Narayanan narayanan.aruna at gmail.com