श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनम्

श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनम्

(शिवगौरीसंवादे) --- मुनयः - कटीतटपरीलसत्करटिकृत्तिकाद्यं शिवं तडिन्निभजटाकुटीविधृतसामकोटिप्रभम् । सुरोरुतटिनीशिखं वटतरीरधस्तात्स्थितं सुरासुरगणाननोज्वलकिरीटकोटिप्रभा- विराजितपदाम्बुजं निटिललोलनेत्रं नुमः ॥ ४३॥ काशिकोशगतकाशविहीन काशिकापुरनिवासकाशय । काशपूज्यपद व्योमकेश नो ज्ञानकोशमखिलं भवमुक्त्यै ॥ ४४॥ --- ईश्वरः - मुनीनां वदनाद्देवि प्रश्नयाणां तदा मयि । तुष्टः कष्टविनाशाय तद्ज्ञानं संवदाम्यहम् ॥ ४५॥ ईश्वरः - (श्रीदक्षिणामूर्तिः -) श्रृण्वन्तु वामदेवाद्या मुनयो मत्प्रसादतः । भवतां ज्ञानममलं भविष्यति न संशयः ॥ ४६॥ नातप्ततपसे देयमिति श्रुत्यनुशासनम् । भवन्तस्तप्ततपसः सर्वे मत्पदपूजकाः ॥ ४७॥ दास्यामि मत्परं ज्ञानं प्रणिपातपुरःसरम् । एतदर्थं पुरा देवैः पृष्टोऽहं मुनिसत्तमाः ॥ ४८॥ तानब्रवं सुरगणाः तच्छृण्वन्तु सुरर्षयः । अहमेकोऽद्वितीयश्च व्यापकोऽलिङ्ग एव हि ॥ ४९॥ मत्तो नान्यज्जगत्किञ्चित्पृथगस्ति मुनीश्वराः । ब्रह्मैवेदमिदं सर्वमात्मैवेदं न संशयः ॥ ५०॥ नेह नानास्ति दृश्यं यत्सर्वं मय्येव कल्पितम् । यथोर्णनाभिः सृजते ग्रसते तन्तुजालकम् ॥ ५१॥ तद्वज्जगन्ति जातानि ग्रसामि विसृजामि च । मय्येवेदं स्थितं विश्वं मय्येव लयमेष्यति ॥ ५२॥ नित्योऽहं निर्विकल्पोऽहमशरीरोऽहमेव हि । आकाशात्मा व्यापकोऽहं न हि तद्धर्मभागहम् ॥ ५३॥ यतो भूतानि जातानि येन जीवन्ति तान्यपि । यस्मिन्लीनानि विप्रेन्द्राः तद्ब्रह्माहं न संशयः ॥ ५४॥ अपाणिपादो जवनो ग्रहीता पश्याम्यचक्षुः स श्रृणोम्यकर्णः । अहं विजानामि जगद्गत द्विजा न मामहो वेत्ति च मायया वृतः ॥ ५५॥ वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् । नैवास्ति बन्धो न ममास्ति मुक्तिरच्छो निरच्छोऽस्मि मनोविवर्जितः ॥ ५६॥ अगाधमस्पर्शनरूपभूतं तथाऽरसं नित्यमसङ्गमीशम् । भूतेन्द्रियाणामतिरिक्तमीश्वरं कोशादिहीनं तमसः परस्तात् ॥ ५७॥ जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं मनसा (रजसा) ततम् । तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धविवर्जितः ॥ ५८॥ सत्यज्ञानानन्दमय अहमेव मुनीश्वराः । मां यो वेद स वै वेद सर्वमित्याह वै श्रुतिः ॥ ५९॥ ईशावास्यमिदं सर्वं यत्किञ्चिज्जगतीगतम् । देशकालाद्यवच्छिन्नं मां ज्ञात्वा मृत्युवर्जितः ॥ ६०॥ अद्वितीयोऽहमीशानः एक एवाहमीश्वरः । ज्ञात्वा मां न बिभेत्येव न द्वैतं तत्र विद्यते ॥ ६१॥ द्वैते भयं हि भवति ईषद्वा दुःखमश्नुते । सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ॥ ६२॥ सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् । प्राक्प्रतीची उदीच्योऽ‍हं दक्षिणा विदिशस्तथा ॥ ६३॥ अधश्चोर्ध्वं च यत्किञ्चिद्भूतं भाव्यहमेव हि । पूर्णं पूर्णमदः पूर्णं सम्पूर्णोऽस्मि निरामयः ॥ ६४॥ अशरीरः शरीरेषु प्राणापानौ मनोमनः । देहेन्द्रियाण्यथ प्राणा मनसा मुनयो ह्यहम् ॥ ६५॥ कूर्मोऽङ्गानीव सर्वत्र सृजामि विसृजामि च । विनश्यत्स्वविनश्यन्तं मां यो वेद स वेदवित् ॥ ६६॥ दिक्ष्वहीनं हि मां ज्ञात्वा शोकं तरति सत्तमाः । को मोहस्तस्य कः शोकः छिन्नग्रन्थिः स एव हि ॥ ६७॥ मामात्मानं प्रियं ज्ञात्वा आनन्दं न बिभेति च । मय्येव च जगज्जातं मय्येव स्थितमेव हि ॥ ६८॥ मय्येवान्ते समभ्येति तत्तद्धर्मोपलेपितः । वाचो मत्तो निवर्तन्ते मनसा मुनिसत्तमाः ॥ ६९॥ मां ब्रह्मविद्ब्रह्मैव भविष्यति न संशयः । मयि ज्ञातेऽखिलं ज्ञातं पुच्छं पुरुष एव हि ॥ ७०॥ काष्ठा गतिः परा चाहं मुक्तोहं मोचकोऽस्म्यहम् । स्वाविद्यया संसरामि विद्यया मोचकोस्म्यहम् ॥ ७१॥ अजिघत्सोऽपिपासोऽहं देहप्राणमनोऽतिगः । अशीर्योहं सदाऽदाह्य असङ्ग पुरुषस्त्वहम् ॥ ७२॥ मद्रसं परमं ज्ञात्वा नन्दितो भवति द्विजाः । नैव जीवो न च ज्ञानं स्वे महिम्न्यहमास्थितः ॥ ७३॥ पुरुषस्त्वौपनिषदो ज्ञातुं शक्यो न कर्मणा । भीत्याऽनलानिलेन्द्राद्या भान्ति वान्ति सृजन्ति च ॥ ७४॥ सत्यकामोऽस्म्यसङ्कल्पः षडूर्मिरहितस्त्वहम् । न जायते वा म्रियते नायं जातो जनिष्यति ॥ ७५॥ प्रातिभासिकमेवेदं जगद्व्येतन्मुनीश्वराः । तद्धर्भैर्नैव लिप्तश्च न बन्धो मोक्ष एव हि ॥ ७६॥ नैव जातं जगत्किञ्चिन्नास्यान्तः परमार्थतः । मृगतृष्णानिभं विप्राः स्वाज्ञानपरिकल्पितम् ॥ ७७॥ मृगाणां मृगतृष्णाब्धौ यथा सत्यत्वकल्पना । तद्वद्देहाभिमानेन जगत्सत्यत्वकल्पना ॥ ७८॥ नराणां ज्ञानिनां विप्रा मृगतृष्णेति तद्विदाम् । कथं पिपासा भवति अज्ञानां तद्वदेव हि ॥ ७९॥ स्वमात्मानं परं दृष्ट्वा देहादिरहितं शिवम् । सद्य एव विलीयत स्वाज्ञानोत्थजगद्गणः ॥ ८०॥ अहं भूमाऽखिलानन्दो रसोऽहं शाश्वतः प्रभुः । विभुर्देहेन्द्रियाख्यां वै गमितो मूढकल्पनात् ॥ ८१॥ एकोऽहमेव भूतात्मा भूते भूते व्यवस्थितः । देहोदयविनाशेषु अविनाश्यहमेव हि ॥ ८२॥ यथान्धकारे पुरुषं संवृतं नीलवाससा । न जानन्ति यथान्ये वै स्वात्मानं जानते स्वयम् ॥ ८३॥ तथा सर्वेन्द्रियाणां हि प्रतिष्ठाऽहं गतागतौ । पुरुषः षोडशात्माहं विविधेन्द्रियकल्पकः ॥ ८४॥ चक्षुः श्रोता तथा द्रष्टा मन्ता बोद्धाऽहमेव हि । (वक्ता श्रोता) एव ब्रह्मैव सर्वं हि नान्यथा श्रुतिराह हि ॥ ८५॥ अयमात्मा तथा ब्रह्मन्ब्रह्मैवाहं तथा द्विजाः । तत्त्वमस्यादिवाक्यानि अहं ब्रह्मास्मि निश्चयः ॥ ८६॥ (तत्त्वमस्यादिवाक्यानि बोधार्थं ज्ञानिनां तथा) अभोक्तारमकर्तारमसङ्गमविनाशकम् । जीवश्चात्मेति तद्वित्त्वतत्त्ववाक्यार्थकल्पना ॥ ८७॥ (जीवश्चात्मेति हित्वैषा न श्रुतिर्वदति स्वयं) अज्ञानामैक्यविज्ञानज्ञानार्थं मुनिसत्तमाः । द्वासुपर्णादिवाक्यानां कल्पितद्वैतकल्पने ॥ ८८॥ तत्त्वमस्यादिवाक्यानां बोधनात्सर्वभेव हि । असत्ये सत्यमारोप्य मूढानां बोधदायिनी ॥ ८९॥ अर्थवादोपासनाभिः कर्मभिः श्रुतिराह हि । शाखाचन्द्रगवार्ताभिः कल्पयिष्यन्ति सत्तमाः ॥ ९०॥ करोति तारतम्येन स्वाधिकारानुरूपतः । रत्नकान्तिर्यथा रत्ने दृश्यते चलितेव सा ॥ ९१॥ आत्मानन्यतया भाति तथा मयि जगद्गतम् । नेत्रमालिन्यतो भाति चन्द्रे द्वित्वं जले रविः ॥ ९२॥ अभ्रैर्गच्छदिवाभाति स्वे महिम्न्यहमास्थितः ॥ ९३॥ --- ईश्वरः - एतदेव परं ज्ञानं नानाश्रुतिशिरोगतम् । अहं ब्रह्मेति विज्ञानान्मुच्यते नान्यथा द्विजाः ॥ ९४॥ ज्ञाने चास्तमिते विप्राः वेदनादिविवर्जितः । अहमेवास्मि तद्ब्रह्म वाचारम्भणमित्यपि ॥ ९५॥ नैव वाचा न मनमा शक्योऽहं ज्ञातुमेव हि । तमेकं जानथात्मानं नान्यः पन्थाऽयनाय हि ॥ ९६॥ ज्ञानेनैव परा मुक्तिर्भवत्येव न चान्यथा । अहं ब्रह्मेति विज्ञानं तद्द्विजाः परमार्थतः ॥ ९७॥ शब्दज्ञानमहो विप्राः न मुक्त्यै भवति ध्रुवम् । श्रवणायापि नो विप्रा न लभ्यः (?) परमेश्वरः ॥ ९८॥ श‍ृण्वन्तोऽपि महादेवं न विद्युर्यं पिनाकिनम् । भक्त्या ह्यनन्यया लभ्यो दुर्लभोऽयं मुनीश्वरः ॥ ९९॥ भावग्राह्यमनीशारूपमित्याह श्रुतिरादरात् । सर्वमन्यत्परित्यज्य ध्येयोऽहं परमेश्वरः ॥ १००॥ चतुर्थोऽहं सदा विप्राः तुरीयः शिव एव हि । अहमात्मा मुनिभेष्ठाः सत्यं सत्यं न संशयः ॥ १०१॥ ब्रह्मणश्चापि विष्णोश्च तथान्येषां दिवौकमाम् । जनिताहं महादेवः परमात्मा श्रुतिश्रुतः ॥ १०२॥ न कर्मणा न प्रजया न धनेनेज्यया द्विजाः । नान्यः पन्था द्विजश्रेष्ठाः मज्ज्ञानं परमार्थतः ॥ १०३॥ यस्यैव वृणुते स्वात्मा तेन लम्यमिदं द्विजाः । यदाकाशं चर्मवेष्टं वेष्टयेयुर्जना द्विजाः ॥ १०४॥ तदा शिवमविज्ञाय दुःखभ्यान्तो भविष्यति । इन्द्राग्निमित्रं वरुणं विष्णुं ब्रह्माणमेव च ॥ १०५॥ एकमेव महादेव बहुधा कल्पयन्ति हि । मामविज्ञाय विप्रेन्द्राः किमृचा स करिष्यति ॥ १०६॥ यो मां वेद स वै मुक्तिममी लोकाः समासते । कि वोऽद्य बहुनोक्तेन श्रद्दध्वं मुनिसत्तमाः ॥ १०७॥ साधनान्यधुना वक्ष्ये ज्ञानोत्पत्यर्थमेव हि । ज्ञाने चाप्यर्थविज्ञानदाढर्यार्थ मुनिसतमाः ॥ १०८॥ भस्मनोधूलनं पुण्यं त्रिपुण्ड्रस्य च धारणम् । व्रतमेतत्पाशुपतमामनन्ति मुनीश्वराः ॥ १०९॥ शिरोव्रतमिदं पुण्यं ज्ञानसाधनमेव हि । रुद्राक्षधारणं पुण्यं रुद्राध्यायानुवर्तनम् ॥ ११०॥ रुद्रलिङ्गार्चनं भक्त्या बिल्वपत्रादिसाधनैः । पञ्चाक्षरजपश्चैव मन्नैवेद्यैकभोजनम् ॥ १११॥ (भक्तानामन्नभोजनम्) शिवक्षेत्रनिवासश्च नित्यानित्यार्थचिन्तनम् । शिव शम्भो महेशेति अनिशं शिवचिन्तनम् ॥ ११२॥ मैत्री भूतेषु करुणा शान्तिदान्त्यादयो गुणाः । यमश्च नियमश्चैव जिष्ठामायादिवर्जनम् ॥ ११३॥ वेदवेदान्तवाक्यानां विचारो गुरुवाक्यतः । लोकानुदर्शनं चैव वैराग्यार्थं मुनीश्वराः ॥ ११४॥ दुःखितानां नराणां च विनष्टानां मुनीश्वराः । सर्व जुहोति विज्ञानं नेति नेत्यादिवाक्यतः ॥ ११५॥ गुरौ शिवेऽविनाभावो मन्मृर्तौ चिन्तनं तथा । उमासहायं देवेशं नीलकण्ठं प्रशान्तकम् ॥ ११६॥ एतद्वः सङ्ग्रहेणैव प्रोक्तं ज्ञानं मुनीश्वराः । उद्दालकश्रुतार्थस्य चिन्तनं कुरु सत्तम ॥ ११७॥ मननं श्रवणं भक्त्या निदिध्यासनमेव च । आसुप्तेरामृतेर्विप्राः कुरुध्वं भक्तिभावनाः ॥ ११८॥ एतदेव मुनिश्रेष्ठा मम ज्ञानाङ्गमुच्यते । अन्यदेवस्मृतिश्चापि भस्मपुण्ड्रस्यधारणम् ॥ ११९॥ स एव तमसाऽऽविष्टो नैवेदं प्राप्नुयात क्वचित् । मत्प्रसादेन विज्ञानं मत्सादेन मुक्तयः ॥ १२०॥ मत्प्रसादेन मुनयः सर्वं प्राप्यत एव हि । यस्य कस्यापि नो देयं ज्ञानमेव सुदुर्लभम् ॥ १२१॥ नावेदविदुषे देयं गोप्यमेतत्प्रयत्नतः । अपात्रेषु ददन्नेतत्प्रज्ञानं भूसुरोत्तमाः नरो नरकमाप्नोति सह पूर्वैः पितामहैः ॥ १२२॥ इत्थं मत्तो महादेवि ज्ञानं प्रापय मुनीश्वराः । प्रणम्य मुनयः सर्वे मामाहुर्वीतकल्मषाः ॥ १२३॥ मुनयः - न जानन्ति बोधं न वाऽऽनन्दसिद्धिं भवद्भक्तिलेशाद्विहीनातिहीनाः । श्रुतेर्वाक्यतः सिद्धिमीयुम्तुरीयां महेशान शम्भो गुरौ वा लभेत (?) ॥ १२४॥ ॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे श्रीदक्षिणामूर्तिना वसिष्ठादिभ्यो ज्ञानोपदेशवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २५॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 25.. Notes: Having accepted the earnest prayers of Muni-s of the order of Vasishtha, Vamadeva, Vishwamitra, Angira, Bhardwaja, Gautama, Vyasa, Parashara et al; Shri Dakshinamurty had manifested from the Aghora-mukha - the Southern face of the Gokarneshwara ShivaLinga, in order to satiate their quest. Shri Dakshinamurty accords the Shiva-Gyanopadesha that the Muni-s intended to seek. The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Shri Dakshinamurtina Vasishthadibhyo Jnanopadesha Varnanam
% File name             : dakShiNAmUrtinAvasiShThAdibhyojnAnopadeshavarNanam.itx
% itxtitle              : dakShiNAmUrtinA vasiShThAdibhyo jnAnopadeshavarNanam (shivarahasyAntargatA)
% engtitle              : dakShiNAmUrtinA vasiShThAdibhyo jnAnopadeshavarNanam
% Category              : shiva, shivarahasya, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 25||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org