श्रीकृष्णलीलाशुकमुनिप्रणीतो दक्षिणामूर्तिस्तवः
दुर्वारगर्वभरदूरविजृम्भमाण-
मोहान्धकारपरिपाटनबद्धदीक्षः ।
शश्वद् भृशप्रविसरत्सहजप्रकाश-
कोशः प्रभुर्जयति कोऽपि वटस्थलीशः ॥ १॥
अग्नीन्दुभानुभिरशेषजगत्प्रकाशै-
रासादितं नयनभावमवेक्ष्य वेदाः ।
यद् वेदयन्ति महसां तमसां च दूरं
तद् दैवतं वटतटीदयितं भजामः ॥ २॥
कल्पद्रुमैरलममीभिरनीश्वराणा-
माराधनीयपदवीमधिगम्य रम्यैः ।
तेऽमी वयं परिवृतं परमेश्वरेण
तं वा वटं तमपि वा विभुमाश्रयामः ॥ ३॥
षड्वर्गदुर्गपरिलङ्घनकोपितेन
चित्तेन यत्र सुचिरं चपला मुनीन्द्राः ।
तच्छाम्भवं मधुरिमैकरसोर्मि धाम
श्रीमद्वटाश्रयमुपाश्रयितुं यतध्वम् ॥ ४॥
नृत्यन्ति यच्छिरसि नाकनदीप्रवाहा-
स्तद्भ्रातरश्व रसने वचसां प्रपञ्चाः ।
चित्ते दया चरणरेणुषु वाञ्छितार्थाः
पायादयं वटतटीदयितो विभुर्वः ॥ ५॥
इन्द्रादयो यदरुणाङ्घ्रिरजःकणेन
राज्यश्रियं त्रिभुवनैर्भृशमुद्वहन्ति ।
व्याघ्रत्वचा परिहितस्य हि तस्य भिक्षो-
र्व्याख्याश्रियं वटतटावसथस्य वन्दे ॥ ६॥
आम्नायवीचिसहचारिवचःप्रसारै-
रासारसारसरणीमाधिरोहमाणैः ।
आसिच्य मानसमनन्यधियां मुनीना-
माद्यं वटं च विहरन् गिरिशोऽवताद् वः ॥ ७॥
मन्दस्मितेन च मनोहरमुद्रया च
व्याख्यानवीथिविभवैश्च विजृम्भमाणैः ।
आख्यायमाननिजतत्त्वरसानुभूति-
र्विश्वेश्वरो वटतटप्रकटोऽवताद्वः ॥ ८॥
ऊर्ध्वं दिवो भवमधश्च भुवो भवन्तं
तिर्यक् च पर्यवसिते भववैभवं तम् ।
गाढं कयापि कृपया वटवृक्षमूले
मन्मानसे च विहरन्तमनन्तमीडे ॥ ९॥
रक्ताङ्गुलीयुगळनर्त्तितचारुमुद्रं
संसारवृक्षपरितक्षपरश्वधाढ्यम् ।
क्रीडागृहीतमृगलाञ्छनलाञ्छिताग्रं
हस्तेन जानुनिहितेन जगन्मनोज्ञम् ॥ १०॥
तत्तत्फणामणिविभूषणभासुरेण
भाग्याधिकेन फणिना कृतयोगपट्टम् ।
वामेतराङ्घ्रितलकान्तिकरम्बितेन
वामोरुणा गिरिसुताहृदयं हरन्तम् ॥ ११॥
इन्दोः कलां खलु जटापटले वहन्तं
सर्वाः कला वचनवीथिषु चारयन्तम् ।
देव्या वृतं गिरिजया मुनिभिः शुकाद्यै-
स्तं विश्वतो विशदमादिगुरुं प्रपद्ये ॥ १२॥
(विशेषकम्)
त्रिभुवनसुभगेयं दक्षिणामूर्तिमूर्तौ
भगवति कृतभावा कृष्णलीलाशुकीया ।
जयतु जयतु देवी भारती जीवलोक-
श्रवणहृदयजिह्वाजन्म साफल्यमेतु ॥ १३॥
इति श्रीकृष्णलीलाशुकमुनिविरचितो दक्षिणामूर्तिस्तवः समाप्तः ॥
Proofread by Preeti N Bhandare